52037: प्रमाणे द्वयसज्दघ्नञ्मात्रचः¶
Padacheda: प्रमाणे | S | 7 | 1 |
द्वयसच्-दघ्नच्-मात्रचः | S | 1 | 3 |
Sutrartha¶
‘प्रमाणम्’ इत्यस्मिन् अर्थे प्रयुज्यमानात् प्रथमासमर्थात् ‘अस्य’ इत्यस्मिन् अर्थे ‘द्वयसच्’, ‘दघ्नच्’ तथा ‘मात्रच्’ प्रत्ययाः भवन्ति ।
यदि कश्चन शब्दः ‘प्रमाणम्’ (measure) इत्यस्मिन् सन्दर्भे प्रयुज्यते, तर्हि तस्मात् शब्दात् ‘अस्य’ इत्यस्मिन् अर्थे द्वयसच्, दघ्नच्, मात्रच् - एते त्रयः प्रत्ययाः भवन्ति । उदाहरणद्वयम् पश्यामश्चेत् स्पष्टं स्यात् - 1. कस्याश्चित् नद्याः जलम् ‘जानु’ यावत् अस्तीति चिन्तयामः । (deep enough for the knees to be immersed, but not deeper) । अत्र ‘नद्याम् कियत् जलमस्ति’ इति प्रश्नः क्रियते चेत् ‘जानु यावत् जलम् विद्यते’ इति उत्तरम् लभ्यते । अतः अत्र ‘जानु’ शब्दः प्रमाण (measure) अस्मिन् अर्थे प्रयुज्यते । अस्यां स्थितौ वर्तमानसूत्रेण ‘जानु’ शब्दात् द्वयसच्, दघ्नच्, मात्रच् - एते त्रयः प्रत्ययाः भवन्ति; यैः ‘जानुद्वयसम् जलम्’, ‘जानुदघ्नम् जलम्’, ‘जानुमात्रम् जलम्’ - इति प्रयोगाः सिद्ध्यन्ति । अत्र विग्रहवाक्यमस्ति ‘जानु प्रमाणमस्य’ । जानु प्रमाणमस्य जलस्य तत् जानुद्वयसम् जानुदघ्नम् जानुमात्रम् वा जलम् । ‘द्वयसच्’, ‘दघ्नच्’ तथा ‘मात्रच्’ प्रत्ययान्तशब्दाः स्त्रीत्वे विवक्षिते टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः (4.1.15) इत्यनेन ङीप्-प्रत्ययं प्राप्नुवन्ति । यथा - उरु (chest) प्रमाणमस्याः राश्याः (This heap reaches the chest) सा उरुद्वयसी उरुदघ्नी उरुमात्री वा राशिः । एतेषाम् त्रयाणाम् प्रत्ययानाम् विषये भाष्यकारः वदति - ‘प्रथमश्च द्वितीयश्च ऊर्ध्वमाने मतौ मम’ । इत्युक्ते, ‘द्वयसच्’ तथा ‘दघ्नच्’ एतयोः प्रत्यययोः निर्मिताः शब्दाः ‘ऊर्ध्वमानम्’ प्रमाणम् (Vertical measure of an object - E.g. height or depth) निर्देशयन्ति । ‘मात्रच्’ प्रत्ययान्तशब्दानां प्रयोगः तु भिन्नेषु मानेषु (depth / height / width / breadth / span etc) अपि भवितुमर्हति । विशेषः - अस्य सूत्रस्य विषये कानिचन वार्त्तिकानि ज्ञेयानि - 1. <!प्रमाणे लः वक्तव्यः!> - ये शब्दाः ‘प्रमाणम्’ इत्यनया संज्ञया प्रसिद्धाः सन्ति, तेभ्यः विहितस्य ‘मात्रच्’ प्रत्ययस्य लोपः भवति । यथा - शमः प्रमाणमस्य = शम + मात्रच् → शमः । दिष्टिः प्रमाणमस्य = दिष्टि + मात्रच् → दिष्टिः । वितस्तिः प्रमाणमस्य = वितस्ति + मात्रच् → वितस्तिः । (शम, दिष्टि, वितस्ति were some popular names of units of measurement ). विशेषः - अ) अनेन वार्त्तिकेन केवलम् मात्रच्-प्रत्ययस्यैव लुक् उच्यते, यतः एतेभ्यः शब्देभ्यः केवलम् मात्रच्-प्रत्ययः एव भवितुमर्हति, अन्यौ द्वौ प्रत्ययौ न । एतस्य ज्ञानम् व्याख्यानादेव जायते । आ) ‘केभ्यः शब्देभ्यः विहितस्य मात्रच्-प्रत्ययस्य लुक् भवति’ एतत् अस्मिन् सूत्रे विस्तारेण न उच्यते । केवलम् ‘प्रमाणवाचकेभ्यः शब्देभ्यः विहितस्य प्रत्ययस्य लोपः भवति’ इति अत्र निर्देशः कृतः अस्ति । The words that are commonly referred as ‘प्रमाण’ are being considered here । अतः व्याख्यानं दृष्ट्वैव अस्य वार्त्तिकस्य प्रयोगः कर्तव्यः । 2. <!द्विगोर्नित्यम्!