52029: सम्प्रोदश्च कटच्

Padacheda: सम्-प्र-उदः | S | 5 | 1 |

च | S | 0 | 0 |

कटच् | S | 1 | 1 |

Sutrartha

‘वि’, ‘सम्’ ‘प्र’, ‘उद्’ एतेभ्यः उपसर्गेभ्यः स्वार्थे ‘कटच्’ प्रत्ययः भवति ।

अनेन सूत्रेण चतुर्भ्यः उपसर्गेभ्यः ‘कटच्’ प्रत्ययः उच्यते । क्रमेण पश्यामः - 1. सम् + कटच् → सङ्कट । ‘संबाधम् (crisis)’ इति अर्थः । 2. प्र + कटच् → प्रकट । ‘प्रकाशितम् / appear’ इति अर्थः । 3. उद् + कटच् -> उत्कट । ‘अधिकम् / intense’ इति अर्थः । 4. वि + कटच् → विकट । ‘विकृतम् / horrible’ इति अर्थः । तद्धितान्तशब्दानाम् एते सर्वे अर्थाः व्याख्यानैः एव स्पष्टीभवन्ति, सूत्रात् तेषाम् ज्ञानं न भवति । अस्मिन् सूत्रे अनेकानि वार्त्तिकानि अपि पाठितानि सन्ति । तानि एतादृशानि - 1. <!अलाबू-तिल-उमाभ्यः रजसि उपसंख्यानम्!> । अलाबू (bottle-gourd), तिल (sesame), तथा उमा (flax) एतेभ्यः शब्देभ्यः ‘रजः’ (चूर्णम् / powder) अस्मिन् अर्थे अञ्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण कटच्-प्रत्ययः भवति । यथा - अलाबूनाम् रजः अलाबूकटम् । तिलानाम् रजः तिलकटम् । उमानाम् रजः उमाकटम् । विशेषः - ‘अलाबू’ शब्दात् ओरञ् (4.3.139) इत्यनेन अञ्-प्रत्यये प्राप्ते ; तथा च तिल-शब्दात् उमा शब्दात् च अनुदात्तादेश्च (4.3.140) इत्यनेन अञ्-प्रत्यये प्राप्ते तं बाधित्वा अत्र कटच्-प्रत्ययः प्रोच्यते । 2. <!भङ्गायाश्चेति वक्तव्यम्!> - भङ्गा (cannabis) शब्दात् रजः (चूर्णम् / powder) अस्मिन् अर्थे ‘तृणम् धान्यानाम् द्व्यषाम्’ अनेन फिट्-सूत्रेण प्राप्तमण्-प्रत्ययं बाधित्वा वर्तमानसूत्रेण ‘कटच्’ प्रत्ययः भवति । भङ्गानाम् रजः भङ्गाकटम् । विशेषः - काशिकाकारःद्वे अपि एते वार्त्तिके एकत्रीकृत्य ‘अलाबू-तिल-उमा-भङ्गाभ्यो रजसि उपसंख्यानम्’ इति एकमेव वार्त्तिकं पाठयति । 3. <!गोष्ठच् आदयः स्थानादिषु पशुनामभ्यः!