12059: अस्मदो द्वयोश्च¶
Padacheda: अस्मदः | S | 6 | 1 |
द्वयोः | S | 7 | 2 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The plural of the pronoun अस्मद् ‘I’, is used optionally, though the sense requires a singular or a dual number.
Vasu English Translation¶
The plural of the pronoun अस्मद् ‘I’, is used optionally, though the sense requires a singular or a dual number. Thus “I speak” or “we speak” (अहं ब्रवीमि or वयं बुमः), may be spoken by one person; similarly two persons may either use the dual case or the plural case; thus आवां ब्रूवः ‘we two speak’ or वयं ब्रूमः ‘we speak.’
Vart:- There is prohibition when the pronoun of the Ist person is qualified by an attribute :- as अहं देवदत्तो ब्रवीमि, ‘I Devadatta am speaking.’ अहं गार्ग्यो ब्रवीमि, ‘I Gargya am saying.’ Here we cannot use the plural.
Vart:- The word गुरु ‘master’ may have plural form though referring to one person, when following the word युष्मद्; as त्वं मे गुरुः or यूयं मे गुरवः, ‘Thou art my master,’ or ‘you are my master.’
Bhashya¶
अस्मदो द्वयोश्च अयमपि योगः शक्योऽवक्तुम्। कथम्- अहं ब्रवीमि आवां ब्रूवः वयं ब्रूमः? इमानीन्द्रियाणि कदाचित्स्वातन्त्र्येण विवक्षितानि भवन्ति। तद्यथा- इदं मे अक्षि सुष्ठु पश्यति, अयं मे कर्णः सुष्ठु शृणोतीति। कदाचित्पारतन्त्र्येण विवक्षितानि भवन्ति- अनेनाक्ष्णा सुष्ठु पश्यामि, अनेन कर्णेन सुष्ठु शृणोमीति। तद्यदा स्वातन्त्र्येण विवक्षा तदा बहुवचनं भविष्यति। यदा पारतन्त्र्येण तदैकवचनद्विवचने भविष्यतः ॥ अस्मदो द्वयोश्च ॥ 59 ॥
Kashika¶
अस्मदो योऽर्थस्तस्यैकत्वे द्वित्वे च बहुवचनमन्यतरस्यां भवति। अहं ब्रवीमि, वयं ब्रूमः। आवां ब्रूवः, वयं ब्रूमः॥ सविशेषणस्य प्रतिषेधो वक्तव्यः॥ अहं देवदत्तो ब्रवीमि। अहं गार्ग्यो ब्रवीमि। अहं पटुर्ब्रवीमि॥ युष्मदि गुरावेकेषाम्॥ त्वं मे गुरुः। यूयं मे गुरवः॥
Siddhanta Kaumudi¶
एकत्वे द्वित्वे च विवक्षितेऽस्मदो बहुवचनं वा स्यात् । वयं ब्रूमः । पक्षे अहं ब्रवीमि । आवां ब्रूवः इति वा ।<!सविशेषणस्य प्रतिषेधः !> (वार्तिकम्) ॥ पटुरहं ब्रवीमि ॥
Balamanorama¶
अस्मदो द्वयोश्च - अस्मदो द्वयोश्च । सविशेषणस्येति ।त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमान्नोन्नताः॑ इत्यत्र तु अवयवगतबहुत्वाभिप्रायं बहुवचनम् ।
Padamanjari¶
ऽअस्मदःऽ इत्यभिधेयसम्बन्धेन षष्ठीत्याह - अस्मदो योऽर्थ इति । पञ्चम्यां तु तत्र वर्तमानस्य तिङ्न्तस्य न स्यादिति भावः । एकत्वे द्वित्वे चेति । ननु चास्मतच्छब्दः प्रत्यगात्मनि वर्तते, स चैकस्तस्य कथं द्वित्वयोगः, एकत्वमपि तस्यायुक्तं विशेषणम्, अव्यभिचारात् ? उच्यते; यदाऽन्यत्रात्मत्वमध्यारोप्यते-अयं मे द्वितीय आत्मेति, यदा वा ऽत्यदादीनि सर्वैर्नित्यम्ऽ इति एकशेषः क्रियते, तदा सम्भवत्यनेकार्थत्वम् । अथ यत्रैवास्मच्छब्दो बहुवचनान्तः प्रयुज्यते, तत्र कथं द्वित्वैकत्वविशेषावसायः, प्रकरणादाराच्छब्दस्येव दूरान्तिकयोः । अहमिति । ऽणेóप्रथमयोरम्ऽ, ऽत्वाहौ सौऽ । वयमिति । ऽमपर्यन्तस्यऽ,ऽयूयवयौ जसिऽ, शेषे लोपःऽ । आवामिति । ऽयुवावौ द्विवचनेऽ, ऽप्रथमायाश्च द्विवचनेऽ इत्यात्वम् । सविशेषणस्येति । ऽत्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताःऽ इत्यत्रोन्नतत्वमेव विधीयते । न च विधेयोऽर्थो विशेषणमिति अतिदेशो भवत्येव । युष्मदीति । भाष्यवार्तिकयोरपठितमपि शिष्टप्रयोगदर्शनात्पठितम् ॥