> - ये शब्दाः ‘प्रमाणम्’ इत्यनया संज्ञया प्रसिद्धाः सन्ति, ते यस्य द्विगुसमासस्य उत्तरपदे सन्ति, तस्मात् द्विगुसमासात् विहितस्य मात्रच्-प्रत्ययस्य नित्यम् लुक् भवति । यथा - द्वौ शमौ परिमाणमस्य सः द्विशमः । द्वौ दिष्टी परिमाणमस्य सः द्विदिष्टिः । द्वौ वितस्ती परिमाणमस्य सः द्विवितस्तिः । विशेषः - अ) अनेन वार्त्तिकेन अपि केवलम् मात्रच्-प्रत्ययस्यैव लुक् उच्यते, द्वयसच्-प्रत्ययस्य उत दघ्नच्-प्रत्ययस्य न । आ) पूर्ववार्त्तिकेन उक्तः लुक् द्विगुसमासस्य विषये ‘तदन्तस्य’ अपि स्यात् एतत् स्पष्टीकर्तुम् इदम् वार्त्तिकम् कृतमस्ति । अस्मिन् वार्त्तिके अपि पूर्ववार्त्तिकवत् प्रसिद्ध-प्रमाणानामेव ग्रहणं भवति । इ) अस्मिन् वार्त्तिके केवलम् ‘द्विगोः लः’ इति उच्यते चेदपि वरम् स्यात् । अस्यां स्थितौ वार्त्तिककारः ‘नित्यम्’ इति वदति । अत्र नित्यग्रहणेन वार्त्तिककारः एतत् स्पष्टीकरोति, यत् द्विगुसमासस्य विषये केवलम् वर्तमानसूत्रेण प्रयुक्तस्य मात्रच्-प्रत्ययस्यैव लुक् भवतीति न, अपि तु अग्रिमवार्त्तिकेन (<!प्रमाणपरिमाणाभ्यां संख्यायाश्चापि संशये मात्रज्वक्तव्यः !> इत्यनेन) भिन्ने अर्थे उक्तस्य मात्रच्-प्रत्ययस्य अपि लुक् भवति, इति । अस्य उदाहरणमग्रिमवार्त्तिके दत्तमस्ति । 3. <!प्रमाणपरिमाणाभ्यां संख्यायाश्चापि संशये मात्रज्वक्तव्यः !> - प्रमाणवाचिभ्यः शब्देभ्यः , परिमाणवाचिभ्यः शब्देभ्य , तथा च सङ्ख्यावाचिभ्यः शब्देभ्यः ‘संशयः’ (‘अस्ति वा’ - इति आशयः) अस्मिन् अर्थे मात्रच्-प्रत्ययः भवति । यथा - ‘शमः प्रमाणमस्य स्यात् वा’ (Is this really of the same measure as a शम) इति संशये प्राप्ते तस्य निर्देशार्थम् मात्रच्-प्रत्ययः भवितुमर्हति - ‘शमः प्रमाणमस्य स्यात् वा इति शममात्रम्’ । तथैव - दिष्टिः प्रमाणमस्य स्यात् वा = दिष्टिमात्रम् । विशेषः - <!द्विगोर्नित्यम्!> इति पूर्वस्मिन् वार्त्तिके नित्यग्रहणेन एतत् स्पष्टीभवति यत् अत्र निर्दिष्टस्य ‘मात्रच्’ प्रत्ययस्य अपि द्विगुसमासस्य विषये लुक् स्यात् । यथा - द्वौ शमौ प्रमाणमस्य स्यात् वा = द्विशमम् । 4. <!स्तोमे डट् वक्तव्यः!> - ‘स्तोम’ इति कश्चन यज्ञविशेषः ।यत्र स्तोमस्य प्रमाणम् दीयते, तत्र प्रमाणवाचिशब्दात् ‘अस्य’ इत्यस्मिन् अर्थे ‘डट्’ प्रत्ययः भवति । यथा - पञ्चदश अहानि प्रमाणमस्य स्तोमस्य सः = पञ्चदशन् + डट् → पञ्चदशः स्तोमः । तथैव, द्वादश मन्त्राः अस्य स्तोमस्य सः द्वादशः स्तोमः । विशेषः - अस्य वार्त्तिकस्य उदाहरणार्थम् काशिकाकारः वदति - ‘पञ्चदशी रात्रिः’ । अस्मिन् वाक्ये ‘रात्रि’ अयम् शब्दः ‘रात्रौ जायमानः स्तोमः’ इत्यस्य निर्देशार्थम् प्रयुज्यते । ‘रात्रि’ अयम् स्त्रीलिङ्गवाची शब्दः अस्ति अतः ‘पञ्चदश’ शब्दस्यापि स्त्रीत्वं विवक्षते । अस्यां स्थितौ प्रत्ययस्य टित्वात् प्रक्रियायाम् ‘ङीप्’ प्रत्ययविधानम् भवति, अतः ‘पञ्चदशी’ इति प्रयोगः सिद्ध्यति । 5. <!शन्शतोर्डिनिर्वक्तव्यः!> - ‘शन्’ तथा ‘शत्’ ययोः अन्ते विद्यते, तौ प्रमाणवाचिनौ शब्दौ ‘अस्य’ इत्यस्मिन् अर्थे ‘डिनि’ प्रत्ययं स्वीकुरुतः । यथा - पञ्चदश प्रमाणमस्य सः पञ्चदशी अर्धमासः (पञ्चदशन् + डिनि → पञ्चदशिन् ) । त्रिंशत् प्रमाणमस्य सः त्रिंशी मासः (त्रिंशत् + डिनि → त्रिंशी) । 6. <!विंशतेश्चेति वक्तव्यम्!> - प्रमाणवाचिनः ‘विंशति’ शब्दात् ‘अस्य’ अस्मिन् अर्थे ‘डिनि’ प्रत्ययः भवति । प्रक्रिया इयम् - विंशति + डिनि → विंशत् + इन् [डित्वात् टेः (6.4.143) इति टिलोपः] → विंशतिन् यथा - विंशतिः प्रमाणम् एषाम् ते विंशिनः अङ्गिरसः । (अङ्गिरसामाहत्य 20 भेदाः सन्तीति अत्र सन्दर्भः अस्ति ।) विशेषः - <!