52023: हैयंगवीनं संज्ञायाम्

Padacheda: हैयङ्गवीनम् | S | 1 | 1 |

संज्ञायाम् | S | 7 | 1 |

Sutrartha

संज्ञायाः विषये ‘हैयङ्गवीनम्’ अयम् शब्दः निपात्यते ।

अनेन सूत्रेण ‘हैयङ्गवीन’ इति शब्दः निपात्यते ।’घृत’ (ghee) इत्यस्य इयम् संज्ञा अस्ति । अस्य शब्दस्य निपातनमनेन प्रकारेण भवति - 1. ‘गो’ इतस्मात् शब्दात् ‘दोह’ (yield / extract / milk / secretion) इत्यस्य शब्दस्य समासम् कृत्वा ‘गोदोह’ इति शब्दः सिद्ध्यति । गोः दोहः गोदोहः । दुग्धम् इत्यर्थः । 2. यत् गोदोहमद्य न प्राप्तमपितु ह्यस्तन दिने प्राप्तम्, तस्य निर्देशः ‘ह्योगोदोह’ इत्यनेन भवति । ह्यः + गोदोहः = ह्योगोदोहः । The milk that was extracted yesterday from the cow - इत्याशयः । 3. ‘ह्योगोदोहस्य विकारः’ अस्मिन् अर्थे तस्य विकारः (4.3.134) इत्यनेन प्राप्तमण्-प्रत्ययं बाधित्वा वर्तमानसूत्रेण ‘खञ्’ प्रत्ययः भवति । 4. ‘ह्योगोदोह + ख’ इति स्थिते ‘ह्योगोदोह’ इत्यस्य निपातनेन ‘हियङ्गु’ इति आदेशः भवति । 5. ‘हियङ्गु + ख’ इति स्थिते अग्रे इयम् प्रक्रिया जायते - हियङ्गु + ख → हियङ्गु + ईन [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2)] → हैयङ्गु + ईन [तद्धितेष्वचामादेः (7.2.117)] → हैयङ्गो + ईन [ओर्गुणः (6.4.146)] → हैयङ्गवीन [एचोऽयवायावः (6.1.78)] ह्योगोदोहस्य विकारः हैयङ्गवीनम् घृतम् ।The ghee that has been created from milk obtained yesterday is called हैयङ्गवीन । विशेषः - 1. ‘हैयङ्गवीन’ इति शब्दः संज्ञारूपेण प्रयुज्यते । घृतस्य भिन्नाः भेेदाः / प्रकाराः सन्ति, तेषु ‘हैयङ्गवीनम्’ इति कश्चन भेदः । 2. यद्यपि दधि, तक्रमादीनाम् निर्माणमपि ह्योगोदोहेन भवितुमर्हति, तथापि ‘संज्ञायाम्’ इति निर्देशात् केवलम् घृतस्यैव इयम् संज्ञा क्रियते, न हि दधितक्रादीनाम् ।

Vasu English Summary

The word हैयंगवीन is anomalous when it is a Name.

Vasu English Translation

The word हैयंगवीन is anomalous when it is a Name. The word हैयङ्गवीनम् means ‘fresh butter’. The word comes from ह्यः ‘yesterday’ and गो ‘cow’. ह्यो गोदोहस्य विकारः ‘prepared from yesterday’s milk’ i.e. “fresh butter”. The affix does not come in the sense of any विकार in general. There is no affixing in ह्यो गोदोहस्य विकार when it means उदश्चित् or ‘whey’.

Bhashya

हैयङ्गवीनं संज्ञायाम् (2040) (निपातनार्थजिज्ञासाभाष्यम्) हैयङ्गवीनम् इति किं निपात्यते? (5910 निपातनार्थबोधकवार्तिकम्॥ 1 ॥) - ह्योगोदोहस्य हियङ्ग्वादेशः संज्ञायां तस्य विकारे - (भाष्यम्) ह्योगोदोहस्य हियङ्ग्वादेशो निपात्यते संज्ञायां विषये तस्य विकारः इत्येतस्मिन्नर्थे। ह्योगोदोहस्य विकारः - हैयङ्गवीनं घृतम्। संज्ञायामिति किमर्थम्? ह्योगोदोहस्य विकार - उदश्वित् - अत्र मा भूदिति॥

