52022: साप्तपदीनं सख्यम्

Padacheda: साप्तपदीनम् | S | 1 | 1 |

सख्यम् | S | 1 | 1 |

Sutrartha

‘सख्यम्’ अस्मिन् अर्थे ‘साप्तपदीन’ शब्दः निपात्यते ।

अनेन सूत्रेण ‘सख्यम्’ (= मित्रत्वम् / मित्रता) अस्मिन् अर्थे ‘साप्तपदीन’ अयम् शब्दः निपात्यते । ‘सप्तभिः पदैः अवाप्यते’ अस्मिन् अर्थे ‘सप्तपद’ शब्दात् खञ्-प्रत्ययं कृत्वा ‘साप्तपदीन’ अयम् शब्दः सिद्ध्यति । अत्र ‘सप्त पदानि’ इत्यस्य अर्थः ‘सुखदुःखादयः भिन्नाः अवस्थाः’ इति स्वीक्रियते । The role / duty by virtue of which the people help each other during various situation occurring in ones life - is called साप्तपदीनम् । विशेषः - ‘साप्तपदीन’ अस्य शब्दस्य प्रयोगः ‘मित्रम्’ / ‘सखा’ अस्मिन् अर्थे अपि भवति । यथा - ‘साप्तपदीनः सखा’ । अत्र ‘लक्षणा’-अर्थेन (implied meaning) अस्य शब्दस्य प्रयोगः भवति । इत्युक्ते, ‘अयम् सखा साप्तपदीनः अस्ति’ इत्युक्ते ‘अस्य सख्युः भावः साप्तपदीनमस्ति’ इति अर्थः स्वीक्रियते ।

Vasu English Summary

The word साप्तपदीन is anomalous when meaning ‘friendship’.

Vasu English Translation

The word साप्तपदीन is anomalous when meaning ‘friendship’. The word साप्तपदीन comes from सप्तपद but the connection of senses is not very clear. It is said सप्तभिः पदैरवाप्यते = साप्तपदीनम् “formed by walking together seven steps or by talking together seven words”. The circumambulation of the Fire by the bride and bridegroom in seven steps makes the marriage irrevocable. साप्तपदीनं seems to have some connection with that. The word साप्तपदीनः or म् means ‘a friend’ also; the abstract sense being made applicable by analogy to the person as well.

Kashika

साप्तपदीनमिति निपात्यते सख्येऽभिधेये। सप्तभिः पदैरवाप्यते साप्तपदीनम्। सख्यं जनाः साप्तपदीनमाहुः। कथं साप्तपदीनः सखा, साप्तपदीनं मित्रमिति ? यदा गुणप्रधानः साप्तपदीनशब्दः सखिभावे तत्कर्मणि च वर्तते, तदा सख्यशब्देन सामानाधिकरण्यं भवति, यदा तु लक्षणया वर्तते, तदा पुरुषेण सामानाधिकरण्यं भवति॥

Siddhanta Kaumudi

सप्तभिः पदैरवाप्यते साप्तपदीनम् ॥

Balamanorama

साप्तपदीनं सख्यम् - साप्तपदीनम् । सप्तपदशब्दात्तृतीयान्तादवाप्यं सख्यमित्यर्थे खञि साप्तपदीनमिति भवतीत्यर्थः । सप्तभिः पदैरिति । पदविक्षेपैरित्यर्थः ।

Tattvabodhini

साप्तपदीनं सख्यम् - साप्तपदीनम् । योग्यतया समर्थविभक्तिस्तृतीयेति दर्शयति -सप्तभिः पदैरिति । पदमिह संभाषणं पादवक्षेपो वा तद्धितार्थे द्विगुः । अवाप्यतैत्यर्थे खञ् ।

Padamanjari

साप्तपदीनमिति निपात्यत इति। किं पुनरत्र निपात्यते ? समर्थविभक्तिस्तृतीया। अवाप्यत इति प्रत्ययार्थः, सप्तभिः पदैरवाप्यत इति तद्वितार्थे द्विगुः समासः, सप्तपदशब्दात्खञ्। कथमिति। सख्युर्भावः कर्म वा सख्यम्, तत्र व्युत्पादितस्य न सखिशब्देन प्रश्नः, उपचारेणेत्युतरम्, गुणप्रधान इति। गुणो भावः, कर्म च भावः, प्रवृत्तिनिमितत्वाद्गुणः। यस्य हि गुणस्य भावादिति कर्माणि हि सख्यशब्दवाच्यत्वाद्गुण इत्युक्तम् ॥

Nyaas

साप्तपदीनमिति निपात्यते इति। किं पुनरत्र निपात्यते? प्रत्ययः प्रत्ययार्थश्च प्रकृतः। खञ्प्रत्ययार्थश्चावाप्तिः। सप्तभिः पदैरवाप्यत इति तद्धितार्थे समासः। ततः सप्तपदशब्दात्खञ्।कथम् इत्यादि। सख्युभविः कर्म वा सख्याम्। तत्र यदि साप्तपदीनमिति निपत्यते, सखिशब्देन सामानादिकरण्यं न प्राप्नोति, न हि सख्यमेव सखा भवतीति प्रष्टुरभिप्रायः। गुणप्रधानः इत्यादि। गुणो भावः कर्म वा प्रधानं यस्य स तथोक्तः। स यदा च गुणमात्रे मुख्यया वृत्त्या वर्तते तदा गुणप्रधानो वेदितव्यः। तदा सख्यशब्देन सामानाधिकरण्यं भवति इति। द्वयोरप्येकार्थवृत्तित्वात्। यदा तु इत्यादि। लक्षणा उपचारः। धर्मधर्मिणोरभेनोपचारेण गौण्या वृत्त्या तद्धिति संख्यावति पुरुषे वर्तते तदानेनैव समानाधिकरणो भवति। यथा यदा शुक्लशब्दो गुणमात्रे वर्तते तदा द्रव्यशब्देन समानाधिकरणो न भवति - पटस्य शुक्ल इति, यदा त्वसौ त्वमित्यभिसम्बन्धात्? पटे वर्तते तदा सामानाधिकरण्यं भवति - शुक्लः पद इति; तथेहापि वेदितव्यम्॥

Prakriyasarvasvam

सप्तभिः पदन्यासैर्वचनैर्वा प्राप्यं साप्तपदीनं सख्यम् । साप्तपदीनः सखेत्यपि लक्षणया ॥

Sutra Prayogas

  • साप्तपदीनम् (कुमारसम्भवम्): साप्तपदीनं सख्यम् इति निपातनात्साधु।