61007: तुजादीनां दीर्घोऽभ्यासस्य

Padacheda: तुजादीनाम् | S | 6 | 3 |

दीर्घः | S | 1 | 1 |

अभ्यासस्य | S | 6 | 1 |

Sutrartha


Vasu English Summary

In the room of a short vowel of the Reduplicate of the the roots तुज् etc., a long is substituted.

Vasu English Translation

In the room of a short vowel of the Reduplicate of the the roots तुज् etc., a long is substituted. There is no list of तुजादि verbs given any where. The word आदि in तुजादि therefore should be construed as “verbs like tuj”. So that wherever we may find a word having a long vowel in the Reduplicate, we should consider it a valid form. Thus तूतुजानः (तुज् + कानच् (3.2.106) = तूतुजानः Rig. I.3.6). मामहानः, अनड्वान् दाधार, स्वधां मीमाय, स तूताव ॥ This lengthening only takes place in the Vedas before some special affixes, and not every where or in secular literature. As तुतोज शबलान् हरीन् ॥

Bhashya

तुजादीनां दीर्घोऽभ्यासस्य (2444) - तुजादिषु च्छन्दः प्रत्ययग्रहणम् - तुजादिषु च्छन्दः प्रत्ययग्रहणं कर्तव्यम् । छन्दसि तुजादीनां दीर्घो भवतीति वक्तव्यम् । अस्मिंश्चास्मिंश्च प्रत्यय इति वक्तव्यम् । इह मा भूत्तुतोज शबलान् हरीन् ॥ (5986 उपसंख्यानानुपयोगकथने वार्तिकम् ॥ 2 ॥) - अनारम्भो वाऽपरिगणितत्वात् - अनारम्भो वा पुनश्छन्दसि दीर्घत्वस्य नाय्यः । कुतः ? अपरिगणितत्वात् । न हि च्छन्दसि दीर्घस्य परिगणनं कर्तुं शक्यम् । किं कारणम् ? (5987 उपसंख्यानानुपयोगसाधकवार्तिकम् ॥ 3 ॥) - अन्येषां च दर्शनात् - येषामपि दीर्घत्वं नारभ्यते तेषामपि च्छन्दसि दीर्घत्वं दृश्यते । तद्यथा - पूरुषः, नारक इति ॥ (5988 उपसंख्यानानुपयोगसाधकवार्तिकम् ॥ 4 ॥) - अनेकान्तत्वाच्च - येषां चाप्यारभ्यते तेषामप्यनेकान्तः । यस्मिन्नेव च प्रत्यये दीर्घत्वं दृश्यते तस्मिन्नेव च प्रत्यये न दृश्यते - मामहान उक्थपात्रम्, ममहान इति च ॥

Kashika

तुजादीनामिति प्रकार आदिशब्दः। कश्च प्रकारः ? तुजेर्दीर्घोऽभ्यासस्य न विहितः, दृश्यते च। ये तथाभूतास्ते तुजादयस्तेषामभ्यासस्य दीर्घः साधुर्भवति। तूतु॑जानः॒ (ऋ० १.३.६)। मामहा॒नः (तै० सं० ४.६.३.२)। दाधान। मी॑माय (शौ० सं० ५.११.३)। अ॒न॒ड्वान् दा॑धार। (शौ० सं० ४.११.१)। स तू॑ताव (ऋ० १.९४.२)। दीर्घश्चैषां छन्दसि प्रत्ययविशेष एव दृश्यते, ततोऽन्यत्र न भवति। तुतोज शबलान् हरीन्॥

Siddhanta Kaumudi

तुजादिराकृतिगणः ॥ प्रभरा तूतुजानः (प्रभ॑रा॒ तूतु॑जानः) । सूर्ये मामहानम् (सूर्ये॑ मामहा॒नम्) । दाधार यः पृथिवीम् (दा॒धार॒ यः पृ॑थि॒वीम्) । स तूताव (स तू॑ताव) ॥

Padamanjari

अयं योगः शक्योऽवक्तुम्, कथम्? छान्दसमेतद्दीर्घत्वं च्छन्दसि च दीर्घत्वं न शक्यं परिगणयितुम्, अन्येषामपि दर्शनात् पूरुषः, नारक इति। अनेकाजङ्गत्वाच्च येषां चारभ्यचते तेषामेव तस्मिन्प्रयोगे न दृश्यते -मामहानः, ममहान इति वा ॥

