12054: लुब्योगाप्रख्यानात्

Padacheda: लुप् | S | 1 | 1 |

योग-अ-प्रख्यानात् | S | 5 | 1 |

Sutrartha


Vasu English Summary

The sūtras declaring लुप् elision need not also be taught, because of the non-currency of the etymological meaning of the words supposed to be formed by लुप् elision.

Vasu English Translation

The sūtras declaring लुप् elision need not also be taught, because of the non-currency of the etymological meaning of the words supposed to be formed by लुप् elision. In explaining certain words, it is a round-about way of going to work to say that there was a suffix after them, which has been rejected, without producing any effect. It is easier to say that the form is what we find it to be, and that its peculiar meaning depends upon usage. Moreover, in many cases, the would-be etymological meaning is not in fact that the current meaning which the word has in ordinary language. It is therefore a useless circumlocution to presuppose the existence of a suffix, to add it to a word, and, then after all, to make it vanish.

Thus वरणाः Varanah is the name of a city. To say that it is derived from वरणाः a kind of tree, because the city is situated near such trees, and the trees gave the name to the city, is a cumbersome process. Because there might be no trees वरणा at all near the town Varana. Let us therefore call words like वरणा, पञ्चाला, &c., as simply proper nouns. Therefore there is no occasion for the application of the Taddhita affixes given in (4.2.69) and (4.2.70) (तस्य निवासः, अदूरभवञ्च) relating to residence and vicinity; much less of rules relating to ‘lup’ elision contained in (4.2.81) and (4.2.82). (जनपदेलुप्, वरणादिभ्यश्च).

Kashika

लुबप्यशिष्यः योऽयं जनपदे लुप् (४.२.८१) वरणादिभ्यश्च (४.२.८२) इति लुबुच्यते, अयं न वक्तव्यः। किं कारणम्? योगाप्रख्यानात्। न हि पञ्चाला वरणा इति योगः संबन्धः प्रख्यायते। नैतदुपलभामहे वृक्षयोगाद् नगरे वरणा इति। किं तर्हि? संज्ञा एताः। तस्मादत्र तस्य निवासः (४.२.६९) अदूरभवश्च (४.२.७०) इति तद्धितो नैवोत्पद्यते, किं लुपो विधानेन॥

Siddhanta Kaumudi

लुबपि न कर्तव्योऽवयवार्थस्येहाप्रतीतेः ॥

Balamanorama

लुब्योगाप्रख्यानात् - एवंच सुवपि न विदे इत्याह — लुव्योगाप्रख्यानात् ।अशिष्य॑मित्यनुवृत्तं पुंलिङ्गेन तविपरिणतंलु॑वित्यनन्तरं संबध्यते । तदाह — लुबपि न कर्तव्य इति । योगः=अवयवार्थः, तस्य — अप्रख्यानात्प्रतीतेरित्यर्थः । तदाह — अवयवेति । नहि पचालाङ्गवङ्गादिसंबन्धित्वेन पञ्चाला अङ्गा वङ्गा इत्यादितो बोधः, अतः प्रत्यय एव तत्र नास्तीति भावः ।

Tattvabodhini

लुब्योगाप्रख्यानात् - लुब्योगेति ।जनपदे लुप्,वरणादिभ्यश्चे॑ति द्विसूत्रीलुप्अशब्देन विवक्षिता ।अशिष्य॑मिति सम्बध्यत एव । तदाह — लुबपीति । प्रकृतिप्रत्ययार्थयोः सम्बन्धोयोग इत्याशयेन फलितमाह -अवयवार्थस्येति । अप्रख्यानाद्विति व्याचष्टे -अप्रतीतेरिति । पञ्चालादयः शब्दाः क्षत्रियेषु यथा रूढास्तथा जनपदेऽपीतितस्य निवासः॑अदूरभवश्च॑ इति तद्धितो नैवोत्पद्यते किमनेन लुपो विधानेनेत्यर्थः । न दृश्येतेति । विनापि क्षत्रियसम्बन्धं पञ्चालादिशब्दोजनपदेषु प्रयुज्यते इति नार्थः सूत्रेणेत्यर्थः । प्रसङ्गात्पूर्वाचार्यपरिभाषितकमन्यदपि प्रत्याचष्टे — प्रधानेत्यादिना ।

