52039: यद्तदेतेभ्यः परिमाणे वतुप्¶
Padacheda: यद्-तद्-एतेभ्यः | S | 5 | 3 |
परिमाणे | S | 7 | 1 |
वतुप् | S | 1 | 1 |
Sutrartha¶
‘परिमाण’ इत्यस्य विशेषणरूपेण प्रयुक्ताः ये ‘यत्’, ‘तत्’, ‘एतद्’ शब्दाः, तेभ्यः प्रथमासमर्थेभ्यः ‘अस्य’ इत्यस्मिन् अर्थे ‘वतुप्’ प्रत्ययः भवति ।
‘यत्’, ‘तत्’ तथा ‘एतत्’ एतानि सर्वनामशब्दानि यत्र ‘परिमाण’ (= amount, quantity, magnitude) शब्दस्य ‘उपाधिरूपेण’ (विशेषणरूपेण) प्रयुज्यन्ते, तत्र तेभ्यः ‘अस्य’ अस्मिन् अर्थे वतुँप् प्रत्ययः भवति । यथा - 1) यत् परिमाणमस्य = यत् + वत् → यावत् । (till as much - इति सामान्यः अर्थः) । 2) तत् परिमाणमस्य = तत् + वत् → तावत् । (till that much - इति सामान्यः अर्थः) । 3) एतत् परिमाणमस्य = एतत् + वत् → एतावत् । (till this much - इति सामान्यः अर्थः) । ‘यावत्’ शब्दस्य निर्माणप्रक्रिया इयम् - यत् + वतुँप् → यत् + वत् [पकारस्य हलन्त्यम् (1.3.3) इति इत्संज्ञा । उँकारस्य उपदेशेऽजनुनासिक इत् (1.3.2) इति इत्संज्ञा । द्वयोः तस्य लोपः (1.3.9) इति लोपः] → या + वत् [आ सर्वनाम्नः (6.3.91) इत्यनेन वतुँप् प्रत्यये परे सर्वनामसंज्ञकशब्दस्य आकारादेशः । अलोऽन्त्यस्य (1.1.52) इति अन्त्यादेशः] → यावत् एवमेव तावत्, एतावत् एतौ शब्दौ सिद्ध्यतः । विशेषः - 1. ‘यावत्’, ‘तावत्’ , ‘एतावत्’ एतेषां रूपाणि त्रिषु लिङ्गेषु भवन्ति - अ) पुँल्लिगे - अस्य रूपाणि ‘भवत्’ शब्दवत् भवन्ति । यथा - ‘यावान् , यावन्तौ, यावन्तः, यावन्तम्, यावन्तौ, यावतः’ एतादृशम् भवन्ति । प्रथमैकवचनस्य प्रक्रिया इयम् - यावत् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः] → यावात् + सुँ [अत्वसन्तस्य चाधातोः (6.4.14) इति उपधादीर्घः] → यावान् त् + सुँ [उगिदचां सर्वनामस्थाने अधातोः (7.1.70) इति नुमागमः] → यावान् त् [हल्ङ्याभ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) इति सुँ-प्रत्ययस्य लोपः] → यावान् [संयोगान्तस्य लोपः (8.2.23) इति तकारलोपः]
आ) स्त्रीलिङ्गे - ‘यावत्’ शब्दः स्त्रीत्वे विवक्षिते उगितश्च (4.1.6) इत्यनेन ङीप्-प्रत्ययः भवति, येन ‘यावती’ इति प्रातिपदिक सिद्ध्यति । अस्य रूपाणि ‘नदी’ शब्दवत् भवन्ति । यथा - यावती यावत्यौ यावत्यः, यावतीम्, यावत्यौ, यावती ।
