12044: एकविभक्ति चापूर्वनिपाते¶
Padacheda: एकविभक्ति | S | 1 | 1 |
च | S | 0 | 0 |
अपूर्वनिपाते | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
A word which is one fixed case, (while the word compounded with it may vary its case) is also उपसर्जन , except for the purposes of the the rule which requires the उपसर्जन to stand first in a compound.
Vasu English Translation¶
A word which is one fixed case, (while the word compounded with it may vary its case) is also उपसर्जन , except for the purposes of the the rule which requires the उपसर्जन to stand first in a compound. A word which in the analytical statement of the sense of a compound has one fixed case, whilst the word with which it is compounded may vary its case, is also called upasarjana, but does not necessarily stand first.
That which has one fixed case-termination is called eka-vibhakti, i.e., a word whose case termination has been determined by a rule of samasa i.e., while the second word in composition with it may take many case-affixes, it takes only one case affix; apurva-nipate, such a word will be an upasarajana for all purposes, except for the purpose of the rule (2.2.30) [1]which requires an upasarjana to stand first in a compound.
Thus the prepositions निः &c, when meaning across &c., are compounded with another word in the ablative case. Though the first word may have any one of the several case terminations, the second member must always be in the fifth (ablative) case, when analytically stated. Ex: निष्क्रान्तः + कौशाम्ब्या = निश्कौशाम्बिः, निष्क्रान्तं + कौशाम्ब्या = निष्कौशाम्बिम्, निष्क्रान्तेन + कौशाम्ब्या = निष्कौशाम्बना, निष्क्रान्ताय + कौशाम्ब्या = निष्कौशाम्बये, निष्क्रान्ते + कौशाम्ब्या = निकौशाम्बौ.
Similarly the word निर्वाराणसिः ॥
If the word, when analytically stated, does not retain the one and the same case, it will not be called upasarjana, as the word कुमारी in the compound राजकुमारी, ‘the king’s daughter,’ because राज्ञः + कुमारी = राजकुमारी; राज्ञः + कुमारीम् = राजकुमारी; राज्ञः + कुमार्या = राजकुमार्या, राज्ञः + कुमार्ये = राजकुमार्ये.
Had it been an upasarjana, the long ई of री would have been shortened into इ as in the previous example.
This upasarjana, however, contrary to the general rule (2.2.30) [2] cannot stand first in the compound, because there is no such form as कौशाम्बीनिः
## Footnotes - [1] - उपसर्जने पूर्वम् ॥ - [2] - उपसर्जने पूर्वम् ॥
Bhashya¶