विंशतेश्चेति वक्तव्यम्!> इति वार्त्तिकम् भाष्यकारेण उक्तमस्ति, न हि वार्त्तिककारेण । 7. <!वत्वन्तात्स्वार्थे द्वयसज्मात्रचौ बहुलम् !> - ‘वतुँप्’प्रत्ययान्तशब्देभ्यः स्वार्थे द्वयसच् तथा मात्रच् प्रत्ययौ कुत्रचित् कृताः दृश्यन्ते । यथा - यावत् + द्वयसच् → यावद्वयसम् । तावत् + मात्रम् → तावन्मात्रम् - आदयः । विशेषः - ‘बहुलम्’ इत्युक्ते ‘कुत्रचित् भवति, कुत्रचित् न भवति’ इति । The word बहुलम् is used to indicate the lack of a common rule / pattern. And hence, the decision should be taken only by looking at the प्रयोगः) ।
Vasu English Summary¶
The affixes द्वयसच् , दघ्नश्च and मात्रच् come in the sense of ‘that whereof this is the lineal measure’ after a word in Nominative 1st-Case in construction.
Vasu English Translation¶
The affixes द्वयसच् , दघ्नश्च and मात्रच् come in the sense of ‘that whereof this is the lineal measure’ after a word in Nominative 1st-Case in construction. The word तदस्य is understood here. Thus ऊरुः प्रमाणमस्य = ऊरुद्वयसम्, उरुदघ्नम्, ऊरुमात्रम् ‘as high as the thigh’. So also जानुमात्रम्, जानुद्वयसम् and जानुदघ्नम् ॥ As ऊरुद्वयसमुदकम् ‘water reaching upto the thigh’. According to some the first and the second affixes (dvayasa and daghna) come in denoting the measure of altitudes and depths, and not horizontal measures. The affix मात्रच् comes in a general sense also. As प्रस्थमात्रम् ‘a cubit long’.
Vart:- The affixes denoting lineal measure are elided after words which are themselves recognised as standards of measure. Thus शमः प्रमाणमस्य = शमः ‘that which is sama (a hand) in length’. Similarly दिष्टिः, वितस्तिः ॥ The affix matra only is elided, the other two affixes are never applicable to these words.
Vart:- The elision is invariable after a Dvigu. As द्वौ शमौ प्रमाणमस्य = द्विशमः, द्विवितस्तिः ॥ Why do we say “invariable”? The elision will take place even where there is doubt. द्वे दिष्टी स्यातां वा न वा = द्विदिष्टिः ॥
Vart:- The affix डट् comes after a word, when it denotes a stoma; as, पंचदशस्तोमः, पंचदशी रात्रिः ॥ The ट् causes ङीप् (IV. I.I5).
Vart:- The affix डिनि comes after words ending in शन् or शत्, as पंचदशिनोर्द्धमासाः, त्रिंशिनो मासाः ॥
Vart:- So also after the word विंशति, as विंशिनोऽङ्गिरसः ॥
Vart:- The affix मात्रच् comes after words denoting lineal measure, and mass measure, and after a numeral, even when there is doubt. As शममात्रम्, = शमः प्रमाणमस्य स्यान्न वा, दिष्टिमात्रम्, प्रस्थमात्रम्, कुडवमात्रम्, पंचमात्रम्, दशमात्रा गावः ॥ An exception to this is contained in the 2nd Vartika, where matra is elided in Dvigu compounds, owing to the word नित्य being used there.
Vart:- The affixes द्वयसच् and मात्रच् come without changing the sense, diversely after a word ending in वतु; as तावद्वयसम्, = तत् परिमाणमस्य धान्यादिस्तावत् तावन्मात्रम्, एतावद्वयसम्, एतावन्मात्रम् &c.
