12046: कृत्तद्धितसमासाश्च¶
Padacheda: कृत्-तद्धित-समासाः | S | 1 | 3 |
च | S | 0 | 0 |
Sutrartha¶
कृत्-प्रत्ययान्तशब्दानाम्, तद्धितप्रत्ययान्तशब्दानाम् तथा सामासिकशब्दानाम् ‘प्रातिपदिकम्’ इति संज्ञा भवति ।
व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति ‘प्रातिपदिकम्’ इति संज्ञा । अर्थवदधातुरप्रत्ययः प्रातिपदिकम् (1.2.45) इति पूर्वसूत्रेण अप्रत्ययान्तशब्दानाम् प्रातिपदिकसंज्ञायाम् कृतायाम्, प्रत्ययान्तशब्दानाम् प्रातिपदिकसंज्ञाविधानार्थम् इदं सूत्रम् प्रारभ्यते । **ये शब्दाः कृत्-प्रत्ययान्ताः सन्ति, तद्धितप्रत्ययान्ताः वा सन्ति तेषाम्, तथा च समासेन सिद्धानां शब्दानाम् अनेन सूत्रेण प्रातिपदिकसंज्ञा भवति ** ।
कृत्प्रत्ययान्तशब्दाः
अष्टाध्याय्यां तृतीयाध्याये कृदतिङ् (3.1.93) अस्मिन् अधिकारे कृत्प्रत्ययाः पाठ्यन्ते । एते प्रत्ययाः धातुभ्यः विधीयन्ते । एतेषाम् प्रयोगेण जायमानस्य कृदन्तस्य प्रकृतसूत्रेण प्रातिपदिकसंज्ञा भवति । यथा, ‘रम्’ धातोः ‘घञ्’ प्रत्यये कृते प्राप्तः ‘राम’ इति कृदन्तशब्दः अनेन सूत्रेण प्रातिपदिकसंज्ञकः भवति । कानिचन अन्यानि कृदन्तप्रातिपदिकानि एतादृशानि - पाठक (= पठ् + ण्वुल्), कर्तृ (= कृ + तृच्), द्रष्टव्य (= दृश् + तव्य), लेखन (= लिख् + ल्युट्), सङ्गम्य (= सम् + गम् + ल्यप्), पठितवत् (= पठ् + क्तवतुँ ) ।
तद्धितप्रत्ययान्तशब्दाः
अष्टाध्याय्यां चतुर्थपञ्चमाध्याययोः तद्धिताः (4.1.76) अस्मिन् अधिकारे तद्धितप्रत्ययाः पाठ्यन्ते । एते प्रत्ययाः प्रातिपदिकेभ्यः विधीयन्ते । एतेषाम् प्रयोगेण जायमानस्य तद्धितान्तस्य प्रकृतसूत्रेण प्रातिपदिकसंज्ञा भवति । यथा, ‘कृष्ण’ इत्यस्मात् प्रातिपदिकात् ‘इञ्’ इति तद्धितप्रत्ययं कृत्वा प्राप्तः ‘कार्ष्णि’ इति तद्धितान्तशब्दः अनेन सूत्रेण प्रातिपदिकसंज्ञकः भवति । कानिचन अन्यानि तद्धितान्तप्रातिपदिकानि एतादृशानि - गौरव (= गुरु + अण्) , वैनतेय (= विनता + ढक्) , पञ्चम (= पञ्चन् + डट्), शालीय (= शाला + छ) ।
समासनिर्मिताः शब्दाः
अष्टाध्याय्यां द्वितीयाध्यायस्य प्रथमद्वितीयपादयोः प्राक्कडारात्समासः (2.1.3) अस्मिन् अधिकारे समासविधायकानि सूत्राणि पाठितानि सन्ति । एतैः सूत्रैः ये नूतनशब्दाः सिद्ध्यन्ति, तेषाम् प्रकृतसूत्रेण प्रातिपदिकसंज्ञा भवति । यथा, ‘सीतायाः पतिः’ इत्यत्र षष्ठी (2.2.8) इत्येनेन तत्पुरुषसमासे कृते प्राप्तः ‘सीतापति’ शब्दः अनेन सूत्रेण प्रातिपदिकसंज्ञकः भवति । कानिचन अन्यानि उदाहरणानि एतानि - , रामलक्ष्मण (= रामश्च लक्ष्मणश्च), पीताम्बर (= पीतम् अम्बरम् यस्य सः), यथाशक्ति (= शक्तिम् अनतिक्रम्य) ।
स्त्रीप्रत्ययान्तशब्दा:
अष्टाध्याय्याम् चतुर्थाध्यायस्य प्रथमपादे अष्टौ स्त्रीप्रत्ययाः पाठिताः सन्ति - टाप्, चाप्, डाप्, ङीष्, ङीप्, ङीन्, ऊङ्, क्तिन् । एते प्रत्ययाः कृत्-प्रत्ययाः अपि न सन्ति, तद्धितप्रत्ययाः अपि न सन्ति । अतः प्रकृतसूत्रेण स्त्रीप्रत्ययान्यशब्दानाम् प्रातिपदिकसंज्ञा न भवति । वस्तुतः तु स्त्रीप्रत्ययान्तशब्दानाम् प्रातिपदिकसंज्ञा एव न भवति, यतः तदर्थम् अष्टाध्याय्यां किमपि सूत्रम् न पाठ्यते । परन्तु प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् इत्यया परिभाषया - ‘यत्र प्रातिपदिकम् अनुसृत्य किञ्चन कार्यम् उक्तम् अस्ति, तत्र तस्मात् प्रातिपदिकात् स्त्रीप्रत्ययं कृत्वा सिद्धे शब्दे अपि तत् कार्यम् भवितुम् अर्हति’ इति अर्थः उच्यते, अतः प्रातिपदिकसंज्ञायाः अभावात् अपि स्त्रीप्रत्ययान्तशब्दैः सह प्रातिपदिकसदृशः एव व्यवहारः क्रियते । अपि च, ङ्याप्प्रातिपदिकात् (4.1.1) इत्यस्मिन् सूत्रे ‘ङी’ तथा ‘आप्’ एतयोः ग्रहणेन बहूनाम् स्त्रीप्रत्ययान्तशब्दानाम् साक्षात् ग्रहणं कृत्वा तेभ्यः सुप्-प्रत्ययाः तद्धितप्रत्ययाः च उक्ताः सन्ति, अतः तादृशम् अपि तेभ्यः प्रत्ययविधानम् कर्तुं शक्यते ।
