52027: विनञ्भ्यां नानाञौ नसह¶
Padacheda: वि-नञ्भ्याम् | S | 5 | 2 |
ना-नाञौ | S | 1 | 2 |
नसह | S | 0 | 0 |
Sutrartha¶
‘नसह’ अस्मिन् अर्थे प्रयुक्ताभ्याम् ‘वि’ तथा ‘नञ्’ एताभ्याम् शब्दाभ्याम् स्वार्थे क्रमशः ‘ना’ तथा ‘नाञ्’ प्रत्ययौ भवतः ।
‘नसह’ इत्युक्ते ‘पृथक् रूपेण’ (सह नास्ति तत् नसह ) । अस्मिन् अर्थे प्रयुक्ताभ्याम् ‘वि’ तथा ‘नञ्’ एताभ्याम् शब्दाभ्याम् क्रमेण ‘ना’ तथा ‘नाञ्’ एतौ प्रत्ययौ स्वार्थे भवतः । यथा - 1. वि + ना = विना । यथा - ‘रामः लक्ष्मणम् विना गच्छति’ इत्युक्ते लक्ष्मणेन सह न गच्छति, पृथग्रूपेण गच्छति - इत्यर्थः । 2. नञ् + नाञ् → नाना । अत्र प्रकृतौ ञकारस्य इत्संज्ञा भवति, प्रत्ययस्य ञकारेण ति अङ्गस्य तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः भवति । ‘रामः लक्ष्मणम् नाना गच्छति’ इत्युक्ते लक्ष्मणेन सह न गच्छति, पृथग्रूपेण गच्छति - इत्यर्थः । विशेषः - 1. अस्मिन् सूत्रे ‘नसह’ इति शब्दः प्रत्ययार्थम् न दर्शयति, अपितु प्रकृतिविशेषणम् दर्शयति । इत्युक्ते, ‘वि’ तथा ‘नञ्’ एतौ अव्ययौ यत्र ‘पृथक् / नसह’ अस्मिन् अर्थे प्रयुज्येते, तत्र ताभ्याम् वर्तमानसूत्रेण यथासङ्ख्यम् ‘ना’ तथा ‘नाञ्’ प्रत्ययौ भवतः । अस्मिन् सूत्रे प्रत्ययस्य अर्थः न उच्यते, अतः स्वार्थे प्रत्ययविधानम् भवतीति ज्ञेयम् । 2. ‘विना’ तथा ‘नाना’ एतौ द्वौ तद्धितान्तशब्दौ तद्धितश्चासर्वविभक्तिः (1.1.38) इत्यनेन अव्ययसंज्ञां प्राप्नुवन्ति । 3. ‘विना’ तथा ‘नाना’ द्वयोः अपि योगे विद्यमानस्य शब्दस्य पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम् (2.3.32) इत्यनेन द्वितीया / तृतीया उत पञ्चमी विभक्तिः विधीयते । यथा - रामेण विना / रामम् विना / रामात् विना । तथैव, रामेण नाना / रामम् नाना / रामात् नाना ।
Vasu English Summary¶
The affixes ना and नाञ् comes in the sense of ‘not being together’ after the words 1. वि and 2. नञ् respectively.
Vasu English Translation¶
The affixes ना and नाञ् comes in the sense of ‘not being together’ after the words 1. वि and 2. नञ् respectively. Thus वि + ना = विना ‘without’; नञ् + नाञ् = नाना ‘several’.
