12050: इद्गोण्याः

Padacheda: इत् | S | 1 | 1 |

गोण्याः | S | 6 | 1 |

Sutrartha


Vasu English Summary

The short is substituted in the place of गोणी , when the तद्धित affix is elided by लुक्।

Vasu English Translation

The short is substituted in the place of गोणी , when the तद्धित affix is elided by लुक्। By the former sutra when a Taddhita is elided, the long ई of the feminine also required elision. But this rule makes an exception in favor of the word गोणी३ in which, under similar circumstances the short इ replaces the long ई, as in the compound पंचगोणिः ‘purchased for five gonis.’ Here the Taddhita suffix which conveys the meaning of “purchased for,” has been rejected after गोणी by (5.1.28) [1]. Therefore by previous sutra, the feminine suffix ई also required rejection. But this sutra intervenes and changes the long ई into short इ.

This sutra is divided into two separate rules by the process called yoga-vibhaga. Thus इत् is made one sutra by itself, and then it means, when there is a suppression of Taddhita aflix by लुक्, then the long ई is replaced by short इ. Thus purchased with five needles पंचभिः सूचीभिः क्रीतः = पंचसूचिः, दशसूचिः. This is restricted to such examples of purchase only.

## Footnotes - [1] - अध्यर्द्धपूर्वद्विगोर्लुगसंज्ञायाम् ॥

Bhashya

इद् गोण्याः - इद्गोण्या नेति वक्तव्यम् - गोण्या न इत्येव सिद्धम्। नार्थ इत्त्वेन। का रूपसिद्धिः?। पञ्चगोणिर्दशगोणिः। - ह्रस्वता हि विधीयते - ह्रस्वत्वमत्र विधीयते गोस्त्रियोरुपसर्जनस्य (1.2.48) इति। - इति वा वचने तावत् - इद् इति वोच्येत, नेति वा। को न्वत्र विशेषः? - मात्रार्थं वा कृतं भवेत् - अथवा मात्रार्थमिदं वक्तव्यम्। गोणीमात्रमिदं गोणिः। अपर आह- - गोण्या इत्त्वं प्रकरणात् - अशिष्यं गोण्या इत्त्वम्। किं कारणम्? प्रकरणात्। प्रकृतं ह्रस्वत्म्। ह्रस्व इति वर्तते। न तु सूच्याः। - सूच्याद्यर्थमथापि वा - सूच्याद्यर्थमिदं द्रष्टव्यम्। पञ्चसूचिः दशसूचिः। इद्गोण्या नेति वक्तव्यं ह्रस्वता हि विधीयते। इति वा वचने तावन्मात्रार्थं वा कृतं भवेत् ॥ 1 ॥ गोण्या इत्त्वं प्रकरणात्सूच्याद्यर्थमथापि वा ॥ इद् गोण्याः ॥ 50 ॥

Kashika

पूर्वेण लुकि प्राप्त इकारो विधीयते। गोण्यास्तद्धितलुकि सतीकारादेशो भवति। पञ्चभिर्गोणीभिः क्रीतःपटः पञ्चगोणिः। दशगोणिः। इदिति योगविभागः। पञ्चभिः सूचीभिः क्रीतः पञ्चसूचिः। दशसूचिः। स च एवंविषय एव॥

Siddhanta Kaumudi

गोण्या इत्स्यात्तद्धितलुकि । लुकोऽपवादः । पञ्चभिर्गोणीभिः क्रीतः पटः पञ्चगोणिः ॥

Balamanorama

इद्गोण्याः - इद्गोण्याः । लुकोऽपवाद इति ।लुक्तद्धितलुकी॑ति प्राप्तस्येत्यर्थः । पञ्चगोणिरिति । आर्हीयस्य ठको लुकि स्त्रीप्रत्ययस्य इकारः । नच उपसर्जनह्रस्वत्वेनैव इदं सिद्धमिति वाच्यम्, इत्त्वविध्यभावेसुक्तद्धितलुकी॑ति ङीषो निवृत्तावदन्तत्वाट्टापि पञ्चगोणेत्यापत्तेः । मूलद्रव्यवाचिन एव तृतीयान्तात्क्रीतार्थे प्रत्यया भवन्ति, नतुदेवदत्तेन क्रीत॑मित्यर्थे, अनभिधानादिति भाष्ये स्पष्टम् ।

Tattvabodhini

इद्गोण्याः - लुकोऽपवाद इति ।लुक्ताद्धितलुकी॑ति प्राप्तस्य स्त्रीप्रत्ययस्य लुकोऽपवाद इत्यर्थः ।

