12058: जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्¶
Padacheda: जाति-आख्यायाम् | S | 7 | 1 |
एकस्मिन् | S | 7 | 1 |
बहुवचनम् | S | 1 | 1 |
अन्यतरस्याम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
In (a common) name (expressive of) class, in denoting the singular, the plural is optionally used.
Vasu English Translation¶
In (a common) name (expressive of) class, in denoting the singular, the plural is optionally used. The words of this sutra require some detailed explanation. The name of a jati or species, always denotes one, since it is a collective noun, and will naturally take the singular number; by the present sutra such words may take the plural number also. In such nouns of class, the plural number has also the force of the singular. The anuvritti of asishyam does not go further.
It follows from this that adjectives which are not themselves common noun, such as संपन्नः &c., agree with the noun and will also get the plural number. Thus संपन्नो यवः or संपन्ना यवाः; “Full grown barley” पूर्ववया ब्राह्मणः प्रत्युत्येयः or पूर्ववयसो ब्राह्मणाः प्रत्युत्येयाः ॥ Why have we used the word jati in this sutra ? For this aphorism does not apply to Proper Nouns. Thus देवदत्तः Devadatta, यज्ञदत्तः Yajnadatta.
Why have we used the word आख्यायाम्? A word may be a class noun or jati, but it may not be the appellation of a class. Thus the statue of Kasyapa may also be called kasyapa; this is a class noun; but as it is not the appellation आख्या or name of a class, such words cannot take the plural form and still denote a singular sense.
Why do we say ‘ekasmin’? When two or more class names are compounded as ब्रीहियवौ ‘the rice and barley’: the rule does not apply.
Vart:- An exception must be made when a class noun is qualified by a numeral adjective. As एको ब्रीहिः संपन्नः सुभिक्षं करोति.
Bhashya¶
जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् ॥ एकत्वे बहुवचनसाधनाधिकरणम् ॥ इदमयुक्तं वर्तते। किमत्रायुक्तम्? बहवस्तेऽर्थास्तत्र युक्तं बहुवचनम्। तद्यदेकवचने शासितव्ये बहुवचनं शिष्यते एतदयुक्तम्। बहुष्वेकवचनमिति नाम वक्तव्यम्। अत उत्तरं पठति- - जात्याख्यायां सामान्याभिधानादैकार्थ्यम् - जात्याख्यायां सामान्याभिधानादैकार्थ्यं भविष्यति। यत्तद् व्रीहौ व्रीहित्वं यवे यवत्वं गार्ग्ये गार्ग्यत्वं तदेकम्, तच्च विवक्षितम्, तस्यैकत्वादेकवचनमेव प्राप्नोति। इष्यते च बहुवचनं स्यादिति। तच्चान्तरेण यत्नं न सिध्यतीति- जात्याख्यायामेकस्मिन् बहुवचनम्। एवमर्थमिदमुच्यते। अस्ति प्रयोजनमेतत्। किं तर्हीति। - तत्रैकवचनादेश उक्तम् - किमुक्तम्? व्रीहिभ्य आगत इत्यत्र घेर्ङिति (7.3.111) इति गुणः प्राप्नोतीति। नैष दोषः। - अर्थातिदेशात्सिद्धम् - अर्थातिदेशोऽयम्। नेदं