Padamanjari

किं कारणमिति । ऽनिमितकारणहेतुषु सर्वासां प्रायदर्शनम्ऽ इति प्रथमा द्वितीया वा । तथा च योगाप्रख्यानादित्युतरोपपतिः । योगःउजनपदादेः क्षत्रियादिभिः सम्बन्धः, तस्याप्रख्यानादनुपलब्धेरित्यर्थः । तदाह - न हीति । एतदेव विवृणोति-नैतदिति, संज्ञा एता इति । यद्यपि संज्ञाशब्दा अपि पङ्कजादयोऽपेक्षितप्रवृत्तिनिमिताः सन्ति, तथापीह प्रकरणादनेपेक्षितप्रवृत्तिनिमिता अपीति बोद्धव्यम् । अत एवाह-तस्मादत्रेत्यादि । ननु योगाप्रख्यानेऽपि तद्धित उत्पद्यते, तद्यथा - ऽकम्बलाच्च संज्ञायाम्ऽ कम्बल्यमूर्णापलशतमिति, सत्यम्; यत्र रूपे विशेषोऽस्ति । ननु च संज्ञाप्रमाणत्वादिति पञ्चालादिशब्दानामयौगिकत्वमुपपादितमित्यर्थाल्लुबपि प्रत्याख्यात् एव, किमनेन क्रियते ? उच्यते; संज्ञाप्रमाणत्वादित्यनेन दृष्टान्तगतो हेतुः शब्देनोक्तः तस्यैव त्वर्थात्पञ्चालादिगतत्वेन प्रतीयमानस्यासिद्धिमाशङ्कय योगाप्रख्यानादिति यौगिकत्वामपाकुर्वन् हेतुमेव समर्थयते ॥

Nyaas

योगप्रख्यानात् इति।योगो जनपदादेः क्षत्रियादिभिः सह सम्बन्धः, तस्याप्रख्यानादनुपलब्धेरित्यर्थः। ये हि योगनिमित्तिकाः शब्दा योगमभिधाय तद्वति द्रव्ये वर्तन्ते, तेभ्यो योग उपलभ्यते; यथा - दण्डिशब्दादिभ्यः। न च पञ्चालादिभ्यो दण्डआदिशपब्दवद्योग उपलभ्यते, तस्मान्नैते योगशब्दा इत्यत आह- न हि इत्यादि। प्रख्यायते = कथ्यते, प्रकाश्यते, बुद्धेर्विषय आपद्यत इति यावत्। यत एवं पञ्चाला वरणा इति सम्बन्धो न प्रख्ययते अत एव नैतदुपलभामहे वृक्षयोगान्नगरे वरणा इति, किं तर्हि? संज्ञा एता अनपेक्षितप्रवृत्तिनिमित्ताः। यदि संज्ञाश्बदा एते, ततः किमित्याह - तस्मादत्र इत्यादि। गतार्थम्। ननु च संज्ञा शब्दानामपि व्युत्पत्त्यर्थ तद्धित उत्पद्यत ए, यथा हस्ताज्जातौ (5.2.133) हस्ती, कम्बलाच्च संज्ञायाम् (5.1.3) कम्बल्यमिति, तत्किमुच्यते - ` तस्मादत्र तस्य निवासः (4.2.69) अदूरभवश्च (4.2.70) इति तद्धितो नोत्पद्यते` इति? सत्यम्, संज्ञाशब्दव्युत्पत्त्यर्थं तद्धित उत्पद्यते। स च क्वोत्पद्यते? यत्र श्रुतिकृतो विशेषो विद्यते, न चेह तद्धितोत्पत्तौ लुपि सतिकश्चिद्विशेष इति न तद्धितोत्पत्तिः॥

Prakriyasarvasvam

‘जनपदे लुबि’ति (४-२-८१) लुबप्यशिष्यः । कुरूणां निवास इत्यादि- योगार्थस्याप्रख्यानात् । रूढिमात्रस्यैव प्रतीतेः इति ॥