12043: प्रथमानिर्दिष्टं समास उपसर्जनम्¶
Padacheda: प्रथमानिर्दिष्टम् | S | 1 | 1 |
समासे | S | 7 | 1 |
उपसर्जनम् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
In (this book, in the sūtras relating to) compound, the word that is exhibited in the Nominative -1st case, is called उपसर्जन or the secondary word.
Vasu English Translation¶
In (this book, in the sūtras relating to) compound, the word that is exhibited in the Nominative -1st case, is called उपसर्जन or the secondary word. This defines or rather describes the Upasarjana. In the sutras referring to compounds, the words that have the case termination of the nominative, are called Upasarjanam.
Thus sutra (2.1.24) (द्वितीया श्रितातीत पतितगतात्यस्तप्राप्तापन्नैः) is a samasa sutra enjoining composition. In this sutra the word द्वितीया is exhibited in the nominative case, and the remaining words are in the Instrumental case. The sutra means: “An accusative (द्वितीया) is compounded with the words श्रित, अतीत, पतित, गत, अत्यस्त, प्राप्त, and आपन्न and forms Tat-purusha”. Therefore, in forming accusative compounds, the word having the accusative case will be called Upasarjana. Thus कष्टं + श्रितः = कष्टश्रितः. Here the word कष्टं being Upasarjana, stands first in the compound, by Rule (2.2.30). उपसर्जनं पूर्वम्, (in a compound the Upasarjana should be placed first). Similarly in rules relating to the formation of instrumental, dative, ablative, genitive and locative Tat-purusha, the words standing in those cases will be Upasarjana. Thus शंकुलाखण्डः, यूपदारु, वृकभयम्, राजपुरुषः, अक्षशौण्डः.
Upasarjana is, therefore, that word which either by composition or derivation loses its original independent character, while it also determines the sense of another word called प्रधान or principal.
Bhashya¶
प्रथमानिर्दिष्टं समास उपसर्जनम् ॥ समासपदार्थनिरूपणाधिकरणम् ॥ - प्रथमानिर्दिष्टं समासे उपसर्जनमिति चेदनिर्देशात् प्रथमायाः समासे सञ्ज्ञाऽप्रसिद्धिः - प्रथमानिर्दिष्टं समास उपसर्जनमिति चेदनिर्देशात् प्रथमायाः समास उपसर्जनसञ्ज्ञाया अप्रसिद्धिः। नहि कष्टादीनां समासे प्रथमां पश्यामः। - सिद्धं तु समासविधाने वचनात् - सिद्धमेतत्। कथम्? समासविधाने प्रथमानिर्दिष्टमुपसर्जनसञ्ञ्ज्ञं भवतीति वक्तव्यम्। ततर्हि वक्तव्यम्? - न वा तार्दथ्यात्ताच्छब्द्यम् - न वा वक्तव्यम्। किं कारणम्? तार्दथ्यात्ताच्छब्द्यं भविष्यति। समासार्थं शास्त्रं समास इति। - यस्य विधौ प्रथमानिर्देशस्ततोऽन्यत्रोपसर्जनसञ्ज्ञाप्रसङ्गः - यस्य विधौ प्रथमानिर्देशः क्रियते ततोन्यत्रापि तस्योपसर्जनसञ्ज्ञा प्राप्नोति। राज्ञः कुमारीं राजकुमारीं श्रितः। श्रितादिसमासे द्वितीयान्तं प्रथमानिर्दिष्टं तस्य षष्ठीसमासेप्युपसर्जनसञ्ज्ञा प्राप्नोति। - सिद्धं तु यस्य विधौ तं प्रतीति वचनात् - सिद्धमेतत्। कथम्? यस्य विधौ यत्प्रथमानिर्दिष्टं तं प्रति तदुपसर्जनसञ्ञ्ज्ञं भवतीति वक्तव्यम्। तत्तर्हि वक्तव्यम्? न वक्तव्यम्। उपसर्जनम् इति हि महती सञ्ज्ञा क्रियते। सञ्ज्ञा च नाम यतो न लघीयः। कुत एतत्? लघ्वर्थं हि सञ्ज्ञाकरणम्। तत्र महत्याः सञ्ज्ञायाः करण एतत्प्रयोजनमन्वर्थसञ्ज्ञा यथा विज्ञायेत- अप्रधानमुपसर्जनमिति। प्रधानमुपसर्जनमिति च सम्बन्धिशब्दावेतौ। तत्र सम्बन्धादेतद् गन्तव्यम्- यं प्रति यदप्रधानं तं प्रति तदुपसर्जनसञ्ञ्ज्ञं भवतीति। अथ यत्र द्वे षष्ठ्यन्ते कस्मात्तत्र प्रधानस्योपसर्जनसञ्ज्ञा न भवति। राज्ञः पुरुषस्य राजपुरुषस्येति। - षष्ठ्यन्तयोश्चोपसर्जनत्वे उक्तम् - किमुक्तम्? षष्ठ्यन्तयोः समासेऽर्थाभेदात् प्रधानस्याऽपूर्वनिपातः इति। एवं न चेदमकृतं भवति उपसर्जनं पूर्वम् इति। अर्थश्चाऽभिन्न इति कृत्वा प्रधानस्य पूर्वनिपातो न भविष्यति। यद्यपि तावदेतदुपसर्जनकार्यं परिहृतम्, इदमपरं प्राप्नोति,- राज्ञः कुमार्याः राजकुमार्याः। गोस्त्रियोरुपसर्जनस्य (1.2.48) इति ह्रस्वत्वं प्राप्नोति। - उक्तं वा - किमुक्तम्?। परवल्लिङ्गमिति शब्दशब्दार्थौ इति। तत्रौपदेशिकस्य ह्रस्वत्वम्, आतिदेशिकस्य श्रवणं भविष्यति ॥ प्रथमा निर्दिष्टं समास उपसर्जनम् ॥ 43 ॥
Kashika¶
प्रथमया विभक्त्या यद् निर्दिश्यते समासशास्त्रे तदुपसर्जनसंज्ञं भवति। समास इति समासविधायि शास्त्रं गृह्यते। वक्ष्यति — द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (२.१.२४) इति द्वितीयासमासे द्वितीयेत्येतत् प्रथमानिर्दिष्टम्, तृतीयासमासे तृतीयेति, चतुर्थीसमासे चतुर्थीति, पञ्चमीसमासे पञ्चमीति, षष्ठीसमासे षष्ठीति, सप्तमीसमासे सप्तमीति। कष्टश्रितः। शङ्कुलाखण्डः। यूपदारु। वृकभयम्। राजपुरुषः। अक्षशौण्डः। उपसर्जनप्रदेशाः — उपसर्जनं पूर्वम् (२.२.३०) इत्येवमादयः॥
Siddhanta Kaumudi¶
समासशास्त्रे प्रथमानिर्दिष्टमुपसर्जनसंज्ञं स्यात् ॥
Laghu Siddhanta Kaumudi¶
समासशास्त्रे प्रथमानिर्दिष्टमुपसर्जनसंज्ञं स्यात् ॥
Balamanorama¶
प्रथमानिर्दिष्टं समास उपसर्जनम् - अत्र उपसर्जनकार्यं वक्ष्यन्नुपसर्जनसंज्ञामाह-प्रथमानिर्दिष्टम् । ननु समासे प्रतमानिर्दिष्टमुपसर्जनमिति व्याख्याने असंभवः, समाससे सति ‘सुपो धातु’ इति प्रथमाया लुप्तत्वात् । समासे चिकीर्षिते प्रथमानिर्धिष्टमिति व्याख्याने तु कृष्णं श्रितः कृष्णश्रित इत्यत्र विग्रहे कृष्णशब्दस्य द्वितीयानिर्दिष्टत्वादुपसर्जनत्वं न स्यात् । श्रितशब्दस्य प्रथमानिर्दिष्टत्वादुपसर्जनत्वं स्यात् । अतो व्याचष्टे-समासशास्त्रै इति । समास पदं समासविधायकशास्त्रपरमिति भावः । एवंचद्वितीया श्रिते॑ति समासविधायकशास्त्रे द्वितीयान्तस्यैव कृष्णशब्दस्य द्वितीयेति प्रथमानिर्दिष्टत्वादुपसर्जनत्वम् । एवंचअव्यय॑मिति समासविधावपेत्यस्य प्रथमानिर्दिष्टत्वादुपसर्जनत्वं स्थितम् ।