Nyaas¶
अत्राप्यर्थस्य बहुत्वातिदेशः। अस्मदो योऽर्थः स बहुवद्भवति इति। तेन तिङन्तस्यापि तत्र वर्तमानस्य बहुवचनान्तत्वं भवति। वयं ब्राऊमः इति। एकत्वे द्वित्वे च इत्यादि। युक्तं यदेकत्वे भवति, द्वित्वे तु कथम्? न हि द्वित्वमस्मदर्थस्य सम्भवति; अस्मच्छब्दस्यात्मविषयत्वात्, आत्मनश्चैकत्वात्, नैष दोषः; आत्मत्वं परत्र यदोपचर्यते अयं मे द्वितीय आत्मा इति तदा अस्मच्छब्दस्य तत्रापि वृत्तेद्वर्यर्थविषयत्वं सम्भवति। अथ वा - त्यदादीनां मिथो यद्यत् परं तच्छिष्यत इत्यस्मच्छब्द एव शिष्यमाणो युष्मदर्थमप्याहेति द्वयर्थतोपपद्यत इति युज्यते द्वयर्थता। अथ यद्यस्मच्छब्दो बहुवचनान्तः प्रयुज्यते तदैकार्थविषयोऽयम्, न द्वयर्थविषय इति; अथ द्व्यर्थविषयोऽयं नैकार्थविषय इति कुतस्यस्यैकार्थद्वयर्थविषये वृत्तिरवसीयते? प्रकरणात्। यथा - आराच्छब्दस्य दूरान्तिकार्थयोर्वृत्तिरिति। अहम् इति। ङे प्रथमयोरम् (7.1.28) इत्यम्भावः, त्वाहौ सौ (7.2.94) इत्यहारदेशः। वयम् इति। जसि मपर्यन्तस्य (7.2.91) यूयवयौ जसि (7.2.93) इत वयादेशः, शेषे लोपः (7.2.90) आवाम् इति। औप्रत्यये युवावौ द्विवचने (7.2.92) इत्यावादेशः। प्रथमायाश्च (7.2.88) इत्यादिनात्वम्। वक्तव्य इति व्याख्येय इत्यर्थः। व्याख्यानां तु - अन्यतरस्यांग्रहणं यदनुवर्ततते तस्य व्यवस्थितविभाषात्वमाश्रित्य कर्तव्यम्। युष्मदि गुरावेकेषाम् इति। एतदपि चकारस्यानुक्त समुच्चयार्थत्वात् सूत्रेणैव संगृहीतम्॥
Prakriyasarvasvam¶
द्वित्व एकत्वे चास्मदो वा बहुवचनं स्यात् ॥ <karika>अहं वन्दे मुकुन्दं तं वयं वन्दामहे यथा । आवां वन्दावहे कृष्णं वयमित्यपि पूर्ववत् ॥ ६०७ ॥</karika> विशेषोक्तौ नेति वाच्यम् । अहं नारायणो ब्रवीमि । इति ॥ ‘संख्यासुपूर्वस्य’ (५-४-१४०) इति पादस्यान्तलोपे सुपात् सुपाद् । सुपादौ । भत्वे ‘पादः पत्’ (६-४-१३०) सुपदेः । सुपदा । सुपाद्भ्याम् । सम्पादयतीति क्विपि णिलोपे सम्पात् । सम्पादौ । अस्यापि भत्वे पद्भावो भाष्योक्तः । सम्पदः, सम्पदा, सम्पद्भ्याम् ॥ <karika>शास्त्रार्थनामुपपदे हितानामापदे नमः । वाञ्छितानां प्रतिपदे योगिने ज्ञाननिष्पदे ॥ ६०८ ॥</karika> थान्तः- अग्निमत् अग्निमद् । अग्निमथौ । अग्निमद्भ्याम् । प्राच् स् । नुम्संयोगान्तलोपौ । क्विन्नन्तत्वात् कुः । प्राङ् । प्राञ्चौ । प्राञ्चः । भत्वे तु ‘अचः’ (६-४-१३८) इत्यल्लोपे ‘चौ’ (६-१-२२२) इति दीर्घः । प्राचः । प्राचा । प्राग्भ्याम् । प्राक्षु । एवं प्रत्यङ् । प्रतीचः । प्रत्यग्भ्याम् । तथा । देवद्र्यङ् । देवद्रीचः । देवद्र्यग्भ्याम् । अमुमुयङ् । अमुमुईचः । अमुमुयग्भ्यामित्यादि । तिरस् अच्,
Vartika¶
सविशेषणस्य प्रतिषेधः ।
Sutra Prayogas¶
वयम् (भट्टिकाव्यम्): अस्मदो द्वयोश्च इति द्वित्वे वयमिति बहुवचनम् ।