61004: पूर्वोऽभ्यासः

Padacheda: पूर्वः | S | 1 | 1 |

अभ्यासः | S | 1 | 1 |

Sutrartha

अस्मिन् द्वित्वप्रकरणे ये द्वे विहिते, द्वयोः यः ‘पूर्वः’ (प्रथमः), तस्य ‘अभ्यास’ इति नाम दीयते ।

यदा शब्दस्य (तस्य कस्यचन अवयवस्य वा) द्वित्वम् क्रियते, तर्हि द्वयोः यः प्रथमः, तस्य ‘अभ्यास’ संज्ञा भवति । यथा, 1. ‘पच्’ धातोः द्वित्वे कृते ‘पच् पच्’ इति स्थिते यः प्रथमः ‘पच्’, तस्य ‘अभ्यास’ संज्ञा भवति । 2. ‘जागृ’ धातोः द्वित्वे कृते ‘जाग् जागृ’ इति स्थिते यः प्रथमः जाग् ‘, तस्य ‘अभ्यास’ संज्ञा भवति । 3. ‘अर्चि’ धातोः द्वित्वे कृते ‘अर्चि चि’ इति स्थिते यः प्रथमः ‘चि’ तस्य अभ्याससंज्ञा भवति ।अत्र रेफस्य द्वित्वं न क्रियते अतः रेफस्य अभ्याससंज्ञायाम् समावेशः नैव करणीयः । 4. ‘उन्दि’ धातोः द्वित्वे कृते ‘उन्दि दि’ इति स्थिते यः प्रथमः ‘दि’ तस्य अभ्याससंज्ञा भवति । अत्र नकारस्य द्वित्वं न क्रियते अतः नकारस्य अभ्याससंज्ञायाम् समावेशः नैव करणीयः ।

‘अभ्यास’ संज्ञायाः प्रयोगः लिटि धातोरनभ्यासस्य (6.1.8), तुजादीनां दीर्घोऽभ्यासस्य (6.1.7) एतादृशेषु सूत्रेषु कृतः अस्ति ।

Sutrartha (English)

When a repetition is done, the first entity out of the two is called अभ्यास.

Vasu English Summary

The first of the two is called अभ्यास or Reduplicate.

Vasu English Translation

The first of the two is called अभ्यास or Reduplicate. The word द्वे in the nominative case is understood here, but for the purposes of this sutra it is taken in the Genitive case i. e. द्वयोर्यः पूर्वः “the first of the two” ordained above. The word Abhyasa occurs in sutras (3.1.6), (6.1.7) &c.

Bhashya

पूर्वोऽभ्यासः (2441) ?B(अभ्याससंज्ञाधिकरणम्) (सूत्रार्थसंयोजकभाष्यम्) पूर्वोऽभ्यास इत्युच्यते, कस्य पूर्वोऽभ्याससंज्ञो भवति ? द्वे इति वर्तते । द्वयोरिति वक्तव्यम् ॥ स तर्हि तथानिर्देशः कर्तव्यः । न कर्तव्यः । अर्थाद्विभक्तिविपरिणामो भविष्यति । तद्यथा - -उच्चानि देवदत्तस्य गृहाणि, आमन्त्रयस्वैनम् । देवदत्तमिति गम्यते । देवदत्तस्य गावोऽश्वा हिरण्यम्, आढ्यो वैधवेयः । देवदत्त इति गम्यते । पुरस्तात्षष्ठीनिर्दिष्टं सदर्थात्प्रथमानिर्दिष्टं द्वितीयानिर्दिष्टं च भवति । एवमिहापि पुरस्तात् प्रथमानिर्दिष्टं सदर्थात्षष्ठीनिर्दिष्टं भविष्यति ॥

Kashika

द्वे इति प्रथमान्तं यदनुवर्तते, तदर्थादिह षष्ठ्यन्तं जायते। तत्र प्रत्यासत्तेरस्मिन् प्रकरणे ये द्वे विहिते, तयोर्यः पूर्वोऽवयवः सोऽभ्याससंज्ञो भवति। पपाच। पिपक्षति। पापच्यते। जुहोति। अपीपचत्। अभ्यासप्रदेशास्तु — अत्र लोपोऽभ्यासस्य (७.४.५८) इत्येवमादयः॥

Siddhanta Kaumudi

अत्र ये द्वे विहिते तयोः पूर्वोऽभ्याससंज्ञः स्यात् ॥

Laghu Siddhanta Kaumudi

अत्र ये द्वे विहिते तयोः पूर्वोऽभ्याससंज्ञः स्यात्॥

Balamanorama

पूर्वोऽभ्यासः - पूर्वः । अत्रेति ।एकाचो द्वे प्रथमस्ये॑ति षाष्ठद्वित्वप्रकरम इत्यर्थः । तेन ‘सर्वस्य द्वे’ इत्यादिविहितस्य द्वित्वस्य न सङ्ग्रहः । कस्य पूर्व इत्याकाङ्क्षायां ‘द्वे’ इत्यनुवृत्तं षष्ठआ विपरिणतं संबध्यते । तदाह — ये द्वे विहिते तयोरिति ।