एकविभक्ति चापूर्वनिपाते ॥ प्रथमानिर्दिष्टस्य पूर्वनिपातसाधकाधिकरणम् ॥ द्वितीयादीनामप्यनेनोपसर्जनसञ्ज्ञा प्राप्नोति। तत्र को दोषः?। तत्राऽपूर्वनिपात इति प्रतिषेधः प्रसज्येत। - नाऽप्रतिषेधात् - नायं प्रसज्यप्रतिषेधः- पूर्वनिपाते न इति। किं तर्हि? पर्युदासोऽयम्- यदन्यत्पूर्वनिपातात् इति। पूर्वनिपातेऽव्यापारः। यदि केनचित्प्राप्नोति तेन भविष्यति। पूर्वेण च प्राप्नोति तेन भविष्यति। - अप्राप्तेर्वा - अथवा अनन्तरा या प्राप्तिः सा प्रतिषिध्यते। कुत एतत्? अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा इति। पूर्वा प्राप्तिरप्रतिषिद्धा तया भविष्यति। ननु चेयं प्राप्तिः पूर्वां प्राप्ति बाधते। नोत्सहते प्रतिषिद्धा सति बाधितुम्। - एकविभक्तावषष्ठ्यन्तवचनम् - एकविभक्तावषष्ठ्यन्तानामिति वक्तव्यम्। इह मा भूत्- अर्धं पिप्पल्याः अर्धपिप्पलीति। - उक्तं वा - किमुक्तम्?। परवल्लिङ्गमिति शब्दशब्दार्थौ इति। तत्रौपदेशिकस्य ह्रस्वत्वमातिदेशिकस्य श्रवणं भविष्यति। कानि पुनरस्य योगस्य प्रयोजनानि? - प्रयोजनं द्विगुप्राप्तापन्नालंपूर्वोपसर्गाः क्तार्थे - द्विगुः- पञ्चभिर्गोभिः क्रीतः पञ्चगुः। दशगुः। प्राप्तापन्न(पूर्व)- प्राप्तो जीविकां प्राप्तजीविकः। आपन्नो जीविकामापन्नजीविकः। अलंपूर्व- अलं कुमार्यै अलंकुमारिः। उपसर्गाः क्तार्थे- निष्कौशाम्बिः निर्वाराणसिः ॥ एकविभक्ति चापूर्वनिपाते ॥ 44 ॥ इति श्रमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य द्वितीयपादे प्रथममाह्निकम् ॥ 1 ॥
Kashika¶
एका विभक्तिर्यस्य तदिदमेकविभक्ति। समासे विधीयमाने यद् नियतविभक्तिकं द्वितीये संबन्धिनि बहुभिर्विभक्तिभिर्युज्यमानेऽप्येकयैव विभक्त्या युज्यते तदुपसर्जनसंज्ञं भवत्यपूर्वनिपाते, पूर्वनिपातं पूर्वनिपाताख्यमुपसर्जनकार्यं वर्जयित्वा। निरादयः क्रान्ताद्यर्थे पञ्चम्या (२.२.१८ वा०)। पूर्वपदे नानाविभक्तिकेऽप्युत्तरपदं तु पञ्चम्यन्तमेव भवति। निष्क्रान्तःकौशाम्ब्या निष्कौशाम्बिः। निष्क्रान्तं कौशाम्ब्या निष्कौशाम्बिम्। निष्क्रान्तेन कौशाम्ब्या निष्कौशाम्बिना। निष्क्रान्ताय कौशाम्ब्या निष्कौशाम्बये। निष्क्रान्तात् कौशाम्ब्या निष्कौशाम्बेः। निष्क्रान्तस्य कौशाम्ब्या निष्कौशाम्बेः। निष्क्रान्ते कौशाम्ब्या निष्कौशाम्बौ। एवं निर्वाराणसिः। एकविभक्तीति किम्? राजकुमारी। अपूर्वनिपात इति किम्? न हि भवति कौशाम्बीनिरिति॥
Siddhanta Kaumudi¶
विग्रहे यन्नियतविभक्तिकं तदुपसर्जनसंज्ञं स्यात् न तु तस्य पूर्वनिपातः ॥
Laghu Siddhanta Kaumudi¶
विग्रहे यन्नियतविभक्तिकं तदुपसर्जनसंज्ञं स्यान्न तु तस्य पूर्वनिपातः॥
Balamanorama¶
