12048: गोस्त्रियोरुपसर्जनस्य¶
Padacheda: गो-स्त्रियोः | S | 6 | 1 |
उपसर्जनस्य | S | 6 | 1 |
Sutrartha¶
Vasu English Summary¶
A short vowel is the substitute of प्रातिपदिक which ends with the word गो ‘a cow’ and of that which ends with what has as its termination a feminine affix, when regarded as उपसर्जन।
Vasu English Translation¶
A short vowel is the substitute of प्रातिपदिक which ends with the word गो ‘a cow’ and of that which ends with what has as its termination a feminine affix, when regarded as उपसर्जन। The word upasarjana has been defined in sutra (1.2.43). In compounds the word गो becomes shortened when it stands last and is an upasarjana.
Thus चित्र + गो = चित्रगुः ‘possessed of a brindled cow.’ This is an example of a Bahuvrihi or possessive compound. So also शबलगु ‘a spotted cow.’ Similarly in those pratipadika upasarjanas which end in feminine suffixes having a final long vowel, there is a shortening. Thus निः + कौशाम्बी = निष्कौशाम्बिः. Here the final long ई is shortened. So also निर्वाराणसिः.
The word pratipadika of the previous sutra is understood in this. The word गो in the sutra means the form गो and not other words synonym with it. The word स्त्री means “a word ending in a feminine affix,” because it has the svarita accent. The word upasarjana qualifies both these words, i. e. when गो is an upasarjana and when a word having a feminine termination is an upasarjana.
Other examples are:- अति + खट्वा = अतिखट्वः ‘without a bed-stead’ अतिमालः ‘surpassing a necklace in beauty.’
If such a word is not an upasarjana, there is no shortening, as, राजकुमारी ‘the king’s daughter.’ Here the word राजन् is upasarjana, and not the word कुमारी which latter is therefore not shortened. The word must be a derivative word formed by the addition of an affix, which makes it feminine. Thus the words लक्ष्मी, श्री &c. are feminine originally, and are not derived from the masculine nouns, by the addition of any feminine affix. Therefore we have अतिलक्ष्मीः ‘surpassing Lakshmi in beauty’, अतिश्रीः ॥