सूत्रे ‘अन्त’ग्रहणस्य अभावः
संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति अनया परिभाषया यत्र संज्ञाविधानसूत्रे प्रत्ययस्य निर्देशः क्रियते तत्र सा संज्ञा प्रत्ययस्यैव भवति,न हि प्रत्ययान्तस्य । प्रकृतसूत्रे अस्याः परिभाषायाः आश्रयणनेन केवलम् कृत्-प्रत्ययानाम् तद्धितप्रत्ययानाम् च प्रत्ययसंज्ञा भवेत्, न हि तदन्तानाम् । परन्तु केवलप्रत्ययानां प्रातिपदिकसंज्ञायाः न किञ्चन प्रयोजनम्, अतः अत्र ‘अन्त’ग्रहणम् कृत्वैव अर्थनिर्णयः क्रियते ।
सामासिकशब्दानां विषये नियमः
वस्तुतः अर्थवदधातुरप्रत्ययः प्रातिपदिकम् (1.2.45) इत्यनेनैव सूत्रेण सामासिकशब्दानाम् प्रातिपदिकसंज्ञा भवितुम् अर्हति, यतः सामासिकशब्दाः अर्थवन्तः सन्ति, धातुसंज्ञकाः न सन्ति, प्रत्ययान्ताः च न सन्ति । अनेन प्रकारेण पूर्वसूत्रेणैव प्रातिपदिकसंज्ञायां सिद्धायाम् प्रकृतसूत्रे ‘समास’ग्रहणम् नियमार्थम् अस्ति । यत्र द्वयोः अधिकानाम् वा पदानाम् समूहः दृश्यते, तत्र केवलं समासस्यैव प्रातिपदिकसंज्ञा भवति, अन्येषाम् पदसमूहानाम् न इति अत्र नियमः । अनेन नियमेन वाक्यस्य प्रातिपदिकसंज्ञा प्रतिषिध्यते । वाक्यम् अपि समाससदृशः पदसमूहः एव । तत् अपि अर्थवत् अस्ति, धातुसंज्ञकम् प्रत्ययान्तं च नास्ति (यद्यपि वाक्यस्य अन्ते विद्यमानः शब्दः प्रत्ययान्तः एव, तथापि प्रत्ययग्रहणे यस्मात्स विहितः तदादेः तदन्तस्य च ग्रहणम् इति परिभाषया इदं प्रत्ययान्तत्वं तस्य शब्दस्य कृते एव स्वीक्रियते, वाक्यस्य कृते न, अतः वाक्यम् तु अप्रत्ययान्तम् एव - इति आशयः ) । अतः **अर्थवदधातुरप्रत्ययः प्रातिपदिकम्**(1.2.45) इत्यनेन तस्य प्रातिपदिकसंज्ञायां प्राप्तायाम् प्रकृतसूत्रे समासग्रहणेन सा निषिध्यते । <note
Sutrartha (English)¶
कृत्-प्रत्ययान्त words, तद्धितप्रत्ययान्त words and the सामासिकशब्दाः are known as प्रातिपदिक.
Vasu English Summary¶
The forms ending कृत् affixes or तद्धित affixes, or compound are also called प्रातिपदिक।
Vasu English Translation¶
The forms ending कृत् affixes or तद्धित affixes, or compound are also called प्रातिपदिक। This further explains the use of the word pratipadika. “Suffixes for the formation of nouns are of two kinds. Those by which nouns are derived direct from roots, primary suffixes. Those by which nouns are derived from other nouns, secondary suffixes. The former are called Krit, (3.1.93) [1], the latter Taddhita (4.1.76) [2]. Thus जन jana, man, is derived from the root जन् jan by the krit suffix अ; but जनीन janina, appropriate for man, is derived from जन jana by the Taddhita affix ईन ina. The name pratipadika would apply both to जन jana and जनीन janina, as nominal bases ready to receive the terminations of declension” (Max Muller).
Of the compounds, of which there are six varieties, we had occasion to refer to five already, viz. Tat-purusha, Karmadharaya, Dvandva, Bahuvrihi and Avyayibhava. They will be fully dealt with in their proper places.
