12045: अर्थवदधातुरप्रत्ययः प्रातिपदिकम्

Padacheda: अर्थवत् | S | 1 | 1 |

अधातुः | S | 1 | 1 |

अप्रत्ययः | S | 1 | 1 |

प्रातिपदिकम् | S | 1 | 1 |

Sutrartha

यः अर्थवान् शब्दः धातुसंज्ञकः, प्रत्ययसंज्ञकः, प्रत्ययान्तः च नास्ति, तस्य ‘प्रातिपदिकम्’ इति संज्ञा भवति ।

व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति ‘प्रातिपदिकम्’ इति संज्ञा । धातुभिन्नानाम् प्रत्ययान्तभिन्नानाम् अर्थवताम् शब्दानाम् अनेन सूत्रेण ‘प्रातिपदिकम्’ इति संज्ञा भवति

धातुः

भूवादयो धातवः (१.३.१) इत्यनेन सूत्रेण धातुपाठे उपस्थिताः क्रियावाचिनः शब्दाः, तथा च तथा सनाद्यन्ताः धातवः (३.१.३२) इत्यनेन सूत्रेण सनादि-प्रत्ययान्तशब्दाः धातुसंज्ञकाः भवन्ति । एतादृशाः शब्दाः यद्यपि अर्थवन्तः सन्ति, तथापि तेषां प्रातिपदिकसंज्ञा न भवति । यथा - भू, चुर्, चोरि, पिपठिष - एतेषां शब्दानाम् (क्रियावाचिनि अर्थे) प्रातिपदिकसंज्ञा न भवति ।

प्रत्ययः, प्रत्ययान्तः शब्दः

सर्वे प्रत्ययाः प्रत्ययः (3.1.1) अस्मिन् अधिकारे पाठिताः सन्ति । एते प्रत्ययाः प्रातिपदिकसंज्ञकाः न भवन्ति । अपि च, एते प्रत्ययाः येषाम् अन्ते विद्यन्ते, ते शब्दाः अपि प्रकृतसूत्रेण प्रातिपदिकसंज्ञकाः न भवन्ति । यथा - ‘रामः’ इति सुँ-प्रत्ययान्तशब्दः प्रातिपदिकसंज्ञकः नास्ति । एवमेव ‘पठति’ इति तिप्-प्रत्ययान्तशब्दः प्रातिपदिकसंज्ञकः नास्ति ।

अर्थवान् शब्दः

यः शब्दः भाषायाम् कञ्चित् अर्थम् गृह्णाति, परन्तु धातुसंज्ञकः, प्रत्ययसंज्ञकः, प्रत्ययान्तः वा नास्ति, तस्य प्रकृतसूत्रेण ‘प्रातिपदिक’संज्ञा विधीयते । यथा, ‘हूहू’ इति कस्यचन गन्धर्वस्य नाम । अयं शब्दः न हि धातुसंज्ञक , न हि प्रत्ययः, न च प्रत्ययान्तः अस्ति । परन्तु अस्य शब्दस्य विशिष्टः अर्थः विद्यते । अतः अस्य शब्दस्य प्रकृतसूत्रेण प्रातिपदिकसंज्ञा भवति ।

प्रातिपदिकसंज्ञायाः प्रयोजनम्

प्रातिपदिकसंज्ञायाः मुख्यम् प्रयोजनम् अस्ति प्रत्ययविधानम् । सुप्-प्रत्ययाः, स्त्री-प्रत्ययाः तद्धितप्रत्ययाः च प्रातिपदिकेभ्यः विधीयन्ते । यथा, ‘बाल’ इत्यस्मात् प्रातिपदिकात् ‘सुँ’ इति सुप्-प्रत्यये कृते ‘बालः’ इति शब्दः सिद्ध्यति, ‘टाप्’ इति स्त्रीप्रत्यये कृते ‘बाला’ इति शब्दः सिद्ध्यति, ‘ष्यञ्’ इति तद्धितप्रत्यये कृते ‘बाल्य’ इति शब्दः सिद्ध्यति । प्रातिपदिकसंज्ञायाः अन्यानि अपि प्रयोजनानि सन्ति । यथा, न लोपः प्रातिपदिकान्तस्य (8.2.7) इत्यनेन पदसंज्ञकस्य प्रातिपदिकस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति -

नामन् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]
--> नामन् + स् [**उपदेशेऽजनुनासिक इत्** (1.3.2) इति इत्संज्ञा । **तस्य लोपः** (1.3.9) इति लोपः]
--> नामन् + ० [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति अपृक्तसकारस्य लोपः । प्रत्ययस्य लोपे कृते अपि **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इति प्रत्ययलक्षणा **सुप्तिङन्तं पदम्** (1.4.14) इति पदसंज्ञा भवति ।]
--> नाम [पदसंज्ञकस्य प्रातिपदिकस्य अन्ते विद्यमानस्य नकारस्य **न लोपः प्रातिपदिकान्तस्य** (8.2.7) इति लोपः]

प्रातिपदिकसंज्ञायाः प्रयोगः

अष्टाध्याय्यां प्रातिपदिकसंज्ञायाः साक्षात् प्रयोगः षट्सु सूत्रेषु कृतः अस्ति - 1. ह्रस्वो नपुंसके प्रातिपदिकस्य (1.2.47) 2. प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा (2.3.46) 3. सुपो धातुप्रातिपदिकयोः (2.4.71) 4. ङ्याप्प्रातिपदिकात् (4.1.1) 5. नलोपः प्रातिपदिकान्तस्य (8.2.7) 6. प्रातिपदिकान्तनुम्विभक्तिषु च (8.4.11) अनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः प्रयोगः भवितुम् अर्हति ।

कृत्प्रत्ययान्तशब्दाः, तद्धिप्रत्ययान्तशब्दाः

‘कर्तृ’, ‘पाठक’ एतादृशाः कृत्-प्रत्ययान्तशब्दानां, तथा च ‘वासुदेव, राघव’ एतादृशः तद्धितप्रत्ययान्तशब्दानां तेषाम् ‘प्रत्ययान्तत्वात्’ प्रकृतसूत्रेण प्रातिपदिकसंज्ञा न भवति । परन्तु एतेषाम् शब्दानाम् प्रातिपदिकसंज्ञा अवश्यम् इष्यते । तदर्थम् पाणिनिना कृत्तद्धितसमासाश्च (1.2.46) इति अग्रिमं सूत्रम् निर्मितम् अस्ति । अनेन सूत्रेण कृदन्तानाम् तद्धितान्तानां च प्रातिपदिकसंज्ञा भवति ।

स्त्रीप्रत्ययान्तशब्दाः

‘बाला’, ‘देवी’ एतादृशानां स्त्रीप्रत्ययान्तशब्दानाम् ‘प्रत्ययान्तत्वात्’ प्रकृतसूत्रेण तेषां प्रातिपदिकसंज्ञा न भवति । वस्तुतः तु स्त्रीप्रत्ययान्तशब्दानाम् प्रातिपदिकसंज्ञा एव न भवति, यतः तदर्थम् अष्टाध्याय्यां किमपि सूत्रम् न पाठ्यते । परन्तु प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् अनया परिभाषया - ‘यत्र प्रातिपदिकम् अनुसृत्य किञ्चन कार्यम् उक्तम् अस्ति, तत्र तस्मात् प्रातिपदिकात् स्त्रीप्रत्ययं कृत्वा सिद्धे शब्दे अपि तत् कार्यम् भवितुम् अर्हति’ इति अर्थः उच्यते, अतः प्रातिपदिकसंज्ञायाः अभावात् अपि स्त्रीप्रत्ययान्तशब्दैः सह प्रातिपदिकसदृशः एव व्यवहारः क्रियते । अपि च, ङ्याप्प्रातिपदिकात् (4.1.1) इत्यस्मिन् सूत्रे ‘ङी’ तथा ‘आप्’ एतयोः ग्रहणेन बहूनाम् स्त्रीप्रत्ययान्तशब्दानाम् साक्षात् ग्रहणं कृत्वा तेभ्यः सुप्-प्रत्ययाः तद्धितप्रत्ययाः च उक्ताः सन्ति, अतः तादृशम् अपि तेभ्यः प्रत्ययविधानम् कर्तुं शक्यते ।

उणादिप्रत्ययान्तशब्दाः

बहूनाम् अर्थवताम् शब्दानाम् निर्माणम् धातुभ्यः <a href=’/unaadi’ target=’_blank’>उणादिप्रत्ययान्</a> योजयित्वा कृतम् अस्ति । यथा, ‘लक्ष्मीः’ इति शब्दः ‘लक्ष्’ धातोः लक्षेर्मुट् च (उणादिः ३.१६०) इत्यनेन ‘ई’ इति प्रत्ययं कृत्वा सिद्ध्यति । एतादृशाः उणादिप्रत्ययान्तशब्दाः प्रातिपदिकानि सन्ति । परन्तु एते शब्दाः प्रातिपदिकत्वं कथं प्राप्नुवन्ति अस्मिन् विषये पण्डितेषु मतान्तराणि विद्यन्ते । अत्र मुख्यरूपेण पक्षद्वयं विद्यते - अ) उणादयः व्युत्पन्नानि प्रातिपदिकानि - अस्मिन् पक्षे ‘सर्वे उणादिप्रत्ययाः कृत्संज्ञकाः सन्ति’ इति सिद्धान्तं संस्थाप्य उणादिप्रत्ययान्तशब्दानां कृदन्तत्वं स्वीक्रियते । अस्यां स्थितौ प्रकृतसूत्रेण तु एतेषाम् प्रातिपदिकसंज्ञा न भवति ।परन्तु कृत्तद्धितसमासाश्च (1.2.46) इत्यनेन अग्रिमसूत्रेण एतेषाम् प्रातिपदिकसंज्ञा भवितुम् अर्हति । आ)**उणादयः अव्युत्पन्नानि प्रातिपदिकानि** - अस्मिन् पक्षे उणादिप्रत्ययानाम् अष्टाध्याय्याः सन्दर्भे साक्षात् प्रत्ययत्त्वं नानुमन्यते, अतः उणादिप्रत्ययान्तशब्दाः अष्टाध्याय्याः दृष्ट्या अव्युत्पन्नाः सन्ति । तेषाम् प्रकृति-प्रत्ययरूपेण विभागः न भवितुम् अर्हति इत्याशयः । अस्यां स्थितौ सर्वेषाम् उणादिप्रत्ययान्तशब्दानाम् अर्थवत्त्वात् प्रकृतसूत्रेणैव तेषाम् प्रातिपदिकसंज्ञा भवितुम् अर्हति ।

Sutrartha (English)

A meaningful word which is not a धातु, not a प्रत्यय, and which does not end in प्रत्यय is called a ‘प्रातिपदिक’.