> पशूनाम् यानि नामानि, तेभ्यः ‘गोष्ठच्’ आदयः प्रत्ययाः स्थानस्य निर्देशार्थम् विधीयन्ते । यथा - गवाम् स्थानम् गोगोष्ठम् । महिषीनाम् स्थानम् महिषीगोष्ठम् । (अस्मिन् वार्त्तिके ‘आदयः’ इत्यनेन ये अन्ये प्रत्ययाः तथा च ‘स्थानादि’ इत्यनेन ये अन्ये अर्थाः गृह्यन्ते, ते अग्रिमवार्त्तिकानाम् निर्देशं कुर्वन्तीति ज्ञेयम्) । 4. <!संघाते कटच् !> - पशूनाम् सङ्घातस्य (‘समूहः’ इत्याशयः) निर्देशार्थम् पशुवाचकशब्दात् ‘कटच्’ प्रत्ययः भवति ।यथा - अवीनाम् (sheep) सङ्घातः अविकटः । a group of sheep इत्यर्थः । 5. <!विस्तारे पटच् !> - पशूनाम् विस्तारस्य (spreading इत्याशयः) निर्देशार्थम् पशुवाचकशब्दात् ‘पटच्’ प्रत्ययः भवति । यथा - अवीनाम् विस्तारः अविपटः । a spread / distributed group of sheep इत्यर्थः । 6. <!द्वित्वे गोयुगच् !> - पशुवाचकशब्दात् ‘द्वित्वम्’ (double in number) अस्मिन् अर्थे ‘गोयुगच्’ प्रत्ययः भवति । उष्ट्राणाम् द्वित्वम् = द्वौ उष्ट्रौ = उष्ट्रगोयुगम् । द्वौ खरौ (donkey) = खरगोयुगम् । द्वौ अश्वौ अश्वगोयुगम् । 7. <!षट्त्वे षङ्गवच्!> - पशुवाचकशब्दात् ‘षट्’ सङ्ख्यायाः निर्देशं कर्तुम् ‘षङ्गवच्’ प्रत्ययः भवति । यथा, षट् उष्ट्राः = उष्ट्रषङ्गवम् । विशेषः - एतत् वार्त्तिकम् भाष्ये न दीयते । 8. <!विकारे स्नेहे तैलच्!> - ‘विकारः’ अस्मिन् अर्थे स्नेहस्य (= oil इत्यर्थः) निर्देशं कर्तुम् ‘तैलच्’ प्रत्ययः भवति । यथा - एरण्डानां विकारः स्नेहः एरण्डतैलम् ।तिलानां विकारः स्नेहः तिलतैलम् । विशेषः - ‘तैलम्’ इति कश्चन भिन्नः शब्दः अपि वर्तते , यस्यापि अर्थः समानः एव । अतः ‘तिलानाम् तैलम्’ अस्मिन् अर्थे अपि ‘तिलतैल’ शब्दः सिद्ध्यति । परन्तु स्वरवैशिष्ट्यार्थमस्मिन् वार्त्तिके ‘तैलच्’ प्रत्ययः उच्यते । 9. <!भवने क्षेत्रे शाकटाशाकिनौ!> - पदार्थानामुत्पादनस्य क्षेत्रस्य निर्देशार्थम् पदार्थवाचिशब्दात् ‘शाकट’ तथा ‘शाकिन’ एतौ प्रत्ययौ भवतः । यथा - इक्षूनाम् भवनं क्षेत्रम् इक्षुशाकटम् इक्षुशाकिनम् वा ।