In the last sutra, the words “not ending in an affix” were too extensive; this sutra makes an important provision in favour of words ending in Krit or Taddhita affixes. So also compounds are also called pratipadika. Being restricted to compounds only, it, of course, does not apply to sentences.
The words formed by krit affixes are pratipadika, as कृ (to do) + ण्वुल् = कृ + वु = कार् + अक = कारक. The affix ण्वुल् is a krit affix, and it is added to the root to form agent by Rule (3.1.133) [3]. The letters ण् and ल् are indicatory, the force of ण् being to cause the vridhi of the vowel of the root. The real affix वु is changed into अक by (7.1.1) [4]. the affixes यु and वु are replaced by अन and अक respectively. Thus the form कारक is a pratipadika, and is capable of declension by receiving case terminations, as कारकः ॥ Similarly कृ + तृच् (3.1.133) [5] = कर्तृ; nom. case कर्ता.
The word formed by Taddhita affixes are also pratipadika; उपगु + अण् = औपगो + अ = औपगव ‘the son of the Rishi Upagu’: nom. case औपगवः. Similarly कापटवः.
In fact in the chapters treating of these affixes, the derivative substantives formed by them are always shown by the Indian Grammarians in the nominative case singular number. The examples of nouns given in this book will be always declined nouns and not pratipadikas, except in peculiar cases. So also in the chapter of samasa or compounds.
The words ending in compound are pratipadika: as राज्ञः + पुरुषः = राजपुरुषः, nom. case राजपुरुषः.
## Footnotes - [1] - कृदतिङ् ॥ - [2] - तद्धिताः ॥ - [3] - ण्वुल् तृ चौ ॥ - [4] - युवोरनाकौ ॥ - [5] - ण्वुल् तृ चौ ॥
Bhashya¶
कृत्तद्धितसमासाश्च समासग्रहणं किमर्थम् ? - समासग्रहण उक्तम् - किमुक्तम्? अर्थवत्समुदायानां समासग्रहणं नियमार्थम् इति ॥ कृत्तद्धितसमासाश्च ॥ 46 ॥
Kashika¶
कृतस्तद्धिताः समासाश्च प्रातिपदिकसंज्ञा भवन्ति। अप्रत्यय इति पूर्वसूत्रे पर्युदासात् कृदन्तस्य तद्धितान्तस्य चानेन प्रातिपदिकसंज्ञा विधीयते। अर्थवत्समुदायानां समासग्रहणं नियमार्थम्। कृत् — कारकः। हारकः। कर्ता। हर्ता। तद्धितः — औपगवः। कापटवः। समासः — राजपुरुषः। ब्राह्मणकम्बलः। समासग्रहणस्य नियमार्थत्वाद् वाक्यस्यार्थवतः संज्ञा न भवति॥
Siddhanta Kaumudi¶
कृत्तद्धितान्तौ समासाश्च प्रातिपदिकसंज्ञाः स्युः । पूर्वसूत्रेण सिद्धे समासग्रहणं नियमार्थम् । यत्र सङ्घाते पूर्वो भागः पदं तस्य चेद्भवति तर्हि समासस्यैव । तेन वाक्यस्य न ॥
Laghu Siddhanta Kaumudi¶
कृत्तद्धितान्तौ समासाश्च तथा स्युः॥
Balamanorama¶