(इ) नपुंसकलिङ्गे - ‘जगत्’ शब्दवत् अस्य रूपाणि भवन्ति । यथा - यावत्, यावती, यावन्ति । अत्र जस्-शस्-प्रत्यययोः परयोः यद्यपि उगिदचां सर्वनामस्थाने अधातोः (7.1.70) इत्यनेन नुमागमः भवितुमर्हति, तथापि तद् बाधित्वा विप्रतिषेधेन नपुंसकस्य झलचः (7.1.72) इत्यनेन पुनः नुमागमः एव विधीयते । 2. चादयोऽसत्वे (1.4.57) इत्यत्र निर्दिष्टे चादिगणे ‘यावत्’ तथा ‘तावत्’ एतौ शब्दौ पाठितौ स्तः । एतौ द्वौ अव्ययसंज्ञकौ शब्दौ वतुँप्-प्रत्ययान्तौ / तद्धितान्तौ न, एतयोः च वर्तमानसूत्रेण निर्देशः न क्रियते । The words यावत् and तावत् specified in the चादिगण are completely different than the words presented in this sutra. यथा - ‘अहम् शालाम् यावत् गच्छामि’ अस्मिन् वाक्ये अव्ययसंज्ञकस्य ‘यावत्’ शब्दस्य प्रयोगः क्रियते, न हि वतुँप्-प्रत्ययान्तस्य यावत्-शब्दस्य । वाक्येषु प्रयोगः - 1) त्वम् यावान् उन्नतः असि, तावान् अहमपि उन्नतः अस्मि । I am as tall as you are. 2) अस्य महिमा एतावान् । His greatness is this much. 3) यावती विद्या भवता ज्ञेया, तावती मया पूर्वमेव पाठिता । Whatever is appropriate for you to learn, I have already taught you that much. 4) सः सर्पः त्रिंशत् पादम् यावत् लम्बमानः अस्ति । That snake is thirty feet long. विशेषः - वस्तुतः अस्मिन् सूत्रे प्रमाणे द्वयसज्दघ्नञ्मात्रचः (5.2.37) इत्यस्मात् ‘प्रमाण’शब्दस्य अनुवृत्तिः भवितुमर्हति । तथाप्यत्र सा अनुवृत्तिः न स्वीक्रियते, अपितु ‘परिमाण’ इत्यस्य विशिष्टरूपेण निर्देशः कृतः अस्ति । अतः ‘कः भेदः प्रमाण-परिमाणयोः?’ इति प्रश्नः अत्र उद्भवति । सामान्यतः तु द्वयोः शब्दयोः अर्थः समानः एव । परन्तु सूक्ष्मरूपेण चिन्तयामश्चेत् अस्य उत्तरार्थम् भाष्यकारः अस्मिन् विषये एकम् श्लोकवार्त्तिकम् पाठयति - ‘ऊर्ध्वमानं किल उन्मानम्, परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात्, सङ्ख्या भिन्ना तु सर्वतः’ । अस्य अर्थः अयम् - ऊर्ध्वदिशि गृहीत्वा मापनम् येन क्रियते तत् ‘उन्मान’ नाम्ना ज्ञायते । (उन्मान is the unit of measurement of weight. The reference here is that the weighing balance is held vertically for measuring the weight.) । आयामस्य मापनं येन भवति तत् प्रमाणम् । (प्रमाण is used for measuring distance / height / depth etc) । ‘परिमाण’ अयम् शब्द तु सर्वेषाम् मापनानाम् विषये प्रयुज्यते, अतः तेन उन्मान-प्रमाणयोः अपि ग्रहणं भवति । The word परिमाण is used as a general term of measurement, which includes उन्मान as well as प्रमाण । अत्र किञ्चन वार्त्तिकम् ज्ञातव्यम् - <! वतुँप्-प्रकरणे युष्मद्-अस्मद्भ्याम् छन्दसि सादृश्ये उपसङ्ख्यानम् !