Sutras 41 - 60¶
- 12041: अपृक्त एकाल् प्रत्ययः
- 12042: तत्पुरुषः समानाधिकरणः कर्मधारयः
- 12043: प्रथमानिर्दिष्टं समास उपसर्जनम्
- 12044: एकविभक्ति चापूर्वनिपाते
- 12045: अर्थवदधातुरप्रत्ययः प्रातिपदिकम्
- 12046: कृत्तद्धितसमासाश्च
- 12047: ह्रस्वो नपुंसके प्रातिपदिकस्य
- 12048: गोस्त्रियोरुपसर्जनस्य
- 12049: लुक् तद्धितलुकि
- 12050: इद्गोण्याः
- 12051: लुपि युक्तवद्व्यक्तिवचने
- 12052: विशेषणानां चाजातेः
- 12053: तदशिष्यं संज्ञाप्रमाणत्वात्
- 12054: लुब्योगाप्रख्यानात्
- 12055: योगप्रमाणे च तदभावेऽदर्शनं स्यात्
- 12056: प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात्
- 12057: कालोपसर्जने च तुल्यम्
- 12058: जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्
- 12059: अस्मदो द्वयोश्च
- 12060: फल्गुनीप्रोष्ठपदानां च नक्षत्रे