कृत्तद्धितसमासाश्च - कृत्तद्धित । कृच्च तद्धितश्च समासश्चेति विग्रहः । पूर्वसूत्रात्प्रातिपदिक॑मित्यनुवर्तते, तच्च बहुवचनान्ततया विपरिणम्यते । प्रत्ययग्रहणपरिभाषया कृत्तद्धितेति तदन्तग्रहणम् । तदाह — कृत्तद्धितान्ताविति । कृत्तद्धितान्तयोः प्रत्ययान्तत्वात्पूर्वसूत्रेणा.ञप्राप्तौ कृत्तद्धितग्रहणम् । केवलयोः कृत्तद्धितयोः संज्ञायां प्रयोजनाऽभावात्संज्ञाविधाविति निषेधोऽत्र न भवति । अस्मादेव पूर्वसूत्रे संज्ञाविधावपि प्रत्ययग्रहणपरिभाषया तदन्तलाभात्प्रत्ययान्तपर्युदासः । केचित्तु अर्थवदित्यनुवर्त्त्य तत्सामर्थ्यात्तदन्तविधिमाहुः । कृदन्ते यथा — ॒कर्ता॑ ‘भर्ता’ इत्यादि । तद्धिते यथा — ॒औपगव॑ इत्यादि । समासे यथा — ॒राजपुरुष॑ इत्यादि । ननु समासग्रहणं व्यर्थं, समासे ‘राजपुरुष’ इत्यादि । ननु समासग्रहं व्यर्थं, समासे ‘राजपुरुष’ इत्यादिशब्दानां पूर्वसूत्रेणैव प्रातिपदिकत्वस्य सिद्धत्वात् । न च उत्तरपदोत्तरलुप्तप्रत्ययं प्रत्ययलक्षणेनाश्रित्य प्रत्ययान्तपर्युदासः शङ्क्यः, उत्तरपदमात्रस्य प्रत्ययान्तत्वेऽपि समुदायस्याऽप्रत्ययान्तत्वात्, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणात्, प्रत्ययलक्षणमाश्रित्य प्रत्ययान्तपर्युदासो न प्रवर्तत इति ‘न ङिसम्बुद्धयोः’ इति निषेधेन ज्ञाप्यत इति पूर्वसूत्रे प्रपञ्चितत्वाच्चेत्यत आह — पूर्वसूत्रेणेत्यादिना । नियमशरीरं दर्शयति-यत्रेति ।पूर्वो भागः पद॑मित्युपलक्षणम् ।उत्तरभागस्तु प्रत्ययो ने॑त्यपि द्रष्टव्यम् । अन्यथा जन्मवानित्यादौ प्रातिपदिकत्वं न स्यात्, स्वादिष्वसर्वनामस्थान इति पूर्वभागस्य पदत्वात् । नचात्र कृत्तद्धितेति तद्धितग्रहणसामर्थ्यादेव प्रातिपदिकत्वं संभवतीति वाच्यम्, दाक्षिरित्यादौ तद्धितग्रहणस्य चरितार्थत्वात् । तत्र हि प्रकृतिभागो न पदम्, भत्वेन तद्बाधात् ।पूर्वो भागः पद॑मित्यनुक्तौ ‘बहुपटव’ इत्यत्र प्रातिपदिकसंज्ञा न स्यात् । ईषदसमाप्तावित्यनुवृत्तौविभाषा सुपो बहुच्पुरस्तात्तु॑ इति सूत्रेण ‘पटव’ इति प्रथमाबहुवचनान्तात्पूर्वतो बहुच्प्रत्यये कृतेऽर्थवदिति प्रातिपदिकत्वात्तदवयवजसो लुकिचितः सप्रकृतेर्बह्वजर्थ॑मिति टकारादुकारस्य उदात्तत्वे चित्स्वरे कृते पुनर्जसि ‘बहुपटव’ इति रूपम् । अत्र टकारादकार उदात्त इति स्थितिः । जसन्तात्पूर्वतो बहुच्प्रत्यये बहुपटव इति समुदायस्य प्रातिपदिकत्वा.ञभावे तु ततो जसन्तरं नोत्पद्येत । नचेष्टापत्तिः, तथ#आ सति बहुच्प्रकृतिभूतजसन्ते जसःप्रातिदिकावयवत्वा.ञभावेन॒सुपो धातुप्रातिपदिकयो॑रिति लुगभावाद्बहुपटव इति जसन्तस्यैव बहुच्प्रक-तितया चितस्सप्रकृतेर्विधीयमानश्चित्स्वरः जस एवाकारस्य स्यात् । इष्यते तु टकारादुत्तरस्य । ‘बहुपटव’ इति समुदायस्य प्रातिपदिकावयवत्वाज्जसो लुकि पटुशब्दस्यैव बहुच्प्रकृतितया टकारादुत्तरस्य चित्स्वरे सति पुनर्जसि बहुपटव इति रूपमुक्तं निर्बाधमिति भावः । नियमस्य फलमाह — तेनेति । उक्तनियमेनेत्यर्थः । अन्यथादेवदत्त गामभ्याज शुक्लां दण्डेने॑त्यादिवाक्यस्यापि प्रातिपदिकत्वापत्तौ सुब्लुक् स्यात् । न च वाक्यस्य प्रत्ययान्तत्वादेव न प्रातिपदिकत्वमिति वाच्यम्, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणादिति भावः । कृत्तद्धितसमासाश्चेति चकारोऽनुकसमनुच्चयार्थः । तेननिपातस्यानर्थकस्य प्रातिपदिकसंज्ञा वक्तव्ये॑ति वार्तिकं गतार्थम् ।
Tattvabodhini¶