Padamanjari

पञ्चगोणिरिति । गोणिशब्दः परिमाणवचनः, आवपनवचनश्च; तत्राद्यात् ऽप्राग्वतेष्ठञ्ऽ, द्वितीयादार्हीयष्ठक् । तयोः पूर्वल्लुक् । इदिति योगाविभाग इति । इहेद्ग्रहणमनर्थकम्, गोण्या इत्येवास्तु, ह्रस्व इत्येव, लुकस्तु वचनासामर्थ्यादननुवृत्तिः ? तदेतदिद्ग्रहणमेव लिङ्गं योगविभागस्य । यदि योगविभागः क्रियते, सर्वत्रेत्वं प्राप्नोति, तत्राह-स चेति । यदि सर्वत्र स्याद् गोणीग्रहणमनर्थकं स्यादिति भावः । ननु तद्धितलुकि लुगप्युक्तः, इत्वं चेति, तयोर्विकल्पप्रसङ्गे नित्यमित्वमेव यथा स्यादित्येवमर्थं गोणीग्रहणं स्यात्, तत्कर्थं ततो विशिष्टविषयत्वं योगविभागस्य ? उच्यते; एक एव तावद्योगः सूत्रकारेण पठितः, तत्सामर्थ्याद् विभागसंस्कारोऽप्यनुवर्तते, अविभक्तश्च योगो विशिष्टविषयः । इद्ग्रहणसामर्थ्यात्क्रियमाणो विभागो विशिष्टविषय एव कल्प्यते; अत एवोच्यते - योगविभागादिष्टसिद्धरिति । स पुनर्विशिष्टो विषयो व्याख्यानादवसेयः । तपरकरणं तत्कालार्थम् - दीर्घस्य दीर्घो मा भूद् । वचनं तु लुग्घ्रस्वबाधनार्थं स्याद् । असति च तकारे, प्राप्तप्रतिषिद्ध ईकार एवं प्रतिप्रसूतः स्याद्, न त्वपूर्व इकारो विहितः स्याद् इति भाव्यमानत्वमेव न स्यात् ॥

Nyaas

पञ्गोणिः इति। तद्धितार्थ (2.1.50) इति समासे कृत आर्हीयष्ठक्। तस्यपूर्ववल्लुक्। इदिति योगविभागः इति। एतस्येद्ग्रहणमेव लिङगम्। तथा हि गोणी इत्येतावति सूत्रे ह्रस्वग्रहणानुवृत्तौ ह्रस्वत्वे कृते पञ्चगोणिरिति सिद्ध्यत्येव;किमिद्ग्रहणेन? तदेतदिद्ग्रहणं क्रियमाणं योगविभागर्थं विज्ञायते। ननु चानन्तरसूत्राल्लुक एवानुवृत्तिः स्यात्, न ह्रस्वस्य, नैतदस्ति; लुगनुवृत्तौ हि सूत्रमिदमनर्थकं स्यात्; लुकोऽनन्तरसूत्रेणैव सिद्धत्वात्। तस्माद्ध्रस्वग्रहणमेवानुवर्तते, न लुग्ग्रहणम्।पञ्चसूचिः इति। पञ्चगोणिरित्यनेन तुल्यम्। यदि योगविभागः क्रियते, तदातिप्रसङ्गः स्यात्। अन्येषामपि प्रसज्यत इत्यत आह - स च इत्यादि। यदि सर्वत्रेत्त्वं पूर्वयोगेणैव स्यात्, तदा गोण्याः इति वचनमनर्थकम्। तस्मादगोणीग्रहणादस्यासर्वविषयत्वम्। तेन योगविभागः सूचीविषय एव, नान्यविषय इति। तपरकरणं दीर्घानिवृत्त्यर्थम्। दीर्घस्य दीर्घकरणमनर्थकं स्यात्। अतो विना तपरकरणेन दीर्घो न भविष्यीति चेत्, न; लुघ्यस्वबाधनार्थत्वाद्दीर्घकरणस्य। भाव्यमानोऽण् सवर्णान् न गृह्णातीति, तस्माददीर्घनिवृत्त्यर्थं तपरत्वं नोपपद्यत इति चेत्, न; तस्याभाव्यमानत्वात्। अपूर्वस्य हि विधानं भाव्यमानत्वम्। न चात्रापूर्वस्य विधानम्। तथा हि - लुग्घ्रस्वयोः प्राप्तयोः पुनः स एव ईकारः प्रतिप्रसूयते। तस्मात् तपरकरणं कर्तव्यम्॥

Prakriyasarvasvam

तद्धितलुकि सति गोण्या इत् स्यात् । इदिति विधानादन्यस्यापि । पञ्चभिः सूचीभिः क्रीतः पञ्चसूचिः । संज्ञायां तु लुङ् न । पाञ्चलोहितिकमिति । पञ्चगुञ्जा- परिमितकनकाख्या । अत्र परिमाणान्तस्यासंज्ञा—’ (७-३-१७) इति उत्तरपद- वृद्धयभावः ॥