Nyaas

आदिशब्दोऽयमस्त्येव व्यवस्थायाम्, अस्ति च प्रकारे, तत्र यदि व्यवस्थायां वर्तमानो गृह्रेत, तदा तुज पिज हिंसायाम् (धातुपाठः-1566,1567) इत्यत आरभ्य ये पठितास्तेषामेव ग्रहणं स्यात्; एवञ्च सौत्राणां गणान्तरपठितानाञ्च दीर्घो न स्यादित्येतदालोच्याह -तुजादीनाम् इत्यादि। प्रकार आदिशब्दः इति। स च प्रकारोऽनिर्दिष्टत्वान्न ज्ञायत इति पृच्छति -कश्च प्रकारः इति। तुजो दीर्घत्वमित्यादिना प्रकारार्थत्वं दर्शयति। ये तथाभूताः इति। अनन्तरोक्तप्रकारमापन्ना इत्यर्थः। दीर्घः साधुर्भवति इति। एतेन सत एव दीर्घस्य साधुत्वमात्रमनेन क्रियते। न त्वपूर्वो दीर्घ इति दर्शयति। तूतुजानः इति। लिट्। एतच्च प्रकारवाचिन आदिशब्दस्य परिग्रहाल्लभ्यते, तस्य कनाच्। मामहानः इति। मह पूजायाम् (धा।प।730) शेषं पूर्ववत्। दधान [उदाहरणमिदं नास्ति -काशिका] इति। डुधाञ्? धारणपोषणयोः (धातुपाठः-1092)। मीमाय इति। डुमिञ्? प्रक्षेपणे, (धातुपाठः-1250) लिट्? णल्। दधार इति। धृञ्? धारणे (धातुपाठः-900) तूनाव इति। तु इति सौत्रो धातुः; तुरुस्तुशम्यम (7.3.95) इत्यादिसूत्रे पठितत्वात्। दीर्घश्चैषाम् इत्यादिना यस्य सत एव साधुत्वमनेन क्रियते, स च दीर्घश्छन्दस्येव दृश्यते, न भाषायाम्। तत्रापि च्छन्दसि विषये प्रत्ययविषये कानजादौ, न प्रत्ययमात्रे। ततोऽन्यत्र न भवति इति। यथोक्ताद्विषयादन्यत्र न भवतीत्यर्थः। तुजेश्छन्दसि कानचि दृष्टः, ततोऽन्यत्र भाषायां छन्दस्यपि कानजादौ प्रत्ययान्तरे न भवति। यच्चैवं तेनास्यान्यत्राव्यापारः। सत एव दीर्घस्य साधुत्वमात्रमनेन विधीयते। न चान्यत्र दीर्घोऽस्ति यस्यानेन विधीयेत साधुत्वम्। एतच्च प्रकारवाचिन आदिशब्दाल्लभ्यत इति। तुतोज इति। भाषायां प्रयोगः। यदि तर्हि च्छन्दसि सत एव दीर्घस्य साधुत्वमनेन विधीयते, व्यत्ययो बहुलम् (3.1.85) इत्यनेन सुब्ब्यत्ययस्य विहितत्वादपार्थकमेतत्? नापार्थकम्; तस्यैव प्रपञ्चार्थत्वात्॥

Prakriyasarvasvam

तुजादयो यथादर्शनं ग्राह्याः । लिटः कानचि द्वित्वम् । तूतुजानो महेमते । वृत्ये मामहानं दाधानः१ । लिटि णलि मीमाय । स दाधार पृथिवीम् । तु सौत्रा धातुः वृद्धौ बले चेति दण्डनाथः स तूताव नैनं दिवे —क्वसौ — घृताहवन दीदिवः । ‘मत्वसोः’ (८-३-१) इति रुः । छन्दस्युभयथा - (३-४-११७) इति लिटः सार्वधातुकत्वात् इनौ कृते ‘लिटि धातोः’- (६-१-८) इत्युक्त्या विकरणान्त- स्याधा२तुत्वात् द्वित्वं न । इममिन्दाय स्विन्विरे । ‘द्विर्वचनं छन्दसि वेति वक्तव्यम्’ । (वा. ६-१-८) लिटि — यो जागार । श्लौ—दाति प्रियाणि । जजागार ददातीत्यत्र ।