12052: विशेषणानां चाजातेः

Padacheda: विशेषणानाम् | S | 6 | 3 |

च | S | 0 | 0 |

अ-जातेः | S | 5 | 1 |

Sutrartha


Vasu English Summary

And of adjectives (the gender and number are the same as of the word formed by लुप् elision of the तद्धित and which they qualify) so far as the जाति (or kind of species) is concerned, (or when not expressing जाति).

Vasu English Translation

And of adjectives (the gender and number are the same as of the word formed by लुप् elision of the तद्धित and which they qualify) so far as the जाति (or kind of species) is concerned, (or when not expressing जाति). When a Taddhita is luped, the adjectives which qualify such secondary derivatives agree with them in number and gender. This is a rule of syntax. Thus पंचालाः रमणीयाः बह्वन्नाः, बहुक्षीरघृताः बहुमाल्यफलाः ‘the pleasant Panchalas having plenty of food, plenty of milk and butter.’ Here the adjective रमणीयाः, pleasant &c., agrees in number and gender with the Panchalah; being also in masculine plural. But when such a derivative is used as a jati word then the adjective does not agree in number and gender, as पंचालाः जनपदः, गोदौ ग्रामः. Here जनपद though qualifying Panchala does not agree with it in number and gender, as it is a noun of class. All attributes of such words formed by the lup of Taddhita agree with their substantives in number and gender: provided that such an attribute is not a common noun used as an adjective. Similarly adjectives which do not directly qualify such Taddhita-formed nouns, but do so through the medium of a noun of class, do not agree in gender and number with the Taddhita-word. Thus पंचालाः जनपदो रमणीयो बह्वन्नः, ‘the country of Panchalas is pleasant and fertile.’ Here the words रमणीयः and बह्वन्नः qualify directly the word ‘जनपदः’ and indirectly the word Panchalas, and therefore do not agree with the latter.

The explanation of this sutra as given by Patanjali in the Mahabhashya is somewhat different from that of the Kasika. The phrase चाजातेः is analysed by him as च and आजातेः, the sense being “and as far as the jati goes.” The word jati is thus explained :-

A word expressing whatever is distinguishable by its form or figure, or which begins the name of an individual is easily found applicable to others without any further teaching, (a common name) provided it is not a word used in all genders, (common noun मुख्यजाति genus); and (only for the purpose of grammar as coming under the rules relating to the above mentioned words), a word expressing descendants by their parentage as well as a word expressing a person by the branch of the Vedas (शाखा) which the family to which the person belongs is competent to read शाखाध्येतृ (sakhadhyetri) (गौणजाति) = जातिवाचकाः (jativachakah) आकृति गृहणज्जातिर्लिंगानां च नसर्वभाक् । सकृदाख्यात निग्राह्य गोत्रं च चरणैः सह ॥

The following examples will illustrate the meaning of the above definition:-(1) तट is a jati word because it denotes what is distinguishable by its form, i. e. by its being contiguous to a place covered with water, (2) शूद्र is such a word, because when given as the name of an individual, is applicable to other sudras (common name), (3) औपगव is such a word, and (4) कठ a person belonging to the family competent to read the branch of the Vedas called katha is also such a word. But देवदत्त is not such a word, because it is a proper name applicable to only one individual and शुक्ल is likewise not such a word, because it, though a common name, is used in all genders.

Vart:- Prohibition must be stated in the case of nouns formed by the लुप् elision of an affix relating to man. Thus the Taddhita affix कन् (क) is employed in denoting representation by imitation. Thus अश्वकः means a figure like a horse (in wood or clay or paper). But when the imitation is that of a man, this affix is elided. Thus चंचा means a “doll of straw.” But when we want to say a doll in the figure of a man, we will have चंचा + कन्लुप् (लुम्मनुष्ये (5.3.98)) = चञ्चा. Here this word is formed by the elision of an affix relating to man. Adjectives qualifying this word will not agree in gender and number. Thus चंचा अभिरूपः ‘the delightful straw figure of man.’ वध्रिकाः दर्शनीयः ‘a beautiful representation of an eunuch.’