पारिभाषिकस्य वचनस्य ग्रहणम्। किं तर्हि? अन्वर्थग्रहणम्- उच्यते वचनम्, बहूनामर्थानां वचनं बहुवचनमिति। यावद्ब्रूयादेकोऽर्थो बहुवद्भवतीति, तावदेकस्मिन् बहुवचनमिति। - सङ्ख्याप्रयोगे प्रतिषेधः - सङ्ख्याप्रयोगे प्रतिषेधो वक्तव्यः। एको व्रीहिः सम्पन्नः सुभिक्षं करोति। एको यवः सम्पन्नः सुभिक्षं करोति। - अस्मदो नामयुवप्रत्यययोश्च - अस्मदो नामप्रयोगे युवप्रत्ययप्रयोगे च प्रतिषेधो वक्तव्यः। नामप्रयोगे, अहं देवदत्तो ब्रवीमि। अहं यज्ञदत्तो ब्रवीमि। युवप्रत्ययप्रयोगे अहं गार्ग्यायणो ब्रवीमि। अहं वात्स्यायनो ब्रवीमि। युवग्रहणेन नार्थः अस्मदो नामप्रत्ययप्रयोगे न इत्येव। इदमपि सिद्धं भवति- अहं गार्ग्यो ब्रवीमि। अहं वात्स्यो ब्रवीमि। अपर आह- अस्मदः सविशेषणस्य प्रयोगे न इत्येव। इदमपि सिद्धं भवति- अहं पटुर्ब्रवीमि। अहं पण्डितो ब्रवीमि। - अशिष्यं वा बहुवत्पृथक्त्वाभिधानात् - अशिष्यो वा बहुवद्भावः। किं कारणम्? पृथक्त्वाभिधानात्। पृथक्त्वेन हि द्रव्याण्यभिधीयन्ते। बहवस्तेऽर्थास्तत्र युक्तं बहुवचनम्। किमुच्यते पृथक्त्वाभिधानात् इति। यावता इदानीमेवोक्तम् जात्याख्यायां सामान्यभिधानादैकार्थ्यम् इति? - जातिशब्देन हि द्रव्याभिधानम् - जातिशब्देन हि द्रव्यमप्यभिधीयते, जातिरपि। कथं पुनर्ज्ञायते जातिशब्देन द्रव्यमप्यभिधीयत इति? एवं हि कश्चिन्महति गोमण्डले गोपालकमासीनं पृच्छति- अस्त्यत्र काञ्चिद्गां पश्यसि इति। स पश्यति- पश्यति चायं गाः, पृच्छति च- काञ्चिदत्र गां पश्यसि इति, नूनमस्य द्रव्यं विवक्षितम् इति। तद्यदा- द्रव्याभिधानं तदा बहुवचनं भविष्यति, यदा सामान्याभिधानं तदैकवचनं भविष्यति ॥ जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् ॥ 58 ॥
Kashika¶
अशिष्यमिति निवृत्तम्। जातिर्नामायमेकोऽर्थः, तदभिधान एकवचनमेव प्राप्तम्, अत इदमुच्यते। जातेराख्या जात्याख्या जात्याख्यायामेकस्मिन्नर्थे बहुवचनमन्यतरस्यां भवति। जात्यर्थो बहुवद् भवतीति यावत् । तेन तद्विशेषणानामजातिशब्दानामपि संपन्नादीनां बहुवचनमुपपद्यते। संपन्नो यवः। संपन्ना यवाः। संपन्नो व्रीहिः। संपन्ना व्रीहयः। पूर्ववया ब्राह्मणः प्रत्युत्त्थेयः। पूर्ववयसो ब्राह्मणाः प्रत्युत्त्थेयाः। जातिग्रहणं किम्? देवदत्तः। यज्ञदत्तः। आख्यायामिति किम्? काश्यपप्रतिकृतिः काश्यपः। भवत्ययं जातिशब्दो न त्वनेन जातिराख्यायते। किं तर्हि? प्रतिकृतिः। एकस्मिन्निति किम्? व्रीहियवौ॥ संख्याप्रयोगे प्रतिषेधो वक्तव्यः॥ एको व्रीहिः संपन्नः सुभिक्षं करोति॥
Siddhanta Kaumudi¶
एकोऽप्यर्थो वा बहुवद्भवति । ब्राह्मणाः पूज्याः । ब्राह्मणः पूज्यः ॥
Balamanorama¶
जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम् - जात्याख्यायाम् । आकृत्यधिकरणमन्यायेन घटादिशब्दानां जातिवाचकत्वाज्जातेश्चैकत्वादेकवचनमेव स्यादित्यारम्भः । जातिशब्दे एकत्वे बहुवचनं वा स्यादित्यक्षरार्थः । तथा सति ‘ब्राआहृणा भोज्या’ इत्यादौ विशेषणान्न स्यादित्याशङ्क्य एकस्मिन्नर्थे विद्यमानः शब्दो बहूनर्थान् वक्ति, एकार्थो बहुवद्भवतीति लभ्यते इत्यभिप्रेत्याह-एकोऽप्यर्थ इति । बहुत्वप्रयुक्तं कार्यं लभत इत्यर्थः ।
