52028: वेः शालच्छङ्कटचौ¶
Padacheda: वेः | S | 5 | 1 |
शालच्-शङ्कटचौ | S | 1 | 2 |
Sutrartha¶
‘वि’ इत्यस्मात् स्वार्थे शालच् तथा ‘शङ्कटच्’ एतौ प्रत्ययौ भवतः ।
‘वि’ इति कश्चन उपसर्गः । प्रायः अस्य प्रयोगः ‘विस्तृतम्’ (big / large) अस्मिन् अर्थे क्रियते । अस्मिन्नेव अर्थे अस्मात् उपसर्गात् स्वार्थे शालच् तथा शङ्कटच् एतौ प्रत्ययौ भवतः । यथा - 1. वि + शालच् = विशाल । 2. वि + शङ्कटच् = विशङ्कट । ‘विशाल’ तथा ‘विशङ्कट’ - द्वौ शब्दौ अनेन सूत्रेण सिद्ध्येते । द्वयोरपि अर्थः ‘विस्तृतम्’ इत्येव अस्ति । यथा - विशाले शृङ्गे विशङ्कटे शृङ्गे वा । विशेषः - 1. यस्याः धेनोः शृङ्गे विशाले, सा धेनुः अपि ‘विशाला धेनुः’ / ‘विशङ्कटा धेनुः’ इत्यनने निर्दिश्यते । अत्र ‘विशाले शृङ्गे अस्य सः विशालः’ , ‘विशङ्कटे शृङ्गे अस्य सः विशङ्कटः’ एतादृशी व्युत्पत्तिः भाष्यकारेण दीयते । भाष्यकारस्य मतेन अत्र ‘तदस्य अस्ति’ इत्यस्मिन् अर्थे ‘अ’ प्रत्यययोजनम् कृत्वा रूपसिद्धिः भवति । 2. ‘वि’ इत्यस्य अनेके अर्थाः भवन्ति । बहुषु स्थलेषु ‘वि’ इति अव्ययमुपसर्गसंज्ञां विना अपि प्रयुज्यते । परन्तु अस्य सूत्रस्य विषये ‘वि’ इति उपसर्गवाचकस्यैव ग्रहणम् भवति । अतएव कौमुदीकारः स्पष्टीकरोति - ‘कियाविशिष्टसाधनवाचकात् स्वार्थे’ । क्रियायाः सम्बन्धरूपेण यत्र ‘वि’ इत्यस्य प्रयोगः भवति, तस्मिन्नेव अर्थे एतौ प्रत्ययौ भवतः - इति अस्य आशयः । 3. यद्यपि ‘वि’ उपसर्गस्य अनेके अर्थाः भवन्ति, तथापि ‘विस्तृतम् / व्यापकम्’ अस्मिन्नेव अर्थे अत्र ‘वि’ इति शब्दः गृह्यते । 4. अत्र प्रत्यययोः अर्थौ भिन्नरूपेण उक्तौ न स्तः । अतः अत्र ‘स्वार्थे’ प्रत्ययविधानम् भवति इत्येव उच्यते ।
Vasu English Summary¶
The affixes शालच् (शाल) and शङ्कटच् (शङ्कट) come after the preposition वि without changing the sense.
Vasu English Translation¶
The affixes शालच् (शाल) and शङ्कटच् (शङ्कट) come after the preposition वि without changing the sense. Thus विगते शृङ्गे = विशाले, विशंकटे ॥ Thus these words may apply to a cow, as विशालः, विशंकटः ॥ According to some these words are adjectives meaning ‘great, large’ &c. There is no connection here of sense of base and the affix.
