12060: फल्गुनीप्रोष्ठपदानां च नक्षत्रे

Padacheda: फल्गुनी-प्रोष्ठपदानाम् | S | 6 | 3 |

च | S | 0 | 0 |

नक्षत्रे | S | 7 | 1 |

Sutrartha


Vasu English Summary

And the dual of फाल्गुनी and प्रष्ठपदा , when signifying asterisms, (also connotes optionally plural).

Vasu English Translation

And the dual of फाल्गुनी and प्रष्ठपदा , when signifying asterisms, (also connotes optionally plural). The word च in this aphorism draws in the anuvritti of the word द्वयः from the last. Of the stars phalguni and proshthapada, the forms may be either dual or plural. As उदिते पूर्वे फल्गुन्यौ (dual); or उदिताः पूर्वाः फल्गुन्यः (plural.) So also पूर्वे प्रोष्ठपदे or पूर्वाः प्रोष्ठपदः ॥ There are two pairs of stars of the name of phalguni and proshthapada, both being of feminine gender, and their logical number being ‘dual.’ The present sutra ordains plural optionally. If phalguni and proshthapada are not names of asterisms, they must have their proper number : as फल्गुन्यौ माणविके ॥

Bhashya

फल्गुनीप्रोष्ठपदानां च नक्षत्रे अयमपि योगः शक्योऽवक्तुम्। कथम् - उदिते पूर्वे फल्गुन्यौ, उदिताः पूर्वाः फल्गुन्यः। उदिते पूर्वे प्रोष्ठपदे, उदिताः पूर्वाः प्रोष्ठपदाः? फल्गुनीसमीपगते चन्द्रमसि फल्गुनीशब्दो वर्तते। बहवस्तेऽर्थास्तत्र युक्तं बहुवचनम्। यदा तयोरेवाभिधानं तदा द्विवचनं भविष्यति ॥ फल्गुनीप्रोष्ठपदानां च नक्षत्रे ॥ 60 ॥

Kashika

चकारो द्वयोरित्यनुकर्षणार्थः। फल्गुन्योर्द्वयोः प्रोष्ठपदयोश्च द्वयोर्नक्षत्रयोर्बहुवचनमन्यतरस्यां भवति। कदा पूर्वे फल्गुन्यौ, कदा पूर्वाः फल्गुन्यः। कदा पूर्वे प्रोष्ठपदे, कदा पूर्वाः प्रोष्ठपदाः। नक्षत्र इति किम्? फल्गुन्यौ माणविके॥

Siddhanta Kaumudi

द्वित्वे बहुत्वप्रयुक्तं कार्यं वा स्यात् । पूर्वे फल्गुन्यौ । पूर्वाः फल्गुन्यः ॥ पूर्वे प्रोष्ठपदे । पूर्वाः प्रोष्ठपदाः ॥ नक्षत्रे किम् । फल्गुन्यौ माणविके ॥

Balamanorama

फल्गुनीप्रोष्ठपदानां च नक्षत्रे - फल्गुनी । ‘नक्षत्रे’ इति प्रथमाद्विवचनम् । नक्षत्रे यद्यभिधीयते इत्यर्थः । चेन द्वयोरित्यनुकर्षः । तदाह — द्वित्वे इति । पूर्वं प्रोष्ठपदे इति । स्त्रीत्वादौङः शीभावः ।प्रोष्ठपदा भाद्रपदा स्त्रिया॑मित्यमरः । फल्गुन्यौ माणविके इति । फल्गुनीनक्षत्रयुक्तकाले जाते इत्यर्थः । ‘नक्षत्रेण युक्तः’ इत्यण् । ‘लुबविशेषे’ इति लुप् । ततो जातार्थेफल्गुन्यषाढाभ्यां टाऽनौ॑ इति टः । टित्त्वान्ङीप् ।

Tattvabodhini

फल्गुनीप्रोष्ठपदानां च नक्षत्रे - फल्गुनीप्रोष्ठपदानां च । चकारेण द्वयोरनुकर्षणादाह — द्वित्व इति । फल्गुन्यौ माणविके इति । फल्गुनीशब्दात्नक्षत्रेण युक्तः कालः ॑ इत्यण् । तस्यलुबविशेषे॑इति लुप् । ततो जातार्थेफल्गुन्यषाढाभ्यां टाऽनौ॑इति टः । टित्त्वन्ङीप् । न चायं गौणः, यौगिकत्वात् । तथा च गौणमुख्यन्यायऽप्रवृत्त्यानक्षत्रग्रहणमावश्यकमिति भावः ।