Vasu English Summary

A significant form of a word, not being a verbal root (धातु), or an affix (प्रत्यय) is called a प्रातिपदिक or crude-form.

Vasu English Translation

A significant form of a word, not being a verbal root (धातु), or an affix (प्रत्यय) is called a प्रातिपदिक or crude-form. This defines the word “pratipadika” or crude-form. The pratipadika is the intermediate stage in the development of a full word (pada), from the undifferentiated ore called the dhatu or root. It is that part of a word which is capable of receiving the case-terminations.

The word अर्थ means having signification. With the exception of verbal roots and affixes, a word-form having a significance or meaning is called a pratipadika, as डित्थः ‘a wooden elephant,’ कपित्थ ‘the wood-apple tree,’ कुण्डम् ‘a bowl,’ पीठम् ‘a seat.’:

Why do we say “significant”? Of course it must have some meaning. Thus of the word वनं, we cannot say that the portion वन् is pratipadika; as it has no meaning, and had it been a pratipadika, the final न् would have been dropped by Rule (8.2.7) [1] (the final न् of a pratipadika is dropped).

The word must not be a verb, as the word अहन् (the third person sing. number, imperfect tense of हन्) he killed. Had it been a pratipadika, the न् would have been dropped.

The word must not be an affix or ending in an affix:-as कुण्डे ‘in the bowl.’ Here the word ends in the affix इ of the locative case, and is consequently not a ‘pratipadika’ or crude form, but a complete word. Had it been a pratipadika, the ए would have been shortened into इ by rule 47 succeeding.

A nipata or particle though not a significant form of a word, yet gets the designation of pratipadika in the opinion of the author of the Mahabhashya. As अध्यागच्छति, प्रलम्बते.