Vart :- In Bahuvrihi compounds, exception must be made of feminine nouns ending in the affix ईयसी, as बहुश्रेयसी, विद्यमानश्रेयसी ।
Bhashya¶
गोस्त्रियोरुपसर्जनस्य - उपसर्जनह्रस्वत्वे च - उपसर्जनह्रस्वत्वे च। किम्?। यञ्ञेकादेशदीर्घैत्वेषु प्रतिषेधो वक्तव्यः। अतिखट्वाय अतिखट्वार्थमतिवट्वेभ्यः। उपसर्जनह्रस्वत्वे च। किम्?। बहिरङ्गलक्षणत्वात् सिद्धमित्येव। बहिरङ्गा एते विधयः, अन्तरङ्गं ह्रस्वत्वम्। असिद्धं बहिरङ्गमन्तरङ्गे।फ् ॥ न्यायान्तरनिराकरणाधिकरणम् ॥ - गोटाङ्ग्रहणं कृन्निवृत्त्यर्थम् - गोटाङ्ग्रहणं कर्तव्यम्। किमिदं टाङ् इति?। प्रत्याहारग्रहणम्। क्व सन्निविष्टानां प्रत्याहारः? टापः प्रभृत्या ष्यङो ङकारात्। कि प्रयोजनम्? कृन्निवृत्त्यर्थम् कृत्स्त्रिया धातुस्त्रियाश्च ह्रस्वत्वं मा भूदिति। अतितन्त्रीः अतिश्रीः अतिलक्ष्मीरिति। तत्तर्हि वक्तव्यम्? न वक्तव्यम्। स्त्रीग्रहणं स्वरिष्यते। तत्र स्वरितेनाधिकारगतिर्भवति। स्त्रियाम् (4.1.3) इत्येवं प्रकृत्य ये विहितास्तेषां ग्रहणं विज्ञास्यते। स्वरितेनाधिकारगतिर्भवतीति न दोषो भवति। यद्येवं प्रत्ययग्रहणमिदं भवति। तत्र प्रत्ययग्रहणे यस्मात्स तदादेर्ग्रहणं भवति इतीह न प्राप्नोति- अतिराजकुमारिः, अतिसेनानीकुमारिरिति। अस्त्रीप्रत्ययेन इत्येवं तत्। ॥ अनिष्टह्रस्वापत्तिवारणाधिकरणम् ॥ - इर्यसो बहुव्रीहौ पुंवद्वचनम् - इर्यसो बहुव्रहौ पुंवद्भावो वक्तव्यः। बह्व्यः श्रेयस्योऽस्य बहुश्रेयसी, विद्यमानश्रेयसी। - पूर्वपदस्य च प्रतिषेधो गोसमासनिवृत्त्यर्थम् - पूर्वपदस्य च प्रतिषेधो वक्तव्यः। किं प्रयोजनम्? गोसमासनिवृत्त्यर्थम्। गोनिवृत्यर्थं, समासनिवृत्त्यर्थं च । गोनिवृत्त्यर्थं तावत् गोकुलम्, गोक्षीरम्, गोपालक इति। समासनिवृत्त्यर्थम्- राजकुमारीपुत्रः सेनानीकुमारीपुत्र इति। किमुच्यते समासनिवृत्त्यर्थमिति, न पुनरसमासोऽपि किञ्चित्पूर्वपदं यदर्थः प्रतिषेधः स्यात्? स्त्र्यन्तस्य प्रातिपदिकस्योपसर्जनस्य र्ह्रस्वो भवति इत्युच्यते। न चान्तरेण समासं स्त्र्यन्तं प्रातिपदिकमुपसर्जनमस्ति। ननु चेदमस्ति खट्वापादो मालापाद इति। एकादेशे कृतेऽन्तादिवद्भावात्प्राप्नोति। उभयत आश्रयणे नान्तादिवत्। गोनिवृत्त्यर्थेन तावन्नार्थः। गोन्तस्य प्रातिपदिकस्योपसर्जनस्य ह्रस्वो भवति इत्यच्यते, न चैतद्गोन्तम्। ननु चैतदपि व्यपदेशिवद्भावेन