52040: किमिदंभ्यां वो घः

Padacheda: किमिदम्भ्याम् | S | 5 | 2 |

वः | S | 6 | 1 |

घः | S | 1 | 1 |

Sutrartha

‘परिमाण’ इत्यस्य विशेषणरूपेण प्रयुक्तौ यौ ‘किम्’ तथा ‘इदम्’ शब्दौ, ताभ्याम् प्रथमासमर्थाभ्याम् ‘अस्य’ इत्यस्मिन् अर्थे ‘वतुप्’ प्रत्ययः भवति; तथा च प्रक्रियायाम् प्रत्ययस्य वकारस्य घकारादेशः भवति ।

‘किम्’ तथा ‘इदम्’ एते सर्वनामशब्दे यत्र ‘परिमाण’ (= amount, quantity, magnitude) शब्दस्य ‘उपाधिरूपेण’ (विशेषणरूपेण) प्रयुज्यन्ते, तत्र ताभ्याम् ‘अस्य’ अस्मिन् अर्थे वतुँप् प्रत्ययः भवति ; तथा च प्रक्रियायाम् ‘वतुँप्’ इत्यस्य वकारस्य घकारादेशः भवति । क्रमेण पश्यामः - 1) किम् परिमाणमस्य (What is the measure of this - इति प्रश्नः) = किम् + वतुँप् [वर्तमानसूत्रेण वतुँप्-प्रत्ययविधानम्] → किम् + वत् [इत्संज्ञालोपः] → किम् + घत् [वर्तमानसूत्रेण ‘वतुँप्’ इत्यस्य वकारस्य घकारादेशः] → किम् + इयत् [आयनेयीनीयियः फघखच्छघां प्रत्ययादीनाम् (7.1.2) इति घ-इत्यस्य इय-आदेशः] → की + इयत् [इदङ्किमोरीश्की (6.3.90) इत्यनेन ‘किम्’ इत्यस्य वतुँप्-प्रत्यये परे ‘की’ आदेशः । अनेकाल्त्वात् अनेकाल्शित्सर्वस्य (1.1.55) इति सर्वादेशः] → क् + इयत् [यस्येति च (6.4.148) इति ईकारलोपः] → कियत् । (how much / what is the measure of - इति अर्थः) । अयं शब्दः त्रिषु लिङ्गेषु प्रयुज्यते - अ) पुंलिङ्गे अस्य रूपाणि ‘यावत्’ शब्दवत् भवन्ति । यथा - कियान्, कियन्तौ, कियन्तः, कियन्तम्, कियन्तौ, कियतः । ‘कियान्’ शब्दस्य प्रक्रिया इयम् - कियत् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः] → कियात् + सुँ [अत्वसन्तस्य चाधातोः (6.4.14) इति उपधादीर्घः] → कियान् त् + सुँ [उगिदचां सर्वनामस्थाने अधातोः (7.1.70) इति नुमागमः] → कियान् त् [हल्ङ्याभ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) इति सुँ-प्रत्ययस्य लोपः] → कियान् [संयोगान्तस्य लोपः (8.2.23) इति तकारलोपः]

आ) स्त्रीलिङ्गे - ‘कियत्’ शब्दः स्त्रीत्वे विवक्षिते उगितश्च (4.1.6) इत्यनेन ङीप्-प्रत्ययः भवति, येन ‘कियती’ इति प्रातिपदिक सिद्ध्यति । अस्य रूपाणि ‘नदी’ शब्दवत् भवन्ति । यथा - कियती कियत्यौ कियत्यः ।

