12040: उदात्तस्वरितपरस्य सन्नतरः

Padacheda: उदात्त-स्वरित-परस्य | S | 6 | 1 |

सन्नतरः | S | 1 | 1 |

Sutrartha


Vasu English Summary

The accent called सन्नतर is substituted in the room of an अनुदात्त vowel, which has an उदात्त or स्वरित vowel following it.

Vasu English Translation

The accent called सन्नतर is substituted in the room of an अनुदात्त vowel, which has an उदात्त or स्वरित vowel following it. In the previous sutra it was said that an anudatta preceded by a svarita becomes Ekasruti. If, however, such an anudatta is followed by an udatta or a svarita, it does not become Ekasruti but becomes sannatara, i.e. lower than anudatta.

The sannatara is therefore that accent which was originally anudatta, and which is preceded by a svarita and is followed by an udatta or a svarita.

This is one explanation of the sutra. There is another explanation which does not take the anuvritti of Ekasruti in this sutra. The anudatta is replaced by sannatara when such anudatta immediately precedes an udatta or a svarita. The sannatara is also called anudatta. As देवा मरुतः पृश्निमातरोपः ॥

Here the word मातरः is anudatta. The word अपः has udatta on the last syllable by (6.1.171) [1]. In the phrase मातरोपः (मातरः + अपः) the syllable रो is anudatta, because anudatta + anudatta = anudatta. This anudatta ओ, preceding the udatta पः, is changed into sannatara.

## Footnotes - [1] — उडिदम्पदाद्यप्पुम्रैद्युभ्यः ॥

Kashika

अनुदात्तग्रहणमनुवर्तते। उदात्तः परो यस्मात् स उदात्तपरः, स्वरितःपरो यस्मात् स स्वरितपरः। उदात्तपरस्य स्वरितपरस्य चानुदात्तस्य सन्नतर आदेशो भवति। अनुदात्ततर इत्यर्थः। देवा मरुतः पृश्निमातरोे॒ऽपः (पै०सं०३.३१.१)। मातर इत्यनुदात्तः। अप इत्यन्तोदात्तः, ऊडिदंपदाद्यप्पुम्रैद्युभ्यः**(६.१.१७१) इति। तत्रानुदात्तयोरेकादेश ओकारोऽनुदात्तः। तस्योदात्ते परभूते सन्नतर आदेशो भवति। इ॒मं मे॑ गङ्गे यमुने सरस्वति॒ शुतु॑द्रि (ऋ० १०.७५.५)। इकारोऽनुदात्तः। शुतुद्रि इत्येतदामन्त्रितं पादादौ, तस्माद् न निहन्यते, **अनुदात्तं सर्वमपादादौ (८.१.१८) इति, तस्य प्रथममक्षरमुदात्तं तस्मिन् परभूते पूर्वस्य सरस्वतीतीकारस्य सन्नतर आदेशो भवति। माण॑वक जटिलकाध्यापक॒ क्व॑ गमिष्यसि। क्व इति स्वरितस्तस्मिन् परभूते क इत्यनुदात्तस्तस्य सन्नतर आदेशो भवति॥

Siddhanta Kaumudi

उदात्तस्वरितौ परौ यस्मात्तस्यानुदात्तस्यादात्ततरः स्यात् । सरस्वति शुतुद्रि (सरस्वति॒ शुतु॑द्रि) । व्यचक्षयत्स्वः (व्य॑चक्षय॒त्स्वः॑) । तस्य परमाम्रेडितम् (SK83) ॥

Padamanjari

परशब्दः प्रत्येकमभिसम्बध्यत इत्याह - उदातः परो यस्मादिति । सन्नशब्देन नीचैरर्थ उच्यते, तेनानुदातत्वं लक्ष्यत इत्याह - अनुदाततर इति । प्रकर्षः स्थान्यनुदातापेक्षः । मातर इत्यनुदात इति । समासैकदेशो निष्कृष्टानुकृतः, देवा इत्यादीनां त्रयाणामामन्त्रितानामेकीभूतानामाद्यौदातत्वे शेषनिघातः । ऽविभाषितं विशेषचने बहुवचनम्ऽ इति विद्यमानपक्षे चामन्त्रितनिघातः, जसः सकारस्य रुत्वम्, तस्य स्रंसनयुक्तस्य ऽअतो रोरप्लुतात्, इति उकारोऽनुदातः, ऽआद्गुणःऽ सोऽप्यान्तर्यतोऽनुदातः, अच्छब्दाकारस्य शेषनिघातः, तयोरनुदातयोः ऽएङः पदान्तादतिऽ इत्येकादेश आन्तर्यतोऽनुदातः । सरस्वतीकारस्येति । ननु च नवसूत्र्युत्कृष्यत इति ज्ञापितम्, ततश्च गङ्गेप्रभृतीनामिव सरस्वतीकारस्यापि पूर्वेणैकश्रुतिरेव प्राप्नोति, कः पुनः सन्नतरस्यावकाशः, यः स्वरितात्परो न भवति ? अग्निरिति । न च विप्रतिषेधेन सन्नतरो लभ्यते; पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुतरस्य । एवं तर्हि ऽन मु नेऽ इत्यत्र नेति योगविभागात् सिद्धत्वं भविष्यति । इह देवदतस्य न्यङ् इति ऽन्यधी चऽ इति पूर्वपदप्रकृतिस्वरे ऽउदातस्वरितयोर्यणःऽ इत्यञ्चत्यकारस्य स्वरितः पूर्वस्य सन्नतरं प्रत्यसिद्धो न भवति; प्रकरणोत्कर्षाद् । ऽउदातस्वरितयोःऽ इत्येव सिद्धे परग्रहणं बहुव्रीहावेकवचनविवक्षार्थमिति गङ्गेप्रभृतीनां सन्नतराभावः ॥

Nyaas

मातर इत्यनुदात्तः इति। अनुदात्तत्वं तु विभक्तिस्वरेण। मातर इति मातृशब्दाज्जस्, ऋतो ङिसर्वनामस्थानयोः (7.3.110) इति गुणः। जसः सकारस्य रुत्वम्। तस्याप्यशब्दे शसन्ते परतः अतो रोरप्लुतादप्लुते (6.1.113) इत्युत्वम्। आद्गुणः (6.1.87) उडिदम् (6.1.165) इत्यादिना विभक्तेरन्तोदात्तत्वे कृते एङः पदान्तादति (61।109) इतिय ओकारः, सोऽपि स्थानिवद्भावेनानुदात्तो भवति। तस्योदात्ते परभूते इति। विभक्त्यकारे। इकारोऽनुदात्तः इति। सरस्वतीतिशब्दसम्बन्धी; आमन्त्रित्सय च (8.1.19) इति सरस्वतीशब्दस्य निघातविधानात्। तस्मान्न निहन्यते इति। अनुदात्तं सर्वमपादादौ (8.1.18) इत्यत्रापादादाविति निघातप्रतिषेधात्। प्रथममक्षरम् इति। शकारोकार उदात्तः, आमन्त्रितस्य च (8.1.19) इति षाष्ठिकेन।

Prakriyasarvasvam

एतद्वयपरस्यानुदात्तस्य सन्नतर आदेश स्यात् । इत्यतिनीचोऽनुदात्तः । इन्द्र इन्नः । इषं स्वश्च ।