52020: शालीनकौपीने अधृष्टाकार्ययोः

Padacheda: शालीन-कौपीने | S | 1 | 2 |

अधृष्ट-अकार्ययोः | S | 7 | 2 |

Sutrartha

‘अधृष्ट’ अस्मिन् अर्थे ‘शालीन’ शब्दः, तथा ‘अकार्य’ अस्मिन् अर्थे ‘कौपीन’ शब्दः निपात्यते ।

अनेन सूत्रेण ‘शालीन’ तथा ‘कौपीन’ - द्वयोः शब्दयोः निपातनमुच्यते । एतयोः अर्थौ एतादृशौ - 1. शालीन - ‘शालाप्रवेशमर्हति’ अस्मिन् अर्थे ‘शालाप्रवेश’ शब्दात् खञ्-प्रत्ययं कृत्वा ‘प्रवेश’ शब्दस्य निपातनेन लोपं कृत्वा ‘शालीन’ इति शब्दः सिद्ध्यति । यः मनुष्यः मूढः / अचतुरः अस्ति, समाजे प्रगल्भरूपेण वर्तनम् कर्तुम् न शक्नोति (= ‘अधृष्टम्’ वर्तनम् करोति), तस्य निर्देशार्थम् ‘शालीन’ इति शब्दः प्रयुज्यते । A person who is not capable of doing an appropriate / intelligent behavior in the society, and should rather be sent to school (for learning such a behavior) is called शालीन. । यथा - शालाप्रवेशमर्हति शालीनः मूढः । 2. कौपीन - ‘कूपावतारमर्हति’ अस्मिन् अर्थे ‘कूपावतार’ शब्दात् खञ् -प्रत्ययं कृत्वा निपातनेन ‘अवतार’शब्दस्य लोपम् कृत्वा ‘कौपीन’ शब्दः सिद्ध्यति । अत्र ‘कूप’ शब्दः ‘नरक’ शब्दस्य पर्यायरूपेण प्रयुज्यते, तथा च ‘अवतार’ शब्दस्य अर्थः ‘पतनम् प्रवेशनम् / अधोगमनम्’ इति स्वीक्रियते । मनुष्येण कृतम् निन्द्यकर्म / पापकर्म (= ‘अकार्यम्’) नरके पतितुमर्हति , अतः तादृशम् कर्म ‘कौपीनम्’ नाम्ना ज्ञायते । The bad deed that deserves going to the hell is called कौपीनः) विशेषः - 1. यः मनुष्यः लोके निन्दनीयम् कार्यम् / पापकार्यम् करोति, तस्य निर्देशार्थमपि ‘कौपीन’ इति शब्दः प्रयुज्यते । नरके अधोगन्तुम् / प्रविष्टुमर्हति सः कौपीनः युवक। 2. कटिभागस्य समीपे बध्यमानम् यत् वस्त्रम् (A piece of cloth tied to the waist) तदपि ‘कौपीन’ नाम्ना ज्ञायते । अस्यापि सिद्धिः अनेनैव सूत्रेण दीयते । मनुष्येन सह यत् वस्त्रम् कूपप्रवेशमर्हति तत् कौपीनमाच्छादनम् ।

Vasu English Summary

The words शालीन and कौपीन are anomalous when meaning ‘modest’ and ‘a shameful action, respectively.

Vasu English Translation

The words शालीन and कौपीन are anomalous when meaning ‘modest’ and ‘a shameful action, respectively. The word अधृष्ट means ‘not proud’, अकार्यम् means ‘unfit to be done’ i. e. an infamous act. The words come from शाला “a hall” and कूप ‘a well’. It is not easy to trace any connection between ‘modesty’ and ‘a hall’, or between ‘shameful’ and ‘a well’. However some say शालाप्रवेशनमर्हति ‘who deserves to enter a hall’, = शालीनः, कूपावतारमर्हति ‘who deserves to be thrown into a well’ = कौपीनः, hence a thing to be concealed, and the dress that conceals it. As शालीनो जडः, कौपीनं पापं ॥

Bhashya

शालीनकौपीने अधृष्टाकार्ययोः (2038) (शालीनकौपीनार्थबोधकभाष्यम्) किं यः शालायामधृष्टः स शालीनः, कूपे वा यदकार्यं तत्कौपीनम्। नेत्याह। उत्तरपदलोपोऽत्र द्रष्टव्यः। शालाप्रवेशनमर्हत्यधृष्टः सः - शालीनः। कूपावतरणमर्हत्यकार्यं तत्कौपीनम्॥

Kashika

शालीनकौपीनशब्दौ निपात्येते यथासंख्यमधृष्टेऽकार्ये चाभिधेये। अधृष्टोऽप्रगल्भः। अकार्यमकरणार्हं विरुद्धम्। शालीनकौपीने अधृष्टाकार्ययोः पर्यायौ यथाकथंचिद् व्युत्पादयितव्यौ। शालाप्रवेशनमर्हति कूपावतारमर्हति इति खञ् प्रत्यय उत्तरपदलोपश्च निपात्यते। शालीनो जडः। कौपीनं पापम्॥

Siddhanta Kaumudi

शालाप्रवेशमर्हति शालीनः अधृष्टः । कूपपतनमर्हति कौपीनं पापम् । तत्साधनत्वात्तद्वद्गोप्यत्वाद्वा पुरुषलिङ्गमपि । तत्संबन्धात्तदाच्छादनमपि ॥