गोन्तम्। व्यपदेशिवद्भावोऽप्रातिपदिकेन। समासनिवृत्यर्थेन चापि नार्थः। स्त्र्यन्तन्य प्रातिपदिकस्योपसर्जनस्य ह्रस्वो भवति इत्युच्यते, प्रधानमुपसर्जनम् इति च सम्बन्धिशब्दावेतौ। तत्र सम्बन्धादेतद् गन्तव्यं यं प्रति यदप्रधानं तस्य चेत्सोऽन्तो भवतीति। अवश्यं चैतदेवं विज्ञेयम्। उच्यमानेऽपि हि प्रतिषेध इह प्रसज्येत- पञ्च कुमार्यः प्रिया अस्य पञ्चकुमारीप्रियः, दशकुमारीप्रिय इति। - कपि च - कपि च प्रतिषेधो वक्तव्यः। बहुकुमारीकः, बहुवृषलीकः। - द्वन्द्वे च - द्वन्द्वे च प्रतिषेधो वक्तव्यः। कुक्कुटमयूर्यौ। - उक्तं वा - किमुक्तम्?। कपि तावदुक्तं- न कपि (7.4.14) इति प्रतिषेध इति। नैतदस्त्युक्तम्। केणः (7.4.13) इति या ह्रस्वप्राप्तिस्तस्याः प्रतिषेध इति। कुत एतत्? अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा इति। अवश्यं चैतदेवं विज्ञेयम्। यो हि मन्यते या च यावती च ह्रस्वप्राप्तिस्तस्याः सर्वस्याः प्रतिषेध इति, इहापि तस्य प्रतिषेधः प्रसज्येत प्रियं ग्रामणि। ब्राह्मणकुलमस्य प्रियग्रामणिकः, प्रियसेनानिकः। इदं तर्ह्युक्तम् कपि कृते अनन्त्यत्वाद्ह्रस्वत्वं न भविष्यति। इदमिह सम्प्रधार्यम्- कप् क्रियतां ह्रस्वत्वमिति, किमत्र कर्तव्यम्? परत्वात् कप्। अन्तरङ्गं ह्रस्वत्वम्। अन्तरङ्गतरः कप्। न चायं कप् समासान्त इत्युच्यते। तार्दथ्यात्ताच्छब्द्यं भविष्यति। येषां पदानां समासो न तावत्तेषामन्यद्भवति कपं तावत् प्रतीक्षते। द्वन्द्वेऽप्युक्तम्। किमुक्तम्? परवल्लिङ्गमिति शब्दशब्दार्थौ इति। तत्रौपदेशिकस्य ह्रस्वत्वम्, आतिदेशिकस्य श्रवणं भविष्यति ॥ गोस्त्रियोरुपसर्जनस्य ॥ 48 ॥
Kashika¶
प्रातिपदिकस्येति वर्तते। गो इति स्वरूपग्रहणम्, स्त्रीति प्रत्ययग्रहणं स्वरितत्वात्। उपसर्जनग्रहणं तयोर्विशेषणम्, गोरुपसर्जनस्य स्त्रीप्रत्ययान्तस्योपसर्जनस्येति। ताभ्यां प्रातिपदिकस्य तदन्तविधिः। उपसर्जनगोशब्दान्तस्य उपसर्जनस्त्रीप्रत्ययान्तान्तस्य च प्रातिपदिकस्य ह्रस्वो भवति। चित्रगुः। शबलगुः। स्त्रियाः — निष्कौशाम्बिः। निर्वाराणसिः। अतिखट्वः। अतिमालः। उपसर्जनस्येति किम्? राजकुमारी। स्वरितत्वं किम्? अतितन्त्रीः। अतिलक्ष्मीः। अतिश्रीः॥ ईयसो बहुव्रीहेः प्रतिषेधो वक्तव्यः॥ बहुश्रेयसी। विद्यमानश्रेयसी॥
Siddhanta Kaumudi¶
उपसर्जनं यो गोशब्दः स्त्रीप्रत्ययान्तं च तदन्तस्य प्रातिपदिकस्य ह्रस्वः स्यात् । अव्ययीभावश्च (SK451) इत्यव्ययत्वम् ॥