Tattvabodhini¶
जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम् - एकोऽप्यर्थो वा बहुबदिति । एवंच विशेषणादपि सिद्धमिति ध्वनयन्नुदाहरति -ब्राआहृणाः पूज्या इति । जात्याख्यायां किम् । दोवदत्तो यज्ञदत्तः । एकस्मिन्किम् । व्रीहियवौ । अस्मदो द्वयोश्च । चात्एकस्मिन् बहुवचनमन्यतरस्या॑मिति च वर्तते । तदेतदाह -एकत्वे द्वित्वे च विवक्षित इत्यादि ।
Padamanjari¶
जात्याख्यायामिति विषयसप्तमी । एवमेकस्मिन्नित्यपि व्यधिकरणे चैते सप्तम्यौ । जातिर्नामेत्यादिना सूत्रारम्भस्य कारणमाह-एकोऽर्थ इति । यद्यपि वैशेषिकपरिभाषिता संख्या जातेर्न विद्यते, तस्या द्रव्यधर्मत्वात्; तथापि भेदगणनरूपा संख्या विद्यत एव । यथोक्तम् - दिष्टिप्रस्थसुवर्णादि मूर्तभेदाय कल्पते । क्रियाभेदाय कालस्तु संख्या सर्वस्य भेदिका ॥ इति । बैशेषिकाश्च व्यावहरन्ति - पञ्च कर्माणि, चतुविंशतिर्गुणा इति । जातेराख्येति । आख्यानमाख्याउ प्रत्ययनम् । एकस्मिन्नर्थ इति । जात्याख्ये बहुवचनशब्दोऽयमन्वर्थो न पारिभाषिकः, उक्तिर्वचनम्, बहूनां वचनं बहुवचनम् । ततश्चायमर्थः -एकस्मिन्नर्थे बहूनामुक्तिर्भवतीति सामर्थ्याद्वत्यर्थो गम्यते-बहूनामिवोक्तिः । यदि च जात्यर्थो बहुवद्भवतीति बहूनामिवोक्तिर्भवतीति सामर्थ्यात् स एवार्थः संपद्यत इत्याह-जात्यर्थो बहुवद्भवतीति । तेन किं सिद्धं भवतीत्याह -तेनेति । यदि तु जातिशब्दाद्वहुवचनं जात्यादि विधीयेत, ततो विशेषणेभ्यः संपन्नादिभ्यो न स्यात्, तेषामजातिशब्दात्वादिति भावः । देवदत इति । यद्यपि जातिपदार्थवादिपक्षे ह्यत्राप्यवस्थाभेदानुगता जातिः शब्दवाच्या, तथापीह सामर्थ्यादभिन्नपिण्डसमवेता जातिराश्रीयत इत्यनतिदेशः । काश्यप इति । कश्यपशब्दाद्विदाद्यञ्, तत इवार्थे संज्ञायां कन् ऽलुम्मनुष्येऽ । भवत्ययं जातिशब्द इति । गुणभूताया गोत्रजातेरभिधानात् । न त्वनेन जातिराख्यायत इति । प्रधान्येनेति भावः । असत्याख्याग्रहणे जातौ वर्तमानादित्यर्थः स्यात्, तत्र यथा व्यक्तिपर्यन्ताभिधाने गवादिभ्योऽपि भवति, एवमत्रापि स्यात् । सति तु तस्मिंस्तत्सामर्थ्याज्जातिप्राधान्ये भवति । व्रीहियवाविति । ननु च यथा काशिकोसलीया इति जनपदलक्षणो वुञ् विधीयते, न च जनपदरूपः समुदायोऽवयवाभ्यामारभ्यते; अतो यत्स्वतन्त्रं प्रातिपदिकं न तज्जनपदवाचि, यज्जनवदवाचि न तत्स्वतन्त्रं प्रातिपदिकमिति कुतो वुञः प्रसङ्गः ! अयं तु जातिप्रत्यायने विधिर्न जातिशब्दादिति स्यादेव प्रसङ्गः । संख्याप्रयोगे इति । एकस्यैव बहुत्वातिदेशे क्रियमाण एकशब्दप्रयोगेऽपि स्यादिति भावः । आरभ्यमाणेऽप्येतस्मिन् गोत्वं व्रीहित्वमित्यादि निष्कृष्य जात्यभिधानेनैवायं विधिरिष्यते । व्यक्तिपर्यन्ते त्वभिधाने जातिव्यक्त्योस्तादात्म्यं सम्बन्ध इति जातिरूपेण व्यक्तीनामभिधाने एकवचनं सिद्धम् । व्यक्त्यात्मना तु जातेरभिधाने बहुवचनमिति नार्थोऽनेन ॥
Nyaas¶