## Footnotes - [1] - नलोपः प्रातिपदिकान्तस्य ॥

Bhashya

अर्थवदधातुरप्रत्ययः प्रातिपदिकम् ॥ पदकृत्यनिरूपणाधिकरणम् ॥ (अर्थवद्ग्रहणं किमर्थम्?।) अर्थवदिति व्यपदेशाय। वर्णानां च मा भूदिति। किं च स्यात्?। वनं घनमिति नलोपः प्रातिपदिकान्तस्य (8.2.7) इति नलोपः प्रसज्येत। अधातुरिति किमर्थम्? अहन् वृत्रम्। अधातुरिति शक्यमवक्तुम्। कस्मान्न भवति अहन्वृत्रम् इति? आचार्यप्रवृत्तिर्ज्ञापयति- न धातोः प्रातिपदिकसञ्ज्ञा भवतीति, यदयं सुपो धातुप्रातिपदिकयोः (2.4.71) इति धातुग्रहणं करोति। नैतदस्ति ज्ञापकम्। प्रतिषिद्धार्थमेतत्स्यात् अपि काकः श्येनायते इति। अप्रत्यय इति किमर्थम्? काण्डे कुड्ये। अप्रत्यय इति शक्यमवक्तुम्। कस्मान्न भवति काण्डे कुड्य इति? कृत्तद्धितग्रहणं नियमार्थं भविष्यति- कृत्तद्धितान्तस्यैव प्रत्ययान्तस्य प्रातिपदिकसञ्ज्ञा भवति, नान्यस्य इति। - अर्थवत्यनेकपदप्रसङ्गः - अर्थवति प्रातिपदिकसञ्ज्ञायामनेकस्यापि पदस्य प्रातिपदिकसञ्ज्ञा प्राप्नोति। दश दाडिमानि, षडपूपाः, कुण्डमजाजिनं पललपिण्डः अधरोरुकमेतत्कुमार्याः स्फैयकृतस्य पिता प्रतिशीनः इति। समुदायोऽत्रानर्थकः। - समुदायोऽनर्थक इति चेदवयवार्थवत्त्वात्समुदायार्थवत्त्वं यथा लोके - समुदायोऽनर्थक इति चेदवयवार्थवत्त्वात्समुदायार्थवत्त्वम्। अवयवैरर्थवदि्भः समुदाया अप्यर्थवन्तो भवन्ति। यथा लोके। तद्यथा- लोके आढ्यमिदं नगरं गोमदिदं नगरम् इत्युच्यते। न च सर्वे तत्राढ्या भवन्ति, सर्वे वा गोमन्तः। यथा लोके इत्युच्यते, लोके चावयवा एवार्थवन्तो न समुदायाः। अतश्चावयवा एवार्थवन्तो न समुदायाः। यस्य हि यद् द्रव्यं भवति स तेन कार्यं करोति। यस्य च या गावो भवन्ति स तासां क्षीरं घृतं चोपभुङ्क्ते, अन्यैरेतद् द्रष्टुमप्यशक्यम्। का तर्हीयं वाचोयुक्तिराढ्यमिदं नगरं गोमदिदं नगरमिति? एषैषा वाचोयुक्तिः। इह तावदाढ्यमिदं नगरमित्यकारो मत्वर्थीयः- आढ्या अस्मिन्सन्ति तदिदमाढ्यमिति। गोमदिदं नगरमिति, मत्वन्तान्मत्वर्थीयो लुप्यते। एवमपि- - वाक्यप्रतिषेधोऽर्थवत्त्वात् - वाक्यस्य प्रातिपदिकसञ्ज्ञायाः प्रतिषेधो वक्तव्यः। देवदत्त गामभ्याज शुक्लाम्, देवदत्त गामभ्याज कृष्णामिति। किं कारणम्? अर्थवत्त्वात्। अर्थवद्ध्येतद्वाक्यं भवति। न वै पदार्थादन्यस्यार्थस्योपलब्धिर्भवति वाक्ये। - पदार्थादन्यस्यानुपलब्धिरिति चेत् पदार्थाभिसम्बन्धस्योपलब्धिः (स्तस्मात्प्रतिषेधः) - पदार्थादन्यस्यानुपलब्धिरिति चेदेवमुच्यते- पदार्थाभिसम्बन्धस्योपलब्धिर्भवति वाक्ये। इह देवदत्त इत्युक्ते कर्ता निर्दिष्टः, कर्म क्रियागुणौ चानिर्दिष्टौ। गामित्युक्ते कर्म निर्दिष्टम्, कर्ता क्रियागुणौ चानिर्दिष्टौ। अभ्योजेत्युक्ते क्रिया निर्दिष्टा, कर्तृकर्मणी गुणश्चानिर्दिष्टः। शुक्लामित्युक्ते गुणो निर्दिष्टः, कर्तृकर्मणी क्रिया चानिर्दिष्टा। इहेदानीं देवदत्त गामभ्याज शुक्लामित्युक्ते सर्वं निर्दिष्टम्- देवदत्त एव कर्ता नान्यः। गामेव कर्म नान्यत्। अभ्याजैव क्रिया नान्या। शुक्लमेव न कृष्णामिति। एतेषां पदानां सामान्ये वर्तमानानां यद्विशेषेऽवस्थानं स वाक्यार्थः। तस्मात् प्रतिषेधः। तस्मात्प्रतिषेधो वक्तव्यः। न वक्तव्यः। - अर्थवत्समुदायानां समासग्रहणं नियमार्थम् - अर्थवत्समुदायानां समासग्रहणं नियमार्थं भविष्यति। समास एवार्थवतां समुदायानां प्रातिपदिकसञ्ञ्ज्ञो भवति नान्य इति। यदि नियमः क्रियते प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसञ्ज्ञा न प्राप्नोति- बहुपटवः उच्चकैर्नीचकैरिति। किं पुनरत्र प्रातिपदिकसञ्ञ्ज्ञया प्रार्थ्यते? प्रातिपदिकादिति स्वाद्युत्पत्तिर्यथा स्यादिति। नैष दोषः। यथैवात्राप्रातिपदिकत्वात्सुबुत्पत्तिर्न भवति, एवं लुगपि न भविष्यति। तत्र यैवासावन्तर्वर्तिनी विभक्तिस्तस्या एव श्रवणं भविष्यति। नैवं शक्यम्। स्वरे दोषः स्यात्- बहुपटव इत्येवं स्वरः स्यात्। बहुपटव इति चेष्यते। पठिष्यति ह्याचार्यः- चितः सप्रकृतेर्बह्वकजर्थम् इति। तस्यां पुनर्लुप्तायां यान्या विभक्तिरुत्पद्यते तस्याः प्रकृत्यनेकदेशत्वादन्तोदात्तत्वं न भविष्यति। एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति- भवति प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसञ्ज्ञा- इति। यदयमप्रत्ययः इति प्रतिषेधं शास्ति। स च तदन्तप्रतिषेधः। स तर्हि ज्ञापकार्थः प्रत्ययप्रतिषेधो वक्तव्यः। ननु चायं प्राप्त्यर्थोऽपि वक्तव्यः। नार्थः प्राप्त्यर्थेन। कृत्तद्धितग्रहणं नियमार्थं भविष्यति- कृत्तद्धितान्तस्यैव प्रत्ययान्तस्य प्रातिपदिकसञ्ज्ञा भविष्यति, नान्यस्य प्रत्ययान्तस्य इति। स एषोऽनन्यार्थः प्रत्ययप्रतिषेधो वक्तव्यः। प्रकृतिप्रत्ययसमुदायस्य वा प्रातिपदिकसञ्ज्ञा वक्तव्या। उभयं न वक्तव्यम्। तुल्यजातीयस्य नियमः। कश्च तुल्यजातीयः? यथाजातीयकानां समासः। कथं जातीयकानां समासः? सुबन्तानाम्। सुप्तिङ्समुदायस्य तर्हि प्रातिपदिकसञ्ज्ञा प्राप्नोति। सुप्तिङ्समुदायस्यापि प्रातिपदिकसञ्ज्ञाऽऽरभ्यते- जहि कर्मणा बहुलमाभीक्ष्ण्ये कर्तारं चाभिदधातीति। तन्नियमार्थं भविष्यति- एतस्यैव सुप्तिङ्समुदायस्य प्रातिपदिकसञ्ज्ञा भवति, नान्यस्य इति। तिङ्समुदायस्य तर्हि प्रातिपदिकसञ्ज्ञा प्राप्नोति। तिङ्समुदायस्यापि प्रातिपदिकसञ्ज्ञाऽऽरभ्यते- आख्यातमाख्यातेन क्रियासातत्ये इति। तन्नियमार्थं भविष्यति- एतस्यैव तिङ्समुदायस्य प्रातिपदिकसञ्ज्ञा भवति, नान्यस्य इति। - अर्थवत्ता नोपपद्यते केवलेनाऽवचनात् - अर्थवत्ता नोपपद्यते वृक्षशब्दस्य। किं कारणम्? केवलेनावचनात्। न केवलेन वृक्षशब्देनार्थो गम्यते। केन तर्हि? सप्रत्ययकेन। - न वा प्रत्ययेन नित्यसम्बन्धात् केवलस्याऽप्रयोगः - न वैष दोषः। किं कारणम्? प्रत्ययेन नित्यसम्बन्धात् नित्यसम्बन्धावेतावर्थौ प्रकृतिः प्रत्यय इति। प्रत्ययेन नित्यसम्बन्धात् केवलस्य प्रयोगो न भविष्यति। अन्यद्भवान्पृष्टोऽन्यदाचष्टे। आम्रान् पृष्टः कोविदारानाचष्टे। अर्थवत्ता नोपपद्यते केवलेनावचनाद् इति भवानस्माभिश्चोदितः केवलस्याऽप्रयोगे हेतुमाह। एवं किल नाम कृत्वा चोद्यते समुदायस्यार्थे प्रयोगादवयवानामप्रसिद्धिः इति। - सिद्धं त्वन्वयव्यतिरेकाभ्याम् - सिद्धमेतत्। कथम्? अन्वयाद् व्यतिरेकाच्च। कोसावन्वयो व्यतिरेको वा? इह वृक्ष इत्युक्ते कश्चिच्छब्दः श्रूयते वृक्षशब्दोऽकारान्तः सकारश्च प्रत्ययः। अर्थोऽपि कश्चिद् गम्यते मूलस्कन्धफलपलाशवान्, एकत्वं च। वृक्षावित्युक्ते कश्चिच्छब्दो हीयते कश्चिदुपजायते कश्चिदन्वयी। सकारो हीयते, औकार उपजायते, वृक्षशब्द अकारान्तोऽन्वयी। अर्थोऽपि कश्चिद्धीयते कश्चिदुपजायते कश्चिदन्वयी- एकत्वं हीयते द्वित्वमुपजायते मूलस्कन्धफलपलाशवानन्वयी। ते मन्यामहे- यः शब्दो हीयते तस्यासावर्थो यो हीयते, यः शब्द उपजायते तस्यासावर्थो योऽर्थ उपजायते, यः शब्दोऽन्वयी तस्यासावर्थो योऽर्थोऽन्वयीति। विषम उपन्यासः। बहवो हि शब्दा एकार्था भवन्ति। तद्यथा- इन्द्रः शक्रः पुरुहूतः पुरन्दरः। कन्दुः कोष्ठः कुसूल इति। एकश्च शब्दो बह्वर्थः। तद्यथा- अक्षाः पादा माषा इति। अतः किम्? न साधीयोऽर्थवत्ता सिद्धा भवति। न ब्रूमः- अर्थवत्ता न सिध्यतीति। वर्णिता अर्थवत्तान्वयव्यतिरेकाभ्यामेव। तत्र कुत एतदयं प्रकृत्यर्थोऽयं प्रत्ययार्थ इति। न पुनः प्रकृतिरेवोभावर्थौ ब्रूयात्। प्रत्यय एव वा? सामान्यशब्दा एत एवं स्युः। सामान्यशब्दाश्च नान्तरेण विशेषं प्रकरणं वा विशेषेष्ववतिष्ठन्ते। यतस्तु खलु नियोगतो वृक्ष इत्युक्ते स्वभावतः कस्मिंश्चदर्थे प्रतीतिरुपजायते। अतो मन्यामहे नेमे सामान्यशब्दा इति। न चेत्सामान्यशब्दाः, प्रकृतिः प्रकृत्यर्थे वर्तते, प्रत्ययः प्रत्ययार्थे। ॥ वर्णानामर्थवत्तानर्थकत्वनिर्णयाधिकरणम् ॥ किं पुनरिमे वर्णा अर्थवन्तः, आहोस्विदनर्थकाः? - वर्णस्यार्थवदनर्थकत्वे उक्तम् - किमुक्तम्?। अर्थवन्तो वर्णा धातुप्रातिपदिकप्रत्ययनिपातानामेकवर्णानामर्थदर्शनाद्वर्णव्यत्यये चार्थान्तरगमनाद्वर्णानुपलब्धौ चानर्थगतेः सङ्घातार्थवत्त्वाच्च। सङ्घातस्यैकार्थ्यात् सुबभावो वर्णात्। अनर्थकास्तु प्रतिवर्णमर्थानुपलब्धेर्वर्णव्यत्ययापायोपजनविकारेष्वर्थदर्शनाद् इति। तत्रेदमपरिहृतम्- सङ्घातार्थवत्त्वाच्चेति। तस्य परिहारः- - सङ्घातार्थवत्त्वाच्चेति चेद् दृष्टो ह्यतदर्थेन गुणेन गुणिनोऽर्थभावः - सङ्घातार्थवत्त्वाच्चेति चेद् दृश्यते हि पुनरतदर्थेन गुणेन गुणिनोऽर्थभावः। तद्यथा- एकस्तन्तुस्त्वक्त्राणेऽसमर्थस्तत्समुदायश्च कम्बलः समर्थः। एकश्च तण्डुलः क्षुत्प्रतिघातेऽसमर्थः, तत्समुदायश्च वर्द्धितकं समर्थम्। एकश्च बल्वजो बन्धनेऽसमर्थः, तत्समुदायश्च रज्जुः समर्था भवति। विषम उपन्यासः। भवति हि तत्र या च यावती चाऽर्थमात्रा। भवति हि कञ्चित्प्रत्येकस्तन्तुस्त्वक्त्राणे समर्थः, एकश्च तण्डुलः क्षुत्प्रतिघाते समर्थः, एकश्च बल्वजो बन्धने समर्थः। इमे पुनर्वर्णा अत्यन्तमेवाऽनर्थकाः। यथा तर्हि रथाङ्गानि विहृतानि प्रत्येकं व्रजिक्रियां प्रत्यसमर्थानि भवन्ति तत्समुदायश्च रथः समर्थः, एवमेषां वर्णानां समुदाया अर्थवन्तः, अवयवा अनर्थका इति। ॥ अथानर्थकनिपातप्रातिपदिकसञ्ज्ञासाधनाधिकरणम् ॥ - निपातस्यानर्थकस्य प्रातिपदिकत्वम् - निपातस्यानर्थकस्य प्रातिपदिकसञ्ज्ञा वक्तव्या। खञ्जति। निखञ्जति। लम्बते प्रलम्बते। किं पुनरत्र प्रातिपदिकसञ्ञ्ज्ञया प्रार्थ्यते? प्रातिपदिकाद् इति स्वाद्युत्पत्तिः सुबन्तं पदम् इति पदसञ्ज्ञा। पदस्य पदात् (8.1.16,17) इति निघातो यथा स्यात्। नैतदस्ति प्रयोजनम्। सत्यामपि प्रातिपदिकसञ्ज्ञायां स्वाद्युत्पत्तिर्न प्राप्नोति। किं कारणम्? नहि प्रातिपदिकसञ्ज्ञायामेव स्वाद्युत्पत्तिः प्रतिबद्धा। किं तर्हि? एकत्वादिष्वप्यर्थेषु स्वादयो विधीयन्ते। न चैषामेकत्वादयः सन्ति। नैष दोषः। अविशेषेणोत्पद्यन्ते। उत्पन्नानां नियमः क्रियते। अथ वा प्रकृतानर्थानपेक्ष्य नियमः। के च प्रकृताः? एकत्वादयः। एकस्मिन्नेवार्थ एकवचनं, न द्वयोर्न बहुषु। द्वयोरेवार्थयोद्विवचनं नैकस्मिन्न बहुषु। बहुष्वेवार्थेषु बहुवचनं, नैकस्मिन्न द्वयोः इति। अथवाऽऽचार्यप्रवृत्तिर्ज्ञापयति- अनर्थकानामप्येतेषां भवत्यर्थवत्कृतम् इति, यदयमधिपरी अनर्थकौ (1.4.93) इत्यनर्थकयोर्गत्युपसर्गसञ्ज्ञाबाधिकां कर्मप्रवचनीयसञ्ञ्ज्ञां शास्ति। ॥ अथाप्रत्यय इत्यत्र पर्युदासप्रसज्यप्रतिषेधविचारः ॥ किं पुनरयं पर्युदासो यदन्यत्प्रत्ययादिति, अहोस्वित्प्रसज्याऽयं प्रतिषेधः प्रत्ययो नेति? कश्चात्र विशेषः? - अप्रत्यय इति चेत्तिबेकादेशे प्रतिषेधोऽन्तवत्त्वात् - अप्रत्यय इति चेत्तिबेकादेशे प्रतिषेधो वक्तव्यः। काण्डे कुड्ये। किं कारणम्? अन्तवत्त्वात्। तिबतिपोरेकादेशोऽतिपोऽन्तवत्स्यात्। अस्त्यन्यत्तिप इति कृत्वा प्रातिपदिकसञ्ज्ञा प्राप्नोति। अस्तु तर्हि प्रसज्यप्रतिषेधः- प्रत्ययो न इति। - न प्रत्यय इति चेदूङेकादेशे प्रतिषेध आदित्त्वात् - न प्रत्यय इति चेदूङेकादेशे प्रतिषेधः प्राप्नोति। ब्रह्मबन्धूः। किं कारणम्? आदिवत्त्वात् प्रत्ययाऽप्रत्यययोरेकादेशः प्रत्ययस्यादिवत्स्यात्। तत्र प्रत्ययो न इति प्रतिषेधः प्राप्नोति। किं पुनरत्र प्रातिपदिकसञ्ञ्ज्ञया प्रार्थ्यते? प्रातिपदिकादिति स्वाद्युत्पत्तिर्यथा स्यात्। नैष दोषः। आचार्यप्रवृत्तिर्ज्ञापयति- उत्पद्यन्ते ऊङन्तात्स्वादय इति, यदयं नोङ्धावत्वोः (6.1.175) इति विभक्तिस्वरस्य प्रतिषेधं शास्ति। अथ वा द्वे ह्यत्र प्रातिपदिकसञ्ञ्ज्ञे- अवयवस्यापि, समुदायस्यापि। तत्रावयवस्य या प्रातिपदिकसञ्ज्ञा तयाऽन्तवद्भावात्स्वाद्युत्पत्तिर्भविष्यति। - सुब्लोपे च प्रत्ययलक्षणत्वात् - सुब्लोपे च प्रत्ययलक्षणेन प्रतिषेधः प्राप्नोति। राजा। तक्षा। प्रत्ययलक्षणेन प्रत्ययो न इति प्रतिषेधः प्राप्नोति। नैष दोषः। आचार्यप्रवृत्तिर्ज्ञापयति- न प्रत्ययलक्षणेन प्रतिषेधो भवतीति, यदयं- न ङिसम्बुद्ध्योः (8.2.8) इति प्रतिषेधं शास्ति। अथ वा पुनरस्तु पर्युदासः। ननु चोक्तमप्रत्यय इति चेत्तिबेकादेशे प्रतिषेधोऽन्तवत्त्वाद् इति। प्रसज्यप्रतिषेधेऽप्येष दोषः। द्वे ह्यत्र प्रातिपदिकसञ्ञ्ज्ञे, अवयवस्यापि समुदायस्यापि। गृह्यते च प्रातिपदिकाप्रातिपदिकयोरेकादेशः प्रातिपदिकग्रहणेन। तस्मादुभाभ्यामपि वक्तव्यं स्याद्- ह्रस्वो नपुंसके यत्तस्य इति। किं च नपुंसके? नपुंसकं यस्य गुणः। कस्य च नपुंसकं गुणः? प्रातिपदिकस्य ॥ अर्थवदधातुरप्रत्ययः प्रातिपदिकम् ॥ 45 ॥