Tattvabodhini

पूर्वोऽभ्यासः - ॒एकाचो द्वे॑ इति प्रकरणे ।

Padamanjari

अर्थादिति। सामर्थ्यात्पूर्वशब्दोऽयमवयववचनः, अवयवश्चावयविनो भवति, स चेह कश्चिन्न निर्द्दिष्टः, अतोऽवश्यम्’द्वे’ इति अत्रानुवर्तनीयम्। न वानुवृतमपि प्रथमान्तमेवावस्थिमवयव्यपेक्षां पूरयितुमलमित्येतत्सामर्थ्यम्। अस्मिन्प्रकरण इति। अनेन’सर्वस्य द्वे’ इत्यत्र प्रकरणे इयं संज्ञा न भवति, तेन तत्र हलादिशेषाद्यभावः। यद्येवम्,’द्यौतिगमिजुहोत्यादीनां द्वे’ इत्यत्र न प्राप्नोति? कर्तव्योऽत्र यत्नः। तयोः पूर्वोऽवयव इति। अवयववाचिभिर्दिक्शब्दैर्योगे पञ्चमी न भवति;’तस्य प्रमाम्रेडितम्’ इति लिङ्गात्। पपाचेत्यादौ’हलादिः शेषः’ ,’सन्यतः’ ,’दीर्घो’ कितःऽ,’कुहोश्चुः’ , ठभ्यासे चर्चऽ,’सन्वल्लघुनि’ ,’दीर्घो लघोः’ इत्यादीनि यथायोगमब्यासकार्याणि ॥

Nyaas

अभ्यासशब्दोऽयमावृत्तिवचनो लोके प्रसिद्ध एव। सा चावृततिः प्रथमस्य नास्तीत्यभ्यासप्रदेशेषु परस्य ग्रहणे प्राप्ते पूर्वस्य ग्रहणं यथा स्यावित्येवमर्थं तस्याभ्याससंज्ञा विधीयते। पूर्वशब्दोऽवयववचनः, यथा -पूर्वं कायस्य पशोरिति। अवयवाश्चावयविनो भवन्ति, स चेह यद्यपि न निर्दिश्यते, तथापि द्वे (6.1.1) इत्युनुवृत्तेस्तद्वाच्यस्यैवार्थस्य पूर्वो विज्ञायत इत्याह -द्वे इति प्रथमन्तं यदनुवर्तते इत्यादि। ननु च द्वे इति प्रथमन्तमनुवर्तते, षष्ठन्तेन चेहार्थः, न ह्रटन्यथा पूर्वशब्देन सम्भन्धः शक्यते दर्शयितुमित्यत आह -तदर्थात् इत्यादि। अर्थाद्विभक्तिविपरिणामो भवतीति। तदिह षष्ठन्तं जयत इत्यर्थः। अथ पुनरत्रावयवावयविलक्षणा षष्ठी भवति, यथा वृक्षस्य शाखेति? एवमपि यदि द्वे इत्यनुवृत्तेद्र्वयोर्यः पूर्वस्तस्याभ्याससंज्ञा विधीयते तदा सर्वस्य द्वे (8.1.1) इत्यत्रापि प्रकारणे ये द्वे विहिते तयोर्यः पूर्वस्तस्याप्यभ्याससंज्ञा प्राप्नोतीत्यत आह -तत्र इत्यादि`। पूर्वोऽवयवः इति। पूर्वशब्दो व्यवस्थावचनोऽप्यस्ति, अतस्तद्व्यवच्छेदार्थमवयवग्रहणम्, पपाचेत्यत्राभ्याससंज्ञायां सत्यां ह्रस्वः (7.4.59) इत्यभ्यासस्य ह्रस्वत्वम्, हलादिशेषः (7.4.60) , प्रकृतिचरां प्रकृतिचरो भवन्तीति चर्त्वम्। `पिपक्षति इति। जुहोति इति पूर्ववद्धकारस्य चुत्वम्, तस्य अभ्यासे चर्च (8.4.54) चकारः। अपिपचत् इति। पचेण्र्यन्ताच्च्लेश्चङ्, णिलोपः, णौ चङ्युपधाया ह्रस्वः (7.4.1) द्विर्वचनम्, सन्वल्लघुनि (7.4.93) इतीत्त्वम्, दीर्घो लघोः (7.4.94) इति दीर्घः। सर्वाण्यभ्याससंज्ञायाः प्रयोजनान्येतानि॥

Prakriyasarvasvam

द्विरुक्तयोः पूर्वोऽभ्याससंज्ञः । चरतीति चराचरः । चलाचलः । पतापतः । वदावदः । अभ्यासस्यागचीत्युक्तेरभ्यासस्योक्तमन्यत् कार्यमत्राचि न । ‘द्वित्वं वेति वाच्यम्<!(वा० ६-१-१२) चरः । चलः । पत: । वदः । हन्तेर्घत्वं च!> (वा० ६-१-१२) हनेरचि द्वित्वमभ्यासहस्य घश्च स्यात् । घनाहन,