52031: नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः

Padacheda: नते | S | 7 | 1 |

नासिकायाः | S | 6 | 1 |

संज्ञायाम् | S | 7 | 1 |

टीटच्-नाटच्-भ्रटचः | S | 1 | 3 |

Sutrartha

‘नता नासिका’ अस्मिन् सन्दर्भे संज्ञायाः विषये ‘अव’ उपसर्गात् ‘टीटच्’, ‘नाटच्’, तथा ‘भ्रटच्’ एते प्रत्ययाः भवन्ति ।

नासिकायाः विशिष्टां स्थितिम् निर्देशयितुमस्मिन् सूत्रे प्रत्ययविधानम् क्रियते । यदि नासिका नता / अधोगता अस्ति (nose pointing / bent downwards) तर्हि तस्याः नतस्य (pointedness) निर्देशार्थम् ‘अव’ उपसर्गात् टीटच्’, ‘नाटच्’, तथा ‘भ्रटच्’ एते प्रत्ययाः भवन्ति । यथा - (अ) अव + टीटच् = अवटीट । (आ) अव + नाटच् → अवनाट । (इ) अव + भ्रटच् → अवभ्रट । नासिकायाः नतम् (pointedness of the nose) अवटीटम्, अवनाटम्, अवभ्रटम् । एते त्रयः शब्दाः अस्य नतस्य संज्ञारूपेण प्रयुज्यन्ते । स्मर्तव्यम् - 1. या नासिका नता अस्ति, सापि ‘अवटीटा’ / ‘अवनाटा’ / ‘अवभ्रटा’ अनेन शब्देन सम्बुध्यते ।तथा च, यस्य पुरुषस्य नासिका नता अस्ति, सः पुरुषः अपि ‘अवटीटः’ / ‘अवनाटः’ / ‘अवभ्रटः’ अनेन शब्देन सम्बुध्यते । एतेषाम् सर्वेषाम् व्युत्पत्तिः अनेनैव सूत्रेण लक्षणार्थम् स्वीकृत्य दीयते । 2. ‘टीटच्’ अस्मिन् प्रत्यये आदिस्थस्य टकारस्य चुटू (1.3.7) इत्यनेन न भवति, यतः अत्र टकारस्य इत्संज्ञायाः किमपि प्रयोजनम् नास्ति । एवं च, चुटू (1.3.7) इत्यस्य अनित्यत्वं स्वीकृत्य अप्यत्र इत्संज्ञायाः निषेधः उच्यते । 3. अस्मिन् सूत्रे प्रयुक्तः ‘टीटञ्नाटज्भ्रटजः’ अयम् प्रयोगः चिन्तनीयः अस्ति । ‘टीटच् + नाटच्’ इत्यत्र वस्तुतः स्तोः श्चुना श्चुः (8.4.40) इत्यनेन नकारस्य श्चुत्वे ञकारे कृते ‘टीटच्-ञाटच्’ इति प्रयोगः भवेत् । परन्तु अत्र ‘टीटञ्नाटच्’ इत्यत्र श्चुत्वम् नैव कृतम् दृश्यते ; अपितु चकारस्य ञकारादेशः कृतः दृश्यते ; यः केनाऽपि सूत्रेण न विधीयते (यरोऽनुनासिकेऽनुनासिको वा (8.4.45) इत्यस्य अत्र प्रसक्तिः नास्ति, यतः अत्र ‘टीटच्’ इत्यस्य पदसंज्ञा न भवति । यद्यप्यत्र अस्य प्रसक्तिः गृह्णीयात्, तथापि श्चुत्वस्य कृते अस्य असिद्धत्त्वमेव स्यात्) । अस्य स्पष्टीकरणम् व्याख्यानेषु न दत्तमस्ति । अतः ‘छन्दोवत् सूत्राणि भवन्ति’ इत्येव अस्य समाधानम् ।

Vasu English Summary

The affixes टीटच् , नाटच् and भ्रटच् come in the sense of ‘a hooked nose’ after the word अव when the word so formed is a Name.

Vasu English Translation

The affixes टीटच् , नाटच् and भ्रटच् come in the sense of ‘a hooked nose’ after the word अव when the word so formed is a Name. Thus नासिकाया नतम् = अवटीटम्, or अवनाटम्, अवभ्रटम् ॥ The word signifies the nose, as well as the person also, as अवटीटा नासिका, अवटीटः पुरुषः ॥

Kashika

अवादित्येव। नमनं नतम्। नासिकायाः संबन्धिनि नतेऽभिधेये टीटच् नाटच् भ्रटच् इत्येते प्रत्यया भवन्ति संज्ञायां विषये। नासिकाया नतम् अवटीटम्। अवनाटम्। अवभ्रटम्। तद्योगाद् नासिकापि, पुरुषोऽपि तथोच्यते, अवटीटः। अवनाटः। अवभ्रट इति॥

Siddhanta Kaumudi

अवादित्येव । नतं नमनम् । नासिकाया नतं अवटीटम् । अवनीटम् । अवभ्रटम् । तद्योगान्नसिका अवटीटा । पुरुषोऽप्यवटीटः ॥