Bhashya

विशेषणानां चाऽजातेः ॥ जातिपदार्थान्वयनिर्णयाधिकरणम् ॥ कथमिदं विज्ञायते- जातिर्यद्विशेषणमिति, आहोस्विज्जातेर्यानि विशेषणानीति? किं चातः? यदि विज्ञायते- जातिर्यद्विशेषणमिति। सिद्धम्- पञ्ञ्चाला जनपद इति। सुभिक्षः सम्पन्नपानीयो बहुमाल्यफल इति न सिद्ध्यति। अथ विज्ञायते- जातेर्यानि विशेषणानि इति। सिद्धम्- सुभिक्षः सम्पन्नपानीयो बहुमाल्यफलः इति। पञ्ञ्चाला जनपदः इति न सिद्ध्यति। एवं तर्हि नैवं विज्ञायते- जातिर्यद्विशेषणाम् इति, नापि- जातेर्यानि विशेषणानि इति। कथं तर्हि? विशेषणानां युक्तवद्भावो भवति, आ जातेः, आजातिप्रयोगात्। (अथ) किमर्थं पुनरिदमुच्यते? - विशेषणानां वचनं जातिनिवृत्त्यर्थम् - जातिनिवृत्त्यर्थोऽयमारम्भः। किमुच्यते जातिनिवृत्त्यर्थ इति। न पुनर्विशेषणानामपि युक्तवद्भावो यथा स्यादिति? - समानाधिकरणत्वात्सिद्धम् - समानाधिकरणत्वाद्विशेषणानां युक्तवद्भावो भविष्यति। यद्येवं नार्थोऽनेन। लुपोऽन्यत्रापि जातेर्युक्तवद्भावो न भवति। क्वान्यत्र? बदरी सूक्ष्मकण्टका मधुरा (वृक्षः) इति। किं पुनः कारणमन्यत्रापि जातेर्युक्तवद्भावो न भवति? आविष्टलिङ्गा जातीर्यल्लिङ्गमुपादाय प्रवर्त्तते, उत्पत्तिप्रभृत्या विनाशान्न तल्लिङ्गं जहाति। न तर्हीदानीमयं योगो वक्तव्यः? वक्तव्यश्च। किं प्रयोजनम्? इदं तत्र तत्रोच्यते- गुणवचनानां शब्दानामाश्रयतो लिङ्गवचनानि भवन्तीति, तदनेन क्रियते। - हरीतक्यादिषु व्यक्तिः - हरीतक्यादिषु व्यक्तिर्भवति युक्तवद्भावेन। हरीतक्याः फलानि हरीतक्यः फलानि। - खलतिकादिषु वचनम् - खलतिकादिषु वचनं भवति युक्तवद्भावेन। खलतिकस्य पर्वतस्याऽदूरभवानि वनानि खलतिकं वनानि। - मनुष्यलुपि प्रतिषेधः - मनुष्यलुपि प्रतिषेधो वक्तव्यः। चञ्ञ्चा अभिरूपः। वध्रिका दर्शनीयः ॥ विशेषणानां चाऽजातेः ॥ 52 ॥

Kashika

लुपीति वर्तते। लुबर्थस्य यानि विशेषणानि तेषामपि च युक्तवद् व्यक्तिवचने भवतो जातिं वर्जयित्वा। पञ्चालाः रमणीयाः बह्वन्नाः बहुक्षीरघृताः बहुमाल्यफलाः। गोदौ रमणीयौ बह्वन्नौ बहुक्षीरघृतौ बहुमाल्यफलौ। अजातेरिति किम्? पञ्चालाः जनपदः। गोदौ ग्रामः। जात्यर्थस्य चायं युक्तवद्भावप्रतिषेधः। तेन जातिद्वारेण यानि विशेषणानि तेषामपि युक्तवद्भावो न भवति। पञ्चालाः जनपदो रमणीयो बह्वन्नः। गोदौ ग्रामो रमणीयो बह्वन्न इति॥ मनुष्यलुपि प्रतिषेधो वक्तव्यः॥ चञ्चाभिरूपः। वर्धिर्का दर्शनीयः॥