Vasu English Summary

The affix कटच् (कट) comes after the words 1. सम् 2. प्रद् 3. उद् and 4. वि।

Vasu English Translation

The affix कटच् (कट) comes after the words 1. सम् 2. प्रद् 3. उद् and 4. वि। The वि is read into the sutra by virtue of the word च ॥ Thus संकटम्, मकटम्, उत्कटम्, विकटम् ॥

Vart:- The affix कटच् comes after अलाबु, तिल, उमा, and भङ्गा in denoting dust thereof. As अलाबुना रजः = अलाबूकटम्, तिलकटम्, उमाकटम्, भंगाकटम् ॥

Vart:- The affix गोष्ठच् comes after the names of animals, in denoting the places. As गवां स्थानं = गोगोष्ठं, महिषीगोष्ठं, &c.

Vart:- When a flock is denoted, the affix कटच् is added, as अविकटम् ॥

Vart:- When spreading is denoted, the affix is पटच्, and अविपटः ॥

Vart:- When a couple is denoted, the affix is गोयुगच्, as, अश्वगोयुगम्, उष्ट्रगोयुगम् ॥

Vart:- When six is denoted, the affix is षड्गवच्, as, हस्तिषड्गवम्, अश्वषड्गवम् ॥

Vart:- The affix तैलच् comes when it means the oil of it. As एरण्डतैलम्, इंगुदीतैलम्, तिलतैलम् ॥

Vart:- The affixes शाकट and शाकिन denote ‘a field where it grows’, after the words इक्षु &c. As इक्षुशाकटम्, मूलशाकटम्, इक्षुशाकिनं, मूलशाकिनम् ॥

Bhashya

संप्रोदश्च कटच् (2042) (कटच्प्रत्ययाधिकरणम्) (5711 उपसंख्यानवार्तिकम्॥ 1 ॥) - कटच्प्रकरणे अलाबूतिलोमाभ्यो रजस्युपसंख्यानम् - (भाष्यम्) कटच्प्रकरणे अलाबूतिलोमाभ्यो रजस्यभिधेये उपसंख्यानं कर्तव्यम्। अलाबूकटः, तिलकटः, उमाकटः॥ (5712 उपसंख्यानवार्तिकम्॥ 2 ॥) - भङ्गायाश्च - (भाष्यम्) भङ्गायाश्चेति वक्तव्यम्। भङ्गाकटः॥ (5713 उपसंख्यानवार्तिकम्॥ 3 ॥) - गोष्ठादयः स्थानादिषु पशुनामादिभ्यः - (भाष्यम्) गोष्ठादयः प्रत्ययाः स्थानादिष्वर्थेषु पशुनामादिभ्यो वक्तव्याः। गवां स्थानं - गोगोष्ठम्। अविगोष्ठम्। संघाते कटच्च वक्तव्यः। अविकटः उष्ट्रकटः। विस्तारे पटच्च वक्तव्यः। अविपटः। उष्ट्रपटः। गोयुगशब्दश्च प्रत्ययो वक्तव्यः। उष्ट्रगोयुगम्। खरगोयुगम्। तैलशब्दश्च प्रत्ययो वक्तव्यः। इङ्गुदतैलम्। सर्षपतैलम्। शाकटशब्दश्च प्रत्ययो वक्तव्यः। इक्षुशाकटम्। मूलशाकटम्। शाकिनशब्दश्च प्रत्ययो वक्तव्यः। इक्षुशाकिनम्। मूलशाकिनम्॥ (5714 गोष्ठादयः स्थानादिष्वित्यादेः प्रत्याख्यानवार्तिकम्॥ 4 ॥) - उपमानाद्वा सिद्धम् - (भाष्यम्) उपमानाद्वा सिद्धमेतत्। गवां स्थानं - गोष्ठम्। यथा गवां तद्वदुष्ट्राणाम्। कटज् वक्तव्य इति। यथा नानाद्रव्याणां संघातः कटः, एवमवयः संहताः - अविकटः। पटच्च वक्तव्य इति। प्रस्तीर्णः पटो यथा, एवमवयः प्रस्तीर्णाः - अविपटः। गोयुगशब्दश्च प्रत्ययो वक्तव्य इति। गोर्युगंगोयुगम्। यथा गोस्तद्वदुष्ट्रस्य - उष्ट्रगोयुगम्। तैलशब्दश्च प्रत्ययो वक्त्वय इति। प्रकृत्यन्तरं तैलशब्दो विकारे वर्तते, एवं च कृत्वा तिलतैलमित्यपि सिद्धं भवति। शाकटशब्दश्च प्रत्ययो वक्तव्य एव। शाकिनशब्दश्च प्रत्ययो वक्तव्य एव॥

