52026: तेन वित्तश्चुञ्चुप्चणपौ¶
Padacheda: तेन | S | 3 | 1 |
वित्तः | S | 1 | 1 |
चुञ्चुप्-चणपौ | S | 1 | 2 |
Sutrartha¶
‘वित्तः (ज्ञातः)’ अस्मिन् अर्थे तृतीयासमर्थेभ्यः शब्देभ्यः ‘चुञ्चुप्’ तथा ‘चणप्’ एतौ प्रत्ययौ भवतः ।
‘वित्तः’ इत्युक्ते ज्ञातः / प्रतीतः (famous / wellknown) । वित्तो भोगप्रत्यययोः (8.2.58) इत्यनेन अयम् शब्दः निपात्यते । तृतीयासमर्थेभ्यः शब्देभ्यः वित्तः (प्रतीतः / ज्ञातः / प्रसिद्धः) अस्मिन् अर्थे ‘चुञ्चुप्’ तथा ‘चणप्’ एतौ प्रत्ययौ भवतः । यथा , विद्यया वित्तः ( विद्यया प्रतीतः / ज्ञातः) विद्याचुञ्चुः पुरुषः ; विद्याचणः पुरुषः वा । स्मर्तव्यम् - 1. ‘चुञ्चुप्’ तथा ‘चुणप्’ - उभयत्र चकारस्य इत्संज्ञा प्रयोजनाभावात् न भवति । यद्यपि सामान्यरूपेण चकारस्य इत्संज्ञा तद्धितस्य (6.1.164) इत्यनेन समुदायस्य अन्तोदात्तत्वम् कारयितुम् विधीयते, तथाप्यत्र तत् न इष्यते । एवं च, चुटू (1.3.7) इति सूत्रमनित्यमस्ति, एतत् अनित्यत्व् अनुसृत्य अप्यत्र इत्संज्ञा न भवति । 2. ‘चुञ्चुप्’ इत्यत्र चकारोत्तरः उकारः अनुनासिकः नास्ति, अतः तस्य इत्संज्ञा न भवति । अयमुकारः प्रत्ययस्यैव उकारः अस्ति, प्रत्यये च तस्य श्रवणमपि भवति । यथा - विद्या + चुञ्चुप् = विद्याचुञ्चु । अस्य शब्दस्य रूपाणि पुंलिङ्गे ‘साधु’ शब्दवत् भवन्ति । 3. ‘वित्तम्’ इति नपुंसकलिङ्गे प्रयुज्यते चेत् तस्य ‘धनम्’ इति अर्थः भवति । परन्तु अयमर्थः अत्र न इष्यते । अत्र ‘वित्तः’ इति पुंलिङ्गवाचिनः शब्दस्यैव ग्रहणम् भवति, यस्य अर्थः ‘ज्ञातः / प्रतीतः’ इत्येव विद्यते ।
Vasu English Summary¶
The affixes चुञ्चुप् (चुञ्चु) and चणप् (चण) come in the sense of ‘celebrated through this’ after a word in the Instrumental -3rd case in construction.
Vasu English Translation¶
The affixes चुञ्चुप् (चुञ्चु) and चणप् (चण) come in the sense of ‘celebrated through this’ after a word in the Instrumental -3rd case in construction. The word वित्त means known, illustrious. Thus विद्यया वित्तः = विद्याचुञ्चुः, विद्याचणः, केशचणः ॥ The initial च् in these affixes is not इत् (1.3.7).
Kashika¶
तेनेति तृतीयासमर्थाद् वित्त इत्येतस्मिन्नर्थे चुञ्चुप् चणप् इत्येतौ प्रत्ययौ भवतः। वित्तः प्रतीतो ज्ञात इत्यर्थः। विद्यया वित्तो विद्याचुञ्चुः। विद्याचणः॥
Siddhanta Kaumudi¶
यकारः प्रत्यययोरादौ लुप्तनिर्दिष्टस्तेन चस्य नेत्संज्ञा । विद्यया वित्तो विद्याचुञ्चुः । विद्याचणः ॥
Balamanorama¶
तेन वित्तश्चुञ्चुप्चणपौ - तेन वित्तः । तृतीयान्ताद्वित्त इत्यर्थे चुञ्चुप्चणपौ भवत इत्यर्थः । वित्तः=प्रसिद्धः । चस्य नेत्संज्ञेति । उपदेशे आदित्वाऽभावादिति भावः ।
Tattvabodhini¶
तेन वित्तश्चुञ्चुप्चणपौ - तेन वित्तः । वित्तः=प्रतीतः ।वित्तो भोगप्रत्ययो॑रिति निपातनात्रदाभ्यां निष्ठातो नः॑इति नत्वं न । लुप्तनिर्दिष्ट इति ।चुटुषाः प्रत्ययस्ये॑ति वक्तव्ये पृथग्योगकरणात्चुटू॑ इत्येतदनित्यमिति समाधानान्तरमप्याहुः ।
Padamanjari¶
वितः प्रतीत इति।’वितो बोगप्रत्यययोः’ इति निपातनात्, चुञाचुप्चणपोश्चकारस्य यथेत्संज्ञा न भवति, तथा’चुटूअ’ इत्यत्रैव वृत्तिकारेणोक्तम् ॥
Nyaas¶
विद्याचुञ्चुः, विद्याचणः इति। अथ चुटू (1.3.7) इति चकारस्येत्संज्ञा कस्मान्न भवति? उक्तोऽस्य हेतुस्तत्रैव - पृथग्योगकरणमस्य विधेरनित्यत्वज्ञापनार्थमिति॥
Prakriyasarvasvam¶
तेन प्रसिद्ध इत्यर्थ एतौ स्तः । विद्याचुञ्चुः । विद्याचणः ॥
Sutra Prayogas¶
चारचुञ्चुः (किरातार्जुनीयम्): तेन वित्तश्चुञ्चुण्चणपौ इति चुञ्चुप्प्रत्ययः।
रामोष्ठबिम्बचुम्बनचुञ्चुना (शिशुपालवधम्): तेन वित्तश्चुञ्चुप्चणपौ इति चुञ्चुप्प्रत्ययः।
मायाचणमस्त्रचुञ्चुः (भट्टिकाव्यम्): तेन वित्तञ्चञ्च प्रचणपौ इति चणप् चुञ्चुप् च।