Siddhanta Kaumudi

लुबर्थस्य विशेषणानामपि तद्वल्लिङ्गवचने स्तो जातिं वर्जयित्वा । पञ्चाला रमणीयाः गोदौ रमणीयौ । अजातेः किम् । पञ्चाला जनपदः । गोदौ ग्रामः ।<!हरीतक्यादिषु व्यक्तिः !> (वार्तिकम्) ॥ हरीतक्याः फलानि हरीतक्यः ॥<!खलतिकादिषु वचनम् !> (वार्तिकम्) ॥ खलतिकस्य पर्वतस्यादूरभवानि खलतिकं वनानि ।<!मनुष्यलुपि प्रतिषेधः !> (वार्तिकम्) ॥ मनुष्यलक्षणे लुबर्थे विशेषणानां न, लुबन्तस्य तु भवतीत्यर्थः । चञ्चा अभिरूपः ॥

Balamanorama

विशेषणानां चाजातेः - विशेषणानां चाजातेः । कस्य विशेषणानामित्याकाङ्क्षायां लुबित्यनुवृत्तं षष्ठआ विपरिणतं संबध्यते । लुप्तप्रत्ययार्थस्येति लभ्यते । तदाह — लुबर्थस्येति । तद्वदिति । प्रकृतिवदित्यर्थः ।लुपि युर्तवद्व्यक्तिवचने॑ इत्यस्मादुत्तरं पठितमिदं सूत्रं तत्रैव व्याख्यातुमुचितम् । पञ्चाला रमणीया इति । पञ्चालानां निवासो जनपद इत्यर्थः । अत्र प्रत्ययार्थजनपदं प्रति विशेषणस्यापि रममीयशब्दस्य प्रकृतिवद्बहुवचनम् । गोदौ रमणीयाविति । गोदयोर्निवासो जनपद इत्यर्थः । अत्र प्रत्ययार्थजनपदस्य तद्विशेषणस्यापि प्रकृतिवद्द्विवचनम् । पञ्चाला जनपद इति । जनपदशब्दस्य जातिवाचित्वान्न प्रकृतिवद्बहुवचनम् । गोदौ ग्राम इति । अत्र ग्रामशब्दस्य जातिवाचित्वान्न प्रकृतिवद्द्विवचनम् । हरीतक्यादिषु व्यक्तिरिति । वार्तिकमिदम् ।लुपि लिङ्गं प्रकृतिवद्भवति, न तु वचन॑मिति शेषः । हरीतक्य इति ।हरीतक्यादिभ्यश्चे॑ति विकारप्रत्ययस्य लुप् । अत्र प्रत्ययार्थेषु फलेषु प्रकृतिवत्स्त्रीलिङ्गमेव भवति, न त्वेकवचनमिति भावः ।खलतिकादिषु । वार्तिकमिदम् । एषु लुपि प्रकृतिवद्वचनमेव भवति, नतु लिङ्गमित्यर्थः । खलतिकं वनानीति ।वरणादिभ्यश्चे॑ति लुप् । अत्र खलतिकशब्दस्य लुप्तप्रत्ययान्तस्य प्रकृतिवत्पुंलिङ्गत्वं न भवति, किन्तु एकवचनमेवेति भावः । मनुष्यलुपि प्रतिषेध इति । वार्तिकमिदम् ।मनुष्यलक्षणे इति । मनुष्यात्मके लुप्तप्रत्ययार्थे यानि विशेषणानि तेषां प्रकृतिवल्लिङ्गवचनप्रतिषेध इत्यर्थः । चञ्चा अभिरूप इति । चञ्चा तृणमयी प्रतिमा, तत्सदृशो मनुष्यश्चञ्चा । ‘इवे प्रतिकृतौ’ इत्यधिकारेसंज्ञाया॑मिति कनो ‘लुम्मनुष्ये’ इति लुप् । अत्र लुप्तप्रत्ययान्तस्य चञ्चाशब्दस्य मनुष्ये वाच्ये प्रकृतिलिङ्गत्वं, न तु तद्विशेषणस्याऽभिरूपशब्दस्येति भावः । इति युक्तवद्भावप्रकरणम् ।