Balamanorama

नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्राटचः - नते नासिकायाः । अवादित्येवेति । अवशब्दान्नासिकाया अवनतेऽर्थे टीटच्, नाटच्, भ्रटच् एते प्रत्ययाः स्युरित्यर्थः । ‘णमु प्रह्वत्वे’ इति धातोर्भावे क्तप्रत्यये नतशब्द इत्यभिप्रेत्याह-नतं नमनमिति । प्रह्वत्वमित्यर्थः । ननु यदि नासिकाया नमनमवटीटं तर्हि अवटीटा नासिकेति कथमित्यत आह — तद्योगादिति । नमनयोगात्तत्र लाक्षणिकमिति भावः । पुरुषोऽप्यवटीट इति । तादृशनासिकायोगादिति भावः ।

Tattvabodhini

नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्राटचः - नतमिति । नपुंसके भाषे क्तः । नमनमिति । नीचैस्त्वमित्यर्थः । अकटीटमिति । नासिकासाधनके नमने वर्तमानादवशब्दात्स्वार्थे प्रत्ययः । कथं तर्हि नासिकायां पुरुषे चाऽवटीटशब्दस्य प्रयोग इत्यत आह -तद्योगादिति । नेर्बिडच् ।नते नासिकायाः संज्ञाया॑मिति वर्तते ।निशब्दान्नासिकाया नतेऽभिधेये बिडज्बिरीसचौ स्तः । निबिडमिति । तद्यागान्निबिडा नासिका, निबिरीसा । कथं तर्हि निबिडाः केशाः॑, निबिडं वस्त्र ॑मिति । उपमानाद्भविष्यति । एतच्च काशिकायां स्पष्टम् । केचित्तु उक्तप्योगानुरोधेनेह सूत्रेनते नासिकायाः॑इति नानुवर्तत इति व्याचक्षते । प्रकृतेरिति । निशब्दस्येत्यर्थः । आदेशौ चेति । प्रत्ययौ, तत्संनियोगेन यखासङ्ख्यमिमावादेशौ च स्त इत्यर्थः ।कप्रत्ययचिकादेशौ च वक्तव्यौ । चिकिनमिति । इनच्प्रत्ययसंनियोगेन चिकादेशः । चिपिटमिति । पिटच्प्रत्ययसंनियोगेनचि॑ इत्यादेशः ।क्लिन्नस्य चिल् — पिल् — लश्चाऽस्य चक्षुषी । क्लिन्नस्येति । चिल् पिल् इत्येतावादेशौ भवतो, लश्च प्रत्ययःअस्य चक्षुषी॑इत्येतस्मिन्नर्थे ।चुल् च । चुल् चेति । चाल्लप्रत्ययः । चुल्ल इति । क्लिन्ने अस्म चक्षुषी इति पूर्वोक्त एव विग्रहः । कथं तर्हिस्युः क्लिन्नाक्षे चुल्लचिल्लपिल्ला क्लिन्नेऽक्ष्णि चाप्यमी॑इत्यमर इति चेत् । अत्राहुः — पुरुषे व्युत्पादितानां तदवयवे लक्षणा बोध्येति । अन्ये त्वाहुः — -॒अस्य चक्षुषी॑इत्यत्रअस्ये॑ति न वक्तव्यम् । क्लिन्ने चक्षुषी — चिल्ले पिल्ले । पुरुषे तु मत्वर्थेऽच्, अर्साअदिषुस्वाङ्गाद्धीना॑दिति सूत्रितत्वादिति ।

Padamanjari

नमनं नतमिति।’नपुंसके भावे क्तः’ नीचैस्त्वमित्यर्थः। नासिकायाः सम्बन्धैनीति। सम्बन्धश्च नमने कर्तृत्वेन, सूत्रे तु’नपुंसके भाव उपसंख्यानाम्’ इति कर्तरि षष्ठी। यद्वा - शेषविज्ञानात्सिद्धमिति शेषलक्षणैव। अवटीटादिषु नासिकासाधने नमने वर्तमानादुपसर्गात्स्वार्थे प्रत्ययः। कथं तर्हि नासिका पुरुषश्च तथोच्यते ? इत्याह - तद्योगादिति। टीटञष्टकारस्येत्संज्ञभावः’चुटूअ’ इत्यत्रैव व्यख्यातः ॥

Nyaas

नमनं नतम् इति। भावे निष्ठां दर्शयति। नासिकायाः सम्बन्धिनी इति। अनेनापि नासिकाया इत्यपि सम्बन्धलक्षमा षष्टी। यदि नासिकायाः सम्बन्धिनि नते वाच्य एते प्रत्ययाः, कथं तदेतेन नासिका पुरुषश्चाभिधीयते? इत्याह - तद्योगात् इति॥

Prakriyasarvasvam

नासिकाया नमने वाच्ये नाम्न्यवादेते स्युः । अवटीटम् अवनाः टम् अवभ्रटं च नासिकानमनम् । तद्योगादवटीटा नासिका, अवटीटः पुरुषः । एवमपकृष्टवस्तुनि दृष्टे मुखनमनात् तदप्यवटीटादिवाच्यम् इति नाथः ॥