12041: अपृक्त एकाल् प्रत्ययः

Padacheda: अपृक्तः | S | 1 | 1 |

एकाल् | S | 1 | 1 |

प्रत्ययः | S | 1 | 1 |

Sutrartha

यस्मिन् प्रत्यये केवलं एकः एव वर्णः अस्ति, अपृक्तः नाम्ना ज्ञायते ।

व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति ‘अपृक्त’ इति संज्ञा । यस्मिन् प्रत्यये एकः एव वर्णः विद्यते, तस्य अनेन सूत्रेण ‘अपृक्त’ इति संज्ञा भवति । ** यथा - 1) प्रथमैकवचनस्य सुँ-प्रत्ययस्य इत्संज्ञालोपात् अनन्तरम् ‘स्’ इति एकाल् रूपम् अवशिष्यते । अस्य ‘अपृक्तः’ इति संज्ञा भवति । 2) लङ्लकारस्य स्थाने विहितस्य प्रथमपुरुषैकवचनस्य ‘तिप्’ प्रत्ययस्य पकारस्य इतसंज्ञालोपे कृते ‘ति’ इत्यत्र विद्यमानस्य इकारस्य **इतश्च (3.4.100) इत्यनेन लोपे कृते अवशिष्टे ‘त्’ इत्यस्मिन् अंशे एकः एव वर्णः विद्यते, अतः ‘त्’ इति अपृक्तः प्रत्ययः । 3) ‘क्विप्’ प्रत्यये इत्संज्ञकयोः ककारपकारयोः लोपं कृत्वा, ततः उच्चारणार्थं स्थापितस्य वकारोत्तरस्य इकारस्यापि लोपं कृत्वा अवशिष्टः ‘व्’ इति प्रत्ययः अपि अपृक्तसंज्ञकः भवति ।

प्रयोजनम्

अपृक्तसंज्ञाम् आश्रित्य अष्टाध्याय्यां भिन्नानि कार्याणि उक्तानि सन्ति । यथा, हलन्तशब्दात् विहितस्य अपृक्त-सुँ-प्रत्ययस्य हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) इत्यनेन लोपः भवति -

मरुत् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]
--> मरुत् + स् [**उपदेशेऽजनुनासिक इत्** (1.3.2) इति उँकारस्य इत्संहज्ञा । **तस्य लोपः** (1.3.9) इति लोपः । अवशिष्टस्य 'स्' इत्यस्य 'अपृक्तः' इति संज्ञा भवति ।]
--> मरुत् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्**  (6.1.68) इति अपृक्तसकारस्य लोपः]

प्रयोगः

अष्टाध्याय्याम् ‘अपृक्त’संज्ञायाः साक्षात् प्रयोगः आहत्य चतुर्षु सूत्रेषु कृतः अस्ति - 1. वेरपृक्तस्य (6.1.67) 2. हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) 3. गुणोऽपृक्ते (7.3.91) 4. अस्तिसिचोऽपृक्ते (7.3.96) अनुवृत्तिरूपेण तु अन्यत्रापि अस्य शब्दस्य प्रयोगः भवितुम् अर्हति ।

Sutrartha (English)

A प्रत्ययः that contains only one letter is called अपृक्त ।

Vasu English Summary

An affix consisting of a single letter is called अपृक्त।

Vasu English Translation

An affix consisting of a single letter is called अपृक्त। This defines Aprikta affixes. They are those affixes which consist of only one letter of the alphabet. Thus the affix त् t in असेधीत् is a one lettered suffix and is an Aprikta. Similarly, the affix क्विन् kvin is an Aprikta, because the letters क्, इ, and न् are merely indicatory, the real affix is व् v. This व् v being a single letter, and therefore an Aprikta, when added to a base, is elided by rule (6.1.67) [1] (the Aprikta व् v is elided). Thus घृतस्पृश् + क्विन् = घृतस्पृक् + व् = (3.2.58) [2] = घृतस्पृक् ॥ अंशभज् + ण्वि = अंशभाक् ‘co-sharer.’ (3.2.62) [3]. An affix which consists of more than one letter is not an Aprikta. As दर्विः ‘a ladle’ formed by the Unadi affix विन् (वृदृभ्यां विन्).