Tattvabodhini

विशेषणानां चाजातेः - विशेषणानां । यद्यपि सूत्रपाठेलुपि युक्तल॑दिति सत्रादनन्तरमेतत्सूत्रं पठित्वातदशिष्य॑मित्याशब्धात्वात्तत्रैवेदं व्याख्यातुमुचितम्, तथापि जातेः प्रतिषेधमात्रपरमिदं, न तु युक्तवद्भावपरिमित्याशयेन तत्र नोक्तमित्याहुः । पञ्चाला रमणीया इति । कथं तर्हिपञ्चाला जनपदः सुभिक्षः सम्पन्नपानीयः॑इति प्रयोग इति चेत्, जनपदविशेषणत्वादित्येवेहि । पञ्चालविशेषणत्वाभ्युपगमे तु तद्वलिङ्गवचने स्त एव -पञ्चाला जनपदाः सुभिक्षः सम्पन्नपानीया इति ।हरीतक्यादिषु व्यक्तिः । हरीतक्य इति ।हरीतक्यादिभ्यश्चे॑त्यणो लुप् । तत्र हिलुप् चे॑त्यतो लुबनुवर्तते ।खलतिकादिषु वचनम् । खलतिकमिति ।वरणादिभ्येश्चे॑ति लुप् ।मनुष्यलुपि प्रतिषेधः । चञ्चेति ।सञ्ज्ञाया॑मिति कनोलुम्मनुष्ये॑इति लुप् ।चञ्चा तृणमयः पुमान् ।

Padamanjari

पूर्वं प्रकृत्यर्थगतयोर्लिङ्गसङ्ख्ययोर्लुबर्थेऽतिदेशः कृतः, न तु लुबन्ते शब्दे इति तत्र वर्तमानानां विशेषणानां सिद्ध एव युक्तवद्भावः । वचनं तु जातिप्रतिषेधार्थम् । अथ व्यधिकरणानां विध्यर्थं कस्मान्न भवति, ब्रह्मदतस्य पञ्चाला इति ? ऽतत्पुरुषः समासनाधिकरणःऽ इत्यतः समानाधिकरणानुवृतेः । गोदाविति । गोदौ हृदौ वरणादिः, ग्रामजनपदशब्दौ जातिवाचिनौ ताभ्यां लुबर्थो जातिरूपेणोच्यते । जात्यर्थस्य चेत्यादि । जातिरूपस्य चार्थस्य, न जातिवाचिनः शब्दस्येत्यर्थः । तेन किं सिद्धं भवतीत्याह - तेनेति । द्वारग्रहणेनैतद्दर्शयति - जातौ प्रक्रान्तायां यद्विशेषणमुपनिपतितं तज्जातिमेव साक्षाद्विशिनष्टि, तद्द्वारेण तु लुबर्थो विशिष्टः प्रतीयते; तत्र विशेषणविषेष्यभावं प्रति कामचार इति रमणीयादीनां जात्युपनिपाते युक्तवद्भावो न भवति; लुबर्थो पनिपाते तु भवति । यद्येवम्, नार्थोऽनेन, लुपोऽन्यत्राप्ययं प्रकारो दृष्टः, यथा - बदरी सूक्ष्मकण्टका मधुरावृक्ष इति, मधुरादीनां बदर्युपनिपाते तल्लिङ्गसङ्ख्यायोगः, वृक्षोपनिपाते वृक्षलिङ्गसङ्ख्योगः, वृक्षस्य च नियतलिङ्गत ? एवं तर्हि यतत्रतत्रोच्यते - गुणवचनानां हि शब्दानां नाश्रयतो लिङ्गवचनानि भवन्तीति, तदनेन क्रियते । विशेषणानां गुणवचनानामित्यर्थः । युक्तवद्व्यक्तिवचने । आश्रयवल्लिङ्गसंख्ये इत्यर्थः । यदा तु जातिविशेषणं तदा नेति । पदसंस्कारपक्षे च वाचनिकमेतत्; पदे हि पदान्तरनिरपेक्षे संस्क्रियमाणे लिङ्गसर्वनामनपुंसकं वस्त्वन्तरानपेक्षमेकत्वं च प्राप्तमिति शुक्लं पटा इति प्राप्ते भाविनो बहिरङ्गस्याश्रयस्य लिङ्गसंख्ये विधीयेते । वाक्यसंकारे त्वयमनुबाद एव; आश्रयविशेषणिष्ठत्वेन विशेषणानामपि तल्लिङ्गसंख्ययोरसिद्धत्वात् । मनुष्यलुपीति । मुनष्यलक्षणे लुबर्थे विशेषणानां प्रतिषेधः । लुबन्तस्य तु भवत्येव-चञ्चाभिरूप इति, तृणपुरुषश्चञ्चा तत्सदृशो मनुष्यश्चञ्चा ऽसंज्ञायाम्ऽ इति कन्, ऽलुम्मनुष्येऽ इति लुप् । चर्मविकारविशेषो वर्घ्रिका ॥