Kashika

अभिधेयवचनोऽर्थशब्दः। अर्थवच्छब्दरूपं प्रातिपदिकसंज्ञं भवति धातुप्रत्ययौ वर्जयित्वा। डित्थः। कपित्थः। कुण्डम्। पीठम्। अर्थवदिति किम्? वनम्, धनमिति नान्तस्यावधेर्मा भूत्। नलोपो हि स्यात्। अधातुरिति किम्? हन्तेर्लङ् — अहन्। नलोपः स्यात्। अप्रत्यय इति किम्? काण्डे। कुड्ये। ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इति ह्रस्वःस्यात्। अनर्थकस्यापि निपातस्य प्रातिपदिकसंज्ञेष्यते। अध्यागच्छति। प्रलम्बते। प्रातिपदिकप्रदेशाः — ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इत्येवमादयः॥

Siddhanta Kaumudi

धातुं प्रत्ययं प्रत्ययान्तं च वर्जयित्वार्थवच्छब्दस्वरूपं प्रातिपदिकसंज्ञं स्यात् ॥

Laghu Siddhanta Kaumudi

धातुं प्रत्ययं प्रत्ययान्तं च वर्जयित्वा अर्थवच्छब्दस्वरूपं प्रातिपदिकसंज्ञं स्यात्॥

Balamanorama

अर्थवदधातुरप्रत्ययः प्रातिपदिकम् - अथ स्वौजसमौडित्यादिना स्वादिप्रत्ययान्वक्ष्यति । तत्र ङ्याप्प्रातिपदिकादित्यधिकृतम् । किं तत्प्रातिपदिकमिति जिज्ञासायामाह — अर्थवदधातुः । अर्थोऽस्यास्तीत्यर्थवत् । नपुंसकलिङ्गनुसारात्-॒शब्दस्वरूप॑मिति विशेष्य मध्याहार्यम् । अधातुरिति, अप्रत्यय इति च तद्विशेषणम् । न धातुरधातुरिति नञ्तत्पुरुषः ।परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः॑ इति पुंस्त्वम् । ‘अप्रत्यय’ इत्यावर्तते । प्रत्ययभिन्नं प्रत्ययान्तभिन्नं च विवक्षितम् । पूर्ववत्पुंस्त्वम् ।संज्ञाविधा॑विति निषेधस्तुं प्रत्ययस्य यत्र संज्ञा तद्विषय इति भावः । तदाह — धातु प्रत्ययमित्यादिना । अव्युत्पन्ना डित्थादिशब्दा इहोदाहरणानि । अर्थवदिति किम् । दनं वनमित्यादौ प्रतिवर्णं प्रातिपदिकसंज्ञा मा भूत् । सत्यां हि प्रातिपदिकसंज्ञायां प्रतिवर्णं सुवुत्पत्तिः स्यात्, सङ्ख्याकारकाभावेऽपि प्रथमैकवचनस्य सोर्दुर्वारत्वात्प्रथमाविभक्तेः कारकानपेक्षत्वात्तदेकवचनस्य सङ्ख्यानवगमे ।ञपि प्रवृत्तेर्भाष्ये सिद्धान्तितत्वाच्च । नच हल्ङ्यादिना सुलोपात्प्रतिवर्णं सोरुत्पत्तावपि न क्षतिरिति वाच्यम्, एवमपि नलोपस्य दुर्वारत्वादकारात्सो रुत्वविसर्गापत्तेश्चेत्यलम् । अधातुरिति किम् । हनधातोर्लङि, तिपि, शपि लुकि, इतश्चेतीकारलोपे, अडागमे, हल्ङ्यादिलोपेऽहन्निति रूपम् । अत्र धातोः प्रातिपदिकसंज्ञायां सुबपबादे तिङि उत्पन्ने लुप्ते तस्मिन् प्रातिपदिकसंज्ञायाः प्रागुत्पन्नाया अनपगमान्नलोपः स्यात् । नच प्रत्ययलक्षणमाश्रित्य प्रत्ययान्तपर्युदासादेव न प्रातिपदिकत्वमिति वाच्यम् । एवमपि प्राक्प्रवृत्तप्रातिपदिकत्वस्यानपगमात् । नचैवमपि कार्यकालपक्षे नलोपार्थं प्रातिपदिकसंज्ञायां क्रियमाणायां प्रत्यलक्षणेन प्रत्ययान्तस्य प्रातिपदिकसंज्ञा न स्यादिति वाच्यम् । तर्हि हे राजन्नित्यत्रापि प्रत्ययलक्षणेन प्रत्ययान्तत्वात्प्रातिपदिकत्वाभावे सति नलोपस्याऽप्रसक्तौ ‘न ङिसंबुद्ध्योः’ इति तन्निषेधवैयथ्र्यप्रसङ्गात् । नच राजन्शब्दस्यौणादिककनिन्प्रत्ययान्तस्य कृत्तद्धितेति प्रातिपदिकत्वान्नलोपप्रसक्तौ ‘न ङिसंबुद्धयोः’ इति निषेधो ।ञर्थवानिति वाच्यम्, उणादीनामव्युत्पत्तिपक्षे कृत्तद्धितेत्यस्याऽप्रवृत्तेः । एवं चास्मादेव निषेधात्प्रत्ययलक्षणमाश्रित्याऽप्रत्ययान्त इति पर्युदासो न प्रवर्तत इति विज्ञायते । एवं च अह न्नित्यत्राप्यप्रत्ययान्तत्वात्प्रातिपदिकत्वप्राप्तौ तन्निवृत्त्यर्थमधातुग्रहणम् । अप्रत्यय इति किम् । हरिषु करोषीत्यत्र सुप्सिपोरर्थवत्त्वादप्रत्ययान्तत्वाच्च प्रातिपदिकत्वे प्राप्ते तन्निवृत्त्यर्थमप्रत्यय इति प्रत्ययपर्युदासः । नचात्र सुप्सिपोव्र्यपदेशिवद्भावेन प्रत्ययान्तत्वात्प्रत्ययान्तपर्युदासेनैव प्रातिपदिकत्वनिवृत्तिसंभवात्क प्रत्ययपर्युदासेनेति वाच्यम्, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणमिति परिभाषया प्रकृतिप्रत्ययसमुदायस्यैव प्रत्ययान्ततया केवलप्रत्यययोः सुप्सिपोः पर्युदासाऽलाभात् । अप्रत्ययान्त इति किम् ।हरिषु करोषि अत्र प्रक-तिप्रत्ययसमुदाययोः प्रत्ययभिन्नत्वादर्थवत्त्वाच्च प्रातिपदिकत्वं मा भूत् ।