Bhashya¶
वेः शालच्छङ्कटचौ (2046) (शालच्शङ्कटच्प्रत्ययाधिकरणम्) (प्रत्ययार्थनिर्णयभाष्यम्) कस्मिन्नर्थे शालजादयो भवन्ति? न सह इत्यनुवर्तते। भवेत्सिद्धम् - विशाले शृङ्गे, विशङ्कटे शृङ्गे इति॥ (आक्षेपभाष्यम्) इह खलु संकटम् इति संगतार्थो गम्यते, प्रकटमिति प्रगतार्थो गम्यते, उत्कटमिति उद्गतार्थो गम्यते॥ (समाधानभाष्यम्) एवं तर्हि साधने शालजादयो भवन्ति। किं वक्तव्यमेतत्? न हि। कथमनुच्यमानं गंस्यते? उपसर्गेभ्य इमे विधीयन्ते, उपसर्गाश्च पुनरेवमात्मकाः - यत्र कश्चित् क्रियावाची शब्दः प्रयुज्यते तत्र क्रियाविशेषमाहुः, यत्र हि न प्रयुज्यते ससाधनां तत्र क्रियामाहुः। त एते उपसर्गेभ्यो विधीयमानाः ससाधनायां क्रियायां भविष्यन्ति॥ (आक्षेपभाष्यम्) एवमपि भवेत्सिद्धं - विशाले शृङ्गे इति। इदं तु न सिध्यति - विशालः, विशङ्कटः - इति॥ (समाधानभाष्यम्) एतदपि सिद्धम्। कथम्? अकारो मत्वर्थीयः। विशाले अस्य स्तो विशालः। विशङ्कटे अस्य स्तो विशङ्कट इति॥
Kashika¶
विशब्दात् शालच् शङ्कटज् इत्येतौ प्रत्ययौ भवतः। ससाधनक्रियावचनादुपसर्गात् स्वार्थे प्रत्ययौ भवतः। विगते शृङ्गे विशाले। विशङ्कटे। तद्योगाद् गौरपि विशालो विशङ्कट इत्युच्यते। परमार्थतस्तु गुणशब्दा एते यथाकथंचिद् व्युत्पाद्यन्ते। नात्र प्रकृतिप्रत्ययार्थयोरभिनिवेशः॥
Siddhanta Kaumudi¶
कियाविशिष्टसाधनवाचकात्स्वार्थे । विस्तृतम् । विशालम् । विशङ्कटम् ॥
Padamanjari¶
क्व पुनरेते शालजादयो भवन्ति ? इत्याह - ससाधनक्रियावचनादिति। क्रियाविशिष्टसाधनवचनादित्यर्थः। एतच्च ठुपसर्गाच्छन्दसि धात्वर्थेऽ इत्यत्र प्रत्यपादि। उपसर्गादिति। अन्यत्रोपसर्गसंज्ञादर्शनाद्विषयान्तरेऽपि प्रादीनामभिधानम्। स्वार्थ इति। अनिर्द्दिष्टार्थत्वात्। विगते इति। विगमनक्रियाकर्तरि वेर्वृत्ति दर्शयति। तद्योगादिति। विशालावयवयोगात्, व्युत्पत्तिपक्षे नान्या गतिरिति भावः। वस्तुगतिमाह - परमार्थतस्त्विति। विशालत्वमुविस्तीर्णत्वं नाम गुणः, तस्माद्गुणवचना एते। वक्ष्मयाणप्रत्ययापेक्षया बहुवचनम्; ततश्च यद्गुणयोगाच्छङ्गे वृत्तिस्तद्गणयोगादेव गव्यपि वृत्तिः सिद्धेति भावः। तथा च-विशालो देश इत्यपि दृश्यते ॥
Nyaas¶
ससाधनक्रियावचनात् इत्यादि। उक्तमेतत् - उपसर्गा ह्रेवमात्मका भवन्ति यत्र कश्चित्? क्रियावाची शब्दः प्रयुज्यते तत्र क्रियाविशेषणमाहुः। यत्र न प्रयुज्यते तत्र ससाधनक्रियामिति। इह न कश्चित्? क्रियावाची शब्दः प्रयुज्यते, तस्मात् ससाधनक्रियावाचिन उपसर्गात्? प्रत्ययो भवति। स च भवन्? अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति (सी।प। 125) इत्यनिर्दिष्टार्थत्वात्? स्वार्थे भवति। विगते शृङ्गे इति। एतेन विगमनक्रियायां शृङ्गसाधनायां विशब्दो वर्तत इति दर्शयति। यदि ससाधनायां क्रियायां प्रत्ययः, विशालो गौर्विशङ्कटो गौरिति न सिध्यति, न हि गौरिह विगमनस्य साधनम्, किं तर्हि? शृङ्गे? इत्यत आह - तद्योगात् इत्यादि। यथा सास्नाद्यवयवयोगादवयवधर्मेण गौः सास्नेत्युच्यते, तथा विशालविशङ्कटशृङ्गयोगाद्गौस्तथेत्युच्यते। परमार्थतस्तु इत्यादि। समुदायो व्युत्पत्यर्थः। अतोऽत्र न केवलं ससाधनक्रिया नास्ति, अपि च साधनमिपि नास्ति। तस्माद्गुणशपब्दा विशालादयः परमार्थतो लोके प्रसिद्धाः यथा - शुक्लादयः शब्दाः। तेन नात्र विशालीदिषु प्रकृतिप्रत्ययार्थयोरभिनिवेशः कर्तव्यः। तदेवं परमार्थतोऽनर्थकाः। वेः शालच्छङ्कटचावप्यनर्थकावेव विधीयते इत्युक्तं भवति। एते इति। व्युत्पादयिष्यमाणान्? सङ्कटादीन्? बुद्धौ कृत्वा बहुवचनं कृतम्, तेऽपि हि गुणशब्दा एव॥
Prakriyasarvasvam¶
विस्तृतार्थाद्वेः स्वार्थे एतौ स्तः । विशालम् विशङ्कटम् ॥
Sutra Prayogas¶
विशालैरपि (शिशुपालवधम्): वैः शालच्छङ्कटचौ इति शालच्प्रत्ययः।
विशङ्कटो (भट्टिकाव्यम्): वेः शालच्छङ्कटचौ इति शङ्कटच्।