एकविभक्ति चापूर्वनिपाते - अत्र दिशाशब्दस्यापि उपसर्जनत्वमाह-एकविभक्ति ।प्रथमानिर्दिष्टं समास उपसर्जन॑मित्यतः ‘समास’ इति,उपसर्जन॑मिति चानुवर्तते । ‘समास’ इत्यनेन विग्रहवाक्यं लक्ष्यते । एकैव विभक्तिर्यस्य तदेकंविभक्ति । नियतविभक्तिकमिति यावत् । एवंच विग्रहे यन्नियतविभक्तिकं तत्पूर्वनिपातभिन्नकार्ये कर्तव्ये उपसर्जनं स्यादित्यर्थः । फलितमाह-विग्रहे यन्नियतेति ।निष्कौशाम्बि॑शब्द उदाहरणम् । तत्र कौशाम्ब्या निष्क्रान्तः । निष्क्रातं निष्क्रान्तेन निष्क्रान्ताय निष्क्रान्तात् निष्क्रान्तस्य निष्क्रान्ते इति विग्रहेषुनिरादयः क्रान्ताद्यर्थे पञ्चम्या॑ इति समासे निष्कौशाम्बिः निष्कौशाम्ब निष्कौशाम्बिना इत्यादीति स्थितिः । अत्रकौशाम्बी॑शब्द एव विग्रहे नियतविभक्तिक इति तस्योपसर्जनत्वमनेन भवति । समासशास्त्रे कौशाम्बीशब्दस्य पञ्चमीनिर्दिष्टत्वमेव, न तु प्रथमानिर्दिष्टत्वमिति प्रथमानिर्दिष्टमित्यनेनोपसर्जनत्वाऽप्राप्तौ वचनम् । तत्र कौशाम्बीशब्दस्याऽनेन उपसर्जनत्वेऽपिनपूर्वनिपातः तत्तद्विभक्त्यन्तैरेव समास इत्यत्र इदमेव सूत्रं प्रमाणम् ।तुल्यार्थै॑रिति सूत्रे भाष्ये स्पष्टमिदम् । प्रथमान्तपदेनैव समास इत#इअनेक॑मिति सूत्रे भाष्ये स्थितम् ।
Padamanjari¶
विभक्तिशब्दः सुपां वाचकः, कारकशक्तिवचनो वा; विभज्यतेऽनया प्रातिपदिकार्थ इति कृत्वा । समासे विधीयमाने इति । यदुपमर्दनेन समासो भवति तस्मन्वाक्य इत्यर्थः, समासरूपप्राप्त्यभिमुखे पदत्रय इति यावत् । एतन समासार्थं वाक्यमत्र समासः, न पूर्वसूत्र इव शास्त्रमिति दर्शयति । शास्त्रे सर्वमेविभक्तिमित्येकविभक्तीत्यनर्थकं स्यात्, मुख्येऽपि समासे प्रत्ययलक्षणेनैकविभक्तित्वं समर्थनीयमिति वाक्यमेवात्र समासः । एकस्मिंश्च प्रयोगे सर्वमेकविभक्तिकमिति विशेषणओपादानसामर्थ्यतप्रयोगभेदेनापि यस्य न सर्वविभक्तित्वं तदाश्रीयत इत्याह-यन्नियतविभक्तिकमिति । एतदेव स्पष्ययति-द्वितीये सम्बन्धिनीत्यादि । केचिदाहुः-ऽयेन सह समास्यते द्वितीयसम्बन्धीऽ इति, एवं तु पञ्चानां खट्वानां समाहारः पञ्चखट्वीति वा टाबन्त इति स्त्रीलिङ्गपक्षे उपसर्जनह्रस्वत्वं न स्यात् । समाहारो ह्यत्र नानाविभक्तियुक्तो न पञ्चञ्शब्दः, तस्मातप्रधानार्थवाची शब्दो द्वितीयः सम्बन्धः । निष्कौशाम्बिरिति कौशाम्बीशब्दो निष्क्रमणक्रियापेक्षयाऽपादानशक्तियोगात् पिञ्चम्यन्ते एव, न तस्य क्रियान्तरमपेक्ष्य शक्त्यन्तरावेशः सम्भवति । निःशब्दस्तु निष्क्रान्तप्रधानो नानाशक्तिभिर्युज्यते । निष्कौशाम्बिरिति । कुशाम्बेन निर्वृता नगरी कौशाम्बी, ऽगोस्त्रियोरुपसर्जनस्यऽ इति ह्रस्वः । निर्वाराणसिरिति । अनो जलं तद्वरं यस्याः सा वराणा गङ्गा, तस्या अदूरभवा नगरी वाराणसी । पुराणे तु वरणा चासिश्च नद्यौ, शकन्ध्वादिः, तयोरदूरभवा पृषोदरादित्वाद्रेफाकारस्य दीर्घः । निसः पूर्वेणोपसर्जनत्वम्, प्रधानस्यापि हि प्रथमानिर्देशसामर्थ्यात् भवतीत्युक्तम् । इहास्यावकारशोऽप्रथमानिर्द्दिष्टः, पूर्वस्यावकाशोऽनेकविभक्तिः नीलोत्पलादिः, अर्द्धिपिप्पल्यादिश्च; कष्टश्रितादिषु कष्टादय एकविभक्तिकाः प्रथमानिर्दिष्टाश्चेत्युभयप्रसङ्गे परत्वादनेनैव प्राप्नोति, ततश्चऽअपूर्वनिपातेऽ इति प्रतिषेधप्रसङ्गः, न; अप्रतिषेधात् । नायं प्रसज्यप्रतिषेधः-पूर्वनिपाते नेति, किं तर्हि ? पर्युदासोऽयम्, पूर्वनिपाते न विधिर्न प्रतिषेधः । प्रसज्यप्रतिषेधेऽप्यनन्तरप्राप्तिः प्रतिषिध्यते, कुत एतद् ? अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा भवति, पूर्वा प्राप्तिरप्रतिषिद्धा तया भविष्यति । न चेयं प्राप्तिः पूर्वां प्राप्तिं बाधते, प्रतिषिद्धत्वात् ॥