Tattvabodhini

अर्थवदधातुरप्रत्ययः प्रातिपदिकम् - अथाजन्तपुंलिङ्गप्रकरणम् । अर्थवदधातु । प्रत्ययं प्रत्ययान्तं चेति । सूत्रे तन्त्रादिनोभयं विवक्षितमिति भावः । अर्थव॑दिति नपुंसकनिर्देशस्याऽनुगुणं विशेष्यमध्याहरति — शब्दस्वरूपमिति ।अधातुरप्रत्यय॑ इति पुंलिङ्गनिर्देशस्तुपरवल्लिङ्गं द्वन्द्वतत्पुरुषयोः॑ इत्युत्तरपदलिङ्गवत्त्वाद्बोध्य इत्याहुः । यदि तु धातुभिन्नमित्यर्थं परित्यज्यारोपितो धातुरधातुरिति व्याख्यायते, तदा नपुंसकत्वप्राप्तेराशङ्कैव नास्तीति ज्ञेयम् । अर्थवदिति किम् ।धनं॑वन॑मित्यादौ प्रतिवर्णं संज्ञा मा भूत् । तस्यां च सत्यां स्वादयः स्युः । ननु सङ्ख्याकर्मादेरभावान्न भविष्यतीति चेन्न;एकवचनमुत्सर्गतः करिष्यते॑ इति सिद्धान्ताद्धुंफडादिभ्य इव सोर्दुर्वारत्वात् । न चार्थवद्ग्रहणपरिभाषया अनर्थके न स्यादिति वाच्यं, तस्या विशिष्टरूपोपादानविषयत्वात् ।प्रादूहोढ॑इत्यत्र तुऊढ॑ इति विशिष्टरूपमुपात्तमितिक्तवत्वन्तैकदेशस्यानर्थकस्योढशब्दस्य ग्रहणं नेत्युक्तम् । न ह्यत्र तथा विशेषरूपस्योपादानमस्ति । यद्यप्यधातुरित्यादिपर्युदासेनार्थवत्त्वं लभ्यते, तथाप्युत्तरार्थमर्थवह्ग्रहणं स्पष्टप्रतिपत्तये इहैव कृतम् । न चैकाज्द्विर्वचनन्यायेन समुदायस्यैव संज्ञा स्यान्नावयवानामित्यर्थवद्ग्रहणमिह व्यर्थमिति शङ्क्यं ; समुदाये द्विरुक्ते अवयवा अपि द्विरुक्ता भवन्ति ।वृक्षः प्रचलन्सहावयवैः प्रचलती॑ति न्यायात् । इह तु समुदाये प्रवृत्तया प्रातिपदिकसंज्ञया नावयवानां तत्कार्यसिद्धिरिति वैषम्यात् । अतएवयत्र बहवो हलः संश्लिष्टास्तत्र द्वयोर्बाहूनां चाऽविशेषेण संयोगसंज्ञे॑ति सिद्धान्तः सङ्गच्छते । अन्यथा त्वदुपन्यस्तन्यायेन समुदाय एव संयोगसंज्ञा प्रवर्तेत । अत्र केचित्-॒धनं॑वन॑मित्यादौ प्रतिवर्णं सत्यामपि संज्ञायां सत्स्वपि स्वादिषु न क्षतिः ।हल्ङ्या॑बित्यादिना सुलोपात् । न च नलोपो धस्य जश्त्वं च स्यादिति शङ्क्यम्, धातुपाठेधन॑वने॑त्युच्चारणसामर्थ्यात्तदप्रवृत्तेरित्याहुः । तदसत् । कारात्सोरुत्पत्तौ रुत्वप्रवृत्तेः । यद्यपि समुदितप्रातिपदिकस्यावयवत्वेन सुपो लुकि रुत्वं न भवेत्तथापिचिकीर्षति॑विद्म॑ इत्यादौ रेफदकारयोः पदान्तत्वे सतिखरवसानयो॑रिति विसर्गस्ययरोऽनुनासिके॑ इत्यनुनासिकस्य च प्रसङ्गादिति दिक् । अधातुः किम् , अहन् । धातोः प्रातिपदिकसंज्ञायां सत्यां तिङां स्वाद्यपवादत्वादहन्नित्यत्र हन्तेस्तिपि सिप#इ वा कृतेइतश्चे॑तीकारलोपे हल्ङ्यादिलोपे च प्राक्कृता प्रातिपदिकसंज्ञा नापगतेतिनलोपः प्रातिपदिकान्तस्ये॑ति नलोपः स्यात्तन्मा भूत् ।अहन् इति रुत्वंरोऽसुपी॑ति रत्वं चेह नाशङ्क्यम्, लाक्षणिकत्वात् । न च कार्यकालपक्षे प्रत्ययान्तत्वेन पर्युदासात्प्रातिपदिकसंज्ञाऽभावेन नलोपो न भवेदिति वाच्यं, प्रत्ययलक्षणेन उक्तपर्युदासाऽप्रवृत्तेःन ङिसंबुध्द्यो॑रिति निषेधेन ज्ञापितत्वात् । कथमन्यथाराज॑त्यादौ नलोपः स्यात् । यद्यपि व्युत्पत्तिपक्षे राजञ्शब्दस्य कनिन्प्रत्ययान्ततयाकृत्तद्धिते॑ति प्रातिपदिकसंज्ञायां राजेत्यादौ नलोपःस्यात् , तथा चन ङिसबनध्द्यो॑रिति निषेधो न ज्ञापक इति कार्यकालपक्षेऽधातुग्रहणं व्यर्थं, तथाप्यव्युत्पत्तिपक्षे ज्ञापक एवेति कार्यकालेऽपि तत्स्वीकर्तव्यम्, न चसुपो धा॑त्विति सूत्रे प्रातिपदिकात्पृथग्धातुग्रहणाद्धातोर्नेयं संज्ञेति वाच्यम्,पुत्रीयती॑त्यादौ प्रत्ययान्ते धातुग्रहणस्य चरितार्थत्वात् । अप्रत्ययः किम् , हरिषु, करोषि । अत्र सुप्सिपोर्मा भूत् । अप्रत्ययान्तः किम् । तत्रैव विभक्तिविशिष्टयोर्मा भूत् । न चान्तवद्भावेनकाण्डे॑कुडए॑इत्यादौ प्रातिपद#इकत्वं स्यादेव । तथा चह्रस्वो नपुंसके-॑ इति ह्रस्वः सोरुत्पत्तिश्च स्यादिति वाच्यम्,सप्तम्यधिकरणे चे॑त्यादिनिर्देशेन विभक्तयेकादेशस्यान्तवद्भावानभ्युपगमादिति दिक् । ननु प्रत्ययपर्युदासो न कर्तव्यः, प्रत्ययान्तपर्युदासेनैव गतार्थत्वात् । व्यपदेशिवद्भावेन तस्यापि प्रत्ययान्तत्वादिति चेन्मैवं, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेग्र्रहणात्, केवलस्य चाऽतथात्वात् । अन्यथा सुप्तिङोरपि तदन्तत्वात्पदत्वं स्यात् । तथा चहरिषु॑करोषी॑-त्यादौ षत्वं न स्यात्,साप्तपदाद्यो॑रिति निषेधात् । न च षत्वविधेर्निरवकाशाता,सर्पिषे॑एष॑ इत्यादौ चरितार्थत्वात् । अन्ये तु व्याचक्षते-॒कृत्तद्धिते॑त्यत्र हि तदन्तविधिर्वक्ष्यते । तथा चतद्धितग्रहणस्य तद्धितान्तानामेव नत्वन्यप्रत्ययान्तानां संज्ञे॑ति नियमार्थतामाश्रित्य प्रत्ययान्तपर्युदासोऽत्र न कर्तव्यः । अथवासात्पदाद्यो॑रिति सूत्रे सातिग्रहणात्प्रत्ययो न प्रातिपदिकमिति सिद्धे प्रत्ययग्रहणं सामर्थ्यात्तदन्तपरम् । उत्तरसूत्रे तद्धितग्रहणं तु विध्यर्थमेवाऽस्तु । यद्वा सातिग्रहणात्प्रत्ययस्य प्रातिपदिकत्वाऽभावे तद्धितग्रहणस्योक्तरीत्या नियमार्थत्वे चअर्थवदधातुः प्रातिपदिक॑मित्येव सुवचमिति, तेषाम्इको यणची॑ति सूत्रं व्यर्थं स्यात् ।तस्मादित्युत्तरस्य॑वाय्वृतुपित्रुषसः॑-इत्यादिनिर्देशाज्ज्ञापकादिष्टसिद्धेः ।नाज्झलौ॑ इत्यत्राकारसहितोऽच् आजित्ययं मूलग्रन्थोऽपि विरुध्येत,कालसमयवेलासु॑-इत्यादिज्ञापकादेव ढत्वाऽभावसिद्धे । यदि ज्ञापकेन प्रत्याख्यानमयुक्तमिति, यदि चाऽऽकारप्रश्लेषे एव तल्लिङ्गमित्यभ्युपगमे सूत्राक्षरैरेवेष्टं सिध्यतीत्युच्येत, तर्हिअप्रत्यय॑ इत्येतदभ्युपगम्य प्रत्ययपर्युदासेसाति॑ग्रहणं लिङ्गं, प्रत्ययान्तपर्युदासे तु तद्धितग्रहणमित्यप्रत्ययग्रहणमेवावर्त्त्य व्याख्यायतां, किमनया कुसृष्टयेति दिक् ।अधातुप्रत्यया॑विति सिद्धे नञ्द्वयोपादानमप्रत्यय इत्यस्यावृत्तिसोकर्यार्थम् । महासंज्ञाकरणं श्रुत्यनुरोधात् । तथा चाथर्वणे पटते — ॒को धातुः, किं प्रातिपदिकं, कः प्रत्ययः॑ इति । डित्थादीन्यव्युत्पन्नानीहोदाहरणम् । अव्युत्पत्तिपक्षस्य चेदमेव ज्ञापकमिति प्राञ्चः । वस्तुतस्तु व्युत्पत्तिपक्षेबहुपटव॑ इत्याद्यर्थं सूत्रमिति नव्याः । न चैवंबहुच्पूर्वः प्रातिपदिक॑मित्येव सूत्र्यतामिति वाच्यम्,मूलकेनोपदंश॑मित्यादौ कृदन्तत्वेनातिप्रसङ्गात्, गतिकारकपूर्वस्यापि कृदन्तत्वात् । न च समासग्रहणं नियमार्थमिति निस्तारः, अर्थवत्सूत्रारम्भं विना समासग्रहणस्य नियमार्थत्वाऽयोगात् ।

