52021: व्रातेन जीवति¶
Padacheda: व्रातेन | S | 3 | 1 |
जीवति | T | | |
Sutrartha¶
तृतीयासमर्थात् ‘व्रात’ शब्दात् ‘जीवति’ अस्मिन् अर्थे खञ्-प्रत्ययः भवति ।
अस्मिन् सूत्रे प्रयुक्तयोः शब्दयोः अर्थौ एतादृशौ - 1. जीवति = जीविकाम् प्राप्नुवन्ति (earn a living) इत्याशयः । 2. व्रात = शरीरपरिश्रमस्य कर्म ‘व्रात’ नाम्ना ज्ञायते । अतः ‘व्रातेन जीवति’ इत्युक्ते सः मनुष्यः यः स्वस्य जीवनार्थम् शरीरपरिश्रमस्य कार्यम् करोति, न हि बुद्धिवैभवस्य । a person who earns his living by doing activities that require intense use of their body (rather than their brain) - इत्याशयः । For example - porters, construction workers, laborers - etc. एतेषाम् निर्देशार्थम् ‘व्रात’ शब्दात् खञ्-प्रत्ययः भवति । व्रातेन जीवति व्रातीनः भृत्यः । विशेषः - 1. ‘व्रात’ शब्दस्य अर्थः काशिकायाम् ‘नानाजातीयाः अनियतवृत्तयः उत्सेधजीविनः सङ्घाः व्राताः’ इति दीयते । A group of people who do not have any fixed employment and who seek temporary employments that involve heavy laborious work with their body is known as व्रात । अस्मात् शब्दात् तस्येदम् (4.3.120) इत्यनेन अण्-प्रत्ययं कृत्वा ‘व्रातानाम् कर्म = व्रात + अण् → व्रात’ इत्यनेन कर्मणः निर्देशार्थमपि ‘व्रात’ शब्दः प्रयुज्यते । अस्यैव प्रयोगः अस्मिन् सूत्रे कृतः अस्ति । 2. यदा मनुष्यः स्वस्य शरीरपरिश्रमस्य साहाय्येन स्वस्य जीविकां प्राप्नोति, तदा एव तस्य निर्देशः ‘व्रातीन’ शब्देन क्रियते । यदि सः कस्यचन अन्यस्य शरीरपरिश्रमस्य कार्येण जीवति, तर्हि तस्य निर्देशः ‘व्रातीन’ इत्यनेन न क्रियते । यथा - यदि देवदत्तः विष्णुदत्तस्य शरीरपरिश्रमेण जीवति, तर्हि देवदत्तस्य निर्देशः ‘व्रातीनः’ इति न भवति ।
Vasu English Summary¶
The affix खञ् comes in the sense of ‘who leads this life’ or ‘who lives by this’ after the word व्रात being in the Instrumental -3rd case in construction.
Vasu English Translation¶
The affix खञ् comes in the sense of ‘who leads this life’ or ‘who lives by this’ after the word व्रात being in the Instrumental -3rd case in construction. The word व्रात means a multitude or mass composed of various castes, who have no fixed employment, and live by violence, or by bodily labor. व्रातेन जीवति = व्रातीनः ‘a person who lives by the labour of his body, not of his brain’.