Kashika

हैयङ्गवीनं निपात्यते संज्ञायां विषये। ह्योगोदोहस्य हियङ्ग्वादेशः, तस्य विकारे खञ् प्रत्ययो भवति संज्ञायाम्। ह्योगोदोहस्य विकारो हैयङ्गवीनम्। घृतस्य संज्ञा। तेनेह न भवति — ह्योगोदोहस्य विकार उदश्वित्॥

Siddhanta Kaumudi

ह्योगोदोहस्य हियङ्गुरादेशः विकारार्थे खञ् च निपात्यते । दुह्यत इति दोहः क्षीरम् । ह्योगोदोहस्य विकारो हैयङ्गवीनं नवनीतम् ॥

Laghu Siddhanta Kaumudi

ह्योगोदोहशब्दस्य हियङ्गुरादेशः विकारार्थे खञ्च निपात्यते। दुह्यत इति दोहः क्षीरम्। ह्रोगोदोहस्य विकारः - हैयङ्गवीनं नवनीतम्॥

Balamanorama

हैयंगवीनं संज्ञायाम् - हैयङ्गवीनम् । ह्रसित्यव्ययं पूर्वेद्यरित्यर्थे । तत्रोत्पन्नो गोदोहः=गोपयः-ह्रोगोदोहः । तस्मात्षष्ठन्ताद्विकारार्थे खञि ईनादेशे प्रकृतेर्हियङ्गु इत्यादेशे ओर्गुणे अवादेशे आदिवृद्धौहैयङ्गवीन॑मिति भवतिसंज्ञायामिति भाष्यम् । तदाह — ह्रोगोदोहस्येत्यादिना । नवनीतमिति । भाष्ये तुहैयङ्गवीनं घृत॑मिति दृश्यते ।तत्तु हैयङ्गवीनं स्याद् ह्रोगोदोहोद्भवं घृत॑मित्यमरः ।

Tattvabodhini

हैयंगवीनं संज्ञायाम् - हैयंगबीनम् । ह्रोगोदोहस्येति । गोर्दोहो गोदोहः । षष्ठीसमासः । तेन सह ह्रस्शब्दस्यसुप्सुपे॑ति समासः । ततो विकारे अनुदात्तलक्षणस्याऽञोऽपवादः खञ् । अत्र ह्रस्शब्देन कालप्रत्यासत्तिर्विवक्षिता । नवनीतमिति । यद्यिपि वृत्तौघृत॑मित्युक्तं, तथैव चामरेणा॑पि -॒तत्तु हैयङ्गवीनं यद् ह्रोगोहोद्भवं घृत॑मित्युक्तम्, तथापि घृतशब्देन नवतीतमेव विवक्षितमिति हरदत्तग्रन्थानुरोधेनेदमुक्तम् ।

Padamanjari

ह्यएगोदोहस्य विकार इति। दुह्यत इति दोहःउक्षीरम्, गोर्दोहो गोदोह इति षष्ठीसमासः, ह्यः शब्दस्य तेन’सुप्सुपा’ इति समासः, ततो विकारेऽनुदातलक्षणस्याञोऽपवादः, खञ्। घृतस्यैषा संज्ञेति। घृतस्यापि न सर्वस्य, किं तर्हि ? तस्यैवाविकृतगन्धरूपस्य। ह्यःशब्देन कालप्रत्यासतिप्रतिपादनाद् नवनीतं हैयङ्गवीनमुत्यते, घृतशब्दोऽपि तत्रैव प्रयुक्तः ॥

Nyaas

ह्रोगोदोहस्य हियङ्ग्वादेशः इति। ह्रोगोदोहस्य हियङ्गशब्द आदेश इत्यर्थः। ह्रौ गोदोहनं ह्रोगोदोहः, सुप्सुपा (2.1.4) इति समासः। विकारे खञ्प्रत्ययः इति। तस्य विकारः (4.3.134) इति प्राप्तसयाणोऽपवाद इति॥

Prakriyasarvasvam

ह्यो गोदोहजन्यनवनीतस्याख्या ।

Sutra Prayogas

  • हैयंगवीनम् (रघुवंशम्): हैयंगवीनं संज्ञायाम् इति निपातः।

  • हैयङ्गवीनं (भट्टिकाव्यम्): हैयङ्गवीनं संज्ञायाम् इति निपातनात् खञ् हियंग्वादेशश्च।