52034: उपाधिभ्यां त्यकन्नासन्नारूढयोः¶
Padacheda: उप-अधिभ्याम् | S | 5 | 2 |
त्यकन् | S | 1 | 1 |
आसन्न-आरूढयोः | S | 7 | 2 |
Sutrartha¶
‘आसन्न’ अस्मिन् अर्थे ‘उप’ उपसर्गात् तथा ‘आरूढ’ अस्मिन् अर्थे ‘अधि’ उपसर्गात् संज्ञायाः विषये स्वार्थे त्यकन्-प्रत्ययः भवति ।
‘उप’ तथा ‘अधि’ एताभ्यामुपसर्गाभ्यामनेन सूत्रेण स्वार्थे त्यकन्-प्रत्ययः उच्यते । क्रमेण पश्यामः - 1. ‘आसन्न’ (समीप / close / next to) अस्मिन् अर्थे प्रयुज्यमानः यः ‘उप’ उपसर्गः, तस्मात् स्वार्थे ‘त्यकन्’ प्रत्ययः भवति ।उप + त्यकन् = उपत्यक । 2. ‘आरूढ’ (elevated / raised up) अस्मिन् अर्थे प्रयुज्यमानः यः ‘अधि’ उपसर्गः, तस्मात् स्वार्थे ‘त्यकन्’ प्रत्ययः भवति । अधि + त्यकन् = अधित्यक । विशेषः - अस्मिन् सूत्रे ‘संज्ञायाम्’ इत्यपि अनुवर्तते, अतः अनेन सूत्रेण निर्मितयोः शब्दयोः प्रयोगः केवलम् विशिष्ट-सन्दर्भेषु एव भवति । यथा - पर्वतस्य आसन्ना उपत्यका भूमिः ; पर्वतस्य आरूढा अधित्यका भूमिः । The land next to the mountain (‘lowland’) is called उपत्यका; whereas the land on the top of the mountain (‘highland’) is called अधित्यका । अत्र ‘उपत्यक + टाप्’ तथा ‘अधित्यक + टाप्’ इत्यत्र प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः (7.3.44) इत्यनेन ककारात् पूर्वस्य अकारस्य इकारादेशः न भवति यतः अत्र ‘संज्ञायाम्’ इति उच्यते । संज्ञायाः विषये वेदेषु च प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः (7.3.44) इत्यस्य प्रसक्तिः नास्ति ।
Vasu English Summary¶
The affix त्यकन् comes in the sense of ‘nearness’ and after the words 1. उप and 2. अधि , respectively, the words so formed being Names.
Vasu English Translation¶
The affix त्यकन् comes in the sense of ‘nearness’ and after the words 1. उप and 2. अधि , respectively, the words so formed being Names. Thus उपत्यका = पर्वतस्थासन्नम् ‘lowland, a land at the foot of the mountain’, अधित्यका = पर्वतस्यारूढम् ‘a table-land, high-land’. The rule (7.3.44) does not apply here, so we do not get the forms उपत्यिका or अधित्यिका ॥
Kashika¶
उप अधि इत्येताभ्यां यथासंख्यमासन्नारूढयोर्वर्तमानाभ्यां स्वार्थे त्यकन् प्रत्ययो भवति। संज्ञाधिकारात् च नियतविषयमासन्नारूढं गम्यते। पर्वतस्यासन्नमुपत्यका। तस्यैवारूढम् अधित्यका। प्रत्ययस्थात् कात् पूर्वस्या० (७.३.४४) इतीत्वमत्र न भवति, संज्ञाधिकारादेव॥
Siddhanta Kaumudi¶
संज्ञायामित्यनुवर्तते । पर्वतस्यासन्नं स्थलमुपत्यका । आरूढं स्थलमधित्यका ॥
Tattvabodhini¶
उपाधिभ्यां त्यकन्नासन्नारूढयोः - उपाधिभ्याम् । संज्ञाधिकारादिह नियतविषयमासन्नारूढं गृह्रत इत्याशयेनाह -पर्वतस्येति । आसन्नं=समीपम् । आरूढम् -उच्चस्थानम् । उपत्यकेति ।प्रत्ययस्था॑दितीत्त्वं तु न भवति,त्यकनश्च निषेधः॑ इत्युक्तत्वात् ।
Padamanjari¶
नियतविषयमिति। पर्वतविषयम्। आस तेन वृक्षस्यासन्नम्, प्लक्षस्यारूढमित्यत्र न भवतीतति भावः। अथोपत्यका, अधित्यकेत्यत्र’प्रत्ययस्थात् कात् पूर्वस्य’ इत्यनेनेत्वं करमान्न भवति ? इत्यत आह - प्रत्ययस्थात् कादिति। यद्यत्रेत्वं स्यात् संज्ञारूपं न सिध्येत्; नोपत्यिकाधित्यिकेत्येवंरूपा संज्ञा। तस्मात् संज्ञाधिकारादित्वं न भवति ॥
Sutra Prayogas¶
अधित्यकायाम् (रघुवंशम्): उपाधिभ्यां त्यकन्नासन्नारूढयोः इति त्यकन्प्रत्ययः।
तमतनुवनराजिश्यामितोपत्यकान्तं (किरातार्जुनीयम्): उपाधिभ्यां त्यकन्नासन्नारूढयोः इति त्यकन्प्रत्ययः।