> । इत्युक्ते, ‘युष्मद्’ तथा ‘अस्मद्’ शब्दाभ्याम् ‘सादृश्यम्’ अस्मिन् अर्थे वेदेषु वतुँप्-प्रत्ययः कृतः दृश्यते । यथा - अ) ऋग्वेदे 7.32.23 - ‘न त्वावाँ॑ अ॒न्यो दि॒व्यो न पार्थि॑वो॒ न जा॒तो न ज॑निष्यते ‘ । अत्र ‘त्वावान्’ अयम् शब्दः ‘युष्मद् + वतुँप्’ इत्यस्य प्रथमैकवचनमस्ति । अत्र वतुँप्-प्रत्ययः ‘सदृशः’ अस्मिन् अर्थे प्रयुक्तः दृश्यते - ‘त्वावान्’ इत्युक्ते ‘त्वत्-सदृशः’ (similar to you) । प्रक्रिया इयम् - युष्मद् + वतुँप् → युष्मद् + वत् [इत्संज्ञालोपः] → त्वद् + वत् [प्रत्ययोत्तरपदयोश्च (7.2.98) इति ‘युष्म’ इत्यस्य ‘त्व’ इति आदेशः ] → त्वा + वत् [आ सर्वनाम्नः (6.3.91) इति आकारादेशः] → त्वावत् अस्य पुंलिङ्गे प्रथमैकवचनस्य रूपम् ‘त्वावान्’ इति । प्रक्रिया इयम् - त्वावत् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः] → त्वावात् + सुँ [अत्वसन्तस्य चाधातोः (6.4.14) इति उपधादीर्घः] → त्वावा न् त् + स् [उगिदचां सर्वनामस्थाने अधातोः (7.1.70) इति नुमागमः] → त्वावान् त् [हल्ङ्याभ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) इति सुँ-प्रत्ययस्य लोपः] → त्वावान् [संयोगान्तस्य लोपः (8.2.23) इति तकारलोपः] आ) ऋग्वेदे 1.142.2 - ‘य॒ज्ञं विप्र॑स्य॒ माव॑तः शशमा॒नस्य॑ दा॒शुषः॑’ । अत्र ‘मावतः’ अयं शब्दः ‘अस्मद् + वतुँप्’ इत्यस्य षष्ठ्येकवचनमस्ति । ‘मावत्’ इति अत्र प्रातिपदिकम् । ‘मावतः’ इत्युक्ते मत्सदृशस्य । प्रक्रिया इयम् - अस्मद् + वतुँप् → अस्मद् + वत् [इत्संज्ञालोपः] → म + वत् [प्रत्ययोत्तरपदयोश्च (7.2.98) इति ‘अस्म’ इत्यस्य ‘म’ इति आदेशः ] → मा+ वत् [आ सर्वनाम्नः (6.3.91) इति आकारादेशः] → मावत् → मावत् + ङस् [षष्ठ्येकवचनस्य विवक्षायाम् ङस्-प्रत्ययः] → मावत् + अस् [इत्संज्ञालोपः] → मावतः [ससजुषो रुँः (8.2.66) इति रुँत्वम्, खरवसानयोर्विसर्जनीयः (8.3.15) इति विसर्गः] स्मर्तव्यम् - 1. ‘वतुँप्-प्रत्ययान्तशब्दाः बहुगणवतुडति सङ्ख्या (1.1.23) इत्यनेन ‘सङ्ख्या’ संज्ञां प्राप्नुवन्ति । अतः ‘यावत्, तावत्, एतावत्’ एतेषामपि ‘सङ्ख्या’संज्ञा भवति । 2. वर्तमानसूत्रेण उक्तः ‘वतुँप्’ प्रत्ययः , तथा च तेन तुल्यं क्रिया चेद्वतिः (5.1.115) इत्येतेन उक्तः ‘वति’-प्रत्ययः - द्वयोः अपि दृश्यरूपम् ‘वत्’ इति समानमेव विद्यते । परन्तु द्वावपि प्रत्ययौ, तयोः अर्थौ, तयोः उदाहरणानि च सम्पूर्णरूपेण भिन्नानि सन्तीति स्मर्तव्यम् ।
Vasu English Summary¶
The affix वतुप् comes in the sense of ‘that where of this is the measure of volume’ after the words 1.यद् 2. तद् and 3. एतद् being in the Nominative 1st-Case of construction.