कृत्तद्धितसमासाश्च - कृत्तद्धितसमासाश्च ।अर्थव॑दित्यनुवर्तते, तत्सामर्थ्यात्तदन्तविधिः । ननु यद्यर्थवत्ता पारमार्थिकीं विवक्ष्यते, सा पदस्य वाक्यस्य वाऽस्ति, न तु कृत्तद्धितान्तस्य, यदि तु प्रक्रियादशायां या कल्पिता सा विवक्ष्यते, तर्हि कृत्तद्धितयोरपि साऽस्तीति कथमर्थवद्ग्रहणानुवृत्त्या तदन्तग्रहणमिति चेदत्राहुः,-अतएवार्थवद्ग्रहणसामर्थ्यमुक्तम् । प्रत्ययान्तेन ह्रोकार्थीभूतेन प्रतीयमानोऽर्थ इह गृह्रते । तस्य लोकिकार्थं प्रति प्रत्यासन्नतरत्वान्मतुपः प्राशस्त्यपरतया तस्यैव ग्रहणात् । अतएव च तदुपादानं सार्थकं, पूर्वसूत्रेअधातु॑रितिकर्ता ॑औपगव॑ इत्यादौअप्रत्ययान्त॑ इति च पर्युदासे प्राप्तेकृत्तद्धिते॑त्यारम्भः । नियमार्थमिति । न च प्रत्ययान्तत्वेन पर्युदासे प्राप्ते विध्यर्थमस्त्विति शङ्क्यम् ; वाक्यस्याऽप्रत्ययान्तत्वात् । प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणात् । न चैवमप्यनुपसर्जनस्त्रीप्रत्यये तदादिनियमाऽभावाद्राजकुमारीत्यादौ ङीबन्ते विध्यर्थमस्त्विति वाच्यम्,अन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते॑ इति लुग्विषये हल्ङ्यादिलोपाऽप्रवृत्त्या श्रूयमाण एव सुपि समासप्रवृत्तेः । तत्र च कुमारीशब्दस्य सुबन्तत्वेऽपि राजशब्दसहित[कुमारी]शब्दस्याऽतथात्वादप्रत्ययान्तत्वेन प्रवृत्तायाः संज्ञाया एकदेशविकृतन्यायेन विभक्तिलुक्यपि सुलभत्वात् । अतएवगोमत्प्रिय॑इत्यादौ नुमादयो न, लुकः प्रागन्तरङ्गस्य हस्ङ्यादिलोपस्य प्रवृत्तौ तु स्युरेवेति दिक् । नियमशरीरमाह-यत्र सङ्घात इति । नियमश्चात्र सजातीयापेक्ष इत्याह-पूर्वो भागः पदमिति । षड्विधेऽपि समासे पूर्वभागस्य पदत्वाऽव्यभिचाराद्भवत्ययं सजातीयः ।पूर्वो भाग॑ इत्युपलक्षणम्,उत्तरस्तु प्रत्ययो ने॑त्यपि बोध्यम् । अन्यथाजन्मवा॑नित्यादौ संज्ञा न स्यात्,स्वादिष्वि॑त्यनेन पूर्वभागस्य पदत्वात् । न च तद्धितग्रहणसामर्थ्यात्तत्र स्यादेवेति वाच्यं, तद्धितग्रहणस्यभानव॑ इत्यादौ कृतार्थत्वात् । तत्र हि पूर्वभागस्य भत्वं, न तु पदत्वम् । न चैवमयमियानित्यादिसमुदायस्य प्रातिपदिकत्वं स्यादेव, पूर्वभागस्य पदत्वेऽप्युत्तरस्य प्रत्ययत्वादनेन नियमेन वारयितुमशक्यत्वादिति वाच्यम् ;उत्तरस्तु प्रत्ययो ने॑त्यत्रतद्विहितप्रत्ययो ने॑ति व्याख्यानात् । पूर्वो भागः पदमिति किम् , बहुज्विशिष्टस्य प्रातिपदिकसंज्ञा यथा स्यात् । तेनबहुपटव॑ इत्यत्र उपोत्तमोदात्तत्वं सिध्यति । प्रथमजसो लुकिचितः सप्रकृतेर्बह्वकजर्थ॑मिति चित्स्वरे कृते पुनर्जस उत्पत्तेः । प्रातिपदिकसंज्ञायामसत्यां तु जसेवोदात्तः स्यात् । यद्वाप्रकृतिप्रत्ययभावानापन्नसङ्घातस्य चेद्भवति तर्हि समासस्यैवे॑ति नियमार्थंसमास॑ग्रहणम् । तेन गवित्ययमाहे॑त्यादौ नातिप्रसङ्ग इति दिक् । नियमफलमाह-तेन वाक्यस्य नेति ।गांमभ्याज शुक्ला॑मित्यादिवाक्यस्य न भवतीत्यर्थः । सत्यां हि संज्ञायां सुब्लुक्स्यात् । नन्वेवमपिमूलकेनोपदंशं भुङ्क्ते॑ इत्यादिवाक्यस्य संज्ञा दुर्वारा,कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणा॑दिति चेन्मैवम् । समासग्रहणरृतनियमेन परत्वाद्बाधात् । एवंचकृत्तद्धिते॑ति सूत्रे कृद्ग्रहणपरिभाषा निष्फलत्वान्नोपतिष्ठते । तस्याश्च परिभाषायाःव्यावक्रोशी॑व्यावहासी॑त्यत्रावकाशः । तत्र हिकर्मव्यतिहारे णच्स्त्रिया॑मिति धातोर्णचि कृते गतिपूर्वस्य णजन्तत्वात्णचः स्त्रिया॑मित्यञिसत्युपसर्गाकारस्यादिवृद्धिस्वरौ भवतः । कृद्ग्रहणे कारकपूर्वस्याप्युदाहरणम्-अवतप्ते नकुलस्थितमित्यादि स्फुटीभविष्यति । चकारोऽनुक्तसमुच्चयार्थः । तेननिपातस्यानर्थकस्य प्रातिपदिकसंज्ञा वक्तव्ये॑ति वार्तिकं गतार्थम् । येषां द्योत्योऽप्यर्थो नास्ति तदर्थमिदम्,-अवद्यति । अनुकरणेषु तु अनुकार्येण सहाऽभेदविवक्षायामर्थवत्त्वाऽभावादेव न प्रातिपदिकत्वम् ।भू सत्ताया॑मिति यथा । भेदविवक्षायां तु संज्ञा स्यादेव-॒भुवो वु॑गिति यथा ।
