Sutras 21 - 40¶
- 52021: व्रातेन जीवति
- 52022: साप्तपदीनं सख्यम्
- 52023: हैयंगवीनं संज्ञायाम्
- 52024: तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ
- 52025: पक्षात्तिः
- 52026: तेन वित्तश्चुञ्चुप्चणपौ
- 52027: विनञ्भ्यां नानाञौ नसह
- 52028: वेः शालच्छङ्कटचौ
- 52029: सम्प्रोदश्च कटच्
- 52030: अवात् कुटारच्च
- 52031: नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः
- 52032: नेर्बिडज्बिरीसचौ
- 52033: इनच्पिटच्चिकचि च
- 52034: उपाधिभ्यां त्यकन्नासन्नारूढयोः
- 52035: कर्मणि घटोऽठच्
- 52036: तदस्य संजातं तारकादिभ्य इतच्
- 52037: प्रमाणे द्वयसज्दघ्नञ्मात्रचः
- 52038: पुरुषहस्तिभ्यामण् च
- 52039: यद्तदेतेभ्यः परिमाणे वतुप्
- 52040: किमिदंभ्यां वो घः