Bhashya¶
प्रमाणे द्वयसज्दघ्नञ्ञ्मात्रचः (2055) (द्वजसजादिप्रत्ययाधिकरणम्) (प्रमाणे इति प्रकृत्यर्थविशेषणं प्रत्ययार्थविशेषणं वेति निर्धारणे श्लोकवार्तिकम्) प्रमाण इति किमयं प्रत्ययार्थः? प्रमाणं प्रत्ययार्थो न । प्रमाणे इति नायं प्रत्ययार्थः। क्व तर्हि प्रत्यया भवन्ति? तद्वति। कुत एतत्? अस्येत्यनुवर्तनात्। क्व प्रकृतम्? तदस्य संजातं, तारकादिभ्य इतज् (5.2.36) इति॥ (प्रत्ययार्थनिर्धारकं श्लोकवार्तिकम्) प्रथमश्च द्वितीयश्चऊर्ध्वमाने मतौ मम॥ऊरुद्वयसम्।ऊरुदघ्नम्। प्रमाणे लः। प्रमाणे लो वक्तव्यः। शमः, दिष्टिः, वितस्तिः। द्विगोर्नित्यम्। द्विगोर्नित्यं लो वक्तव्यः। द्विशमम्, त्रिशमम्। द्विदिष्टिः, त्रिदिष्टिः। द्विवितस्तिः, त्रिवितस्तिः। किमर्थमिदमुच्यते? संशये श्राविणं वक्ष्यति तस्यायं पुरस्तादपकर्षः। डट् स्तोमे। डट्र स्तोमे वक्तव्यः। पञ्ञ्चदशः स्तोमः। शच्शनोर्डिनिः। शच्शनोर्डिनिर्वक्तव्यः। त्रिंशिनो मासाः। पञ्ञ्चदशिनोऽर्धमासाः। विंशतेश्चेति वक्तव्यम्। विंशिनोऽङि्गरसः॥ (संशये मात्रच्प्रत्ययविधायकं श्लोकवार्तिकम्) प्रमाणपरिमाणाभ्यां संख्यायाश्चापि संशये॥ मात्रज्वक्तव्यः। शममात्रम्। दिष्टिमात्रम्। कुडवमात्रम्। पञ्ञ्चमात्राः। दशमात्राः॥ (5717 स्वार्थे प्रत्ययविधिवार्तिकम्॥ 1 ॥) - वत्वन्तात्स्वार्थे द्वयसज्मात्रचौ बहुलम् - (भाष्यम्) वत्वन्तात्स्वार्थे द्वयसज्मात्रचौ बहुलं वक्तव्यौ। तावदेव - तावद्द्वयसम्, तावन्मात्रम्। यावदेव - यावद्द्वयसम्, यावन्मात्रम्॥ प्रमाणं प्रत्ययार्थो न तद्वत्यस्येति वर्तनात्। प्रथमश्च द्वितीयश्चऊर्ध्वमाने मतौ मम॥ प्रमाणे लो द्विगोर्नित्यं डट्स्तोमे शच्शनोर्डिनिः। प्रमाणपरिमाणाभ्यां संख्यायाश्चापि संशये॥
Kashika¶
तदस्येत्यनुवर्तते। तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे द्वयसच् दघ्नच् मात्रच् इत्येते प्रत्यया भवन्ति, यत् तत् प्रथमासमर्थं प्रमाणं चेत् तद् भवति। ऊरुः प्रमाणमस्य ऊरुद्वयसम्। ऊरुदघ्नम्। ऊरुमात्रम्। जानुद्वयसम्। जानुदघ्नम्। जानुमात्रम्।
प्रथमश्च द्वितीयश्च ऊर्ध्वमाने मतौ मम।
ऊरुद्वयसमुदकम्। ऊरुदघ्नमुदकम्। मात्रच् पुनरविशेषेण प्रस्थमात्रमित्यपि भवति॥ प्रमाणे लो वक्तव्यः॥ प्रमाणशब्दा इति ये प्रसिद्धाः, तेभ्य उत्पन्नस्य प्रत्ययस्य लुग् भवति। शमः प्रमाणमस्य शमः। दिष्टिः। वितस्तिः॥ द्विगोर्नित्यम्॥ द्वौ शमौ प्रमाणमस्य द्विशमः। त्रिशमः। द्विवितस्तिः। नित्यग्रहणं किम्? संशये श्राविणं वक्ष्यति, तत्रापि द्विगोर्लुगेव यथा स्यात्। द्वे दिष्टी स्यातां वा न वा द्विदिष्टिः॥ डट् स्तोमे वक्तव्यः॥ पञ्चदशः स्तोमः। सप्तदशी रात्रिः। टित्त्वाद् ङीप्॥ शन्शतोर्डिनिर्वक्तव्यः॥ प॑ञ्चद॒शिनो॑ऽर्धमा॒साः त्रिं॒शिनो॒ मासाः॑ (तै०सं० ७.५.२०.१)॥ विंशतेश्चेति वक्तव्यम्॥ विंशिनोऽङ्गिरसः (गो०ब्रा० १.१.८)॥ प्रमाणपरिमाणाभ्यां संख्यायाश्चापि संशये मात्रज् वक्तव्यः॥ शममात्रम्। दिष्टिमात्रम्। प्रस्थमात्रम्। कुडवमात्रम्। पञ्चमात्रम्। दशमात्रा गावः॥ वत्वन्तात् स्वार्थे द्वयसज्मात्रचौ बहुलम्॥ तावदेव तावद्द्वयसम्। तावन्मात्रम्। एतावद्द्वयसम्। एतावन्मात्रम्। यावद्द्वयसम्। यावन्मात्रम्॥
