12042: तत्पुरुषः समानाधिकरणः कर्मधारयः¶
Padacheda: तत्पुरुषः | S | 1 | 1 |
समानाधिकरणः | S | 1 | 1 |
कर्मधारयः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
A तत्-पुरुष compound, the case of each member is the same, is called कर्मधारय or Appositional Determinative compound.
Vasu English Translation¶
A तत्-पुरुष compound, the case of each member is the same, is called कर्मधारय or Appositional Determinative compound. “Karmadharaya or Appositional Determinative compounds form a sub-division of the determinative compounds (Tat-purusha). In them the first portion stands as the predicate of the second portion, such as in black-beetle, sky-blue.” (Max Muller).
The compounds like नीलोत्पलं ‘the blue lotus’, परमात्मा ‘the supreme spirit’ &c., are examples of karmadharaya compounds. “The component words, if dissolved, would stand in the same case, (samanadhikarana), whereas in other Tat-purushas, the preceding word is governed by the last.”
As, परमराज्यम्, is a karmadharaya compound meaning “the best Government.” Had it not been a karmadharaya compound, the udatta accent would have fallen on the syllable रा by rule (6.2.130) [1] ,(the word राज्यम् has udatta on the first syllable in Tat-purusha compounds, except in karmadharaya).
Similarly पाचिका + वृन्दारिका = पाचकवृन्दारिका ((6.3.42) [2] ,the feminine adjective is changed into masculine in the karmadharaya).
Each member of a compound may have the same case, but if it is not a Tat-purusha compound, it won’t be karmadharaya. As पाचिका + भार्या = पाचिकाभार्याः. ‘He who has a wife for a cook.’ This is an example of a Bahuvrihi compound, and therefore the word पचिका retains its gender sign.
A compound may be a Tat-purusha, but if its component parts do not refer to the same thing and are not in the same case, it won’t be karmadharaya:- ब्रा॒ह्म॒ण॒ राज्य॑म् Brahmana rajyam, ‘a Brahmana kingdom.’ Here राज्यम् gets udatta on the first syllable by the rule already mentioned (6.2.130).
## Footnotes - [1] - अकर्मधारये राज्यम् ॥ - [2] — पुंवत्कर्मधारयजातीयदेशीयेषु ॥
Bhashya¶
तत्पुरुषः समानाधिकरणः कर्मधारयः ॥ सामानाधिकरण्योपपादनाधिकरणम् ॥ - तत्पुरुषस्समानाधिकरणः कर्मधारय इति चेत्समासैकार्थत्वादप्रसिद्धिः - तत्पुरुषः समानाधिकरणः कर्मधारय इति चेत् समासस्यैकार्थत्वात् सञ्ज्ञाया अप्रसिद्धिः। एकोऽयमर्थस्तत्पुरुषो नाम, अनेकार्थाश्रयं च सामानाधिकरण्यम्। - सिद्धं तु पदसामानाधिकरण्यात् - सिद्धमेतत्। कथम्? तत्पुरुषस्समानाधिकरणपदः कर्मधारयसञ्ञ्ज्ञो भवतीति वक्तव्यम्। सिध्यति। सूत्रं तर्हि भिद्यते। यथान्यासमेवास्तु। ननु चोक्तम्- तत्पुरुषः समानाधिकरणः कर्मधारयः इति चेत् समासैकार्थत्वादप्रसिद्धिः इति। नैष दोषः। अयं तत्पुरुषोस्त्येव प्राथमकल्पिको यस्मिन्नैकपद्यमैकस्वर्यमेकविभक्तित्वं च। अस्ति तार्दथ्यात् ताच्छब्द्यं तत्पुरुषार्थानि पदानि तत्पुरुष इति। तद्यस्तार्दथ्यात्ताच्छब्द्यं तस्येदं ग्रहणम् ॥ तत्पुरुषः समानाधिकरणः कर्मधारयः ॥ 42 ॥