## Footnotes - [1] — वेरपृक्तस्य ॥ - [2] — स्पृशोऽनुद के क्विन् ॥ - [3] - भजोण्विः ॥

Bhashya

अपृक्त एकाल्प्रत्ययः - अपृक्तसञ्ज्ञायां हल्ग्रहणं स्वादिलोपे हलोऽग्रहणार्थम् - अपृक्तसञ्ज्ञायां हल्ग्रहणं कर्तव्यम्। एकहल्प्रत्ययोऽपृक्तसञ्ञ्ज्ञो भवतीति वक्तव्यम्। किं प्रयोजनम्? स्वादिलोपे हलोऽग्रहणार्थम्। एवं हि स्वादिलोपे हलो ग्रहणं न कर्तव्यं भवति। हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् (6.1.68) इत्यपृक्तस्येत्येव सिद्धम्। - अणिञोर्लुगर्थमल्ग्रहणम् - अणिञोर्लुगर्थमल्ग्रहणं कर्तव्यम्। किं प्रयोजनम्? अणिञोर्लुकि ग्रहणं न कर्तव्यं भवति ण्यक्षत्रियार्षञ्ञितो यूनि लुगणिञ्ञोः (2.4.58) इत्यपृक्तस्येत्येव सिद्धम्। - अणिञोर्लुगर्थमिति चेण्णेऽतिप्रसङ्गः - अणिञोर्लुगर्थमिति चेण्णेऽतिप्रसङ्गो भवति। इहापि प्राप्नोति- फाण्टाहृतेरपत्यं माणवकः फाण्टाहृतः इति। णवचनसार्मथ्यान्न भविष्यति। - वचनप्रामाण्यादिति चेत्फङ्निवृत्त्यर्थं वचनम् - वचनप्रामाण्यादिति चेत्फङ्निवृत्त्यर्थमेतत्स्यात्। फगतो मा भूदिति। - पैलादिषु वचनात्सिद्धम् - यद्येतावत्प्रयोजनं स्यात् पैलादिष्वेवास्य पाठं कुर्वीत। तत्र पाठादन्येषामपि फको निवृत्तिर्भवति। एवं सिद्धे सति यदयं णं शास्ति तज्ज्ञापयत्याचार्यो - नास्य लुग्भवतीति। तान्येतानि त्रीणि ग्रहणानि भवन्ति - अपृक्तसञ्ज्ञायां हल्ग्रहणं कर्तव्यम्। स्वादिलोपे हलो ग्रहणं न कर्तव्यम्। अणिञोर्लुकि ग्रहणं कर्तव्यम्। अल्ग्रहणेऽपि वै क्रियमाणे तान्येव त्रीणि ग्रहणानि भवन्ति- अपृक्तसञ्ज्ञायामलग्रहणं कर्तव्यम्। स्वादिलोपे हलो ग्रहणं कर्तव्यम्। अणिञोर्लुकि ग्रहणं न कर्तव्यं भवति, अपृक्तग्रहणं कर्तव्यम्। तत्र नास्ति लाघवकृतो विशेषः। अयमस्ति विशेषः। अल्ग्रहणे क्रियमाणे एकग्रहणं न करिष्यते। कस्मान्न भवति- दर्विः जागृविः? अलेव यः प्रत्ययः। किं वक्तव्यमेतत्? नहि। कथमनुच्यमानं गंस्यते? अल्ग्रहणसार्मथ्यात्। यदि च योऽल् चान्यश्च तत्र स्यात्, अल्ग्रहणमनर्थकं स्यात्। हल्ग्रहणेपि वै क्रियमाणे एकग्रहणं न करिष्यते। कस्मान्न भवति- दर्विः जागृविः? हलेव यः प्रत्ययः। किं वक्तव्यमेतत्? नहि। कथमनुच्यमानं गंस्यते? हल्ग्रहणसार्मथ्यात्। यदि च यो हल् चान्यश्च तत्र स्यात्, हल्ग्रहणमनर्थकं स्यात्। अस्त्यन्यद्धल्ग्रहणस्य प्रयोजनम्। किम्? हलन्तस्य यथा स्यादजन्तस्य मा भूदिति। एवं तर्हि सिद्धे सति यदल्ग्रहणे क्रियमाणे एकग्रहणं करोति, तज्ज्ञापयत्याचार्यः- अन्यत्र वर्णग्रहणे जातिग्रहणं भवतीति। किमेतस्य ज्ञापने प्रयोजनम्? दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात्सिद्धम् इत्युक्तं तदुपपन्नं भवति ॥ अपृक्त एकाल्प्रत्ययः ॥ 41 ॥