Siddhanta Kaumudi¶
तदस्येत्यनुवर्तते । उरू प्रमाणमस्य ऊरूद्वयसम् । ऊरूदघ्नम् । ऊरुमात्रम् । प्रामाणे लः ॥ शमः । दिष्टिः । वितस्तिः ।<!द्विगोर्नित्यम् !> (वार्तिकम्) ॥ द्वौ शमौ प्रमाणमस्य द्विशमम् ।<!प्रमाणपरिमाणाभ्यां संख्यायाश्चापि संशये मात्रज्वक्तव्यः !> (वार्तिकम्) ॥ शममात्रम् । प्रस्थमात्रम् । पञ्चमात्रम् ।<!वत्वन्तात्स्वार्थे द्वयसज्मात्रचौ बहुलम् !> (वार्तिकम्) ॥ तावदेव तावद्द्वयसम् ॥ तावन्मात्रम् ॥
Laghu Siddhanta Kaumudi¶
तदस्येत्यनुवर्तते। ऊरू प्रमाणमस्य - ऊरुद्वयसम्। ऊरुदघ्नम्। ऊरुमात्रम्॥
Balamanorama¶
प्रमाणे द्वयसज्दघ्नञ्मात्रचः - प्रमाणे । अनुवर्तत इति । ततश्च अस्य प्रमेयस्य तत्प्रमाणमित्यर्थे प्रमाणे विद्यमानात्प्रथमान्ताद्द्वयसच्, दघ्नच्, मात्रच् एते प्रत्ययाः स्युः । प्रमाणवानिदमर्थोऽत्र प्रत्ययार्थ इति भाष्ये स्पष्टम् । तत्रप्रथमश्च द्वितीयश्च ऊध्र्वमाने मतौ ममे॑ति भाष्ये उक्तम् । प्रमाणमिह परिच्छेदकमात्रम्, तत्र मात्रच् । प्रस्थमात्रमूरुमात्रमित्यादि इति कैयटः ष । वस्तुतस्तु ‘यत्तदेतेभ्यः’ इति सूत्रभाष्यस्वरसादायामपरिच्छेदकमेवात्र प्रमाणमिति शब्देन्दुशेखरे विस्तरः । प्रमाणे ल इति । लुको ‘ल’ इति पूर्वाचार्यशास्त्रसिद्धा संज्ञा । प्रमाणे वर्तमानाद्विहितस्य द्वयसजादेर्लुग्वक्तव्य इत्यर्थः । शमो दिष्टिर्वितस्तिरिति । रामः प्रमाणमस्येत्यादिविग्रहः । शमादयोऽनूद्र्धमानविशेषाः, तेभ्यो मात्रचो लुक्, इतरयोरसंभवात् । अत्रआयामस्तु प्रमाणं स्यादि॑त्येव गृह्रते । एवंच ऊरुद्वयसमित्यादौ न लुक् । द्विगोर्नित्यमिति । प्रमाणान्ताद्द्विगोः परस्य द्वयसजादेर्नित्यं लुक् स्यादित्यर्थः । प्माणान्तस्य द्विगोः प्रमाणाऽवृत्तित्वात्सामर्थ्यादिह तदन्तविधिः । पूर्ववार्तिकेन तु नात्र प्राप्तिरस्ति, द्विगोः प्रमाणत्वाऽभावात् । द्विशममिति । तद्धितार्थे द्विगुः । ततो मात्रचोऽनेन लुक् । विकल्पस्याऽप्रकृतत्वादेव सिद्धे नित्यग्रहणं संशये वक्ष्यमाणस्य मात्रचो लुगर्थम् । अन्यथा शममात्रमित्यत्रेव द्विशमशब्दादपि स मात्रच न लुप्येतेति भाष्ये स्पष्टम् । प्रमाणेति । प्रमाणवाचिनः परिमाणवाचिनः सङ्ख्यावाचिनश्य संशये मात्रज्वक्तव्य इत्यर्थः । अत्र प्रमाणमायाम एव गृह्रते,आयामस्तु प्रमाणं स्यादि॑ति वचनात् । अत एव परिमाणग्रहणमर्थवत् । शममात्रमित्यादि । शमः स्यान्न वेत्यादिर्गविग्रहः ।वत्वन्तादिति । वार्तिकमिदम् । पुरुषहस्तिभ्यामण् च । ‘उक्तविषये’ इति शेषः । चाद्द्वयसजादयस्त्रयः ।
Tattvabodhini¶