Kashika

सम् प्र उद् इत्येतेभ्यः कटच् प्रत्ययो भवति। चकाराद् वेश्च। संकटम्। प्रकटम्। उत्कटम्। विकटम्॥ कटच्प्रकरणेऽलाबूतिलोमाभङ्गाभ्यो रजस्युपसंख्यानम्॥ अलाबूनां रजोऽलाबूकटम्। तिलकटम्। उमाकटम्। भङ्गाकटम्॥ गोष्ठादयः स्थानादिषु पशुनामादिभ्य उपसंख्यानम्॥ गवां स्थानं गोगोष्ठम्। महिषीगोष्ठम्॥ संघाते कटज् वक्तव्यः॥ अवीनां संघातोऽविकटम्॥ विस्तारे पटज् वक्तव्यः॥ अविपटम्॥ द्वित्वे गोयुगच्॥ उष्ट्रगोयुगम्। अश्वगोयुगम्॥ प्रकृत्यर्थस्य षट्त्वे षड्गवच्॥ हस्तिषड्गवम्। अश्वषड्गवम्॥ विकारे स्नेहे तैलच्॥ एरण्डतैलम्। इङ्गुदतैलम्। तिलतैलम्॥ भवने क्षेत्र इक्ष्वादिभ्यः शाकटशाकिनौ॥ इक्षुशाकटम्। इक्षुशाकिनम्। मूलशाकटम्। मूलशाकिनम्॥

Siddhanta Kaumudi

सङ्कटम् । प्रकटम् । उत्कटम् । चाद्विकटम् ।<!अलाबूतिलोमाभङ्गाभ्यो रजस्युपसंख्यानम् !> (वार्तिकम्) ॥ अलाबूनां रजः अलाबूकटम् । तिलकटम् ।<!गोष्ठजादयः स्थानादिषु पशुनामभ्यः !> (वार्तिकम्) ॥ गवां गोगोष्ठम् ।<!संघाते कटच् !> (वार्तिकम्) ॥ अवीनां सङ्घातोऽविकटः ।<!विस्तारे पटच् !> (वार्तिकम्) ॥ अविपटः ।<!द्वित्वे गोयुगच् !> (वार्तिकम्) ॥ द्वावुष्ट्रौ उष्ट्रगोयुगम् ।<!षट्त्वे षङ्गवच् !> (वार्तिकम्) ॥ अश्वषङ्गवम् ।<!स्नेहे तैलच् !> (वार्तिकम्) ॥ तिलतैलम् । सर्षपतैलम् ।<!भवने क्षेत्रे शाकटाशाकिनौ !> (वार्तिकम्) ॥ इक्षुशाकटम् । इक्षुशाकिनम् ॥

Balamanorama

सम्प्रोदश्च कटच् - संप्रोदश्च कटच् । सं, प्र, उत् एभ्यश्च क्रियाविशिष्टसाधनवाचिभ्यः स्वार्थे कटच् स्यादित्यर्थः । चाद्वेरपि । संकटं । संहतमित्यर्थः । निबिडीकृतमिति यावत् । रूढशब्दा एते कथञ्चिद्व्युत्पाद्याः । अलाबूतिलेति । अलाबू, तिल, उमा, भङ्गा-इत्येभ्यः षष्ठन्तेभ्योरजसिपशिनामभ्यः स्थानादिष्वर्थेषु गोष्ठजादयः प्रत्यया वक्तव्या इत्यर्थः । गोष्ठजादीनां प्रत्ययानां स्थानादीनां चार्थानां प्रपञ्चनपराणिसङ्घाते कटजि॑त्यादीनिशाकटशाकिना॑वित्यन्तानि षड्वार्तिकानि । तेषु चतुर्षु ‘पशुनामब्य’ इत्यनुवर्तते । अप्रसृतावयवः समूहः-सङ्घातः ।प्रसृतावयवस्स्तु विस्तारः । द्वित्व इति । प्रकृत्यर्थगतद्वित्व इत्यर्थः । वृषगोयुगमिति । द्व्यवयवकसङ्घामिताभिप्रायमेकवचनम् । द्वयं युग्ममित्यादिवत् । केचित्तु द्वौ वृषावित्यर्थेवृषगोयुग॑मिति स्वभावादेकवचनं विंशतिरित्यादिवदित्याहुः । एवमुष्ट्रगोयुगम् । अआषङ्गवम् ।