Padamanjari¶
कृतो विहितास्तदादय इति वेदितव्यम् । अत्र हि कृद्ग्रहणपरिभाषा नोपतिष्ठते, तेन मूलकेनोपदंशमिति वाक्यस्य संज्ञा न भवति । मध्येऽपवादन्यायेन ह्यप्रत्यय इति निषेधः कृद्ग्रहणेन बाध्यते, न तु समासग्रहणेन कृतो नियमः । संज्ञाविधौ प्रत्ययग्रहणेऽप्यत्र तदन्तविधिर्भवतीत्यत्रीपपतिमाह - अप्रत्यय इति । प्रत्ययान्तस्य निषेधो न केवलस्य प्रत्ययस्येत्याश्रित्यैतदुच्यते । अप्राप्तप्रापणं विधिः, न च तदा कृतद्धितमात्रस्याप्राप्ता संज्ञा तदन्तस्यत्वप्राप्तेति विध्यर्थत्वातदन्तस्यैव ग्रहणम् । येषां तु पूर्वत्र प्रत्ययमात्रस्यापि निषेधस्तेषामर्थवद्ग्रहणानेवृतेरर्थवद्विशेषस्य तदन्तस्य ग्रहणं समासग्रहणमनर्थकम्, अर्थवत्वात्पूर्वेणैव संज्ञासिद्धेरित्यत आह-अर्थवत्समुदायानामिति । कर्मणि षष्ठी । नियमः उ व्यावृत्तिः । ननु सुराजा अतिराजेत्यादौ अन्तर्वतिन्यां विभक्तौ लुप्तायां समुदायस्य संज्ञा, तामपेक्ष्य सोरुत्पन्नस्य हल्ङ्यादिलोपे तस्यामवस्थायां नलोपार्थं या संज्ञा प्राप्नोति तस्याः प्रत्ययलक्षणेनाप्रत्यय इति निषेधे प्राप्ते विध्यर्थमेतत्स्यात् ? ज्ञापकात्सिद्धम्, ऽन ङिसंबुद्ध्योःऽ इति निषेधो ज्ञापयति-न प्रत्ययलक्षणेन निषेध इति; अन्यथा उक्तेन न्यायेन हे राजन्नित्यादौ नलोपप्रसङ्गात् । नैतदस्ति ज्ञापकम्; है सुराजन्नित्यादौ यत्र समासग्रहणेन संज्ञा विहिता तत्र नलोपप्रसङ्गे निषेधः स्याद् । एवं तर्ह्यत्राप्यप्रत्यय इत्यनुवर्तते, तेन प्रत्ययान्ते समासे विध्यर्थत्वासंभवान्नियमार्थमेव समासग्रहणम् । यद्वा-अनुद्दिश्य प्रयोजनविशेषं न कृत्संज्ञा प्रवर्तते, तस्यां तु सत्यां यस्यामवस्थायां यत्कार्यं प्राप्नोति तस्यां तद्भवति, न प्रतिकार्यमावर्तनीया संज्ञेत्ययं पक्ष आश्रीयते । अत्र च पक्षे सुबुत्पत्यर्थं नलोपार्थं च समाससंज्ञानन्तरमेव सकृत्संज्ञा प्रवर्तते, न तु नलोपदशायामिति विध्यर्थत्वासम्भवान्नियमार्थमेव समासग्रहणम् । तुल्यजातीयस्य च नियमेन व्यावृत्तिः, कश्च तुल्यजातीयो यस्यार्थवत्समुदायस्य पूर्वो भागस्तावत्पदम्, यश्चैव हि सुबन्तानां समासः-राजपुरुष इति, यश्चैव हि तिङ्न्तानाम् - ‘आख्यतमाख्यातेन क्रियासातत्येऽ, अश्नीतपिबता, खादतमोदतेति, यश्च सुबन्तानां तिङ्न्तानां च-ऽजहि कर्मणा बहुलमाभीक्ष्ण्येऽ, जहिजोडः, जहिशकट इति, यश्च सुबन्तानां प्रातिपदिकानां च - गतिकारकोपपदानामिति, वस्त्रक्रीति निष्कक्रीतीति, सर्वत्रात्र पूर्वो भागस्तावत्पदम् । अतः स तुल्यजातीयो नियमेन व्यावर्त्यते, तेन बहुपटव इत्यत्र जसन्तस्य पुरस्ताद्वहुचि कृते नोतरत्रत संघाते पूर्वो भागः पदमित्यसति नियमे ईषदसमाप्तिलक्षणेनार्थेनार्थवत्वात्सत्यां संज्ञायां पूर्वोत्पन्नस्य जसः ऽसुपो धातुऽ इति लुकि कृते चित्स्वरोऽपि भवन् ऽचतिः सप्रकृतेर्बहुजकजर्थमितिऽ पटुअशब्दोकारस्य भवति । पूर्वोत्पन्नस्य तु जसोऽवस्थाने तस्यैव स्यात् । वाक्यस्यार्थवत इति । प्रत्येकं पदैरप्रतीतस्य संसर्गस्य वाक्येन प्रतीयमानत्वातस्यार्थवत्वम्, समुदायाच्च प्रत्ययस्याविधानान्नास्त्यप्रत्यय इति निषेधः । न च ऽनास्ति यस्मिन् प्रत्ययः सोऽप्रत्ययःऽ इति बहुव्रीहिः शक्य आश्रयितुम्; बहुपटव इत्यत्रापि नि,एधप्रसङ्गात् ॥
Nyaas¶
