52030: अवात् कुटारच्च¶
Padacheda: अवात् | S | 5 | 1 |
कुटारच् | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
‘अव’ उपसर्गात् स्वार्थे कुटारच् तथा कटच् प्रत्ययौ भवतः ।
‘अवाचीनः’ (directed downwards) अस्मिन् अर्थे प्रयुक्तात् ‘अव’ अस्मात् उपसर्गात् स्वार्थे कुटारच् तथा कटच् प्रत्ययौ भवतः - (अ) अव + कुटारच् = अवकुटार । (आ) अव + कटच् = अवकट । द्वयोः अपि शब्दयोः अर्थः ‘अवाचीनः’ (directed downwards) इत्येव अस्तीति व्याख्यानेषु स्पष्टीक्रियते ।
Vasu English Summary¶
The affixes कुटारच् and कटच् come after the word अव।
Vasu English Translation¶
The affixes कुटारच् and कटच् come after the word अव। As अवकुटारम्, अवकटम् ‘downwards’, ‘very deep’.
Kashika¶
अवशब्दात् कुटारच् प्रत्ययो भवति, चकारात् कटच्। अवकुटारम्। अवकटम्॥
Siddhanta Kaumudi¶
चात्कटच् । अवाचीनोऽवकुटारः । अवकटः ॥
Balamanorama¶
अवात् कुटारच्च - अवात्कुटारच्च । क्रियाविशिष्टसाधानवाचकादवात्स्वार्थे कुटरच स्यादित्यर्थः । अवाचीन इति । अवाचीने विद्यमानादवात्कुटरचि अवकुटार इत्यर्थः ।
Padamanjari¶
अवकुटारम्, अवकटमिति। अवाचीनम्, अप्रसिद्धमित्यर्थः ॥
Prakriyasarvasvam¶
चकारात् कटच् । अवकुटारम् अवकटम् । एताववनते प्रसिद्धे वेति हरः ॥