Laghu Siddhanta Kaumudi¶
उपसर्जनं यो गोशब्दः स्त्रीप्रत्ययान्तं च तदन्तस्य प्रातिपदिकस्य ह्रस्वः स्यात्। अतिमालः। अवादयः क्रुष्टाद्यर्थे तृतीयया (वार्त्तिकम्)। अवक्रुष्टः कोकिलया - अवकोकिलः। पर्यादयो ग्लानाद्यर्थे चतुर्थ्या (वार्त्तिकम्)। परिग्लानोऽध्ययनाय पर्यध्ययनः। निरादयः क्रान्ताद्यर्थे पञ्चम्या (वार्त्तिकम्) । निष्क्रान्तः कौशाम्ब्याः - निष्कौशाम्बिः॥
Balamanorama¶
गोस्त्रियोरुपसर्जनस्य - प्रकृते च दिशयोर्मध्यः मध्यं मध्येनेत्यादिविग्रहवाक्येषु दिशाशब्दस्य नियतविभक्तिकत्वात्समासविधौ प्रथमानिर्दिष्टत्वाऽभावेऽपि अनेनोपसर्जनत्वं भवति । पूर्वनिपातस्तु न भवतीति स्थितम् । गोस्त्रियोः ।ह्रस्वो नपुंसके प्रातिपदिकस्ये॑त्यतो ‘ह्रस्व’ इतिप्रातिपदिकस्ये॑ति चानुवर्तते । उपसर्जनस्येति गोस्त्रिर्विशेषणम् । प्रत्येकाभिप्रायमेकवचनम् । स्त्रीशब्देन स्त्रीप्रत्ययो गृह्रते । प्रत्ययग्रहणपरिभाषया तदन्तविधिः । उपसर्जनभूतस्य गोशब्दस्य स्त्रीप्रत्ययान्तस्य चेति लभ्यते । तदुभयं प्रातिपदिकस्य विशेषणम् । तेन तदन्तविधिः । तदाह — उपसर्जनमित्यादिना । अत्र च शास्त्रीयमेवोपसर्जनं गृह्रते,न त्वप्रधानमात्रं, कुमारीमिच्छन् कुमारीवाचरन्वा ब्राआहृणः कुमारीत्यत्रातिप्रसङ्गात् । अव्ययीभावश्चेत्यव्ययत्वमिति ।
Tattvabodhini¶
गोस्त्रियोरुपसर्जनस्य - गोस्त्रियोः । उपसर्जनस्येति गोस्त्रियोर्विशेषणम् । एकवचनं तु प्रत्येकाभिप्रायेण । गोस्त्रीभ्यां तु प्रातिपदिकं विशेष्यते । विशेषणेन तदन्तविधिरित्याशयेनाह — उपसर्जनंय इति । उपसर्जनमिह शास्त्रियं गृह्रते, न त्वप्रधानलक्षणम् । तेन कुमारीवाऽऽचरन्ब्राआहृणः कुमारीत्यत्र न दोष इत्युक्तम् । स्त्रीप्रत्ययान्तमिति । रुयधिकारोक्तटाबाद्यन्तमित्यर्थः । तेनातिलक्ष्मीरित्यादौ नातिप्रसङ्गः । नन्वेवमपिराजकुमारीपुत्र॑इत्यादावतिप्रसङ्ग इति चेत् । अत्राहुः — उपसर्जनस्य ससंबन्धिकतया यस्य प्रातिपदिकस्य ह्रस्वो विधीयते तदर्थं प्रति यद्युत्तरपदभूतयोर्गोस्त्रियोर्गुणीभावस्तदैव ह्रस्वत्वमिति भाष्यादावुक्तत्वान्न दोषः । भाष्यदावपि उत्तरपदभूतयोरित्यर्थलाभस्तुकृत्तद्धिते॑त्यतः समासपदानुवर्तनादिति बोध्यमिति ।
Padamanjari¶