Tattvabodhini¶
प्रथमानिर्दिष्टं समास उपसर्जनम् - प्रथमानिर्दिष्टम् । अत्र समासपदं तद्विधायके लाक्षणिकम् । अन्यथाचिकीर्षिते समासे यत्प्रथमान्त॑मिति व्याख्यानप्रसक्त्या कृष्णश्रित इत्यादौ श्रितादिष्वतिप्रसङ्ग इत्याशयेनाह समासशास्त्र इथि । विग्रह इति । अनुवर्तमानेन समासग्रहणेन विग्रहे लक्ष्यत इति भावः । नतु तस्येति ।अनन्तरस्य — ॑इति न्यायात्पूर्वसूत्रेण विहितस्य पूर्वनिपातत्वं न निषिध्यते । तेन कुमारीश्रित इत्यादौ न दोषः ।
Padamanjari¶
समास इत्यधिकरणनिर्देशोऽयम् । कष्टश्रितादयश्च समासाः, तेषु किं प्रथमानिर्द्देष्ट्ंअ भवितुमर्हति ? समासे सति यस्मात्प्रथमा विधीयते, न च तथाभूतं सम्भवति । समासे हि कृते तत एव प्रथमोत्पद्यते, न तदवयवाद् । अन्तर्वर्तिन्या च विभक्त्या श्रितशब्द एव प्रथमानिर्दिष्टो न कष्टशब्दः । सापि न समासे सत्युत्पन्ना, किं तर्हि ? वाक्यकाल एव । निर्दिष्टग्रहणं चानर्थकं स्यात्, समासे प्रथमान्तमित्येव वाच्यं स्यद्, अतो मुख्यस्यासम्भवाद्गौणः समासो गृह्यते इत्याह-प्रथमयेत्यादि । कथं पुनः समास इति शास्त्रस्य ग्रहणमित्याह-समासविधायीति । समासविधायित्वातादर्थ्याताच्छब्द्यमित्यर्थः । निर्दिष्टग्रहणादेव च तुल्येऽपि समासार्थत्वे वाक्यं न गृह्यते, न हि तत्र निर्देशार्था प्रथमा, अर्थप्रयुक्तत्वात् । द्वितीयेत्येतत्प्रथमानिर्दिष्टमिति । प्रथमया विभक्त्या उच्चारितम् । यद्येवम्, तस्यैव संज्ञा स्यान्न कष्टादीनाम्, न हि ते शास्त्रे प्रथमानिर्दिष्टाः । य एव द्वितीयेत्यस्य प्रथमानिर्देशः, स एव कष्टादीनामपि; तत्परत्वातस्य । यथा वक्ष्यति-ऽतस्येति सामान्यं विशेषोपलक्षणार्थं तदीयप्राथम्यं विशेषाणां विज्ञायतेऽ इति । कष्टश्रितादिषूपसर्जनत्वात् पूर्वनिपातः । महासंज्ञाकरणमन्वर्थसंज्ञाविज्ञानार्थम् । लोकेऽप्रधानमुपस्रजनमुच्यते, इहाप्यप्रधानमुपसर्जनम् । प्रधानमप्रधानमिति च सम्बन्धिशब्दावेतौ, तेन यत्प्रति यदप्रधानं तदेव प्रति तदुपसर्जनं भवति, तेन राज्ञः कुमारीश्रित इति ऽद्वितीया श्रितऽ इत्यत्र प्रथमानिर्दिष्टस्यापि कुमारीशब्दस्य संज्ञा न भवति । यदि स्यात्, पूर्वनिपातानियम उपसर्जनह्रस्वत्वं च स्यात् । अन्वर्थत्वे तु श्रितादीनेवापेक्ष्य द्वितीयान्तमुपसर्जनमिति न प्रसङ्गः । एवं राज्ञः कुमार्या इत्यत्र द्वयोरपि ऽषष्ठीऽ इत्यत्र प्रथमानिर्देशेऽपि कुमारीमपेक्ष्य राज्ञ उपसर्जनत्वम्, न तं प्रति तस्याः । यद्यन्वर्थसंज्ञा, नार्थोऽनेन, प्रदेशेष्वेवान्वर्थग्रहणमस्तु । वाक्येऽपि तर्हि स्यात्-कुमारआआ श्रिता गवां कुलम् । अथ संज्ञाविधिर्वाक्ये कस्मान्न भवति, यावता ऽसमासेऽ इति प्रथमानिर्देशस्याधारो न संज्ञायाः ? तथा गोकुलं कुमारीपुत्र इत्यत्र समासेऽपि पूर्वनिपातवद् ह्रस्वत्वं कस्मान्न भवति ? तस्मात्सत्येवोपसर्जनत्वे उपसर्जनगोशब्दन्तस्योपसर्जनत्वात् स्त्रीप्रत्ययान्तान्तस्य प्रातिपदिकस्य ह्रस्वविधानात्समासाधिकारे पूर्वनपातिवचनाच्च वाक्ये तौ न भवत इति वाच्यम् । संज्ञाविधानं तून्मतगङ्गमित्यादौ द्वयोरप्यप्राधान्ये पूर्वनिपातनियमार्थम् । यत्र चानन्यार्थः प्रथमानिर्देशस्तत्र प्रथानस्यापि यथा स्यादित्येवमर्थं च । यथा-पाचकवृन्दारकः, पुरुषव्याघ्रः, अर्द्धपिप्ली, पूर्वकाय इति अत्र ऽवृन्दारकनागकुञ्जरैः पूज्यमानम्ऽ, ऽउपमितं व्याघ्रादिभिःऽ,ऽअर्द्धं नपुंसकम्ऽ,ऽपूर्वापराधरोतरम्ऽ इति प्रथमानिर्देशस्येदमेव प्रयोजनम्; समासस्य विशेषणं विशेष्येण षष्ठीत्येव सिद्धत्वाद् । न च पूज्यमानतादिविषय एव यथा स्यादिति नियमार्थस्तदारम्भः ? उपसर्जनसंज्ञार्थत्वेऽर्द्धादिपूर्वपदस्य विशिष्टरूपस्यार्द्धपिप्पलीत्यादेः समासस्य विधिसम्भवात् तस्मादेतदर्थापि संज्ञा । अन्वर्थत्वं तु सति संभवे व्यवस्थापकम् ॥
Nyaas¶
समासे इत्यधिकरणनिर्देशोऽयम्। कष्टश्रितादयः समासाः न किञ्चित् प्रथमानिर्दिष्टं शब्दरूपमस्ति। तथा हि - समासे कृते तत एव समासाद् विभक्तिरुत्पद्यते, न तु तत्र स्थाच्छब्दात्। न च वाक्यकाले समासार्थात् पदाद् या प्रथमोत्पन्ना तदाश्रयं प्रथमानिर्दिष्टत्वं समासावयवस्य कल्पयितुं युक्तम्, यतः समासे इत्यधिकरणनिर्देशोऽयम्। तत्र समासे कृते यस्मात् प्रथमोत्पद्यते, तदेव समासे प्रथमानिर्दिष्टं भवति; न तु यस्मात् वाक्यकाले विभक्तिकाले विभक्तिरुत्पद्यते। तद्धि वाक्य एव प्रथमानिर्दिष्टम्, न तु समासे; प्रागेव समासात् तस्य प्रथमानिर्दिष्टत्वात्। ततश्च समासे कृते प्रथमानिर्दिष्टस्य संज्ञिनोऽसम्भवात् संज्ञा न सम्भवीत्येतच्चोद्यमपाकर्तुमाह- प्रथमया विभक्त्या यन्निर्दिश्यते इति। समासार्थं यच्छास्त्रं तत् समासशास्त्रं गृह्रते। तत्र प्रथमानिर्दिष्टस्येयं संज्ञा विधीयते, न तु कष्टश्रितादौ; समासे प्रथमानिर्दिष्टस्याविद्यामानत्वात् विद्यते च समासशास्त्रे प्रथमानिर्दिष्टं संज्ञीति कुतः संज्ञाया अप्रसिद्धिः? कथं पुनः समासे इत्युच्यमाने समासशास्त्रे यत् प्रथमया निर्दिश्यते तस्य संज्ञित्वं लभ्यत इत्यत आह - समासे इति। समासशास्त्रं गृह्रते इति। कथं पुनः `समासे इत्युच्यमाने समासशास्त्रं ग्रहीतुं शक्यम्? तादथ्र्यात् तत्र समासशब्दस्य प्रवृत्तेः। भवति हि तादथ्र्यात् तावच्छब्द्यम् , यथा - प्रदीपार्था मल्लिका प्रदीपः इति, इन्द्रार्था स्थूणा इन्द्रः इति। कष्टश्रितादिषूपसर्जनसंज्ञयायाः कार्यम् - उपसर्जनं पूर्वम् (2.2.30) इति पूर्वनिपातः।