(इ) नपुंसकलिङ्गे - ‘जगत्’ शब्दवत् अस्य रूपाणि भवन्ति । यथा - कियत्, कियती, कियन्ति । विशेषः - अग्रिमसूत्रेण किमः संख्यापरिमाणे डति च (5.2.41) इत्यनेन अपि ‘कियत्’ इत्यवे शब्दः सिद्ध्यति । परन्तु तत्रस्थस्य ‘कियत्’ शब्दस्य अर्थः ‘how many’ इति अस्ति । वर्तमानसूत्रेण निर्दिष्टस्य ‘कियत्’ शब्दस्य अर्थः ‘how much’ इति अस्ति । 2) इदम् परिमाणमस्य (This is the measure of this other thing - इत्यर्थः) = इदम् + वतुँप् [वर्तमानसूत्रेण वतुँप्-प्रत्ययविधानम्] → इदम् + वत् [इत्संज्ञालोपः] → इदम् + घत् [वर्तमानसूत्रेण ‘वतुँप्’ इत्यस्य वकारस्य घकारादेशः] → इदम् + इयत् [आयनेयीनीयियः फघखच्छघां प्रत्ययादीनाम् (7.1.2) इति घ-इत्यस्य इय-आदेशः] → ई + इयत् [इदङ्किमोरीश्की (6.3.90) इत्यनेन ‘इदम्’ इत्यस्य वतुँप्-प्रत्यये परे ‘ई’ आदेशः । शित्वात् अनेकाल्शित्सर्वस्य (1.1.55) इति सर्वादेशः । ] → X + इयत् [यस्येति च (6.4.148) इति अङ्गस्य ईकारलोपः।] → इयत् अत्र प्रकृतेः सम्पूर्णरूपेण लोपः भवति, केवलम् प्रत्ययस्यैव दृश्यरूपमवशिष्यते । इयत्-शब्दस्य अर्थः ‘this much / this is the measure of’ इति अस्ति । अयं शब्दः त्रिषु लिङ्गेषु प्रयुज्यते । ‘कियत्’ शब्दवदेव अस्यापि रूपाणि भवन्ति । यथा - अ) पुंलिङ्गे - इयान् इयन्तौ इयन्तः । आ) स्त्रीलिङ्गे - इयती इयत्यौ इयत्यः । इ) नपुंसकलिङ्गे - इयत् इयती इयन्ति । स्मर्तव्यम् - 1. अस्मिन् सूत्रे उक्तः वकारस्य घकारादेशः ‘प्रत्यये विद्यमानस्य वकारस्य’ विषये उक्तः अस्ति । अतः इदम् ‘प्रत्ययकार्यम्’ अस्ति, न हि ‘अङ्गकार्यम्’ । 2. अस्मिन् सूत्रे कार्यद्वयमुक्तमस्ति - (अ) किम् / इदम् शब्दाभ्याम् वतुँप्-प्रत्ययविधानम्, तथा (आ) किम्/इदम् शब्दाभ्यां विहितस्य वतुँप्-प्रत्ययस्य वकारस्य घकारादेशः । एतौ कार्यौ स्वतन्त्रौ स्तः । इत्युक्ते, यद्यपि केनचित् अन्येन सूत्रेण एताभ्याम् शब्दाभ्याम् ‘वतुँप्’ प्रत्ययः क्रियते, तथापि तस्य वकारस्य घकारादेशः वर्तमानसूत्रेण भवितुमर्हति । यथा, अग्रिमसूत्रेण किमः सङ्ख्यापरिमाणे डति च (5.2.40) इत्यनेन ‘किम्’ शब्दात् ‘वतुँप्’ प्रत्यये कृते वर्तमानसूत्रेण तस्य वकारस्य घकारादेशः अवश्यम् भवति । 3. ‘वतुँप्-प्रत्ययान्तशब्दाः बहुगणवतुडति सङ्ख्या (1.1.23) इत्यनेन ‘सङ्ख्या’ संज्ञां प्राप्नुवन्ति । अतः ‘कियत्’ तथा ‘इयत्’ द्वयोः अपि ‘सङ्ख्या’ इति संज्ञा भवति ।

Vasu English Summary

After the words किम् and इदम् , घ (इय्) is substituted for the व् of वतुप्।

Vasu English Translation

After the words किम् and इदम् , घ (इय्) is substituted for the व् of वतुप्। Thus किम् + वतुप् की + वतुप् (6.3.90) = क् + घतुप् (6.4.148) = कियत् nom. कियान्. Similarly इयत् nom. इयान् ॥

Bhashya

किमिदंभ्यां वो घः (2058) (किमिदंभ्यां वतुप्ज्ञापकभाष्यम्) केन विहितस्य किमिदंभ्यां वतुपो वो घत्वमुच्यते? एतदेव ज्ञापयत्याचार्यः - भवति किमिदंभ्यां वतुप् इति, यदयं किमिदंभ्यामुत्तरस्य वतुपो वो घत्वं शास्ति॥ (योगविभागेन वतुप्साधकभाष्यम्) अथवा योगविभागः करिष्यते - किमिदंभ्याम्। वतुब् भवति। ततः - वो घः। इति। वश्चास्य घो भवतीति॥

Kashika

किमिदंभ्यामुत्तरस्य वतुपो वकारस्य घकारादेशो भवति। कियान्। इयान्। एतदेव चादेशविधानं ज्ञापकं किमिदंभ्यां वतुप् प्रत्ययो भवतीति। अथ वा योगविभागेन वतुपं विधाय पश्चाद् वो घो विधीयते॥