अत्र अन्यत्र संज्ञाविधौ प्रत्ययग्रणे तदन्तविधिर्नास्ति इत्यतन्नोपतिष्ठते, यस्मादप्रत्यय इति प्रतिषेधे प्राप्ते वचनमिदम्। अप्रत्ययः इति प्रत्ययान्तस्य प्रतिषेधः उक्तः। तेन यत्र संज्ञायाः प्रतिषेधस्तत्रेयमारभ्यमाणा तदन्तस्यैव भवतीत्येतच्चेतसि कृत्वाऽऽह - अप्रत्यय इति पूर्वसूत्रे पर्युदासात् कृदन्तस्य इत्यादि।अथ समासग्रहणं किमर्थम्? यावता समासस्यार्थवत्त्वात् पूर्वेणैव संज्ञासिद्धेत्यत आह - अर्थवत्समुदायानाम् इत्यादि। निर्धारणषष्ठीयम् - अर्थवन्तो ये समुदायास्तेषां मध्ये समासस्यार्थवतः समुदायस्य प्रातिपदिकसंज्ञा यथा स्यादिति नियमार्थं समासग्रहणम्।यद्येवम्, प्रकृतिप्रत्ययसमुदायस्यार्थवतः प्रातिपदिकसंज्ञा न स्यात् - बहुपटव उच्चकैरिति? कोऽत्र दोषः? चितः (6.1.157) इत्यस्मिन् सूत्रे चितः सप्रकृतेर्बहुजकजर्थमिति वचनादेतद्वयवस्थाप्यते - प्रकृतिमन्तर्भाव्य चित्स्वरो विधीयत इति। बहुपटव इत्यत्र बहुचि विहिते यदि प्रातिपदिकसंज्ञा न स्यात्,तदा प्रातिपदिकत्वाभावात् यथा सुबुत्पत्तिर्न स्यात् तथोत्पन्नाया अपि विभक्तेः सुपो धातुप्रातिपदिकयोः (2.4.71) इति लुका न भवितव्यम्। ततश्च बहुपटव इत्यत्र जस्विभक्तेरकारस्य स्वरः स्यात्; उकारस्य चेष्यते। प्रातिपदिकत्वे तु सति पूर्वोत्पन्नाया विभक्तेर्लुकि कृते याऽन्या विभक्तिरुत्पद्यते, सा बहुजुत्पत्तेरुत्तरकालभाविनीत्वात् प्रकृतौ नान्तर्भवति। तेन तामुत्सृज्य पूर्वो भागः स्वरभाग भवति। अत उकारस्य स्वरः सिध्यति। उच्चकैरित्यत्र प्रातिपदिक्तवाभावाकज्वतः समुदायाद्विभक्तिर्न स्यात्, तस्याञ्चासत्यां पदत्वं न स्यात्। ततश्चोच्चकैः पठतीति तिङङतिङः (8.1.28) इति निघातो न स्यात्। तस्मात् प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसंज्ञा वक्तव्या? न वक्तव्या, यस्मात् तुल्यजातीयानां नियमः, तेन तुल्यजातीयो नियमेन व्यवच्छ#इद्यते। तुल्यजातीयश्चच समाससुबन्तसमुदायादन्यः वाक्यसमुदाय एव, न तु प्रकृतिप्रत्ययसमुदायः। तेनायं तस् नियमेन व्यवच्छेदो न करिष्यते, नैतदस्ति; सुबन्तासुबन्तसमुदायोऽपि समासोऽस्ति, यथा - प्रकर्ता, प्रकारक इति। अत्र हि गतिकारकोपपदानां कृद्भिः समासवचनं प्राक्सुबुत्पत्तेः (व्या।,प।वृ 138) इति कृदन्तेनासुबन्तेन गतिकारकं सुबन्तं समस्यते, तेन सुबन्तासुबन्तसमुदायोऽयं समास इति तुल्यजातीयस्यापि नियमे विज्ञायमाने बहुपटवः, उच्चकैरित्यत्र प्रातिपदिकसंज्ञा न स्यात्। एवं तह्र्राचार्यप्रवृत्तिज्र्ञापयति - भवति प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसंज्ञेति; यदयमप्रत्यय इति प्रत्ययान्तस्य प्रतिषेधं शास्ति॥
Praudhamanorama¶
‘अर्थवत्’ इत्यनुवर्तते, तत्सामर्थ्यात्तदन्तविधिः। नहि जहत्स्वार्थायां वृत्तौ कृतां तद्धितानां चार्थोऽस्ति। भूतपूर्वगतिलभ्यस्तु न प्रशस्तः। अजहत्स्वार्थायामपि न प्रत्ययमात्रेणार्थपर्यवसानमित्यभिप्रेत्याह— कृत्तद्धितान्ताविति। लिट्, धुक् इत्यादौ ‘अधातुः’ इति, कर्तेत्यादौ अप्रत्ययान्तमिति पर्युदासे प्राप्ते विधिरयम्। नियमार्थमिति। न च प्रत्ययान्तत्वेन पर्युदासे प्राप्ते विध्यर्थमस्त्विति शङ्क्यम्, वाक्यस्याप्रत्ययान्तत्वात्, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणात्। ननु स्त्रीप्रत्यये तदादिनियमो निषिद्धः, एवं च राजकुमारीत्यादौ विध्यर्थमस्त्विति चेत्? मैवम्, अन्तरङ्गस्यापि हल्ङ्यादिलोपस्य