Nyaas

पूर्वं प्रकृत्यर्थगतयोर्लिङ्गसंख्ययोर्लुबर्थेऽतिधेशात् तद्विशेषणानामपि रमणीयादीनां व्यक्तिवचनातिदेशः सिद्ध एव। यद्यपि भिन्नं विशेषणानां प्रवृत्तिनिमित्तम्; तथापि तेन भिन्नेनापि तत्र प्रवर्तमानानां स एव लुबर्थोऽतिदिष्टव्यक्तिवचनस्तेषामभिधेयः, तस्मात् तद्गतेनैव लिङ्गसंख्याभिधाने सिद्धे जातिप्रतिषेधार्थमिदं वचनम्। गोदौरमणीयौ इति। गोदौ नाम ह्यदौ, तयोरदूरभवो ग्राम इत्यर्थेऽण्। वरणादिभ्यश्च (4.2.82) इति लुप् तस्य।पञ्चालाः जनपदःगोदौ ग्रामः `इति। जनपदग्रामशब्दौ जातिवचनौ। ताभ्यां जातिनिमत्ताभ्यां स एव लुबर्थो जातिरूपेणोच्यत इति तयोरपि व्यक्तवचने युक्तवत् स्याताम्। ततो `जातेः इति प्रतिषेधः।जात्यर्थस्य इत्यादि। जातिशब्दस्यार्थो जात्यर्थः, तस्यायम् अजातेः इति युक्तवद्भावप्रतिषेधः, न जातिशब्दस्यैवेत्यर्थः। किमेव सति सिद्धं भवतीत्यत आह- तेन इत्यादि। अर्थस्य युक्तवद्भावप्रतिषेधे सति यथा जातिशब्दस्य तत्रार्थे वर्तमानस्य तदीये लिङ्गसंख्ये न भवतः, तथा तद्विशेषणानामपि युक्तवद्भावो न बह्वन्न इत्यादौ न स्यात्, रमणीयादीनामजातिशब्दत्वात्। द्वारग्रहणं लुबर्थे जातिशब्द्स्य प्रवृत्तत्वात्, लुबर्थे जातिविशेषणानां साक्षादप्रवृत्तेः। तानि हि साक्षाज्जातिमेव विशेषयन्ति। तस्यां तु विशेषितायां लुबर्थोऽपि विशिष्ट एव प्रतीयत इति जातिद्वारेण तस्य तानि विशेषणानि भवन्ति। मनुष्यलुपि इति। मनुष्यलक्षणो यो लुप् तस्य विशेषणानां युक्तवद्भावप्रतिषेध इति। स च विभाषाग्रहणानुवृत्तेव्र्यवस्थितविभाषाविज्ञानाल्लभ्यते। चञ्चाभिरूपः इति। चञ्चेव मनुष्यश्चञ्चा - इवे प्रतिकृतौ (5.3.96) इति कन्। तस्य लुम् मनुष्ये (5.3.98) इति लुप्। अभिरूपः इति विशेषणस्याभिधेयवल्लिङ्गवचनानि भवन्ति। वर्ध्रिका इति। पूर्ववत् कँल्लुपौ॥

Prakriyasarvasvam

विशेषणानां च प्रकृतिवल्लिङ्गवचने स्तः । रम्याः कुरवः । जातिवाचिनां तु जनपदनीवृदादीनां स्वलिङ्गवचने एव । कुरवो नीवृत् । एवं प्राक्तनमतेनोक्तमेव निराचष्टे पाणिनिः—

Vartika

हरीतक्यादिषु व्यक्तिः ।