Padamanjari

चकार इत्यादि । केचिदाहुः - ज्योतिषामावस्थिकी नक्षत्रता चन्द्रयोगे सति भवति, अन्यदा तु ज्योतिष्ट्वमेव । चन्द्रयोगश्च द्वयोः समुदितयोरिति द्वयोरेव बहुवचने सिद्धे चकारेण द्वयोरित्यनुकर्षन्नाचार्यो ज्ञापयति - नक्षत्रग्रहणं ज्योतिष उपलक्षणमिति । उपलक्षितज्योतिष्ट्वमेकैकस्याप्यस्तीति एकनिवृत्यर्थं द्वयोरित्यनुकर्षणीयमिति । तत्रोच्यते - सत्यप्येकैकस्य ज्योतिष्ट्वे न तत्र फल्गुनीशब्दो वर्तते, एवं प्रोष्ठपदादिशब्द उद्भूतावयवभेदः समुदाय एव ताभ्यामुच्यते । अत एव ऽच्छन्दसि पुनर्वस्वोरेकवचनम्ऽ ऽविशाखयोश्चऽ इति सूत्रारम्भः । नक्षत्रशब्दश्च निघण्टुअषु तारकापर्याय एव पठितः । वेदेऽपि ऽनक्षत्रेभिः पितरो द्यामपंशन्ऽ ऽत्वं नक्षत्राणां मेध्यसि चित्रम्ऽ ऽनक्षत्रेण युक्तः कालःऽ इत्यत्र वृत्तिकारो वक्ष्यति-ऽकथं पुनर्नक्षत्रेण पुष्यादिना कालो युज्यतेऽ इति, तदप्यनुपपन्नम्; आवस्थिके नक्षत्ररूपे पुष्यादिभिर्योस्य कादाचित्कत्वात् । ऽतिष्यपुनर्वस्वोःऽ इत्यत्र च उदितौ तिष्यादिभिर्योगस्य कादाचित्कत्वात् । ऽतिष्यपुर्वस्वोःऽ इत्यत्र च उदितौ तिष्यपुनर्वसू दृश्येते । इत्थं चन्द्रयोगेऽप्युदाहरिष्यते । प्रत्युदाहरणे च ज्योतिःस्वभावमेवार्थं दर्शयति-तिष्यपुनर्वसवो माणवका इति, तस्मान्नायं वृत्तिकारस्य पक्षः - आवस्थिकी नक्षत्रतेति । ज्योतिर्मात्रवचन एवायम् । चकारेण द्वयोरित्यस्यानुकर्षणमपि - उद्भूतावयवभेदः समुदायोऽभिधीयते, न त्वेकैकं ज्योतिरिति प्रदर्शनार्थम् । प्रोष्टपदानामिति सप्तम्यर्थे ष,ठी, नक्षत्रे इति वा षष्ठ।ल्र्थे सप्तमीत्याह-फल्गुन्योर्द्वयोरित्यादि । नक्षत्रयोरिति प्रत्येकमभिसम्बद्ध्यते । सूत्रे तु व्यत्ययेनैकवचनम् । अत्राप्यर्थस्य बहुत्वातिदेश इति विशेषणस्यापि भवति । पूर्वे फल्गुन्याविति । फल्गुनीभ्यां फल्गुनीभिर्वा युक्तः काल इति अण्, ऽलुबविशेषेऽ,ऽलुपि युक्तवद्व्यक्तिवचनेऽ । फल्गुन्यौ माणविके इति । फल्गुन्योर्जाते ऽफल्गुन्यषाढाभ्यां टानौ वक्तव्यौऽ इति टप्रत्ययः, ऽटिड्ढाणञ्ऽ इति ङीप् ॥

Nyaas

चकारो द्वयोरनुकर्षनार्थः इति। ननु च फल्गुन्यौ नक्षत्रे द्वे एव, तथा प्रोष्ठपदे अपि द्वे; अत्रानयोर्दित्वाद्वित्व एव बहुवचनं भविष्यति, तत् किं चकारेण द्वयोरित्यनुकर्षणार्थेन? एवं तह्र्रेतज्ज्ञापयति - नक्षत्रग्रहणं ज्योतिष उपलक्षणार्थमिति। तेनैतदपि सिद्धं भवति - उदिताः पूर्वाः फल्गुण्यः, उदिते पूर्वे फल्गुन्याविति। यदि नक्षत्रग्रहणं ज्योतिष उपलक्षणार्थमिति न ज्ञाप्यते, तदिह तु न स्यात्, यतो ज्योतिषामावस्थिकी नक्षत्रता चन्द्रमसा योगे सति भवति, नान्यदा; अन्यदा तु ज्योतिष्ट्वमेव। न च नक्षत्राभिधायिनः उदिताः पूर्वाः फल्गुन्यः इत्यत्र फल्गुनीशब्दस्य प्रयोगः, किं तर्हि? ज्योतिर्मात्राभिधायिन इति। अत्र ज्योतिष्ट्वमेक्सयाप्यस्तीति तन्निवृत्यर्थं द्वयोरित्यनुकर्षणार्थं चकारकरणं युक्तम्। यदि पुनज्र्योतिषउपलक्षणार्थं नक्षत्रग्रहणं न स्यात्, तदा क्व स्यात्? तदेहैव स्यात् - अद्य पूर्वाः फल्गुन्यः, अद्य पूर्वे फल्गुन्याविति। अस्ति ह्यत्र फल्गुन्योर्नक्षत्रता, चन्द्रमसा युक्तत्वात्। तथा ह - नक्षत्रेण युक्तः कालः (4.2.3) इत्यण् भवति। श्रवणं तस्य न भवति; लुबविशेषे (4.2.4) इति लुप्तत्वात्।फल्गुन्यौ माणविके इति। फल्गुन्योर्जाते इति। फल्गुन्याषाढाभ्यां टानौ (वा।451) इत्युपसंख्यानाट्टप्रत्ययः। टिड्ढाणञ् (4.1.15) इति ङीप्॥