लुग्विषयेऽप्रवृत्या श्रूयमाण एव सुपि समासप्रवृत्तेः। तत्र चाप्रत्ययान्तत्वेन प्रवृत्तायाः संज्ञाया एकदेशविकृतन्यायेन विभक्तिलुक्यपि सुलभत्वात्। अत एव गोमत्प्रिय इत्यादौ नुमादयो न। लुकः प्रागन्तरङ्गप्रवृत्तौ तु स्युरेव। नन्वेवमपि असमर्थसमासे दशदाडिमादिवदनर्थके विध्यर्थमस्त्विति चेत्? न, ‘अर्थवत्’ इत्यस्यानुवृत्तेरुक्तत्वात्। कथं तर्हि असमर्थसमासे संज्ञेति चेद्धर्मिग्राहकमानादेवेति गृहाण। ‘असूर्यललाटयोः—’ इत्यनेन हि असूर्यशब्दे उपपदे खश् विधीयते। उपोच्चारितं पदं चोपपदम्, पदं च सुप्तिङन्तमिति। नियमशरीरमाह— यत्र संघाते इत्यादि। पूर्वो भाग इत्युपलक्षणम्— उत्तरस्तु प्रत्ययो नेत्यपि बोध्यम्। अन्यथा जन्मवानित्यादौ संज्ञा न स्यात्तद्धितग्रहणस्य औपगवादौ कृतार्थत्वात्। पूर्वो भागः पदमिति किम्? बहुज्विशिष्टस्य प्रातिपदिकसंज्ञा यथा स्यात्। तेन बहुपटव इत्यत्र प्रथमजसो लुकि बहुपटुशब्दस्य चित्स्वरे पुनर्जसि उपोत्तमोदात्तत्वं सिध्यति। यद्वा प्रकृतिप्रत्ययभावानापन्नसंघातविषयको नियमोऽस्तु। न चाद्यपक्षे राजपुरुषावित्यादौ पुरुषावित्यादेः संज्ञा स्यादिति वाच्यम्, अर्थवत्वेनैव वारणात्। प्रत्ययार्थो हि विशिष्ट एवान्वेति, न तूत्तरपदार्थमात्रे येन पुरुषावित्यस्यार्थवत्वं स्यात्। नियमफलमाह— तेनेत्यादि। नन्वेवमपि मूलकेनोपदंशमित्यादौ वाक्यस्य संज्ञा दुर्वारा, कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणात्, इति चेत्? मैवम्, समासग्रहणकृतनियमेन परत्वाद् बाधात्। एवं च ‘कृत्तद्धित—‘इति सूत्रे कृद्ग्रहणपरिभाषा नोपतिष्ठत एव निष्फलत्वादिति तत्त्वम्। यत्तु वदन्ति—समासग्रहणं न नियमार्थं किन्तु विध्यर्थमेव। अर्थवत्त्वं हि वृत्तिमत्त्वं। वृत्तिश्च द्विधा —शक्तिर्लक्षणा च। न च सा समासेऽस्तीति। अत्रेदं वक्तव्यम्। सिद्धान्ते तावदेकार्थीभावाभ्युपगमाद् वृत्तिर्नास्तीति बाधितमेव। मीमांसकमतेऽपि लक्षणास्त्येव। यदाहुः— सर्वत्रैव हि वाक्यार्थो लक्ष्य एवेति च स्थितम्॥ इति। अथ नैयायिकरीत्योच्येत? तदपि न , बहुपटव इत्याद्यसिद्धेः। तद्धितग्रहणं तद्विशिष्टपरमिति चेत्? न, पचतकीत्यादावतिव्याप्तेः। किं चैवं कृद्ग्रहणपरिभाषया मूलकेनोपदंशमित्यदावतिव्याप्तिर्दुर्वारैवेत्यास्तां तावत्। चकारोऽनुक्तसमुच्चयार्थः। तेन ‘निपातस्यानर्थकस्य प्रातिपदिकसंज्ञा वक्तव्या’ इति गतार्थम्। येषां द्योत्योऽप्यर्थो नास्ति तदर्थमिदम्। अवद्यति। अनुकरणेषु तु अनुकार्येण सहाभेदविवक्षायामर्थवत्वाभावादेव न प्रातिपदिकत्वम्। ‘भू’सत्तायामिति यथा। भेदविवक्षायां तु संज्ञा स्यादेव। ‘भुवो वुक—‘इति यथा।
Sarala¶
क्विबन्तविजन्तेषु धातुत्वानपायात्प्रातिपदिकत्वसिद्धयेऽत्र सूत्रे कृद्ग्रहणम् । “दाशरथिः” इत्यादौ तद्धितान्ते प्रत्ययान्तत्वेन पूर्वेणाऽप्राप्तेः प्रातिपदिकत्वसिद्धये तद्धितग्रहणम् । समासपदं तु नियमार्थम् । यत्र सङ्घाते पूर्वो भागः पदमुत्तरस्तु प्रत्ययो न, तस्य चेद्भवति तर्हि समास्यैव इति च नियमाकारः । तेन “गामभ्याज शुक्लां दण्डेन” इत्यादौ वाक्यस्य प्रातिपदिकसञ्ज्ञा न भवति ॥
Sudha¶
कृत्तद्धितेति । कृच्च तद्धितश्च समासश्चेति विग्रहः। पूर्वसूत्रात् प्रातिपदिकमित्यनुवर्तते, बहुवचनान्ततया विपरिणम्यते । <ऽप्रत्ययग्रहणे तदन्ता ग्राह्याःऽ> इति परिभाषया कृत्तद्धितेति तदन्तग्रहणन्तदाह - कृत्तद्धितान्तावित्यादिना ।