Kashika

अपृक्त इतीयं संज्ञा भवति एकाल् यः प्रत्ययस्तस्य । असहायवाची एकशब्दः। स्पृशोऽनुदके क्विन् (३.२.५८) — घृतस्पृक्। भजो ण्विः (३.२.६२) — अर्धभाक्। पादभाक्। एकालिति किम्? दर्विः। जागृविः। प्रत्यय इति किम्? सुराः। अपृक्त — प्रदेशाः — वेरपृक्तस्य (६.१.६७) इत्येवमादयः॥

Siddhanta Kaumudi

एकाऽल्प्रत्ययो यः सोऽपृक्तसंज्ञः स्यात् ॥

Laghu Siddhanta Kaumudi

एकाल् प्रत्ययो यः सोऽपृक्तसंज्ञः स्यात्॥

Balamanorama

अपृक्त एकाल् प्रत्ययः - सखान् स् इति स्थिते अपृक्तकार्यं वक्ष्यन्नपृक्तसंज्ञामाह — अपृक्तः । एकालिति कर्मधारयः । अत्रैकशब्दो ।ञसहायवाची ।एके मुख्यान्यकेवलाः॑ इत्यमरः । ‘स्’ इत्यस्याऽपृक्तसंज्ञायाम् ।

Tattvabodhini

अपृक्त एकाल् प्रत्ययः - अपृक्त एकाल् । असहायावाच्यत्रैकशब्दः सङ्ख्यावाची वा । न च सङ्ख्यावाचित्वेअभैत्सी॑दित्यत्र हलन्तात्परस्य सिचोऽपृक्तत्वाल्लोपः स्यादिति वाच्यं, विभक्तिसाहचर्याद्विभक्तेरेव लोप इति व्याख्यानात् । एकालिति किम् जागृविः ।वरेपृक्तस्ये॑ति लोपो न ।अ॑लित्यनेनैकत्वे लब्धे इदमेकग्रहण वर्णग्रहणं ज्ञापयतीति । फलं दम्भितुमिच्छति धिप्सतीत्यत्र सनोहलन्ताच्चे॑ति कित्त्वम् । तत्र हल्ग्रहणस्य व्यक्तिपरत्वे योऽत्रैकः समीपबर्ती हल्नकारस्ततः परः सन् न, यस्माच्च परः सन् भकारान्नासाविकः समीप इति कित्त्वं न स्यात् । ततश्च नलोपो न स्यादित्यभ्युपगम्यनिपात एकाजना॑ ङित्यत्र एकाज्ग्रहणं त्युक्तुं शक्यमित्यवोचान ।

Padamanjari

घृतस्पृगिति । ऽक्विन्प्रत्ययस्य कुःऽ इति कुत्वम् । अर्थभागिति । अत्र ऽवेरेपृक्तस्यऽ इति लोपः प्रयोजनम् । एकाल्ग्रहणं किमिति । समुदायद्वारेणायमेकपदविषयः प्रश्नः, अन्यथा प्रत्ययमात्रस्य संज्ञा स्यादिति प्रदेशेषु प्रत्ययग्रहणमेव कर्तव्यं स्यात्, किं सञ्ज्ञया ! यत्र यद्यलन्तस्य स्यात्, केवलस्य चाप्यन्तवद्भावात् अल्ग्रहणं व्यर्थं स्यादिति तत्सामर्थ्यादल्समुदायस्य न भविष्यतीति भावः । दर्विरिति । ऽदृ विदारणेऽ औणादिको विन् प्रत्ययः । वर्णग्रहणे जातिग्रहणादल्समुदाया गृह्यन्ते इति भावः । स्यादेतत्-ऽवेरपृक्तस्यऽ इत्यत्र ऽवोऽपृक्तस्यऽ इत्यस्तु, क्विबादिषु च मा भूदिकारः, न चान्यः प्रत्ययो वकारोऽस्तीति, तन्नः ऽराजनि युधिकृञःऽ राजकृत्वा, तमाचष्ट इति णिचि टिलोपे क्विपि णिलोपे च कृते क्वनिपः सम्बन्धी प्रत्ययो वकारोऽस्ति । अवश्यं च क्विबादीनामुच्चारणार्थे कश्चिदजासंजनीयः, तत्राकारे ऽसृशृभ्यां वःऽ इत्यादिष्वपि लोपः प्रसज्येत । उकारे तु ण्वुलादिषु । अन्यत्र तु गौरवमिति यथान्यासमेव साधीयः । ननु च यद्यल्समुदायोऽपि गृह्यते, अल्ग्रहणमनर्थकं स्याद् । अतो यद्यपि ऽनिपात एकाजनाङ्ऽ इत्यत्रैकग्रहणाद्वर्णग्रहणे जातिग्रहणं ज्ञापितम्, तथाप्यत्राल्ग्रहणसामर्थ्यात्समुदायस्य न भविष्यतीति चिन्त्यप्रयोजनमेकग्रहणम् । तथाऽपृक्तप्रदेशरेष्वल्ग्रहणेनैव सिद्धे नार्थः संज्ञया; नतराम्महत्या, नतमाम्पूर्वनिर्द्दिष्टया । सुरा इति । सुरां सुनोतीति क्विपि तुक् सुरासुतमाचष्टे इति णिचि टिलोपः क्विब् णिलोपः, अत्र धातुसकारस्य ऽहल्ङ्याब्भ्यऽ इति लोपो न भवति, प्रत्ययपरिभाषया सिद्धम् । तिपा साहचर्याच्चैकवचनस्य ग्रहणं सिद्धमिति प्रत्ययग्रहणमपि चिन्त्यप्रयोजनमेव ॥

