52035: कर्मणि घटोऽठच्¶
Padacheda: कर्मणि | S | 7 | 1 |
घटः | S | 1 | 1 |
अठच् | S | 1 | 1 |
Sutrartha¶
सप्तमीसमर्थात् ‘कर्मन्’ शब्दात् ‘घटः (= निमग्नः / व्याप्तः)’ अस्मिन् अर्थे अठच्-प्रत्ययः भवति ।
अस्मिन् सूत्रे प्रयुक्तः ‘घट’ शब्दः ‘घट्’ अस्मात् धातोः अच्-प्रत्ययं कृत्वा सिद्ध्यति । घटते (= चेष्टते / प्रयत्नं करोति / व्याप्तः भवति / निमग्नः भवति (involved / occupied इत्याशयः)) सः घटः । अस्मिन् अर्थे ‘कर्मन्’शब्दात् सप्तमीसमर्थात् ‘अठच्’ प्रत्ययः विधीयते । यथा - कर्मणि घटः = कर्मन् + अठच् → कर्म् + अठ [नस्तद्धिते (6.4.144) इति टिलोपः] → कर्मठ कर्मणि घटः सः कर्मठः । यः सदा कार्ये निमग्नः वर्तते, सः पुरुषः ‘कर्मठः’ नाम्ना ज्ञायते । विशेषः - अत्र आचार्यः ‘अठच्’ इति प्रत्ययम् पाठयति; यतः ‘ठच्’ इति प्रत्ययः उच्यते चेत् ठकारस्य ठस्येकः (7.3.50) इत्यनेन ‘इक’ आदेशः स्यात्, यः न इष्यते ।
Vasu English Summary¶
The affix अठच् comes in the sense of ‘employing oneself zealously in it’ after the word कर्म in the Locative -7th case in construction.
Vasu English Translation¶
The affix अठच् comes in the sense of ‘employing oneself zealously in it’ after the word कर्म in the Locative -7th case in construction. The word घटः means zealous work. Thus कर्मणि घटते = कर्मठः पुरुषः ‘a clever, proficient person’.
Kashika¶
निर्देशादेव समर्थविभक्तिः। कर्मशब्दात् सप्तमीसमर्थाद् घट इत्येतस्मिन्नर्थेऽठच् प्रत्ययो भवति। घटत इति घटः। कर्मणि घटते कर्मठः पुरुषः॥
Siddhanta Kaumudi¶
घटत इति घटः । पचाद्यच् । कर्मणि घटते कर्मठः पुरुषः ॥
Balamanorama¶
कर्मणि घटोऽठच् - कर्मणि घटोऽठच् । सप्तम्यन्तात्कर्मन्शब्दाद्धट इत्यर्थे अठच्स्यादित्यर्थः । घटशब्दस्य कलशषपर्यायत्वभ्रमं वारयति — कर्मणि घटत इति । व्याप्रियत इत्यर्थः । तथाचाऽत्र घटशब्दो यौगिको घटमाने वर्तत इति भावः । कर्मठ इति । अठचि ‘नस्तद्धिते’ इति टिलोपः । अठचि ठस्य अङ्गात्परत्वाऽभावादिकादेशाऽभाव इति भावः ।
Tattvabodhini¶
कर्मणि घटोऽठच् - कर्मणि घटो । सप्तम्यन्तात्कर्मन्शब्दात्घटते॑इत्यर्थेऽठञ् स्यात् । कर्मठ इति ।ठस्येकः॑इतीह नभवति । अठचि ठस्याऽप्रत्ययत्वेनाऽङ्गसंज्ञानिमित्तत्वाऽभावात् ।
Padamanjari¶
‘कर्मणि’ इत्यनेन कर्मणीति स्वलरूपग्रहणं दर्शयति। अथ पारिभाषिकस्य कर्मणो ग्रहणं करमान्न भवति ? असम्भवात्। असम्भवतु घटतेरकर्मकत्वात्। अठच्प्रत्येयेऽकारोच्चारणं ठस्येकादेशनिवृत्यर्थम् ॥
Nyaas¶
कर्मणि इत्यनेन कर्मणीति स्वरूपग्रहणं दर्शयिति। अथ पारिबाषिकस्य कर्मणो ग्रहणं कस्मान्न भवति? असम्भवात्। असम्भवस्तु घटतेरकर्मकत्वात्। `अठच्प्रत्ययेऽकारोच्चारणं ठस्येकादेशनिवृत्त्यर्थम्॥
Sutra Prayogas¶
कर्मठः (भट्टिकाव्यम्): कर्मणि घटोठच् इति यागक्रियानिष्पादक इत्यर्थः ।