Kashika¶
तत्पुरुषः (२.१.२२) इति समासविशेषस्य संज्ञां वक्ष्यति। स तत्पुरुषः समानाधिकरणपदः कर्मधारयसंज्ञो भवति। अधिकरणशब्दोऽभिधेयवाची। समानाधिकरणः समानाभिधेयः। प॒र॒म॒रा॒ज्यम्। उ॒त्त॒म॒रा॒ज्यम्। अकर्मधारये राज्यम् (६.२.१३०) इत्युत्तरपदाद्युदात्तं न भवति। पाचकवृन्दारिका। तत्पुरुष इति किम्? पाचिकाभार्यः। समानाधिकरण इति किम्? ब्रा॒ह्म॒ण॒राज्य॑म्। कर्मधारयप्रदेशाः — कर्मधारयेऽनिष्ठा (६.२.४६) इत्येवमादयः॥
Balamanorama¶
तत्पुरुषः समानाधिकरणः कर्मधारयः - अथ कर्मधारयकार्यं वक्ष्यन्करमधारयसंज्ञामाह — तत्पुरुषः समाना । समानम्-एकमधिकरणं=वाच्यं ययोः पदयोः, ते समानाधिकरणे पदे, ते अस्य स्त इति समानाधिकरणः, मत्वर्थीयोऽर्शाअद्यच् । समानाधिकरणानेकपदावयवकस्तत्पुरुषः कर्मधारयसंज्ञको भवतीत्यर्थः । तत्पुरुषाधिकारे इयं संज्ञा न कृता, तथा सत्येकसंज्ञाधिकारात्कर्मधारधारयसंज्ञया तत्पुरुषसंज्ञा बाध्येतेत्याहुः ।
Tattvabodhini¶
तत्पुरुषः समानाधिकरणः कर्मधारयः - तत्पुरुषः । समानाधिकरणशब्दोऽर्साअद्यजन्तः । समानाधिकरणपाक इत्यर्थः ।
Padamanjari¶
अत्र ऽतत्पुरुषःऽ ऽसमानाधिकरणःऽ इति द्वयोरपि पदयोर्मुख्यार्थत्वे ब्राह्मणराज्यं शोभनमित्यादौ यत्र बाह्यएन पदेन तत्पुरुषस्य सामानाधिकरण्यं तत्रैव संज्ञा स्याद्, न तु परमराज्यमित्यादौ; शब्दान्तरस्याप्रयोगादित्यन्यतरद्गोणार्थमिति स्थिते कामचाराद्यदि तत्पुरुषशब्दो गौणः स्यात् तत्पुरुषार्थानि पदानि समानाधिकरणानीति, ततः सहग्रहणाभावात् प्रत्यकं संज्ञा इति शङ्क्येत, अतस्तत्पुरुष इति पदं मुख्यार्थमित्याह-तत्पुष इति । समासविशेषस्येत्यादि । इतरद्गौणार्थमित्याह-समानाधिकरणपद इति । समानाधिकरणानि पदान्याश्रयत्वेन यस्य सन्ति स तथोक्तः; अवयवद्वारकं सामानाधिकरण्यमौपचारिकमपि पदान्तनिरपेक्षमन्तरङ्गमिति तदेवाश्रीयत इति भावः । भवति ह्यवयवधर्मेण समुदायस्य व्यपदेशः, यथा-समं चूर्णमिति । अत्र ह्यवयवद्वारकं चूर्णस्य साम्यम्, न तु कृत्स्नस्य चूर्णस्यान्येन । परमराज्यमिति, अकर्मधारयेराज्यम् इत्यत्राकर्मधारय इति निषेधादुतरपदाद्यौदातत्वाभावे समासान्तोदातमेव भवति । पाचकवृन्दारिकेति । ऽन कोपधायाःऽ इति प्रतिषेधं बाधित्वा ऽपुंवत्कर्मधारयऽ इति पुंवद्भावो भवति । तत्पुरुष इति किमिति । प्रतिपदोक्तत्वादधिकारावगतेर्वा समानाधिकरणाधिकारविहितस्तपुरुष एव प्रतिपत्स्यत इति प्रश्नः । पाचिकाभार्य इति । अयमेवार्थो दुरवधार इति भावः । ब्राह्मणराज्यमिति । अत्रोतरपदाद्यौदातत्वमेव भवति । अथ ऽपूर्वकालैकऽ इत्यस्य प्रकरणस्यान्ते ऽकर्मधारयऽ इति कस्मान्नोक्तम्, योऽयं समानाधिकरणाधिकारविहितस्तत्पुरुषः स कर्मधारय इति, एवं हि ऽतत्पुरुषः समानाधिकरणऽ इति न वक्तव्यं भवति ? सत्यम्; एकसंज्ञाधिकारातु कर्मधारसंज्ञया तत्पुरुषसंज्ञाया बाधः स्यादिति द्विगोरिव पुनस्तत्पुरुषसंज्ञाविधानाय कर्मधारयपदमुपादेयम् । पुनश्च पर्यायप्रसङ्गे समावेशाय चकारोऽपि वक्तव्यः नन्वेवं करिष्यते-द्विगुकर्मधारयौ चेति ? एवं तु न कृतमित्येव ॥