Tattvabodhini

सम्प्रोदश्च कटच् - संप्रोदश्च । क्रियाविशिष्टसाधनवाचकात्स्वार्थे प्रत्ययः । सङ्कटं=संहतम् । संबाध इत्यर्थः । प्रकटं=प्राज्ञातम् । प्रकाशत इत्यर्थः । उत्कटम्ुद्भूतं । विकटं=विकृतं, । रूढशब्दाश्चैते कथंचिद्व्युत्पाद्यन्ते ।अलाबूतिलोमाभङ्गाभ्यो रजस्युपसङ्ख्यानम् । अलाबूकटमिति । एभ्यः पञ्चभ्यो रजस्यभिधेये कटच्प्रत्ययो भवति । रजसो विकारत्वाद्विकारप्रत्ययानामपवादोऽयम् । अलाबूकटमिति ।ओरञ्॒मयड्वैतयो॑रिति मयड्वेह प्राप्तः । तिलकटमिति ।असंज्ञायां तिलयवाभ्या॑मिति मयट् प्राप्तः । उमाशब्दाद्धृतादित्वादन्तोदात्तात्अनुदातादेश्चे॑त्यञ्,उमोर्णयोवे॑ति वुञ्च प्राप्तः । भङ्गाशब्दात्तृणधान्यानां च व्द्यषा॑मित्याद्युदात्तत्वादण्डमयड्वा प्राप्त इत्येवं यथासंभवं प्रत्ययप्राप्तिरूह्रां । हरदत्तस्तु -तिलशब्दस्य घृतादित्वादन्तोदात्तत्वमङ्गीकृत्य ततःअनुदात्तादेश्चे॑त्यञ्,असंज्ञायां तिलयवाभ्या॑मिति मयड्वा प्राप्त इत्याह । तत्र तिलशब्दस्य घृतादित्वकल्पनेबीजं चिन्त्यम् ।तृणधान्यानां च व्द्याषा॑मिति फिट्सूत्रेणाद्युदात्तस्यैव न्याय्यत्वात् ।॒तिलाश्च मे॑इत्यत्र तथैव वेदे पाठाच्च ।गोष्ठजादयः स्थानादिषु पशुनामभ्यः । गोष्ठजादय इति ।सङ्घाते कट॑जित्यादीन्यस्यैव प्रपञ्चः । इहोभयत्राऽऽदिशब्दः प्रकारे । पशुनामभ्य इति ।पशुनामादिभ्यः॑इति भाष्मे प्रचुरः पाठः । गवां स्थानमिति ।तस्येद॑मित्यत्रार्थेसर्वत्र गोरजादिप्रसङ्गे॑इति यति प्राप्ते गोष्ठच् ।सङ्घाते कटच् । सङ्घात इति । अप्रसृताक्यवः समूहः — सङ्घातः । प्रसृतावयवस्तु -बिस्तारः । कठच्पटचौ द्वावपि सामूहिकानामपवादौ ।द्वित्वे गोयुगच् । द्वित्वे इति । प्रकृत्यर्थस्य द्वित्वे द्योत्य इत्यर्थः । उष्ट्रगोयुगमिति । द्वयं युग्ममित्यादिवद्द्व्यवयवसङ्घातप्राधान्यादेकवचनम् । एवमग्रेऽपि ।