Vasu English Translation¶
The affix वतुप् comes in the sense of ‘that where of this is the measure of volume’ after the words 1.यद् 2. तद् and 3. एतद् being in the Nominative 1st-Case of construction. Karika
डावतावर्थवैशेष्यान्निर्देशः पृथुगुच्यते । मात्राद्यप्रतिघाताय भावः सिद्धश्च डावतोः ॥
The phrase तदस्य is understood here. As यत् परिमाणमस्य = यावान्. This form is thus evolved; यत् + वतुप् = यावत् (the ti अत् being replaced by आ by (6.3.91) = यावन्त (the नुम् being added by (7.1.70)) = यावान्त (the अ being lengthened by (6.4.41)); the vibhakti सु being elided by (6.1.68), and त् being elided by (8.2.23) we get finally यावान्, तावान्, एतावान् ॥ The परिमाण is used in this sutra, in order to distinguish it from the word प्रमाण used in the last aphorism (See (5.1.19)). Therefore यत्, तद् & एतद् take the affixes ‘matra’ &c also in the sense of प्रमाण, which would not have been the case, had परिमाण not been used in the sutra, for then the special affix वतुप् would have debarred matrach &c in the case of यत् &c. The word डावतु in the karika is the name given to this affix वतुप् by the ancient grammarians; so that according to them there was no necessity of (6.3.91) to replace टि of यत् &c, by आ; thus यत् + डावतु = यावत् ॥
Moreover the affix वतुप् being added in the sense of परिमाण, (capacity ) only after यत् &c, it follows that the words so formed, may take the further affix मात्रच् &c in the additional sense of प्रमाण (length); which would not have been the case had the word परिमाण not been used in the sutra. Thus तत् परिमाणमस्य = तावद् as धान्यं राशीकृतं । From this तावत् we have तावत् प्रमाणमस्य कुड्यादेः = तावन्मात्रम् meaning यावद् राशीकृतस्य धान्यस्य दैर्घ्ये, तादृग् अस्यापि ॥
Vart:- The affix वतुप् comes in the sense of ‘like this’, after the words युष्मद् and अस्मद् in the Chhandas. As त्वावतः पुरुवसो यज्ञं विप्रस्य मात्रतः ॥
Bhashya¶
यत्तदेतेभ्यः परिमाणे वतुप् (2057) (वतुप्प्रत्ययाधिकरणम्) (परिमाणग्रहणाक्षेपभाष्यम्) किमर्थं परिमाण इत्युच्यते, न प्रमाण इति वर्तते? (एकदेशिनः प्रयोजनभाष्यम्) एवं तर्हि सिद्धे सति यत्परिमाणग्रहणं करोति तज्ज्ञापयत्याचार्यः - अन्यत् प्रमाणम्, अन्यत्परिमाणमिति॥ (ज्ञापकासंभवप्रदर्शकं श्लोकभाष्यम्) डावतावर्थवैशेष्यान्निर्देशः पृथगुच्यते। नैतज् ज्ञापकसाध्यमन्यत्प्रमाणमन्यत्परिमाणमिति। उक्तोऽत्र विशेषः॥ मात्राद्यप्रतिघाताय। एवं च कृत्वा मात्रादीनां प्रतिघातो न भवति॥ भावः सिद्धश्च डावतोः। डावत्वन्ताच्च मात्रजादीनां भावः सिद्धो भवति॥ (5718 सादृश्ये वतुब्विधिवार्तिकम्॥ 1 ॥) - वतुप्प्रकरणे युष्मदस्मद्भ्यां छन्दसि सादृश्य उपसंख्यानम् - (भाष्यम्) वतुप्प्रकरणे युष्मदस्मद्भ्यां छन्दसि सादृश्य उपसंख्यानं कर्तव्यम्। न त्वावाँ अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते। त्वावतः पुरुवसो। यज्ञं विप्रस्य मावतः। त्वत्सदृशस्य मत्सदृशस्येति॥ डावतावर्थवैशेष्या- न्निर्देशः पृथगुच्यते। मात्राद्यप्रतिघाताय भावः सिद्धश्च डावतोः॥ -