Bhashya¶
विनञ्ञ्भ्यां नानाञ्ञौ न सह (2045) (नानाञ्ञ्प्रत्ययाधिकरणम्) (प्रत्ययार्थनिर्णायकभाष्यम्) इह नानेति सहार्थो गम्येत, द्वौ हि प्रतिषेधौ प्रकृतमर्थं गमयतः। न न सह - सहैवेति। नैष दोषः। नायं प्रत्ययार्थः। किं तर्हि? प्रकृतिविशेषणमेतत्। वि - नञ्ञ् इत्येताभ्यामसहवाचिभ्यां नानाञ्ञौ भवतः। कस्मिन्नर्थे? स्वार्थे॥
Kashika¶
वि नञ् इत्येताभ्यां यथासंख्यं ना नाञ् इत्येतौ प्रत्ययौ भवतः। न सहेति प्रकृतिविशेषणम्। असहार्थे पृथग्भावे वर्तमानाभ्यां विनञ्भ्यां स्वार्थे नानाञौ प्रत्ययौ भवतः। विना। नाना॥
Siddhanta Kaumudi¶
असहार्थे पृथग्भावे वर्तमानाभ्यां स्वार्थे प्रत्ययौ । विना । नाना ॥
Balamanorama¶
विनञ्भ्यां नानाञौ नसह - वैः शालच्छङ्कटचौ । क्रियाविशिष्टेति । क्रियाविशिष्टकारकवाचकात्स्वार्थे शालच्शङ्कटच्प्रत्ययो स्त इति यावत् । इदं च भाष्ये स्पष्यटम् ।
Tattvabodhini¶
विनञ्भ्यां नानाञौ नसह - नानाञाविति । नाञो ञकारो वृद्द्यर्थः, स्वरार्थश्च ।न सहे॑ति प्रकृतिविशेषणं, न प्रत्ययार्थ इत्यादशयेनाह -असहार्थ इत्यादि । यदि प्रत्ययार्थः स्यात्ततोद्वौ प्रतिषेधौ प्रकृतमर्थ गमयतः॑इति सहार्थो गन्येतन न सह=अपि तु सहैवे॑ति । तस्मात्प्रकृतिविशेषणम् । एतच्च व्याख्यानाल्लभ्यते । यद्येवं सहेत्येव प्रत्ययार्थोऽस्तु विनञोः प्रतिषेधार्थत्वादिष्टसिद्धेःविगार्दभरथकः॑इत्यादौ विशब्दस्यापि प्रतिषेधवृत्तिद्र्दष्टैवेति । सत्यम् । क्रियावाचिनो विशब्दात्सहार्थे प्रत्ययो विज्ञायेत, -विगतेन सह, विकृतेन सहेति । सत्याद्यथोक्तमेव न्याय्यम् । एतच्च हरदत्तग्रन्थे स्पष्टम् । स्वार्थ इति । अनिर्दिष्टार्थत्वादिति भावः ।
Padamanjari¶
नसहेति प्रकृत्यर्थविशेषणमिति। यदि प्रत्ययार्थः स्याततो द्वौ प्रतिषेधौ प्रकृतमेवार्थ गमयत इति सहार्थ एव गम्येत, न नसह, अपि तु सहैवेति। तस्मात्प्रकृत्यर्थ एव भवति। एतच्च व्याख्यानाल्लभ्यते। यद्येवम्,सहेत्येव प्रत्ययार्थोऽस्तु, विनञोः प्रतिषेधार्थत्वात्, विगर्दभारथक इत्यादौ विशब्दस्यापि प्रतिषेधे वृत्तिर्दृष्टैव ? सत्यम्; क्रियावाचिनो विशब्दात्सहार्थे प्रत्ययो विज्ञायेत - विगतौ सह विकृतौ सहेति, नाञो ञकारो वृद्ध्यार्थः, स्वरार्थश्च ॥
Nyaas¶
स्वार्थे नानाञौ प्रत्ययौ भवतः इति। अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति (सी।प। 125) इति कृत्वा। ञकारस्त्वाद्युदात्तार्थः॥ बाल-मनोरमाविनञ्भ्यां नानाञौ नसह 1805, 5.2.27 विनञ्भ्यां। नसहे`ति सङ्घातः पृथक्त्वे वर्तते। प्रकृतिविशेषणमिदम्। तदाह - असहार्थे इति। तस्य विवरणं - पृथग्भावे इति। वर्तमानाभ्यामित्यनन्तरं `विनञ्भ्या`मिति शेषः। स्वार्थ इति। प्रत्ययार्थस्य अनिर्देशादिति भावः। प्रत्ययाविति। `यथासङ्ख्यं नानाञा`विति शेषः। विनेति। वेर्नाप्रत्यये रूपम्। पृथगित्यर्थः। नानेति। नञो नाञि आदिवृद्धौ रूपम्। पृथगित्यर्थः। `नसहे`त्यस्य प्रत्ययार्थत्वे तु नेत्यनेन न सहेति गम्येत। एवं सति नाना न न सह, किंतु सहैवेत्यर्थः स्यात्, `द्वौ नञौ प्रकृतमर्थं गमयतः` इति न्यायादिति भाष्ये स्पष्टम्।बाल-मनोरमावेः विनञ्भ्यां नानाञौ नसह 1806, 5.2.27 वैः शालच्छङ्कटचौ। क्रियाविशिष्टेति। क्रियाविशिष्टकारकवाचकात्स्वार्थे शालच्शङ्कटच्प्रत्ययो स्त इति यावत्। इदं च भाष्ये स्पष्यटम्।
Prakriyasarvasvam¶
<karika>नमहेत्यर्थवाचिभ्यां विनञ् भ्यां स्वार्थिकौ क्रमात् । नानाञौ स्तो नाञि वृद्धिर्विना नानेति सिध्यति ॥ ३१५ ॥</karika> संख्यादिहीननिपातनार्थवृत्तित्वादनयोः सामान्यतोक्ता सुविभक्तिरेव ॥