प्रमाणे द्वयसज्दघ्नञ्मात्रचः - प्रमाणे द्वयसज् । प्रमाणे विद्यमाननात्प्रथमान्तात्अस्ये॑ति निर्दिष्टे प्रमेयेऽर्थे त्रयः प्रत्ययाः स्युः । प्रमाणमिह परिच्छेदकमात्रम् । तत्र मात्रच् । द्वयसच्दघ्नचौ तूध्र्वमान एव भवतः,प्रथमश्च द्वितीयश्च ऊध्र्वमाने मतौ ममे॑ति भाष्यात् । ऊध्र्वावस्थितेन येन मीयते तदूध्र्वमानम् -ऊर्वादि । तेन तिर्यङ्भानादौदण्डज्वयसं क्षेत्र॑मित्यादि न प्रयुज्यते, यथोत्तरं मुनीनां प्रामाण्यात् । अतएवद्विकाण्डा क्षेत्रभक्ति॑रित्यत्रद्वयसचोलु॑गिति प्राचोक्तं नादर्तव्यमित्यवोचाम ।प्रमाणे लः । प्रमाणो ल इति । लुक एषा पूर्वाचार्यसंज्ञा । प्रमाणत्वेन ये प्रसिद्धास्ततः परस्यैवायं लुगित्युदाहरति — शमः दिष्टिः वितस्तिरिति । शमः प्रमाणस्येत्यादिविग्रहः । एषु मात्रचो लुक्, इतरयोरसंभवात् । शमादीनामनूध्र्वमानत्वात् ।द्विगोर्नित्यम् । द्विगोर्नित्यमिति । द्विगोरप्रमाणत्वात्तदन्तविध्यभावाच्च पूर्वेणाऽप्राप्तो लुग्विधीयते । ननु विकल्पस्याऽप्रकृतत्वान्नित्यग्रहणमिह निरर्थकमिति चेत् । अत्राहुः — — अनुपदं संशये वक्ष्यमाणो मात्रच् शममात्रमित्यादौ यथा न लुप्यतेप्रमाणे लः॑इत्यस्यप्रमाणे द्वयस॑जिति यः पूर्वविधिस्तद्विषयत्वात्, -एवं द्विगोरपि न लुप्येत । इष्यते च लुक् । द्वौ शमौ स्यातां न वा द्विशम इति । तथा चाऽधिकसङ्ग्रहार्थं नित्यग्रहणभिति । अत्र केचित् -द्विगोर्लः॑इत्युक्तेऽपि पुनर्लग्रहणं नित्यार्थमधिसङ्ग्रहार्थमिति व्याख्यातुं शक्यत इति वैचित्र्यार्थं नित्यग्रहणमित्याहुः ।प्रमाणपरिमाणाभ्यां सङ्ख्यायास्तपि संशये मात्रज्वक्तव्यः । शममात्रमित्यादि । शमः स्यान्न वेत्यादिविग्रहः ।
Padamanjari¶
यतत्प्रथमासमर्थं प्रमाणं चेतद्भवतीति। अनेन प्रकृत्यर्थविशेषणत्वं प्रमाणस्य दर्शयति। यदि तु प्रत्ययार्थविशेषणं स्यात् - यतदस्येति निर्द्दिष्ट प्रमाणंचेतद्भवतीति; तदा प्रमाणस्य प्रमेयापेक्षत्वात्प्रमेयं प्रकृत्यर्थः स्यात् यथा प्रकृत्यर्थविशेषणत्वे प्रमेयं प्रत्यथार्थः, ततश्चेह प्राप्नोति - उदकं प्रमेयमस्योरोरिति, एतच्चायुक्तम्; अनियतप्रमेयविषयत्वात्प्रमाणानामेकेन विशेषणस्यान्याय्यत्वात्, प्रमेयस्य तु नियतप्रमाणत्वप्रतिपादनायोरुमात्रादयः शब्दाः प्रयुज्यन्ते। प्रथमश्च द्वितीयश्चेति। उर्ध्वावस्तितेन येन मीयते तदूर्ध्वमानम्, उर्वादि। तत्र केचिदाहुः - ठायाममामनमेव प्रमाणं सूत्रे गृह्यते, तिर्यङ्मानमेव चायाममानम्, ततश्चोर्ध्वमानेऽप्रप्तौ द्वयसज्जघ्नचौ प्रमाणादपकृष्येह विधीयेतेऽ इति। अपर आह - ठूर्ध्वावस्तितेनापि येनायामः परिच्छिद्यते तदप्यायाममानत्वात् प्रमाणमिति सूत्रे गृह्यते। वचनं तूर्ध्वमान एव यथा स्यातां तिर्यङ्माने मा भूतामिति नियमार्थम्ऽ इति। अन्यस्त्वाह -‘परिच्चेदकमात्रं प्रमाणमिहर गृह्यते’ इति; तत्रापि नियमार्थमेतत्। मात्रं प्रमाणम्, ततो न्यायप्राप्तानुवादोऽयम्। प्रस्थामात्रमित्यपीति। अपि शब्दादूरुमात्रमित्यपि भवति। प्रमाणे ल इति। लुक एषा पूर्वाचार्यसंज्ञा। प्रमाणमिति ये प्रसिद्धा इति।’