Padamanjari

अभिधेयवचनोऽर्थशब्द इति । न प्रयोजनवचनोऽव्यभिचारात्; न निवृत्तिवचनः, स्वयं निवृतस्य किं संज्ञया ! न धनवचनः, स्वस्वामिभावस्यासम्भवात् । तच्चाभिधेयं चतुर्द्धा-चातिगुणक्रियाद्रव्यभेदेन; गौः, शुल्कः, पाचकः, डित्थ इति । यद्यर्थवतः संज्ञा, अभावशशविषाणादीनां न प्राप्नोति; अर्थाभावात् । मा भूदनेन, समास इति भविष्यति ? न; अर्थंवदित्यनुवृतेः । अन्यर्थाऽनर्थकेऽत्र विधिसम्भावत् समासग्रहणं नियमार्थं न स्यात्, उच्यते; येषां तावद्भूतलाद्याश्रयं घटादिप्रतियोगिकं नास्तीति बुद्धिबोध्यं तत्वान्तरमभावस्तन्मते तेनार्थेनार्थवत्वम्; येषामप्याश्रयाभिमतं भूतलादिस्वरूपमेव तद्बुद्धिविशेषो वा प्रतियोगिनो घटादेरभावस्तन्मते तेनैव भूतलादिनार्थऽवत्वमित्यभावस्य तावत्सिद्धा संज्ञा । शशविषाणमित्यत्रापि गवादिष्वनुभूतविषाणं शशमस्तकवर्तितया बुद्ध्योत्प्रेक्ष्य तस्यैवाभिधानाय शब्दप्रयोगः । बुद्ध्युपारोह एव चार्थस्य शब्दप्रयोगे कारणम्, न बहिः सता । यदि बहिः सन्तमेवार्थं शब्दा अभिदधति; घटो नास्तीति प्रयोगो न स्याद्; एकत्र पौनरुक्त्याद्, अपरत्र विरोधाद् । बुद्ध्युअरूढस्य बहिः सत्वासत्वाप्रतिपादनायोपपद्यतए प्रयोगः । एवमपाक्षीत्, पक्ष्यति, अस्य सूत्रस्य शाटकं वयेत्यादावपि बुद्ध्युपारूढ एव पच्यादीनामर्थः; न तु शब्दप्रयोगकाले बहिः सिद्धः । डित्थादीन्यव्युत्पन्नान्युदाहरणानि । व्युत्पतौ कृदन्तत्वादेव सिद्धम् । सर्वनाम धातुजमित्यत्रापि पक्षेऽव्ययार्थमनुकरणशब्दार्थं च सूत्रमारभ्यमेव । ननु लौकिके प्रयोगे शब्दानामर्थवताध्यवसायः, स च वाक्यस्यैव पदस्य वा विभक्त्यन्तस्य; न तु प्रकृतिभागमात्रस्येति कथं तस्य निष्कृष्यार्थवत्वनिश्चयः ! येषां हि सहैव प्रयोगस्तेषां सङ्घातस्यैवार्थवता यथा वर्णानाम् ? उच्यते; अन्वयव्यतिरेकाभ्यां शब्दार्थनिश्चयः, यस्य शब्दस्यान्वये योऽर्थः प्रतीयते, व्यतिरेके च व्यतिरिच्यते स तस्यार्थः । वृक्षौ वृक्षा इत्यादौ च प्रत्ययसामान्यव्यभिचारेऽपि तद्विशेषव्यभिचारः, वृतौ सामान्यव्यभिचारश्च वृक्षखण्डं वार्क्षी शाखेति, अर्थस्तु मूलस्कन्धफलपलाशादिमान् यावद्वृक्षशब्दं प्रतीयते । नान्तस्यावधेरिति । ननु ऽवन षण सम्भक्तौऽ,ऽधन धान्येऽ इत्येतयोर्धात्वोरेतौ शब्दौ पचाद्यचि व्युत्पादितौ, तत्राधातुरिति निषेधो भविष्यति । एवं तर्ह्यव्युत्पत्तिपक्ष एतदुक्तम्, अत एवोदाहरणत्वेनाप्यनयोरुपन्यासः । किं चासत्यर्थ वद्ग्रहणे प्रतिवर्णं संज्ञाप्रसङ्गः, न च प्रतिवर्कणं धातुसंज्ञा, न चाधातुरप्ररत्यय इति पर्युदासाश्रयणाद् अर्थवतो ग्रहणम् । अनर्थकयोरपि धातुप्रत्यययोः सम्भवाद्, यथा-अधीते, यावक इति । अत्र ह्यधिपूर्वस्येङेऽर्थवत्वं न तु इङ्; तिस्य क्वचिदप्यप्रयोगाद् । यावक इत्यत्रापि यावशब्दस्यैवार्थवत्वं न तु कनः; अन्तरेणापि तदर्थावगमात् । न च ज्ञायते-केन धर्मेण सादृश्यमिति ! न चार्थवद्ग्रहणपरिभाषयार्थवतो ग्रहणम् ? एषा हि नियतरूपोपादाने व्यवस्थापयति, न चात्र रूपविशेषोपादानम् । ननु सत्यामप्यनर्थकस्य संज्ञायां संख्याकर्मादिषु विधीयमानाः स्वादयो न भविष्यन्ति, नैतदस्ति; अविशेषेणोत्पद्यन्ते, उत्पन्ना नामर्थनियमः, ततश्चाव्ययवत् स्वादयः स्युरेव । नलोपो हि स्यादिति । विभक्तेस्तु श्रवणं न भवति, समुदायस्यापि पृथक् प्रातिपदिकसंज्ञायां तदन्तर्भावाल्लुको भावात् । यद्येवम्, द्विर्वचनन्यायेनावयवस्य न भविष्यति, युक्तं तत्र पज् इत्यत्र येनैवाचा समुदाय एकाच्, तेनैव तदवयवोऽच्छब्दः पशब्दश्च; न चैकस्यैकदाऽनेकं प्रत्यवयवत्वं निरूपयितुं शक्यम् । किञ्च - समुदायद्विर्वचनेनावयवा अपि द्विरुच्यन्ते, तदात्मकत्वात्त्स्य । इह त्ववयवानां समुदायस्य च संज्ञानिबन्धनं शब्दत्वं पृथगेव । तत्र समुदायस्य यत् तेन यस्यैव कार्यं नावयवानाम् । ननु च एति, आभ्याम्, औपगवः, अ अपेहीति, धातुप्रातिपदिकप्रत्ययनिपातानामेकवर्णानामर्थदर्शनात् वृक्षादिष्वपि वर्णा अर्थवन्तः, तथा कूप इति ककारे सति कश्चिदर्थो गम्यते, यूप इति यकारोपजनेऽर्थन्तरम्, तेन मन्यामहे यः कूपे कूपार्थः स ककारस्य, यो यूपे यूपार्थः स यकारस्येति; तथा ऽब्राह्मणऽ इत्युक्ते योऽर्थो गम्यते नासौ बकारादीनामन्यतरापायेऽपि गम्यते । येषां च संघातो यत्कार्यं करोति प्रत्येकमपि तत् कुर्वन्ति, यथा-तिलानां खारी तैलमुत्पादयति, प्रत्येकं च तिलाः । ये च यस्मिन् प्रत्येकमसमर्थास्तेषां संघातोऽपि तत्रासमर्थः, यथा-प्रत्येकं सिकतास्तैलं नोत्पादयन्ति तथा खार्यति तासाम् । अतः संघातार्थवत्वाच्चार्थवन्तो वर्णाः, तत्कथमर्थवद्ग्रहणे सत्यपि तेषां निवृत्तिः । अनर्थकास्तु, प्रतिवर्णानामर्थानुपलब्धेः, न हि ऽब्राऽ इत्युक्ते कश्चिदर्थो गम्यते । अतो धात्वादीनामेकवर्णानामर्थवत्वाद् अन्यऽपि वर्णा अर्थवन्त इत्यनुपलब्धिबाधितमेतद् । एवमन्येऽपि हेतवो बाधितविषयाः । किं च कूपो यूप इत्यन्वयव्यतिरेकाभ्यां ककारयकारयोर्थवत्वे यूप इति चतुर्णां वर्णानामानर्थक्यमभ्युपगतं स्यात्; अथ तेषामर्थवत्वं भूयिष्ठः कूपे यूपार्थः स्यात्, कूपार्थश्च यूपे, यत्र भूयसामर्थवतामन्वयः, व्यतिरेकस्तु कस्यचित्; तत्रार्थानामपि भूयसानुमपृतिर्भवति, व्यतिरेकस्तु कस्यचिद्; यथा देवदत गामभ्याज शुक्लाम्, देवदत गामभायाज कृष्णामिति । अतः संघाता एव तेनार्थवन्तः । संघातार्थवत्वाच्चेति हेतुरनैकान्तिकः, तैलाग्निवर्तिसंघातेन दीपः, न प्रत्येकम्, रथावयवैश्चक्रादिभिः संहतैर्व्रजिक्रिया । किञ्चार्थवतां विपर्यासेऽर्थप्रत्ययस्यापि विपर्यासः-आहर पात्रं पात्रमाहरेति, अपाये चापायः-गामभ्याज शुक्लां गामभ्याजेति, उपजने चोपजनः-गामभ्याज शुक्लामिति । वर्णेषु तु नैवम्, हिनस्तीति सिंहो हन्ति हतः घ्नन्ति । अतः संघाता एवार्थवन्तः । अहन्निति । हन्तेर्लङ् इतिप् ऽइतश्चऽ लोपे हल्ङ्यादिलोपोऽट्, स हन्ग्रहणेनैव गृह्यते, अत्र प्रागेव लणुत्पतेः संज्ञायां तस्यामुतरकालं पदत्वे सति नलोपः स्यात् । यद्वा प्रातिपदिकसंज्ञा पदसंज्ञासमकालेमेव स्यात्, न वाऽप्रत्यय इति प्रतिषेधः; ऽन ङसिम्बुद्ध्योःऽ इति लिङ्गात्; अन्यथा हे राजन्नित्यादावप्रत्यय इति निषेधादप्रातिपदिकत्वादेव नलोपप्रसङ्गात् । अधातुरिति शक्यमकर्तुम्, ऽसुपो धातुऽ इति धातुगुरहणं ज्ञापकम्-न धातोरियं संज्ञेति । नैतदस्ति ज्ञापकम्, प्रतिषिद्धार्थमेतत् स्यात्, श्येनायत इत्यादावप्रत्यय इति निषिद्धा संज्ञेति भिद्, भूः, पूरित्येवमादौ क्विबन्तत्वे कृदन्तत्वादुतरसूत्रेण संज्ञा । न च तस्या अपि प्रतिषेधोऽयम्, ऽमध्येऽपवादाःऽ इति न्यायात्, पर्युदासत्वाद्वा । काण्डे इति । प्रथमाद्विवचनस्य ऽनपुंसकाच्चऽ इति शीभावः, अप्रत्यय इति च प्रत्ययग्रहणपरिभाषया तदन्तस्य निषेधः । यत्र हि प्रत्ययः संज्ञिरूपेऽनुप्रविशति, यथा- ऽतरप्तमपौ घःऽ इति, तत्र पदसंज्ञायामन्तवचनेन तदन्तविधिप्रतिषेधः । इह तु पर्युदासे प्रत्ययव्यतिरिक्तः संज्ञी, प्रसज्यप्रतिषेधेऽपि न संज्ञाविधौ प्रत्ययग्रणं, किं तर्हि ? प्रतिषेध इति, नास्ति निषेधः । ननूतरसूत्रे कृतद्धितग्रहणं नियमार्थं भविष्यति-प्रत्ययान्तस्य यदि भवति कृतद्धितान्तस्यैवेति, उच्यते; अस्मिन् सत्यप्रतिषेधे संज्ञाविधौ तदन्तविधिप्रतिषेधात्प्रत्ययस्य यदि भवति कृतद्धितस्यैवेति स्थानिनियमः स्यात् । सति त्वस्मिन्, अत्र तावत्प्रत्ययान्तस्य निषेध इति उतरसूत्रेऽपि तद्धितान्तस्य ग्रहणं भवति । अथ क्रियमाणेऽप्यप्रत्यय इत्यस्मिन्नपुंसकह्रस्वत्वं कस्मान्न भवति ? पर्युदासे तावत्प्रत्ययाप्रत्यययोरेकादेशस्य पूर्वं प्रत्यन्तवद्भावः, प्रसज्यप्रतिषेधेऽप्यन्तरङ्गत्वात् प्रागेव प्रत्ययोत्पतेः काण्डशब्दस्य प्रवृता संज्ञेति एकादेशस्यान्तवद्भाव इत्यास्त्येव प्रातिपदिकत्वम् । तथा च ब्रह्मबन्धूरित्यूणेóकादेशस्यान्तवत्वात् स्वाद्युत्पत्तिः । न चाप्रत्यय इत्यस्य वैयर्थ्यम्; त्रपुणी इत्यादौ यत्रैकादेशत्वं नास्ति तत्रार्थवत्वात् । एवं तर्हि नपुंसके यद्वर्तते तस्यह्स्वः, विभक्त्यन्तं तु संख्याप्रधानं कारकशक्तिप्रधानं च, न च तयोर्लिङ्गयोगः, न चान्यवद्भावेनार्थः शक्योऽतिदेष्टुअमिति न भवति ह्स्वः । यद्येवम्, त्रपुणी इत्यादावप्येवमेव न भविष्यति, नार्थोऽनेन, न चान्यः प्रत्ययान्तो व्यावर्त्यः सम्भवति । तथा हि, षड्विधाः प्रत्ययाः - सनादयः, कृतः तिङ्ः, सुपः, स्त्रीप्रत्ययाः,तद्धिताश्चेति । प्रतिपदिककार्यमपि ऽह्रस्वो नपुंसके प्रातिपदिकस्यऽ ऽगौस्त्रियोरुपसर्जनस्यऽ इति ह्रस्वत्वम्, ऽङ्याप्प्रातिपदिकात्ऽ इति प्रत्ययविधिश्च । तच्च कृतद्धितान्तस्येष्यत थएव । सन्प्रभृतिषु येषां तावद्धातुत्वं तेषामधातुरित्येव प्रतिषेधः, श्यन्शबादीनामपि विकरणानां लिङ्गाभावः, संख्याकर्माद्यभावोऽपत्याद्यर्थायोगश्च । एवं तिङ्न्तानाम्, यथा-यः पचतिरूपम्, तस्यापत्यम् इति रूपबन्तत्वात्सत्यपि प्रातिपदिकत्वे । ये तु सम्भवन्ति स्वार्थिकास्ते ऽतिङ्श्चऽ इति ज्ञापकान्न भवन्ति । स्त्रीप्रत्ययानां तु विरुद्धेन नपुंसकेनायोग एव, कुमारीपुत्र इत्यत्र ऽगोस्त्रियोःऽ इति ह्रस्वः स्यादिति चेद् ? अथ क्रियमाणेऽपि प्रतिषेधे राजकुमारीपुत्र इत्यत्र कस्मान्न भवति, अत्र हि समासत्वादस्त्येव प्रातिपदिकत्वम् ? अतो यस्तत्र परिहारः, स एवात्रापि भविष्यति । प्रत्ययविधिस्त्विष्यत एव । ऽङ्याप्प्रातिपदिकात्ऽ इति सुबन्तस्य ह्रस्वत्वं न प्राप्नोतीत्युक्तमेव । सुपां चाप्रसङ्गः; तद्विधानदशायां तदन्तस्यासम्भवात्, लिङ्गाभावात् स्त्रीप्रत्ययाभावः । तद्धितास्त्विष्यन्त एव ऽसमर्थानां प्रथमाद्वाऽ इति । अतो नार्थोऽनेन, उतरसूत्रे तद्धितग्रहणेन च, उच्यते; ऽबहुषु बहुवचनम्ऽ ऽकर्मणि द्वितीयाऽ इत्यादिनां स्वादिविधिवाक्येन भिन्नवाक्यतापक्षे सर्वेभ्यः प्रत्ययान्तेभ्यः स्वादयः स्युः यथा-अव्ययेभ्यः । विकरणान्ताच्च स्वार्थिकास्तद्धिताः स्युरेवेत्यतोऽप्रत्ययग्रहणं कर्तव्यं तद्धितग्रहणं च । काण्डे कुड।ल् इत्येतयोस्तु प्रत्युदाहरणत्वम् ऽहस्वो नपुंसकेऽ इत्यत्रोपपादयिष्यामः । अथ प्रत्यायमात्रस्य संज्ञा कस्मान्न भविष्यति, सत्यां हि संज्ञायामुक्तेन न्यायेन बहुपटव इत्यादौ स्वादयः स्युः ? उच्यते-व्यपदेशिवद्भावेन प्रत्ययान्तवद्प्रत्यय इति प्रतिषेधो भविष्यति । यद्येवम्, कृतद्धितमात्रेऽपि विधिसम्भवात् उतरसूत्रे तदन्तविधिर्न भवति । अत्र परिहारं वक्ष्यामः ॥