Balamanorama

शालीनकौपीने अधृष्टाकार्ययोः - शालीन ।शालप्रवेशमर्हत्यधृष्ट॑ इति,कूपावतरणमर्हत्यकार्य॑मिति चाऽर्थे शालाप्रवेशशब्दात्कूपावतरणशब्दाच्च खञ् ।प्रवेशशब्दस्य अवतरणशब्दस्य चोत्तरपदस्य लोपे शालीनरौपीनशब्दौ निपात्येते॑ इति भाष्यम् । अधृष्ट इति । अप्रगल्भ इत्यर्थः । अप्रागल्भ्यादन्यत्र गन्तुमशक्तः शालाप्रवेशमेवार्हति यः स शालीन इति यावत् । कूपपतनमिति । कूपावतरणशब्दस्य विवरणमिदम् । कूपशब्दो नरकाभिधायी । कौपीनं पापमिति । नरकपतनसाधनमकार्यं पापमित्यर्थः । अनयोरर्थयोरेतौ रूढौ । ननु पुरुषलिङ्गे कौपीनशब्दो लाक्षणिक इत्यर्थः । तत्सम्बन्धादिति । पापसाधनत्वाद्वा, पापवदाच्छादनीयत्वाद्वा पुरुषलिङ्गे कौपीनशब्दो लाक्षणिक इत्यर्थः । तत्सम्बन्धादिति । कौपीनशब्दस्य लक्ष्यपुरुषलिङ्गसंबन्धात्तदाच्छादनवस्त्रखण्डै कौपीनशब्दो लक्षितलक्षणया प्रयुज्यत इत्यर्थः ।

Tattvabodhini

शालीनकौपीने अधृष्टाकार्ययोः - शलीनकौपीने । इमौ खप्रत्ययान्तत्वेन निपात्येते । रूढिशब्दावेतौ कथंचिद्वयुत्पाद्याविति नात्राऽवयवार्थेऽभिनिवेशः कार्यः । शालाप्रवेशमिति । अप्रागल्भ्यादन्यत्र गन्तुमशक्तः शालामेव प्रवेष्टुमर्हतीत्यर्थः । कूपपतनमिति । यदकार्यं तत्प्रच्छादनीयत्वात्कूपावतरणमर्हतीत्यर्थः । तदाच्छादनमिति । वासःखण्ड इत्यर्थः । अन्ये त्वाहुः -अकार्यशब्दे यः करोति स क्रियासामान्यवचनः, तेन लज्जाहेतुत्वेन अद्रष्टव्यत्वात्पुरुषलिङ्गंकौपीनम्ष । अस्पृश्त्वात्तदाच्छादनमिति ।

Padamanjari

यथाकथञ्चिदिति। नात्रावयवार्थेऽभिनिवेष्टव्यमित्यर्थः। अभिनिवेशे तु यःक शालायामधृष्टो भार्याजितत्वादन्यत्र धृष्टः, यच्च कूपे अकार्यं मूत्रणादि, कथं तस्याभिधानं प्रागोति, कथं तर्हि विवक्षितार्थः ? इत्याह - शालाप्रवेशमर्हतीति। यदकार्यं तत्प्रच्छादनीयत्वात्कूपावतरणमर्हतीत्यर्थः। उतरपदालोपश्चेति। वृत्तिविषये शालाकूपशब्दौ तत्कर्मिकायां क्रियायां वर्तेतते इति गम्यमानत्वादप्रयोग एव लोपः। कौपीनं पापमिति। पापसाधनत्वातु पुरुषलिङ्गे कौपीनशब्दः, साधार्म्याद्वा; साधर्म्यं गोप्यत्वात्। तत्साहचर्याच्च तदाच्छादने वासःखण्डे। अपर आह - कार्यशब्दे करोतिः क्रियासामान्यवचनः, तेन लज्जाहेतुत्वेनाद्रष्टव्यत्वात्पुरुषलिङ्गं कौपीनम्, अस्पृश्यत्वाच्च तदाच्छादनमिति ॥

Nyaas

यथाकथञ्चित् इति। येन केनचित्? प्रकारेण। नावयवार्थे प्रत्यभिनिवेशः कर्तव्य इति दर्शयति - उत्तरपदलोश्च इति। उत्तरपदं प्रवेशनशब्दोऽवतरणशब्दश्च, तस्य लोपः। शालीनो जडः इति। स हि जाडआत्? प्रतिवचनमपि दातुं शक्तोऽप्यार्यैराद्रियमाणो न शक्नोति तत्र स्थातुम् - जनता पश्यतीति, अतः शालाप्रवेशनमर्हति। शालाशब्दोऽयमिहि कुटीरवचनः। कौपीनं पापम् इति। तद्धि लोके निन्द्यत्वादकाय्र्यत्वाच्चाकाय्र्यम्, तल्लोके कूपेऽवतरणं प्रवेशनमर्हतीत्युच्यते। तत्सामर्थ्याच्छरीरावयवः कश्चित्कौपीनशब्देनोच्यते। यदपि तस्य शरीरावयवस्याच्छादनार्थं वासः, तदपि तत्सम्बन्धात्? प्रव्रजितादीनां कौपीनमित्युच्यते॥

Prakriyasarvasvam

शालां प्रवेष्टुमर्हः शालीनो लज्जितः । प्रच्छाद्यं हि वस्तु कूपप्रक्षेपमर्हतीत्य- कृत्यं प्रच्छाद्यत्वात् कौपीनम् । प्रच्छाद्यत्वसाम्याल्लिङ्गेऽपि । तदाच्छादने च लक्षणया ॥

Sutra Prayogas

  • शालीनतया (रघुवंशम्): शालीनकौपीने अधृष्टाकार्ययोः इति निपातः।

  • शालिनताम् (रघुवंशम्): शालीनकौपीने अधृष्टाकार्ययोः इति निपातः।

  • शालीनं (शिशुपालवधम्): शालीनकौपीने अदृष्टाकार्ययोः इति निपातः।

  • शालीन (भट्टिकाव्यम्): शालीन - कौपीने इति खञ् निपात्यते।