जातिर्नामायमेकोऽर्थः इत्यादिना सूत्रारम्भस्य प्रयोजनमाह। ननु जातेः संख्या न विद्यते? तस्या द्रव्यधर्मत्वात्। यद्यपि वैशेषिकसिद्धान्तप्रसिद्धा गुणपदार्थसंगृहीता या संख्या सा न विद्यते; तथापि `भेदका गुणाः इत्यस्मद्दर्शने` भेदमात्रा या संख्या सा विद्यत एवेत्यदोषः। जातेराख्या इति। आख्यानमाख्या = प्रत्यायनम्। एकस्मिन्नर्थे इति। जात्याख्योऽर्थो जात्यर्थो बहुवद्भवतीति यावत् इति। एतेनैतद्दर्शयति - न हि जातिविशेषणेभ्यः सम्पन्नादिभ्यस्तन्न स्यात्। तेषामजातिशब्दत्वादित्यभिप्रायः। कथं पुनर्जात्यर्थस्य बहुवद्भावो लभ्यते? अन्वर्थग्रहणात्। बहुवचनमिह न पारिभाषिकं बहुवचनं गृह्रते, किं तर्हि? अन्वर्थम्। उक्तिः = वचनम्। बहूनां वचनं बहुवचम्। न चैकस्मिन्नर्थे बहूनां वचनं सम्भवति, अतः सामर्थ्याद्वित्यर्थो गम्यते - एकस्मिन्नर्थे बहुविदिति। तदनेन प्रकारेण जात्यर्थो बहुवद्भवति। तेन इत्यादि। यत ए जात्यर्थस्य बहुवद्भावो विधीयते, तेन जातिविशेषणानामजातौ वर्तमानानां बहुवचनमुपपद्यते, जातिशब्दवत्।देवदत्तः इति। देवदत्तशब्दो यदृच्छाशब्दः। नानेनैकं वस्त्वनेकव्यक्त्यनुगतमभिधीयते। अनेकव्यक्त्याधारा हि जातिः। ततो न देवदत्तत्वं नाम जातिरस्तीति न भवत्यत्र बहुवद्भावः। ननु चात्रावस्थाभेदेनानेकाधारं देवदत्तत्वमस्ति, नैतदस्ति; एवं हि जातिग्रहणमनर्थकं स्यात्, सर्वत्र जातेः सम्भवात्। तस्माज्जातिग्रहणसामर्थ्याल्लोके ये जातिशब्दाः, प्रतीताः, तदर्था एवात्र जातिशब्देन विवक्षिता इति विज्ञायते, न च देवदत्तशब्दो लोके जातिशब्दः प्रतीतः।काश्यपप्रतिकृतिः काश्यपः इति। काश्यपस्यापत्यम् अनृष्यानन्तर्ये विदादिभ्योऽञ् (4.1.104) इत्यञ् - काश्यप इति। तत इवार्थे एवे प्रतिकृतौ (5.3.96) इति कन्। लुम् मनुष्ये (5.3.98) इति लप् भवति। अयं जातिशब्दः इति। गोत्रञ्च चरणैः सह (4.1.63म।भा) इति लक्षणात्, तस्य च गोत्रप्रत्ययान्तत्वात्। न त्वयं जातिरूपेणोच्यते, किं तर्हि? प्रतिकृतिरिति। एवं तर्हि जातिप्रत्यायने हि चिकीर्षिते बहुवद्भावेन भवितव्यम्। न चेह जातिप्रत्यायनं चिकीर्षितम्, किं तर्हि? प्रतिकृतिप्रत्यायनम्।व्रीहियवौ इति। एकस्मिञ्जात्यर्थे बहुवद्भावोऽनेन विधीयते। इह तु द्वौ जात्यर्थो विवक्षितौ। वक्तव्यशब्दस्य व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् - अन्यतरस्यामिति व्यवस्थितविभाषेयम्। तेन संख्याप्रयोगे न भविष्यति। अथ वा- एको व्रीहिः सम्पन्न इत्यत्रैकशब्दः प्रयुज्यमानो जात्यर्थस्यैकत्वमुद्भावयति,तच्च बहुत्वेन विरुध्यते। तस्मादेकत्वबहुत्वयोर्विरोधाद्बहुवद्भावो नेह भविष्यति॥
Prakriyasarvasvam¶
जातिमात्राभिधाने जातेरेकत्वादेकस्मिन्नर्थेऽपि वा बहुवचनं स्यात् । वन्द्या विप्राः । वन्द्यो विप्रः । संख्याप्रयोगे नेति वाच्यम् । एको विप्रः । पूजायां सर्वत्र बहुत्वमिष्टम् । <karika>आचार्यान् पितृपादांश्च भट्टमिश्रान् नमाम्यहम् । यूयं ब्रूथ महात्मान इत्येकत्वेऽपि दृश्यते ॥ ५७६ ॥ शक्यमञ्जलिभिः पातुं वाताः केतकगन्धिनः । इत्यादौ शक्यमित्येतत् सामान्योपक्रमाद् भवेत् ।। ५७७ ।।</karika> शक्यमिदमित्युपक्रम्य किं तदित्यपेक्षायां वाताः पातुमिति विशेषो योज्य इति ।। सर्वादिस्तु — सर्वः । सर्वौ । सर्व अस् ।
Vartika¶
संख्याप्रयोगे प्रतिषेधः ।