Nyaas

अभिधेयवचनोऽयमर्थशब्दः इति। एतेन प्रयोजनादिवचनाद्वयवच्छिनत्ति। अर्थशब्दो हि प्रयोजनवचनोऽप्यस्ति, यथा - अनेनार्थनागतः, अनेन प्रयोजनेनेति गम्यते। निवृत्तिवचनोऽप्यस्सि, यथा - मशकारर्थो धूम इति, मशकनिवृत्त्यर्थ इति गम्यते। धनवचनोऽप्यस्ति,यथा - अर्थवान् देवदत्त इति, धनवानिति गम्यते। अभिधेयवचनोऽप्यस्ति, यथा - अस्य वचनस्यायमर्थ इति, इदमस्याभिधेयमिति गम्यते। इह त्वभिधेयवचनस्यैव ग्रहणम्। तत् पुनरभिधेयं जातिगुणक्रियाद्रव्यभेदेन चतुर्विधम्।अत एव चतुष्टयी शब्दानां प्रवृत्तिर्भवति। तत्र जातिशब्दानां जातिरभिधेया - गौरिति। यद्यर्थवतः प्रातिपदिकसंज्ञा विधीयते तदाऽभाववचनशशविषाणादिशब्दानां प्रातिपदिकसंज्ञा नोपपद्यते, अर्थाभावात्, नैतदस्ति; अर्थशब्दोऽभिधेयवचनः (का।1.2.45) इत्युक्तम्, अभावोऽप्यभिधेयो भवत्येव। अन्यथा ह्रर्थाभावादितीदं वचनमनुच्चारणीयं स्यात्, अनर्थकत्वात्, न ह्रनर्थकं वचनं प्रयोगर्हति। तस्मादबाववचनानामपि प्रातिपदिकसंज्ञा भवत्येव।नान्तस्याधेर्मा भूत् इति। ननु चाधातुरिति प्रतिषेधो भविष्यति, तथा हि वन सम्भ्कतौ (धातुपाठः-463), धन धान्ये (धातुपाठः-1104) इत्येतयोः धरात्वोरेते रूपे, नैतदस्ति; अव्युत्पन्नावपि वनधनशब्दौ स्तः, तयोरेवायं प्रयोगः। अत्र यदि नान्तस्यावधेः प्रातिपदिकसंज्ञा स्यात् तदा सुबुत्पत्तिः स्यात्, ततश्च पदसंज्ञायां सत्यां नलोपः स्यात्। ननु च अधातुः अप्रत्ययः - नैतदस्ति; अनर्थकस्यापि धातोर्विद्यमानत्वात् यथा - इङ अध्ययने (धातुपाठः-1046), इक् स्मरणे (धातुपाठः-1047) इति - एतयोरधिपूर्वयोरेवार्थवत्त्वम्, न केवलयोः। यस्तु गणपाठेऽनयोरर्थनिर्देशः, स समुदायार्थमवयवेऽध्यारोप्य कृत इति वेदितव्यम्। अध्यारोपितार्थयोरपि तयोर्गणपाठसामर्थ्याद्धातुसंज्ञा भवत्येव। एवं प्रत्ययोऽप्यनर्थकोऽप्यस्ति। यथा - यावादिभ्यः कन् (5.4.29) , याव एव यावक इति। न ह्यत्र प्रत्ययस्यान्वयव्यतिरेकाभ्यां शक्यतेऽर्थवत्त्वं प्रत्येतुम्। विनापि तेन कन्प्रत्ययेन यावशब्दादेव तदर्थः प्रतीययते। तस्मादर्थवदिति युक्तमुक्तम्।अहन् इति। अदादित्वाच्छपो लुक्, तिपो हल्ङ्यादिना (6.1.66) लोपः, अट्। स च हन्तिग्रहणेन गृह्रत इति कृतेऽपि तस्मिन् हन्तिर्दातुरेव। अत्र विना धातुग्रहणेन प्रागेव प्रत्ययोत्पत्तेः प्रातिपदिकसंज्ञा स्यात्। नलोपस्तु प्रत्ययोत्पत्तौ पदत्वे सत्युत्तरकालम्। अथ वा - प्रातिपदिकसंज्ञाऽपि प्रत्ययोत्पत्तेरुत्तरकालमेव स्यात्, तस्माद्धातुग्रहणं कर्तव्यम्। ननु चात्र प्रत्ययलक्षणेन अप्रत्ययः इति प्रतिषेधेन भवितव्यम्,तत् किमधातुग्रहणेन? नैतदस्ति; प्रातिपदिकसंज्ञायां नलोपः कार्यः, नलोपे च न ङिसम्बुद्धयोः (8.2.8) इति प्रतिषेधो ज्ञापकः- प्रत्ययलक्षणेन अप्रत्ययः इति प्रतिषेधो न प्रवर्तत इति। यदि ह्रप्रत्यय इति प्रत्ययलक्षणेन हे राजन्नित्येवमादिषु प्रातिपदिकसंज्ञायाः प्रतिषेधः स्यात्, न ङिसम्बुद्धयोः (8.2.8) इति प्रतिषेधो अनर्थकः स्यात्; प्राप्त्यभावात्। अथ भिद्-छिद्-लूः- पूरित्येवमादीनां कथं प्रातिपदिकसंज्ञा, यावता क्विबन्ता धातुत्वं न जहतीति धातव एवैत इति, अत्राधातुरिति प्रतिषेधेन भवितव्यम्? नैष दोषः; मा भूदनेन, कृदन्तत्वादुत्तर सूत्रेण भविष्यति। न चोत्तरस्याः प्राप्तेरयं बाधकः; वाक्यान्तरस्थत्वात्। मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् (व्या।प।10) इति वा।काण्डे, कुडए इति। प्रथमाद्विवचनान्ते एते रूपे। नपुंसकाच्च (7.1.19) इति शीभावः। अत्र च प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य (भा।प।सू।7) इति तदन्तस्य प्रतिषेधो भविष्यति, न प्रत्ययमात्रस्य। ननु च सुप्तिङन्तं पदम् (1.4.14) इत्यत्रान्तग्रहणेन अन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्नास्ति इति ज्ञापितत्वात् अप्रत्ययः इति प्रत्ययान्तस्य प्रतिषेधो न लभ्यते, नैष दोषः; संज्ञाविधौ स प्रतिषेधः, न चायं संज्ञाविधिः, किं तर्हि? प्रतिषेधविधिः। अथ किमर्थमप्रत्यय इत प्रतिषेध उच्यते, यावतोत्तरसूत्रे कृत्तद्धितग्रहणं नियमार्थं भविष्यति - कृत्तद्धितान्तस्यैव प्रातिपदिकसंज्ञा, नान्यप्रत्ययान्तस्य - काण्डे,कुडए इत्येवमादेः`इति? नैतदस्ति, असत्यस्मिन् प्रतिषेधेऽन्यत्र`संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्नास्ति इति कृत्तद्धितयोरेव प्रातिपदिकसंज्ञा स्यान्न तदन्तस्य; तदन्तस्य चैवेष्यते - भिच्छिल्लूःपूरित्येवमादीनां प्रातिपदिकसंज्ञार्थम्। सत्यप्रत्यय इत्येतस्मिन् प्रतिषेधे प्राप्ते यथा कृत्तद्धितान्तस्य प्रातिपदिकसंज्ञा लभ्यते तथोत्तरसूत्रे प्रतिपादयिष्यामः। ननु च काण्डे कुड्ये - इत्येतयोः पूर्वमेव प्रकृतेः प्रातिपदिकसंज्ञा प्रवृत्ता, विभक्त्या च सहैकादेशे कृतेऽन्तादिवद्भावादस्त्येव प्रातिपदिकत्वमिति सत्यप्यप्रत्ययग्रहणे ह्रस्वत्वं प्राप्नोत्येव, नैतदस्ति; अप्रत्ययग्रहणसामर्थ्यान्न भविष्यति,अन्यथा ह्रप्रत्ययग्रहणमनर्थकं स्यात्।अधातुरप्रत्ययः इति द्विष्प्रतिषेधः षष्ठीतत्पुरुषाशङ्कानिरासार्थः अधातुप्रत्ययः इत्युच्यमाने षष्ठी तत्पुरुषोऽप्याशङ्क्येत - धातोर्यः प्रत्ययस्य न भवतीति॥