स्त्रीति प्रत्ययग्रहणमिति । अत्र हेतुमाह-स्वरितत्वादिति । ऽस्वरितेनाधिकारःऽ इत्यस्य यत्र स्वरितत्वं प्रतिज्ञायते तत्र तदधिकारो ग्राह्य इत्ययमप्यर्थः । इह च स्त्रीग्रहणं स्वर्यते, तेन स्त्रियामित्यधिकृत्य विहितानां टाबादीनां ग्रहणं भवति; नार्थस्य, नापि स्वरूपस्य । क्तिन्नादीनां तु ह्रस्वभावित्वाभावादग्रहणम् । उपर्स्जनग्रहणं तयोर्विशेषणमिति । प्रत्येकं सम्बन्धातु द्विवचनं न भवतीत्याह-गोरुपसर्जनस्येत्यादि । स्त्रीप्रत्ययान्तस्येति पाठः । पारिभाषिकं ह्यत्रोपसर्जनं गृह्यते । न च स्त्रीप्रत्ययमात्रस्य पारिभाषिकोपसर्जनत्वसम्भवः । ताभ्यामिति । उपसर्जनेन गोशब्देन स्त्रीप्रत्ययान्तेन च यदि ताभ्यां तदन्तविधिर्न विज्ञायते, तदा उपसर्जनस्य गोशब्दस्य स्त्रीप्रत्ययान्तस्य च प्रातिपदिकस्य ह्रस्व इत्यर्थः स्यात्; ततश्च गोकुलं राजकुमारीपुत्र इत्यत्रापि स्यादिति भावः । इह तु ऽकुमारीपुत्रःऽ इत्यत्र प्रातिपदिकत्वादेवाप्रसङ्गः । उपसर्जनस्त्रीप्रत्ययान्तान्तस्येति पाठः । उपसर्जनं यत् स्त्रीप्रत्ययान्तं तदन्तस्येत्यर्थः । यदि तु लौकिकेनोपसर्जनेन स्त्रीप्रत्ययमात्रं विशेष्य पश्चातेन प्रातिपदिकस्य तदन्तविधर्विज्ञायिते - उपसर्जनं यः स्त्रीप्रत्ययस्तदन्तस्य प्रातिपदिकस्येति, ततो हरीतक्यः फलानीत्यत्रापि स्यात्; स्त्रीप्रत्ययार्थस्य फलं प्रत्युपसर्जनत्वातद्धितान्तत्वेन प्रातिपदिकत्वाच्च । अत एवमेवाश्रयणीयम् - स्त्रीप्रत्ययान्तं यच्छास्त्रीयमुपसर्जनं तदन्तस्य प्रातिपदिकस्येति । निष्कौशाम्बिरिति । कौशम्बीत्येकबिभक्तीत्युपसर्जनं स्त्रीः त्ययान्तं तदन्तं समासप्रातिपदिकम् । अथेह कथं ह्रस्वत्वमतिराजकुमारिरिति, यावता कुमारशब्दान् ङीब्विहतो न तु राजकुमारशब्दात् ? सत्यम्; अनुपर्जने स्त्रीप्रत्यये तदादिनियमो नास्ति । अथ गोशब्देन स्त्रीप्रत्ययान्तेन च प्रातिपदिकस्य तदन्तविधौ सत्यपि गोकुलं राजकुमारीपुत्र इत्यत्र कस्मान्न भवति, यावता ऽयेन विधिस्तदन्तस्यऽ इत्यत्र ऽस्वं रूपम्ऽ इत्यनुवर्तते, ततश्च येन तदन्तविधिः तत्स्वरूपस्यापि ग्रहणेन भाव्यम् ? एवं तर्हि गोशब्देन प्रातिपदिकस्य विशेषणसामर्थ्यात् केवलस्य न भवति; अन्यथा गोशब्दस्यैवोपसर्जनस्य ह्रस्वं विदध्याद्, ऽयेन विधिस्तदन्तस्यऽ इत्यत्र ऽस्वंरुपम्ऽ इति निवर्त्यम् । व्यपदेशिवद्भावोऽपि प्रातिपदिके नास्ति । राजकुमारीपुत्र इत्यत्र तु परिहारः - शास्त्रीयमप्युपसर्जनं सति सम्भवेऽन्वर्थमेवाप्रधानमुपसर्जनमिति, प्रधानं चापेक्ष्याप्रधानं भवति । स्त्रीप्रत्ययान्तस्य च प्रातिपदिकत्वं समासमन्तरेणानुपपन्नम्, समासश्चावयवात्मकः; द्वयं