Padamanjari

कटच्प्रत्ययो भवतीति। पूर्ववत्ससाधनक्रियावचनेभ्यस्वार्थे। सङ्कटःउप्रज्ञातः, प्रकाश इत्यर्थः। उत्कटःऊद्भूतः। विकटःउविकृतः। अलाबूतिलेत्यादि। भङ्गाभ्य इति पाठः, भह्गाशब्दष्टावन्तः। यथालाबूप्रभृतिभ्यो रजस्यभिधेये कटच्प्रत्ययो भवति, रजसो विकारत्वाद्विकारप्रत्ययानामपवादः। तत्रालाबूशब्दादोरञः,’मयड् वैतयोः’ इति मयटश्चापवादः। तिलोमाशब्दाभ्यां घृतादित्वादन्तोदाताब्याम् ठनुदातादेश्चऽ इत्यञो मयटश्च। ठुमोर्णयोर्वाऽ इति वुञ्श्च, ठसंज्ञायां तिलयवाभ्याम्ऽ इति मयटश्च। भङ्गायाः’तृणधान्यानां च द्वयषाम्’ इत्याद्यौदातत्वादणो मयदस्च। गोष्ठादय इति। प्रयोगसमवायिप्रत्ययरूपं निर्दिष्टम्। चकारस्तु स्वरार्थेऽनुबन्द्वव्यः। तथा हि - समासाश्रयेण भाष्ये एतत्प्रत्याख्यातम्, समासे चान्तोदातत्वं भवति। सर्वत्रादिशब्दः प्रकारे। गवां स्थानमिति।’तस्येदम्’ इत्यत्रार्थे’सर्वत्र गोरजादिप्रत्ययप्रसङ्गे यत्’ इति यति प्राप्ते गोष्ठच्प्रत्ययः; अप्रसृतावयवः समूहःउसङ्घातः, प्रसृतावयवस्तूविस्तारः, उभावपि सामूहितानामपवादौ। द्वित्व इति। प्रकृत्यर्थस्य द्वित्वे द्योत्य इत्यर्थः। उष्टगोयुगमिति। द्वयं युगमित्यादिवद् द्वयवयवसङ्घाभिधायित्वादेकवचनम्। एवं हस्ति???गवमित्यादावपि द्रष्टव्यम्। स्नेह इति। स्निहयन्त्यनेनेति स्नेहःउद्रवरूप इङ्गुदादीनां विकारः। तत्र इङ्गुदशब्दः’लघावन्ते’ इत्याद्यौदातः, ततः’तस्य विकारः’ इत्यण्प्रत्ययः प्राप्तः; तिलशब्दाद् ठनुदातादेश्चऽ इत्यञ् प्राप्त, सोऽपि त्विष्यते-तिलानां विकारस्तैलमिति, ततर्हीदं बहु वक्तवम् ? नेत्याह; उपमानात्सिद्धम्। कथम् ? गावस्तिष्ठन्त्यस्मिन्नति गोष्ठम्, तत्साधर्म्यादुष्ट्रादिस्थानमपि गोष्ठमित्युच्यते। तत्र विसेषप्रतिपत्यर्थमुष्टादिभिर्विशेष्टते - उष्ट्रगोष्ठम्, महिषगोष्ठम्; मुख्यार्थप्रतिपतये गोभिरपि गोगोष्ठमिति। यथा गोपतिशब्दे स्वामिमात्रपरतया प्रयुक्ते गोभिरपि विशेषणम् -‘गवामसि गोपतिरेक इन्द्रः’ ‘विज्ञा हित्वा गोपतिं शूर गोनाम्’ इति, तथा नानाद्रव्याणां रज्जुवीरणादीनां सङ्घातः कटः, तत्साधर्म्यादन्योऽपि सङ्गातःक कटशब्देनोच्यते, स चाविप्रभृतिभिर्विशेषयिष्यते, एवं पटवद्विस्तीर्णोऽविसह्गोऽविपट इति। तथा युगशब्देन द्वयमुच्यते - गवोर्युगं गोयुगम्, द्वयात्मत्वसामान्यादन्यदपि युगलं गोयुगमित्युच्यते, तत उष्ट्रादिभिर्विशेष्यते, मुख्यगोयुगप्रतिपतये गवापि। तथा षड् गावः समाहृताः पड्गवम्,’गोरतद्धितलुकि’ इति टच्, पात्रादित्वान्नपुंसकत्वम्। तत्साधर्म्यादित्यादि पूर्ववत्। तथा तिलविकारो मुख्यं तैलं तत्सादृश्याद् द्रवरुपं विकारमात्रं तैलम्, तत इङ्गुदादिभिस्तिलैश्च विशेषणम्। एवं च कृत्वा तिलानां विकारस्तैलमित्यपि भवति, वाक्यप्रारम्भे चु तैलचा बाधितत्वादन स्यात्। उपर आह -‘यथा प्रकृष्टो वीणायां प्रवीण इति व्युत्पत्तिमात्रं क्रियते, कौशलमेव त्वस्य निमितम्, तथा च वीणायां प्रविण इत्यपि भवति; तथा तिलानां विकारस्तैलमिति व्युत्पत्तिमात्रम्, द्रवरूपो विकारस्त्वस्यार्थः। तथा चेङ्गुदादिभिर्विशेषणसिद्धिः’ ततु न रोचयामहे; न हि तैलमित्युक्ते द्रवरूपं विकारमात्रं प्रतियन्ति। शाकटच्शाकिनौ तु वक्तव्यावेव ॥