Praudhamanorama

प्रत्ययं प्रत्ययान्तं चेति। सूत्रे तन्त्रादिना उभयं विवक्षितमिति भावः। तथा हि, प्रत्यस्यैव पर्युदासे ‘कृत्तद्धित’ इति सूत्रेण तद्धितान्तस्य संज्ञाविधानं व्यर्थं स्यात्। न च तत्रापि तदन्तं न ग्राह्यमिति वाच्यम्। ‘अर्थवत्’ इत्यनुवृत्तिसामर्थ्यात्तदन्तग्रहणम्। प्रशंसायां हि मतुप्। एकार्थीभावेन लौकिके प्रयोगे प्रसिद्धत्वं च प्रशंसामूलम्। न च ‘अर्थवत्’ इत्यस्य पूर्वसूत्रे चरितार्थता। धातुप्रत्ययपर्युदासेनैव तल्लाभात्। तस्मात्प्रत्ययान्तं च वर्जयित्वेत्युचितमेव। यदि तु प्रत्ययो न पर्युदस्येत तर्हि ‘सात्पदाद्योः’ इति सूत्रे सातिग्रहणं व्यर्थं स्यात्। अर्थवत्’ इति किम्? धनं वनमित्यादौ प्रतिवर्णं संज्ञा मा भूत्। तस्यां च सत्यां स्वादयः स्युः। ननु संख्याकर्माद्यभावात् न भविष्यन्तीति चेत्? न, एकवचनमुत्सर्गतः करिष्यते इति सिद्धान्तात्। हुंफडादिभ्य इव सोर्दुर्वारत्वात्। न च अर्थवद्ग्रहणपरिभाषयाऽनर्थके न स्यादिति वाच्यम्। तस्या विशिष्टरूपोपादानविषयत्वात्। अधातुः’ इत्यादिपर्युदासबलेन यद्यप्यर्थवत्वं लभ्यते, तथापि उत्तरार्थं तदित्युक्तम्। एतच्च ‘सुप्तिङन्तम्’इति सूत्रे भाष्ये ध्वनितम्। यत्त्वाहुः—अधीते, यावक इति। अधिपूर्वस्यैवेङः प्रयोगात् विशिष्ट एव अर्थवान्, न तु केवलः। ‘इङ् अध्ययने’ इत्याद्यर्थनिर्देशस्तु अवयवे समुदायार्थारोपात्। एवं कन्नप्यनर्थकः। यावशब्दादपि तदर्थप्रतीतेः। ‘ओषधेश्च विभक्तावप्रथमायाम्’ ‘अकर्तरि च कारके—’ इति विभक्तिकारकग्रहणाभ्यां नञिवयुक्तन्यायस्यानित्यत्वकल्पनाच्चेति। अत्रेदं वक्तव्यम्। धातुरनर्थक इति तावद्व्याहतम्। क्रियावाचकत्वं विना धातुत्वायोगात्। आरोपितं तदिति चेत्? सत्यम्, तावतैवेष्टसिद्धेः। प्रकृतिप्रत्ययविभागस्तदर्थविभागश्च सर्वः कल्पित एव। परमार्थतस्तु स्फोट एवार्थवानिति सिद्धान्तात्। उक्तं च हरिणा— उपायाः शिक्ष्यमाणानां बालानामुपलालनाः। असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते ॥इति। कथमन्यथा इङो द्विर्वचनमडादयश्च स्युः। तथा च प्रत्याहाराह्णिके ‘अर्थवन्तो वर्णा’ इति प्रघट्टके अध्येति अधीत इत्यत्रेकारोऽर्थवानिति भाष्ये स्पष्टमेवोक्तम्। एवं कन्प्रत्ययोऽप्यर्थवानेव, स्वार्थिकानां प्रकृत्यर्थेनैवार्थवत्वात्। कल्पनामात्रमिदमिति चेत्, न। उक्तोत्तरत्वात्। नैषा कल्पना शास्त्रकृत्संमतेति चेत्, न। ‘ द्वितीयतृतीयचतुर्थतुर्याणि—’ इति सूत्रे पूरणात्स्वार्थेऽन्प्रत्ययस्य पूरणार्थताया भाष्यकारैरेवोक्तत्वात्। प्रत्यय इति महासंज्ञां कुर्वतः सूत्रकृतोऽपि संमतमेवेदम्। यदपि ‘ओषधेश्च—‘इत्यादि। तदपि न। अनित्यत्वेऽप्यौत्सर्गिकप्रवृत्त्येष्टसिद्धेः, इष्टस्थलेऽप्यप्रवृत्तौ न्यायस्य निर्विषयत्वापाताच्च, अनित्यत्वज्ञापनस्य कथञ्चिदावश्यकत्वेऽर्थवद्ग्रहणस्यैव ज्ञापकत्वसम्भवाच्च, उत्तरार्थस्यापि ‘इह किञ्चित्रपो’ इति न्यायेन इह करणस्य सफलत्वौचित्यात्। ‘ओषधेश्च—’ इत्यादौ विभक्तिकारकग्रहणयोरेवेत्थं सति प्रत्याख्यानसम्भवाच्चेति दिक्। ‘अधातुः’ किम्? अहन्। नलोपो मा भूत्। न च कार्यकालपक्षे प्रत्ययान्तत्वेन पर्युदासोऽस्त्वति वाच्यम्, प्रत्ययलक्षणेनोक्तपर्युदासाप्रवृत्तेः ‘न ङिसम्बुद्ध्योः’ इति निषेधेन ज्ञापितत्वात्। कथमन्यथा राजेत्यादौ नलोपः स्यात्। अप्रत्ययः किम्? हरिषु, करोषि। अत्र सुप्सिपोर्मा भूत्। अप्रत्ययान्तः किम्? तत्रैव विभक्तिविशष्टयोर्मा भूत्। न चान्तवद्भावेन काण्डे, कुड्ये इत्यादौ प्रातिपदिकत्वं स्यादेव। तथा च ‘ह्रस्वो नपुंसके—’ इति ह्रस्वत्वं सोरुत्पत्तिश्च स्यादिति वाच्यम्। कार्यकालपक्षेणेष्टसिद्धेः। यथोद्देशेऽपि विभक्त्येकादेशो नान्तवत्, ‘सप्तम्यधिकरणे च’ इत्यादिनिर्देशात्। ‘ह्रस्वो नपुंसके—’ इति सूत्रे प्रातिपदिकग्रहणं वा उक्तार्थे सामान्यापेक्षं ज्ञापकमस्तु। यत्तु वदन्ति— प्रत्ययपर्युदासो न कर्तव्यः, प्रत्ययान्तपर्युदासेनैव गतार्थत्वात्, व्यपदेशिवद्भावेन तस्यापि प्रत्ययान्तत्वादिति । तन्न, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेर्ग्रहणात्। केवलस्य च अतथात्वात्। अन्यथा त्वदुक्तरीत्या सुप्तिङोरपि तदन्तत्वात् पदत्वं स्यात्। तथा च हरिषु, करोषि, इत्यादौ षत्वं न स्यात् ‘सात्पदाद्योः’ इति निषेधात्। अधातुप्रत्ययाविति सिद्धे नञ्द्वयोपादानं स्पष्टार्थम्। महासंज्ञाकरणं श्रुत्यनुरोधात्। तथा चाथर्वणे पठ्यते—’ को धातुः? किं प्रातिपदिकम्? कः प्रत्ययः?’ इति। डित्थादीन्यव्युत्पन्नानीहोदाहरणम्। अव्युत्पत्तिपक्षस्य चेदमेव ज्ञापकमिति प्राञ्चः। यत्तु व्युत्पत्तिपक्षेऽपि निपातार्थमनुकरणार्थं चेदमिति हरदत्तेनोक्तम्। तच्चिन्त्यम्। तत्रापि प्रकृत्यादिकल्पनसम्भवात्। वस्तुतस्तु व्युत्पत्तिपक्षेऽपि बहुपटव इत्याद्यर्थं सूत्रम्। न चैवं बहुच्पूर्व इत्येव सूत्र्यतामिति वाच्यम्। ‘मूलकेनोपदंशम्’ इत्यादौ कृदन्तत्वेनातिप्रसङ्गात्। न च समासग्रहणं नियमार्थमिति निस्तारः। अर्थवत्सूत्रारम्भं विना समासग्रहणस्य नियमार्थत्वायोगादिति दिक्।

Sarala

अर्थवदिति । लोके अर्थविष्यकबोधजनकत्वम् अर्थवत्त्वम् । अत्र अर्थवद्ग्रहणं “धनं” “वनम्” इत्यादौ प्रतिवर्णं प्रातिपदिकसंज्ञावारणाय । “अहन्” इत्यादौ प्रातिपदिकसंज्ञावारणाय अधातुः इति पर्युदासः ॥

Sudha

अथ “स्वौजस्” इत्यादिना स्वादिप्रत्ययान्वक्ष्यति । तत्र ङ्याप्प्रातिपदिकात्**(4.1.1) इत्यधिकृतम् । किं तत्प्रातिपदिकमिति जिज्ञासायामाह - **अर्थवदधातुरिति । अर्थोऽस्यास्तीति अर्थवत् । नपुंसकलिङ्गनिर्देशानुसारात् शब्दस्वरूपमिति विशेष्यमध्याहार्यम् । अधातुरिति, अप्रत्यय इति च तद्विशेषणम् । न धातुरधातुरिति नञ् तत्पुरुषः । परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः**(2.4.26) इति पुंस्त्वम् । अप्रत्ययः इत्यावर्तते । प्रत्ययभिन्नं प्रत्ययान्तभिन्नं च विवक्षितम् । न चात्र <ऽसंज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्तिऽ> इति परिभाषया तदन्तविध्यभाव इति शङ्क्यम् । प्रत्ययस्य यत्र संज्ञा तत्रैव तद्विषयात् । तदाह - **धातुं प्रत्ययमित्यादिना ।

Vartika

निपातस्यानर्थकस्य प्रातिपदिकसंज्ञा वक्तव्या ।