Bhashya¶
व्रातेन जीवति (2039) (व्रातपदार्थबोधकभाष्यम्) व्रातेन जीवतीत्युच्यते,किं व्रातं नाम? नानाजातीया अनियतवृत्तय उत्सेधजीविनः संघा व्राताः,तेषां कर्म-व्रातम्। व्रातकर्मणा जीवतीति - व्रातीनः।
Kashika¶
निर्देशादेव तृतीया समर्थविभक्तिः। व्रातशब्दात् तृतीयासमर्थाद् जीवतीत्यस्मिन्नर्थे खञ् प्रत्ययो भवति। नानाजातीया अनियतवृत्तय उत्सेधजीविनः संघा व्राताः। उत्सेधः शरीरम्, तदायास्य ये जीवन्ति, त उत्सेधजीविनः, तेषां कर्म व्रातम्। तेन व्रातेन जीवति व्रातीनः। तेषामेव व्रातानामन्यतम उच्यते। यस्त्वन्यस्तदीयेन जीवति, तत्र नेष्यते॥
Siddhanta Kaumudi¶
व्रातेन शरीरायासेन जीवति नतु बुद्धिवैभवेन न व्रातीनः ॥
Balamanorama¶
व्रातेन जीवति - व्रातेन जीवति । व्रातशब्दात्तृतीयान्ताज्जीवतीत्यर्थे खञ्स्यादित्यर्थः । नानाजातीयानामलब्धजीवनद्रव्याणां भरवहनादिकष्टकर्मजीविनां सङ्घो — ब्राआतः । तस्य यज्जीवनार्थं कष्टं कर्म तदिह व्रातमिति भाष्यम् । तादृशसङ्घावाचिनो व्रातशब्दात्तस्येद॑मित्यणि व्रातशब्दोऽत्र तदीयकर्मणि विवक्षित इति तदाशयः । तदाह — शरीरायासेनेति ।
Tattvabodhini¶
व्रातेन जीवति - शरीरायासेनेति । भारवहनादिनेत्यर्थः । यद्यपि व्रातशब्दो लोके सङ्घातवचनः, तथाप्यत्रत्यभाष्यादिग्रन्थपर्यालोचनया अयमेवार्थ इहोचित इति भावः ।
Padamanjari¶
व्रातशबह्दो लोके सह्घमात्रवचनः, इह तु न तथेति दर्शयितुं भाष्यग्रन्थं पठति। नानजीतीया इति। अनेन चैकजातीयक्षत्रियादिसह्घनिराकरणम्। अनियतवृतय इति। नियतवृत्यायुधजीविसङ्गनिषेधः। उत्सेधजीविन इत्येतद्व्याचष्टे। उत्सेधः शरीरमिति। उच्छ्रायत्वात्। तदायास्येति। आयासेर्ण्यन्ताल्ल्यप्, तेन सकर्मकत्वम्। अण्यन्तपाठे त्वन्तर्भावितण्यर्थत्वात्सकर्मकत्वं द्रष्टयम्। शरीरायासेन बारवहनादिना जीवन्ति, न तु बुद्धिभावेनेत्यर्थः। व्राता इति। सङ्घवचनोऽयमिह सङ्घिषु प्रयुक्तः। एवंभूतानां यः सङ्घस्तद्व्रातमित्यर्थः। एवमपि तथाभूतेन सङ्घेन ये जीवन्ति तत्र प्राप्नोति,न चेष्यते ? तत्राह - तेषां कर्म व्रातमिति। इदमर्थे छे प्राप्तेऽस्मादेव निपातनादण्। यस्त्वन्य इत्यादि। अनभिधानमत्र हेतुः ॥
Nyaas¶
नानाजातीयाः इति। अनेकजातीयाः। अनियतवृत्तयः इति। अनियतक्रियाः। तेषां कर्म व्रातम् इति। व्रातसाहचर्यात्? तदपि व्रातमित्युच्यते। अथ वा - व्रातानामिदमित्यर्थविवक्षायां छे प्राप्ते, अस्मादेव निपातनादण्? भवति। तत्पुनः कर्म भारवहनादि। तत्र नेष्यते इति। कथं पुनरिष्यमाणोऽपि न भवति प्रकृतायां महाविभाषायां व्यवस्थितविभाषात्वात्॥
Prakriyasarvasvam¶
<karika>अत्र खञ् । भाराद्यैर्जीवतां सङ्घो व्रातस्तत्कर्म खल्विह । व्रातं स्यात् तेन जीवन्तो व्रातीना वाहकादयः ॥ ३१४ ॥</karika>
Sutra Prayogas¶
व्रातीन (भट्टिकाव्यम्): व्रातेन जीवति इति खन्।