Kashika¶
तदस्येत्येव। यत्तदेतेभ्यः प्रथमासमर्थेभ्यः परिमाणोपाधिकेभ्योऽस्येति षष्ठ्यर्थे वतुप् प्रत्ययो भवति। यत् परिमाणमस्य यावान्। तावान्। एतावान्। प्रमाणग्रहणेऽनुवर्तमाने परिमाणग्रहणं प्रमाणपरिमाणयोर्भेदात्।
डावतावर्थवैशेष्यान् निर्देशः पृथगुच्यते।
मात्राद्यप्रतिघाताय भावः सिद्धश्च डावतोः॥
॥ वतुप्प्रकरणे युष्मदस्मद्भ्यां छन्दसि सादृश्य उपसंख्यानम्॥ न त्वावँा॑ अ॒न्यो दि॒व्यो न पार्थि॑वो॒ न जा॒तो न ज॑निष्यते (ऋ० ७.३२.२३)। त्वाव॑तः पुरूवसो (ऋ० ८.४६.१)। य॒ज्ञं विप्॑रस्य॒ माव॑तः (ऋ० १.१४२.२)। त्वत्सदृशस्य मत्सदृशस्येत्यर्थः॥
Siddhanta Kaumudi¶
यत्परिमाणमस्य यावान् । तावान् । एतावान् ॥
Laghu Siddhanta Kaumudi¶
यत्परिमाणमस्य यावान् । तावान् । एतावान् ॥
Balamanorama¶
यद्तदेतेभ्यः परिमाणे वतुप् - यत्तदेतेभ्यः । तदस्येत्यनुवर्तते । अस्य तत्परिमाणमित्यर्थे परिमाणवाचिभ्यः प्रथमान्तेभ्यः किम्, यद्, तद्, एतद्, एभ्यो वतुप् स्यादित्यर्थः । यावानिति । यच्छब्दाद्वतुप् । उपावितौ । ‘आ सर्वनाम्नः’ इत्यात्त्वम्, सुः,उगिदचामि॑ति नुम्,अत्वसन्तस्ये॑ति दीर्घः, हल्ङ्यादिसंयोगान्तलोपौ । एवं तावान्, एतावान् ।
Tattvabodhini¶
यद्तदेतेभ्यः परिमाणे वतुप् - यत्तदेतेभ्यः । यावानित्यादि ।आ सर्वनाम्नः॑इत्यात्वेउगिदचा॑मिति नुम् ।अत्वसन्तस्य चे॑ति दीर्घः । हल्डआदिलोपसंयोगान्तलोपौ ।प्रमाणे॑इत्यनुवर्तमाने परिमाणग्रहणं प्रमाणपरिमाणयोर्भेदात्कृतम् । तथा च वार्तिकम् -॒डावतावर्थवैशेष्यान्निर्देशः पृथगुच्यते । मात्राद्यप्रतिघाताय भावः सिद्धश्चडावतोः । इति । अस्यार्थः -इह शास्त्रे वतुपं विधाय तस्मिन् परे आत्वं विहितम् । पूर्वाचार्यास्तु डावतुं विदधिरे, तद्वीत्या निर्देशोऽयं डावताविति । विशेष्यते इति विशेषः, तस्य भावो वैशेष्यं, तस्मात्, अर्थभेदादित्यर्थः । अर्थभेदस्तु -॒परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्या॑दिति प्रागेवोक्त इति भावः । नन्वनयोरर्थभेदे सति यावानध्वा यावती रज्जुरित्यादि न सिध्येत्, अत्र ह्रायाममात्रं गम्यते । यद्युपमानाद्भविष्यतीति ब्राऊषे, तर्हि प्रमाणग्रहणमेवानुवर्त्त्यतां, यावानध्वेत्यादिप्रयोगाश्च मुख्याः सन्तु । ये तु परिमाणे प्रयोगाःयावान् धान्यराशि॑रित्यादयः, त एवोपमानाद्भवन्तु । तत्राह -॒मात्रादिति॑ ।यत्तदेतेभ्यः॑इति विशेषविहितो हि वतुप् सामान्यविहितान् मात्रजादीन् बाधेत । तेन तन्मात्रमित्यादि न स्यात् । परिमाणग्रहणे सति तु भिन्नोपाधिकत्वाद्वतुपः प्रमाणे विहितमात्रजादिभिः सह बाध्यबाधकभावो नेति भावः । नन्वेवमपि बाधः स्यादेव,प्रमाणे द्वयस॑जित्यत्र प्रस्थमात्रमित्यादिसिद्धये प्रमाणग्रहणस्य परिच्छेदकमात्रपरतया व्याख्यातत्वेन वतुपो यत्तदेतेभ्यो विहितत्वेन विशेषविहितत्वातनपायात् । तस्मात्यत्तदेतेभ्यो वतुप् चे॑त्येव सूत्र्यतां, मास्तु परिमाणग्रहणम्, अस्तु