प्रबाणशब्दा एते’ इति ये प्रसिद्धाः - दिष्टिवितस्त्यादय इत्यर्थः शमः, दिष्टिः, वितस्तिरिति। अत्र मात्रयो लुग्; इतरयोरसम्भवात्। शमादीनामनूर्ध्वमानत्वाद्। द्विगोर्नित्यमिति। द्विगोरप्रमाणत्वातदन्तविध्यबावाच्च पूर्वेणाप्राप्तो लुग्विधीयते। नित्यग्रहणं किमिति। नात्र विकल्पः प्रकृत इति प्रश्नः। संशये श्रीविणं वक्ष्यतीति। श्रवणं श्रावः,’कृयल्युटो वहुलम्’ , इति घञ्, सोऽस्यास्तीति श्रावी,’प्रमाणपरिमाणाभ्यां सङ्खयायाश्चापि संशये’ इति वक्ष्यमाणस्य मात्रचः’प्रमाणे लः’ इत्यनेन लुग्न भवति, परत्वाद्; अतोऽमौ श्रावी। अस्य द्विगावपि श्रवणे प्राप्ते लुग्विदीयत इत्यर्थः। द्वौ शमौ प्रमाणमस्य द्विशमः। कथं पुनरव संशये मात्रच उत्पत्तिः ? तदन्तविधैना। एतदेव लुग्वचनं ज्ञापकम्-अस्त्यत्र तदन्तविधिरिति। प्रकारणादिवशादस्य निश्चयसंसयविपयता प्रयोगस्यावसेया। स्तोमे डड्वक्तव्य इति। अत्रायाममानस्यासम्भवात्परिच्छेदोपाधिकायाः सङ्ख्यायाः स्तोमेऽभिधेये डट्प्रत्ययः। डित्करणमेकविंश इत्यत्र ति शब्दस्य लोपार्थम्, त्रयस्त्रिंशादौ टिलोपार्थं च। पञ्चदसादौ’नस्तद्धिते’ इत्येव सिद्धम् - पञ्चदश मन्त्राः परिमाणमस्य पञ्चदशः स्तोमः, सप्तदशी रात्रिरिति। स्तोमसाहचर्याद्रात्र्यादौ स्त्रियां वृत्तिः, टित्वान्ङीप्’तदस्य परिमाणम्’ ‘सङ्ख्यायाः संज्ञा’ इत्यत्र तु स्तेमे डो विहितः, तत्र टाब् भवति यद्यस्ति प्रयोगः, अथ तु नस्ति ततोऽस्यैव स प्रपञ्चः। शन्सतोर्हिनिर्वक्तव्य इति। एवं च च्छन्दसि च भाषायां च डिर्नेर्विधानात्’सङ्ख्यायाः संज्ञासङ्घ’ इत्यत्र’शन्शतोर्डिनिश्च्छन्दसि’ इति वचनं प्रपञ्चार्थमेव। विशिनोऽङ्गिरस इति। प्रवरभेदेन विंशतिर्भेदा उच्यन्ते, तत्र विंशतिशब्दात्सङ्खयानमात्रवाचिनः संख्येये प्रमेये डिनिः,’ति विंशतेर्डिति’ इति लोपः, यस्येतिलोपश्च। प्रमाणपरिमाणाभ्यामिति। रूढिशब्दावेतौ; भेदेनोपादानात्। शममात्रमिति। शमः प्रमाणमस्य स्यान्न वेत्यत्रार्थे मात्रच्। पञ्चमात्रा इति। पञ्च स्युर्न वेति संशय्यमानार्थवाचिनः षष्ठ।ल्र्थे प्रत्ययः। पञ्चत्वसङ्ख्या प्रमाणमेषां स्याद्वा न वेति पञ्चमात्राः। तावदेविति। तत्परिमाणमस्य धान्यादिस्तावत्, ततः स्वार्थे ??????। उतरसूत्रे तु’भावः सिद्धश्च डावतोः’ इत्यर्थान्तरे वक्ष्यते ॥
Nyaas¶
प्रमाणशब्दस्य सम्बन्धिशब्दत्वात्प्रत्ययार्थो विज्ञायते। प्रथमश्च द्वितीयश्च इत्यादि। द्वयसज्दध्नचौ ऊध्र्वमान इष्येते। उपरि निक्षिप्य यत्र मीयते, न तिय्र्यक्? समन्ततो वा, तदूध्र्वमानम्। अविशेषेण इति। प्रमाणे परिमाण उन्माने वाऽविशेषेण सर्वत्र मात्रज्भवतीति। प्रस्थमात्रमित्यपि भवति इति। अपिशब्दाद्वितस्तिमात्रमित्यपि भवतीति।