Nyaas¶
तत्पुरुषः इति समासविशेषस्याख्या। स च एक एवशब्दः। अनेकस्य च शब्दस्य भिन्नप्रवृत्तिनिमित्तकस्यैकस्मिन्नर्थे वृत्तिः =सामानाधिकारण्यम्। ततश्च यत्र बाह्रेन पदेन तत्पुरूषस्य सामानधिकरण्यम्, तत्रैवेयं संज्ञा स्यात् - राजपुरुषः शोभन इत्यादौ,अस्ति ह्यत्र तत्पुरुषस्य केनचित् सामानाधिकरण्यमस्ति; शोभनशब्देन सह। पाचकवृन्दारिकेत्यादौ तु न स्यात्, न ह्यत्र तत्पुरुषस्य केनचित् सामानाधिकरण्यमस्ति; शब्दान्तरस्य प्रयोगाभावादिति चोद्यमपाकर्त्तुमाह- समानाधिकरणपदः इति। समानम् = अभिन्नम्, एकमधिकरणम् = वाच्यं येषां पदानां तानि समानाधिकरणानि पदानि, तान्याश्रयभूतानि यस्य तत्पुरुषस्य स समानाधिकरणपदस्तत्पुरुषः। एतेन तत्पुरुषार्थानां पदानां समानाधिकरणत्वादुपचारेण तत्पुरुषोऽत्र सूत्रे समानाधिकरणशब्देनोक्त इति दर्शयति। कथं पुनर्बाह्रन्यपदापेक्षया तत्पुरुषस्य मुख्ये सामानाधिकरण्ये सम्भवति सत्यौपचारिकस्य ग्रहणमुपपद्यते? कर्मधारयः इति महत्याः संज्ञायाः करणात्। इह हि लाघवार्थत्वात् कसंज्ञाकरणस्य, लघीयस्यां संज्ञायां कर्तव्यायां कर्मधारयः इति महतीं संज्ञां कुर्वता - अन्योऽप्यत्र कश्चित् विपर्ययः संज्ञायामाश्रितः इत्येषोऽर्थः सूचितः। तेन गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः (व्या।प।4) इति मुख्यस्य समानाधिकरणस्य ग्रहणं न विज्ञायते।समानाभिधेयः इति। तदर्थानां पदानां समानाभिधेयत्वात् तत्पुरुषोऽप्युपचारेण समानाभिधेय इत्युक्तः। परमराज्यम्, उत्तमराज्यम् इति। सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः (2.1.61) इत्यादिना समासः। कर्मधारये सति अकर्मधारये राज्यम् (6.2.130) इत्युत्तरपदाद्युदात्तमत्वं न भवति। पाचकवृन्दारिका इति। वृन्दारकनागकुञ्जरैः` (2.1.61) इति पुंवद्भावः। पाचिकाभार्यः इति। बहुव्रीहिरयम्। तेनात्र न कोपधायाः (6.3.37) इति प्रतिषेधो भवत्येव। ब्राआहृणराज्यम् इति। षष्ठीतत्पुरुषोऽयम्। तेनात्र समासान्तोदात्तमेव न भवति, अपि तूत्तरपदाद्युदात्तत्वम्॥
Praudhamanorama¶
तत्पुरुषः॥ ‘समानाधिकरण’ इत्यर्शआद्यजन्तम्, औपचारिकं वा । ‘समानाधिकरणपद’ इत्यर्थः । भाषितपुंस्कादित्यादि । एतच्च ‘स्त्रियाः पुंवदि’तिसूत्रे स्फुटीकरिष्यते । ननु तेनैव कर्मधारये सिद्धम् । जातीयदेशीययोश्च ‘तसिलादिषु-’ इति सिद्धम् । तत्किमनेन सूत्रेणेत्यत आह- पूरणीत्यादि । तथेत्यादि च । स्त्रीपुंसलक्षणेति । ‘स्तनश्मश्र्वादियुक्ता स्त्री पोटा’ इत्यमरव्याख्यातारः । हरदत्तस्तु नपुंसकं पोटेत्याह । तत्र मूलं मृग्यम् । अमरेण नपुंसकपर्यायेभ्यः पृथगेवाऽस्य पाठात् । कठधूर्त इति । नाऽत्र कठत्वं कुत्स्यतेऽतः ‘कुत्सितानि कुत्सनैरि’ति गतार्थता न शङ्क्या । प्रवृत्तिनिमित्तकुत्सायामेव तस्य प्रवृत्तेः । कथं तहिं ‘जनयति कुमुदभ्रान्तिं धूर्तबको बालमत्स्यानाम्’ इति । ‘बकधूर्त’ इति युक्तम् । सत्यम् । प्रमाद एवाऽयमिति प्रामाणिकाः ।
Prakriyasarvasvam¶
एकाभिधेयपदार्थात्मकस्तत्पुरुषः कर्मधारयाख्यः । ‘पुंवत्कर्मधारय—’ (६- ३-४१) इति वक्ष्यमाणपुंवद्भावात् टाब्विवृत्तिः । स्नाता च विलिप्ता च स्नातवि- लिप्ता । एकपुरुषः । सर्वजनाः । जरद्गृध्रः । पुराणमुनिः । नववधूः । केवलशूरः ॥