Nyaas

ससाधनक्रियावचनादुपसर्गात् स्वार्थे प्रत्यय इति सर्वं पूर्ववदेव वेदितव्यम्। अलाबूतिलोमा इत्यादि। अलाबूप्रभृतिभ्यो रजस्यभिधेये कटच्प्रत्ययस्योपसंख्यानं कर्तव्यम्। विकारप्रत्ययानामपवादः; अलाबूप्रभृतीनां यद्रजस्तस्य तद्विकारत्वात्। गोष्ठादयः इत्यादि। आदिशब्दः प्रकारे। पशुनामानि गोशब्दादीनि, तेभ्यः स्थानादिष्वभिधेयेषु गोष्ठजादयः प्रत्यया वक्तव्याः। तस्येदम् (4.3.120) इत्यर्थविवक्षायां स्थानादिषु गोष्ठजादयो विधीयन्ते। ननु तद्धिताः (4.1.76) इति बहुवचनेनैव संगृहीतं सङ्घाते कटजित्यादि सर्वम्? सत्यम्; अनन्तरोक्तस्यैव वाक्यस्य प्रपञ्चोऽयम्। अविकटम् इति। अत्र तस्य समूहः (4.2.37) इति सामूहिके प्रत्ययो कटट्। अविपटम् इति। प्रकीर्णानामवीनां विस्तार उच्यते। द्वावुष्टौ उष्ट्रगोयुगम्। षङ् हस्तिनो हस्तिषङ्गवम्`इङ्गुदस्य स्नेह `इङ्गुदतैलम्। तिलस्य रसास्तिलतैलम्भवने क्षेत्रे इत्यादि। इक्षूणां भवनं क्षेत्र मिक्षुशाकटम्इक्षुशाकिनम्। मूलस्य भवनं क्षेत्रं मूलशाकटम्। मूलशाकिनम्॥

Prakriyasarvasvam

संबाधप्रकाशाधिकार्थेभ्यश्च संप्रोद्भ्यो वेश्च स्वार्थे कटच् स्यात् । सङ्कटम् । प्रकटम् । उत्कटम् । विकटम् । ‘नेः समीपे’ (स० ५-२-३६) इति भोजः । निकटम् ।<!अलाबूतिलोमाभङ्गादिभ्यो रजसीष्टम्!> (वा०) । अलाबूनां रजः अलाबूकटमित्यादि ।<!पशुनामभ्यस्थाने गोष्ठद्वाच्यः!> (वा०) । गोगोष्ठम् । महिषीगोष्ठम् । अवेः सङ्घाते कटच् । ‘विस्तारे पटच्’ । अवीनां सङ्घातोऽविकटः । तेषां विस्तारेण स्थितिरविपटः । ‘द्वित्वे गोयुगच् । ‘षट्त्वे षड्गवच्’ । द्वयं पशुनामभ्य एव । उष्ट्रगोयुगम् । हस्तिषड्गवम् । ‘स्नेहे तलच्’ । इङ्गुदीतैलम् । तिलतैलम्। ‘भवने क्षेत्रे इक्ष्वादिभ्यः शाकटच्शाकिनौ’ । इक्षुशाकटम् । इक्षुशाकिनम् एवं मूलकजीरकशाकादिभ्यः । स्वामी तु भवने क्षेत्रे सर्वेभ्य एतौ मन्यते ॥

Vartika

विकारे स्नेहने तैलच् ।

Sutra Prayogas

  • विकटेन (शिशुपालवधम्): संप्रोदश्च कटच् इति चकाराद्वेः कटच् प्रत्ययः।