Nyaas

घृतस्पृक् इति। क्विन्प्रत्ययस्य कुः (8.2.62) इति कुत्वम् = शकारस्य खकारः, तस्य जश्त्वम् = खकारस्य गकारः। अद्र्धभाक् इति। चोः कुः (8.2.30) इति जकारस्य गकारः। उभयत्र वाऽवसाने (8.4.56) इत चर्त्वं ककारः। त्तरापृक्तसंज्ञायां सत्याम् वेरपृक्तस्य (6.1.67) इति वकारलोपो भवति। प्रत्युदाहरणेषु हि तदभावान्न भवति।दर्विः इति। दृ विदारणे (धातुपाठः-1493) वृ दृभ्यां विन् (द।उ।1।23) इति विन्। जागृविः इति। जागृ निद्राक्षये (धातुपाठः-1072), जृशृस्तृजागृभ्यः क्विन् (द।उ।1।24) इति क्विन्। सुराः इति। षूञ् अभिषवे (धातुपाठः-1247), सुरां सुनोतीति अन्येभ्योऽपि दृश्यते (3.3.130) इति क्विप्; सुरासुत्, ह्रस्वस्य तुक्। तमाचष्टे (वा। 201) इति णिच्। णाविष्टवत् कार्यं प्रातिपदिकस्य (वा।813) इति टिलोपः। सुरासवतेः पुनः क्विप्, णिलोपः, प्रथमैकवचनम्, हल्ङ्यादिना (6.1.66) सुलोपः; रुत्वविसर्जनीयौ। अत्रापि णिलोपे कृतेऽसति प्रत्ययग्रहणे धातुकारस्यापृक्तसंज्ञा स्यात्। तस्यां च सत्यां हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) इति धातुसकारलोपऋः स्यात्। ननु चासत्यपि प्रत्ययग्रहणे प्रत्याप्रत्ययोः प्रत्ययस्यैव ग्रहणम् (व्या।प।72) इति संज्ञा विज्ञास्यते, तत् किमर्थं प्रत्ययग्रहणम्? क्रियते विस्पष्टार्थम्।अथैकग्रहणं किमर्थम्? अल्समुदायस्य मा भूदिति, नैतदस्ति; अल्ग्रहणसामर्थ्यान्न भविष्यति, अन्यथा ह्रल्ग्रहणमनर्थकं स्यात्- यदि हल्समुदायस्यापि संज्ञा स्यात्। एवं तह्र्रल्ग्रहणेनात्र जातिग्रहणं भवतीति ज्ञापनार्थमेकग्रहणमम्। तेन हलन्ताच्च (1.2.10) इत्यत्र यदुक्तम् - दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात् सिद्धम् इति तदुपपन्नं भवति।

Prakriyasarvasvam

sutra_text: अपृक्त एकाल् प्रत्ययः