चात्र संनिहितम्-प्रधानमप्रधानमिति; तत्रैवं विज्ञास्यामः-यत् स्त्रीप्रत्ययान्तं समासप्रातिपदिकं तदन्तर्भूतमेवापेक्ष्य स्त्रीप्रत्ययान्तस्याप्राधान्यमिति । इह तु तत्रानन्तर्भूतं पुत्रमपेक्ष्याप्राधान्यमिति न भवति ह्रस्वः । ईयस इत्यादि । ईयसुन्नन्ताद्यः स्त्रीप्रत्ययो विहितस्तदन्तान्तस्येत्यर्थः । बहुश्रेयसीति । ऽप्रशस्यस्य श्रःऽ ङीप्, बह्व्यः श्रेयस्योऽस्येति बहुव्रीहिः, ऽनद्यःतश्चऽ इति कप्, ऽईयसश्चऽ इति प्रतिषेधः, पुंस्यपि सोर्हल्ङ्यादिलोपः । बहुव्रीहेरिति किम् ? अतिश्रेयसिः ॥
Nyaas¶
स्त्रीति स्त्रीप्रत्ययग्रहणम् इति। अत्र हेतुमाह - स्वरितत्वात् इति। स्त्रीग्रहणस्येह स्वरितत्वं क्रियत इति स्वरितेनाधिकारादवगतिर्भवति। तेन स्त्रियाम् (4.1.3) इत्यधिकृत्य ये प्रत्यया विहिताष्टावादयस्तेषां ग्रहणं भवति; न स्त्रर्थाभिधायिनः शब्दमात्रस्य, नापि स्त्रीशब्दस्यैव स्वरूपस्य उपसर्जनग्रहणं द्वयोर्विशेषणमित्यादेः स्पष्टीकरणयाह - गोरुपसर्जनस्य, स्त्रीप्रत्ययस्योपसर्जनस्य इत्यादि। ताभ्यां प्रातिपदिकस्यत्यादेरपि स्फुटीकरणायाह - उपसर्जनगोशब्दान्तस्य इत्यादि। उपसर्जनगोशब्दोऽन्तो यस्येति विग्रहः। एवं गोशब्देनोपसर्जनेन स्त्रीप्रत्ययेन च प्रातिपदिकस्य तदन्तविधो सति गोः कुलं गोकुलम्, राज्ञः कुमार्याः पुत्रो राजकुमारीपुत्र इत्यत्र गोशब्द्य कमारीशब्दस्य च ह्रस्वत्वं न भवति, अन्यथा इहापि स्यात्। भवति ह्यत्र गोशब्दस्य राजकुमारीशब्दस्य चोपसर्जनत्वमित्यभिप्रायः।चित्रगुः इति। प्रथमानिर्दिष्टम् (1.2.43) इत्यादिना गोशब्दसयोपसर्जनसंज्ञा, निष्कोशाम्बिरित्यादौ तु एकविभक्ति चापूर्व (1.2.44) इत्यादिना। अतितन्त्रीः इत्यादि। तत्रि कुटुम्बधारणे (धातुपाठः-1678), इदितो नुम् (7.1.58) , अवितृस्तृतन्त्रीभ्यः (द।उ।1।82) इतीः- तन्त्रीः। लक्ष दर्शनाङ्कनयोः (धातुपाठः-त1538), लक्षेर्मुट् च (द।उ।1।84) इति मुट् ईप्रत्ययश्च - लक्ष्मीः। श्रिञ् सेवायाम् (धातुपाठः- 897), क्विब वचिप्रच्छि`(वा।288) इत्यादिना क्विप्, दीर्घः- श्रीः। `अत्यादयः क्रान्त्याद्यर्थे द्वितीयया (वा।91) इति प्रादिसमासः।यदि स्त्रीति स्त्र्यधिकारविहिताः प्रत्यया गृह्यन्ते ततश्च प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य (भो।सू।