Nyaas¶
अप्रधमानिर्दिष्टार्थोऽयमारम्भः। विभक्तिशब्दः सुपां वाचकः, विभागवचनो वा। कारकशक्तिर्विभागः - विभज्यते प्रातिपदिकार्थोऽनयेति कृत्वा। समासे विधीयमाने इति। समासार्थवाक्यकाले। तदा हि तस्य समासस्य विधीयमानता भवति। एतेन समासग्रहणमनुवर्तमानं समासार्थे वाक्ये वर्तते, न समासशास्त्र इति दर्शयति। समासशास्त्रे हि सर्वमेव शब्दरूपमेकविभक्तिकमेव भवतीत्येकविभक्तिग्रहणमनर्थकं स्यादिति भावः। सर्वमेव हि प्रातिपदिकं पर्यायेणैकया विभक्त्या प्रयुज्यते। तस्मादेकविभक्तिग्रहणसामर्थ्यादवधारणमत्र विज्ञायत इत्यत आह - यन्नियतविभक्तिकम् इति। तदेव स्पष्टीकुर्वन्नाह - द्वितीये सम्बन्धिति इत्यादि। पूर्वपदेनानाविभक्तिकेऽपि इति। निष्क्रान्तशब्दः कर्तृशक्त्युपसर्जनीभूतं द्रव्यमाह। तच्चानेकसाधनशक्त्युपचितमिति क्रियान्तरसम्बन्धादेनेकसाधनविभक्तिकं भवति। उत्तरपदंद तु पञ्चम्यन्तमेव भवति इति। निषक्रमणक्रियापेक्षयाऽऽविर्भूतापादानशक्तिकत्वात्। निष्कौशाम्बिः इत्यत्रोपसर्जनसंज्ञाकार्यम्`गास्त्रियोरुपसर्जनस्य` (1.2.48) इति हस्वत्वम्। अथ निसोऽत्र केनोपसर्जनसंज्ञा विधीयते, ययोऽस्य पूर्वनिपातः? पूर्वसूत्रेणेति चेत्, नैतदस्ति; तेनाप्रधानस्योपसर्जनसंज्ञाविधानात्, निसश्चात्र प्राधान्यात्। एवं तर्हि चकारस्यानुक्तसमुच्चायार्थत्वात् भविष्यति। अन्ये त्वाहुः - मा भून्निस उपसर्जनसंज्ञा, असत्यामपि तस्यां पूर्वनिपातो भविष्यति, एकविभक्ति चापूर्वनिपाते (1.2.44) इति वचनादिति, एतच्चायुक्तम्; पूर्वनिपाते हि कर्तव्य एकविभक्तिकस्योपसर्जनसंज्ञा नास्त्येव। तत्र यदि निस उपसर्जनसंज्ञा न स्यात्, तदोदहरणे द्वयोरप्यसत्यां तस्यां पर्यायेणानियः पूर्वनिपातः प्रसज्येत। अथ कथमर्धपिप्पल्यादीनामूपसर्जनसंज्ञा न भवति? अत्र च विभाषा च्छन्दसि (1.2.36) इत्यतो विभाषाग्रहणं मम्डूकप्लुतन्यायेनानुवर्तते, सा च व्यवस्थितविभाषा। तेनार्ध पिप्पल्या अर्धपिप्पलीत्यादौ विषये पिप्पल्यादीनामेकविभक्तियुक्तानामप्युसर्जनसंज्ञा न भवति। यदि हि स्यात्, तदा ह्रस्वत्वं स्यात्॥
Prakriyasarvasvam¶
विग्रहे यन्नियतविभक्तिकं तत् प्रथमानिर्दिष्टत्वाभावेऽप्युपसर्जनं स्यात् । नत्वस्य पूर्वनिपातः । इह च मायामतिक्रान्तं मायामतिक्रान्तेनेत्यादिविग्रहेऽपि मायामित्यस्य विभक्तिभेदाभावादेकविभक्तित्वम् ॥
Vartika¶
एकविभक्तावषष्ठ्यन्तवचनम् ।
Sutra Prayogas¶
वाक-त्वचेनाऽति-सर्वेण (भट्टिकाव्यम्): एकविभक्ति चापूर्वनिपाते इति पूर्वनिपातो न भवति।
अपजानानः (भट्टिकाव्यम्): अपह्नवे ज्ञः इति तङ्।