च प्रमाणे इत्यर्थाधिकारः, तेनयावती रज्जुः॑यावान् धान्यराशि॑रित्यादिप्रयोगाः सर्वेऽप्युपचारं विनैव निर्वहन्तीत्यपरमनुकूलमत आह -॒भावः सिद्धश्चेति॑ । डावतोरिति पञ्चम्यन्तम् । अर्थभेदे सति वत्वन्तान्मात्रजादीनामुत्पत्तिः सिध्यति । तत्परिमाणमस्य तावद्धान्यं राशीकृतम् । तावत्प्रमाणमस्य कुडआदेःतावन्मात्रम् । यादृग्राशीकृतस्य धान्यादेर्दैध्र्यं तादृशं कुडआदेरपीत्यर्थः । एकविषयत्वे तु वतुपैव विशिष्टस्य प्रमेयस्योक्तत्वाद्वतुबन्तान्मात्रजादयो न स्युः । यस्य हि तावत्प्रमाणं तस्यतदपि प्रमाणम् । जानुप्रमाणकं जलादि यस्य प्रमाणं तदपि जानुप्रमाणकमिति वक्तुं शक्यत्वात् । एवं च तावच्छब्द एव प्रयुज्येत न तुतावन्मात्र॑मित्यादि । अन्यथा तत्प्रमाणमस्य तन्मात्रम् । तन्मात्रं प्रमाणमस्य तन्मात्रमात्रमित्येवं मात्रजादिभ्यः प्रत्ययमालाप्रसङ्गात् ।
Nyaas¶
यावान् इति। आ सर्वनाम्नः (6.3.91) इत्यकारः। उगिदचाम्` (7.1.70) इति नुम्, अत्वसन्तस्य चाधातोः (6.4.14) इति दीर्घः, हल्ङ्यादिसंयोगान्तलोपौ। प्रमाणपरिमाणशब्दौ पर्यायाविति मत्यमानो पश्चोदयेत् - अत्र कस्मात्? परिमाणग्रहणं क्रियते, यावता प्रमाणग्रहणमनुवर्तत एवेति? तं प्रत्याह - प्रमाणे इति वर्तमाने इत्यादि। स पुनरनयोः प्रमाणपरिमाणयोर्भेदः परिमाणं तु सर्वतः, आयामस्तु प्रमाणं स्यात् इति प्रागेव व्याख्यातः।डावतावर्थवैशेष्यात् इति। डावतौ इति पूर्वाचार्यसंज्ञाप्रतिपादितापेक्षोऽयं निर्देशः, ते हि यत्तदेतेब्यो डावतुमेव प्रत्ययं कृतवन्तः। विशिष्यत इति विशेषः, विशेषस्य भावो वैशेष्यम्। अर्थस्य वैशेष्यमर्थस्य विशिष्टत्वमित्यर्थः। प्रमाणशपब्दस्यान्योऽर्थः, परिमाणशब्दस्य चान्योऽर्थ इति भिन्नार्थत्वमनयोः; तस्मादर्थवैशेष्याड्डावतौ विधातव्ये परिमाणशब्दस्य निर्देशः पृथगुच्यते। उच्यत इति क्रियत इत्यर्थः। किमर्थः पृथिग्निर्देशः क्रियते? इत्याह-मात्राद्यप्रतिघाताय इति। पृथिग्निर्देशेनार्थबेदे सिद्धे सति मात्रजादीनां बाधा मा बूदित्येवमर्थः पृथग्निर्देशः क्रियत इत्याह। अथैकत्वे तु प्रकृतिसामान्ये मात्रजादयो विधीयमाना उत्सर्गा भवन्ति, प्रकृतिविशेषात्? तु वतुब्? विधीयमानोऽपवादौ भवति, अपवादेनोत्सर्गो बाध्यते इति यत्तदेतेभ्यो मात्र जादयो न स्युः, ततश्च तत्प्रमाणमस्य तन्मात्रमित्यादि न सिध्येत्, अर्थभेद्युत्सर्गापवादभावो नास्तीति न भवत्येष दोषप्रसङ्गः। किञ्च - भावः सिद्धश्च डावतोः इति। डावतोः इति पञ्चमी। अर्थभेदे सति वतुप्प्रत्ययान्तान्मात्रजादीनामुत्पत्तिश्च सिद्धा भवति। परिमाणे वतुब्? भवति - यत्? परिमाणमस्य यावानिति। तदन्तात्? परिमाणे मात्रजादयो भवन्ति - यावत्? परिमाणमस्य यावन्मात्रम्। अथैकत्वे तु उक्तार्थानामप्रयोगः (व्या।प।60) ति मतुपाऽबिहितत्वादस्यार्थस्य तदन्तान्मात्रजादयो न स्यु-। त्वावतः, मावतः इति। मपर्यन्तयोर्युष्मदस्मदोः प्रत्ययोत्तरपदयोश्च (7.2.98) इति त्वामादेशौ पूर्ववदात्त्वम्॥
Prakriyasarvasvam¶
एभ्यस्तदस्य परिमाणमित्यर्थे वतुप् स्यात् । दृग्दृशवतुष्वित्यात्त्वम् । यावान् । तावान् । एतावान् ।
Vartika¶
युष्मदस्मदोः सादृश्ये वतुब्वाच्यः ।