Siddhanta Kaumudi

आभ्यां वतुप्स्याद्वस्य च घः । कियान् । ईयान् ॥

Laghu Siddhanta Kaumudi

आभ्यां वतुप् स्याद् वकारस्य घश्च॥

Balamanorama

किमिदंभ्यां वो घः - किमिदंभ्यां वो घः । तदस्येति, परिमाणे वतुविति चानुवर्तते । तदाह — आभ्यां वतुप् स्यादिति । आभ्यां प्रथमान्ताभ्याम्अस्य तत्परिमाण॑मित्यर्थे वतुप्स्यादित्यर्थः । वस्य च घ इति । वकारस्य घकार इत्यर्थः । कियानिति । किं परिमाणमस्येति विग्रहः । किंशब्दाद्वतुप् । उपावितौ । वकारस्य घकारः । इयादेशः । किम् इयत् इति स्थिते ‘इदङ्किमोरीश्की’ इति किमः कीभावेयस्येति चे॑ति ईकारलोपे कियच्छब्दात्सौउगिदचा॑मिति नुमि अत्वसन्तस्ये॑ति दीर्घे, हल्ङ्यादिसंयोगान्तलोपाविति भावः । इयानिति । इदंशब्दाद्वतुपि वकारस्य घकारे इयादेशे इदम् इयत् इति स्थितेइदङ्किमोरीश्की॑ति शित्त्वादिदम ईकारे सर्वादेशेयस्येति चे॑ति ईकारस्य लोपे इयदिति प्रत्ययमात्रं शिष्यते । ततः सौ नुमादि पूर्ववत् ।

Tattvabodhini

किमिदंभ्यां वो घः - किमिदंभ्याम् । वतुप्स्यादिति । वकारस्य घविधिसामर्थ्याद्वतुपरमनुवर्त्त्य सोऽप्यत्र विधीयत इति भावः ।आदेः परस्ये॑त्येव सिद्धेवः॑ इथि वचनमादेशप्रतिपत्त्यर्थम् । इतरथा घः प्रत्ययान्तरं विज्ञायते । कियामिति ।इदंकिमोरीश्की॑यस्येति चे॑ति लोपः । इयानिति । ईसादेशस्ययस्ये॑ति लोपे प्रत्ययमात्रमवशिष्यते । पठन्ति च — — ॒उदितवति परस्मिन् प्रत्यये शास्त्रयोनौ, गतवति विलयं च प्रकृतेऽपि प्रपञ्चे । सपदि पदमुदीतं केवलः प्रत्ययो यत्तदियदिति मिमीते को ह्मदा पण्डितोपि.॑ वैयाकरणानामौपनिषदानां च प्रक्रियामाश्रित्य प्रवृत्तो व्द्यर्थोऽयं श्लोकः ।

Padamanjari

कियान्, इयानिति। ठिदं किमोरीश्कीऽ, यस्येतिलोपः। एतदेवेति। आदेशविधानान्यथानुपपत्या प्रत्ययोऽनुमीयते। योगविभागेन वेति। एवं प्रतिपादिते लाघवं भवति। ठादेः परस्यऽ इत्येव सिद्धे’वः’ इति कवचनमादेशप्रतिपत्यर्थम्; इत्रथा हि घः प्रत्ययान्तरं विज्ञायेत ॥

Nyaas

कियान्। इयान् इति। इदङ्किमोरीश्की (6.3.90) इति किमः की। इदम ईश् इति। यस्येति (6.4.148) लोपः। केन पुनः किमिदम्भ्यां विहितस्य वतुपो वकारस्य घत्वं विधीयते? इत्याह - अथ वा इत्यादि। योगविबागेन वा इति। किमिदम्भ्याम् इत्येतावता योगेन वतुपं विधाय ततः वो घः इत्यनेन वतुपो वकारस्य घत्वं विधीयते। अथ वग्रहणं किमर्थम्, यावता आदेः परस्य (1.1.54) इति वकारस्यैव घो विधीयते, ननु चानेकाल्त्वात्? सर्वादेशः प्राप्नोति? नैष दोषः, अकारो ह्यत्रोच्चारणार्थो वर्णमात्रमेव, न त्वादेशः। कुतः पुनरेतद्विज्ञेयम्? व्याख्यानात्। तर्हि वकार एवं लघीयानिति युक्तं तस्य स्थानित्वेनोपादनम्। वकारे त्वस्थानिन्युपात्तै यद्यपि समुदायादेशः, तथापि न दोषः; द्वयोरकारयोः पररूपं भविष्यति॥

Prakriyasarvasvam

आभ्यां वतुप् वतुपो वकारमात्रस्य घकारस्य स्यात् । घस्य इय् किम् इयत् इदम् इयत् । ‘इदंकिमोरीश्की’ (६-३-९०) । की इयत् ई इयत् । यस्येति लोपः । कियम् इयत् । पदकार्यम् । कियान् इयान् ।