7) इति तदन्तग्रहणेऽतिराजकुमारीरित्यत्र ह्रस्वत्वं न सिध्यति; न हि राजकुमारशब्दात् वयसि प्रथमे (4.1.20) इति ङीप्प्रत्ययो विहितः,किं तर्हि? कुमारशब्दात्, नैष दोषः; एषा परिभाषा यस्मात्प्रत्ययविधिस्तदादि (1.4.13) इत्यत्र सूत्रे प्रतिपादिता। तत्र च वाऽऽमि (1.4.5) इत्यतः `वा ग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा विज्ञायते। तेन व्यवस्थिविभाषावतीयं क्वचिन्नोपतिष्ठत एव। अथ वा - कृत्तद्धितसमासाश्च (1.2.46) इत्यतश्चकारोऽनुवर्तते,स चानुक्तसमुच्चयार्थः, तेनातिराजकुमारिरित्यत्रापि ह्रस्वत्वं भविष्यतीत्यदोषः।ईयसो बहुव्रीहौ प्रतिषेधः इति। ईयसन्ताद्यो विहितः स्त्रीप्रत्ययः,तदन्तस्य बहुव्रीहौ प्रतिषेध इति। कथं पुनरसौ लभ्यते? ` विभाषा च्छन्दसि` (1.2.36) इत्यतो विभाषाग्रहणानुवृत्तेः। न चैवं सत्यतिप्रसङ्गः; व्यवस्थितविभाषाविज्ञानात्।बहुश्रेयसी इति। अतिशयेन प्रशस्येति द्विवचनविभज्योपपदे तरबीयसुननौ (5.3.57) इतीयसुन्प्रत्ययः। प्रशस्यस्य (5.3.60) इति प्रशस्यशब्दस्येयसुनि परतः श्रादेशो भवति, प्रकृत्यैकाच् (6.4.163) इति प्रकृतिवद्भावः, आद्गुणः (6.1.87) , उगितश्च (6.3.45) इति ङीप्। बह्व्यःश्रेयस्यो यस्येति बहुश्रेयसीति नद्युतश्च (5.4.153) इति कप् न भवति; ईयसश्च (5.4.156) इति कपो निषेधात्।
Praudhamanorama¶
उपसर्जनं य इति। यत्तु प्राचा— गोऽन्त-स्त्रीप्रत्ययान्तयोरुपसर्जनयोरित्युक्तम्; तन्न, चित्रगुरित्यादौ गोशब्दस्योपसर्जनत्वेऽपि तदन्तस्याथात्वाद्, गौरीपतिरित्यादौ अतिप्रसङ्गाच्च। कथं सुगोकुलं राजकुमारीपुत्र इति चेत्? शृणु, उपसर्जनस्य ससम्बन्धिकतया यस्य प्रातिपदिकस्य ह्रस्वो विधीयते तदर्थं प्रति उत्तरपदभूतयोर्गुणीभावस्तदैव ह्रस्वत्वम्।
Prakriyasarvasvam¶
उपसर्जनभूतौ यौ गोशब्दस्त्रीप्रत्ययान्तौ तदन्तस्य प्रातिपदिकस्य ह्रस्वः स्यात् । अतिमायः । अक्षं प्रतिगतः प्रत्यक्षः । प्रतिगतो गामित्यत्र गोः ह्रस्वे—
Vartika¶
ईयसो बहुव्रीहेर्नेति वाच्यम् ।
Sutra Prayogas¶
विगतसस्यजिधत्सम् (शिशुपालवधम्): गोस्त्रियोरुपसर्जनस्य इति ह्रस्वत्वम्।
मधुरान्नतभ्रू (शिशुपालवधम्): गोस्त्रियोरुपसर्जनस्य इति ह्रस्वत्वम्।
दुर्निवाररणकण्डु (शिशुपालवधम्): गोस्त्रियोरुपसर्जनस्य इति ह्रस्वः।
कुटिलभ्रु (शिशुपालवधम्): गोस्त्रियोरुपसर्जनस्य इति ह्रस्वः।
चलितैकभ्रू (शिशुपालवधम्): गोस्त्रियोरुपसर्जनस्य इति ह्रस्वः।
सस्मितवीक्षितादवज्ञाचलितैकोन्नमितभ्रु (शिशुपालवधम्): गोस्त्रियोरुपसर्जनस्य इति हस्वत्वम्।