प्रमाणे लोः इति। लुकश्चायं पूर्वाचार्यविहिता संज्ञा। अयं मात्रच उत्पन्नस्य लुगुच्यते; न द्वयसज्दध्नयोः। तयोरूध्र्वमाने विधानात्। अस्मिन्नर्थ उत्पत्तिरपि नास्ति। द्विगोर्नित्यम् इति। द्विगोरप्रमाणत्वात्। सत्यपि च प्रमाणान्तत्वे तदन्तविदेरभावात्। पूर्वेण प्राप्त एव लुगुच्यते। नित्यग्रहणं किम् इति। न हि विकल्पः प्रकृतो यन्निवृत्त्यर्थं नित्यग्रहणं क्रियते। न च पूर्वस्य विधेर्विकल्पेन प्रवृतिंत ज्ञापयितुमिह नित्यग्रहणं कर्तुं युक्तम्। न ह्रसौ विबाषयेष्यत इत्यभिप्रायः। संशये, इत्यादिना नित्यग्रहणस्य प्रयोजनमाह। श्रवणं प्रादः, कृत्वल्युटो बहुलम् (3.3.113) इति भावे घञ्` श्रावोऽस्यास्तीति श्रावी, स पुनर्वक्ष्यमाणो मात्रच्प्रत्ययः प्रमाणसम्बन्धेनोच्यते। स्तोमे डट् इत्यादि। पञ्चदशाहानि परिमाणमस्य यज्ञस्य पञ्चदशः। पञ्चदशी इति। टित्त्वान्ङीप्। शन्शतोर्डिनिः इति। स्तोमे चान्यत्राविशेषेणायं विधिः। विं शिनः इति। डिनिः, ति विंशतेर्डिति (6.4.142) इति तिलोपः, यस्येति लोपश्च। शममात्रं दिष्टिमात्रमिति। प्रमाणस्योदाहरणद्वयम्। `प्रस्थामात्रम्, कुडवमात्रमिति परिमाणस्य। पञ्चमात्रम्, दशमात्रमिति संख्यायाः। यत्रैतन्न निर्णीयते शमं स्याद्वा न वेति तत्र शममात्रमिति प्रयुच्यते। एवमन्यत्रापि यथायोगं वेदितव्यम्॥
Prakriyasarvasvam¶
तदस्य प्रमाणमित्यर्थ एते स्युः । <karika>ऊर्ध्वतो मान एवाद्यौ द्वौ नाभिद्वयसं जलम् । सौधदघ्नस्तरुमात्रच् सर्वमानेष्वपीष्यते ।। ३१८ ।। उरोमात्रं जलं व्रीहिः प्रस्थमात्र इतीदृशम् । स्वतः प्रमाणभूतेभ्यो मात्रचो वा लुगिष्यते ।। ३१९ ।।</karika> <karika>अरत्निमात्रश्चारत्निः पटो हस्तादिषूह्यताम् । द्विगोर्द्वयसजादीनां नित्यमेव लुगिष्यते ॥ ३२० ॥</karika> <karika>तेन द्विपुरुषं तोयं द्वचरत्निः पट इत्यपि । प्रमाणपरिमाणाभ्यां संख्यायाश्चापि संशये ॥ ३२१ ॥</karika> <karika>मात्रज् वक्तव्य इत्युक्तैर्हस्तमात्रो ध्रुवं पटः । प्रस्थमात्रो यवो नूनं दशमात्रा इमे नराः ॥ ३२२ ॥</karika> <karika>वत्वन्ताद्वहुलें स्वार्थे द्वयसञ् मात्रचौ मतौ । तावन्मात्रं तथा तावद्द्वयसं तावदेव हि ॥ ३२३ ॥</karika> ‘स्तोमे ड डट् च वाच्यः’ । पञ्चदश मन्त्राः प्रमाणमस्येति पञ्चदशः स्तोमः । पञ्चदशा स्तुतिः । डटि पञ्चदशी । ‘शन्शदन्ताद्विंशतेश्च डिनिर्वाच्यः’ । पञ्चदशतिथि- प्रमिताः पञ्चदशिनः पक्षाः । शदन्तान् त्रिंशिनो मासाः । विंशतिसर्गप्रमितं विंशि माघकाव्यम् । विंशतेस्तिलोपे कृते पुनर्यस्येति लोपः । <karika>आस्तामित्याडलोपार्थं इनसोरदिति तग्रहात् । आभासिद्धेरनित्यत्वं तेनाभीयावुभाविह ॥ ३२४ ॥</karika>
Vartika¶
प्रमाणे लः ।
Sutra Prayogas¶
रेखामात्रम् (रघुवंशम्): प्रमाणे द्वयसच्दघ्नञ्मात्रचः इति मात्रच्प्रत्ययः।
त्रिदशगोपमात्रके (रघुवंशम्): प्रमाणे द्वयसच्- इत्यादिना मात्रच्प्रत्ययः।
नारीनितम्बद्वयसं (रघुवंशम्): प्रमाणे द्वयसच्दघ्नञ्मात्रचः इति द्वयसच्प्रत्ययः।
गजद्वयसीः (शिशुपालवधम्): प्रमाणे द्वयसज्दघ्नञ्मात्रचः इति प्रमाणार्थे द्वयसच् प्रत्ययः।
दघ्नैः (भट्टिकाव्यम्): प्रमाणे द्वयसच् इति दघ्नच्।
द्वयसः (भट्टिकाव्यम्): प्रमाणे द्वयसच् इति भीयते अस्मादिति भीष्मः।