तत्रेदं चोद्यते - राज्ञः कुमारीं पश्य राजकुमारीं पश्येत्यत्र राजन्शब्दः षष्ठी (2.2.8) इति समासशास्त्रे प्रथमानिर्दिष्टः; द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (2.1.24) इति द्वितीयासमासशास्त्रे कुमारीशब्दश्च। समसाशास्त्रे तत्रोभयोरप्यस्यां संज्ञायां सत्यां पूर्वनिपातानियम उपसर्जनह्रस्वस्वत्वञ्चेत्येतद्दोषद्वयं प्राप्नोतीति। इह च राज्ञः कुमार्याः स्वं राजकुमारीस्वमिति द्वयोरपि षष्ठन्तयोः समासशास्त्रे प्रथमानिर्दिष्टत्वादुभयोरप्युपसर्जनसंज्ञायां सत्यां तदेव दोषद्वयं प्राप्नोति? नैष दोषः; यस्मादुसर्जनमिति महत्याः संज्ञायाः करणस्यैतदेव प्रयोजनम् - अन्वर्थसंज्ञा यथा विज्ञायेतेति। अप्रधनामुपसर्जनम्, प्रधानमनुपसर्जमिति। अप्रधानञ्च प्रधानमपेक्षते; सम्बन्धिशब्दत्वात्। तत्र सम्नब्धादेतवगन्तव्यं यत् प्रति यदप्रधानं तत् प्रतितदुपसर्जनमिति। श्रितादींश्चापेक्ष्य द्वितीयान्तमुपसर्जनं भवति, न तु द्वितीयान्तमात्रम्। न चेह श्रितादयः सन्ति। राज्ञः कुमार्याः स्वं राजकुमारीस्वमित्यात्राप्येष परीहारः। अत्रापि कुमारीशब्दमपेक्ष्य राजन्शब्दस्याप्राधान्यम्; न तु राजन्शब्दमपेक्ष्य कुमारीशब्दस्य। तस्मात् राजन्शब्दस्योपसर्जनसंज्ञा, न तु कुमारीशब्दस्य। यदि ह्रन्वर्थसंज्ञेयम्, पाचकवृन्दारिका, पुरुषव्याघ्रः, अर्धपिप्पली, पूर्वकायः - इत्येतेषु पूर्वपदार्थ एव प्रधानमिति पाचिकादीनामिह प्राधान्यम्। अतो यद्यप्येते वृन्दारकनागकुञ्जरैः पूज्यमानम् (2.1.62) , उपमितं व्याघ्रादिभिः सामान्याप्रयोगे (2.1.56) , अर्धं नपुंसकम् (2.2.2) , पूर्वापराधरोत्तरमेकदेशिकनैकाधिकरणे (2.2.1) इत्येतेषु समासशास्त्रेषु प्रथमानिर्दिष्टाः, तथापि तेषामुपसर्जनसंज्ञा न प्राप्नोति; कुतः? तेषां प्राधान्यात्। एवं तर्ह्रुत्तरसूत्रेऽनुक्तसमुच्चयार्थत्वाच्चकारस्य भविष्यतीत्यदोषः।अन्यस्त्वेवं मन्यते - पाचकवृन्दारिकेत्येवमादिषु पूर्वोक्तेषु समासेष्वाद्यौ **विशेषणं विशेष्येण बहुलम्** (2.1.57) , **उपमानानि सामान्यवचनैः** (2.1.55) इत्येताभ्यामेव सिद्धौ; शेषौ तु `षष्ठी (2.2.8) इत्यनेनैव। तस्मात् वृन्दारकनागकुञ्जरैः पूज्यमानम् (2.1.62) इत्यादीनां न तदर्थ आरम्भः; किं तर्हि? उपसर्जन संज्ञार्थः; तेनासत्यपि पाचिकादीनामप्रधानत्वे तेषामियं संज्ञा भविष्यति` इति, एतच्चासम्यक्, तथा हि - पूज्यमानम्, सामान्याप्रयोगे, नपुंसकम्, एकाधिकरणम् - इत्येतान् विशेषान् वक्ष्यामीत्येतदर्थ आरम्भः स्यात्। सति चैतदर्थ आरम्भेऽत्राप्रधानस्योपसर्जनसंज्ञा विधीयमाना प्रधानस्य न स्यात्॥
Prakriyasarvasvam¶
समाससूत्रे प्रथमान्तेन पदेनोक्तमुपसर्जनसंज्ञम् । तस्मादव्ययमिति प्रथमान्त- तयोक्तमत्रोपसर्जनम् । तच्च ‘उपसर्जनं पूर्वम्’ (२-२-३०) इति पूर्वं प्रयोज्यम् ॥ अधि सु हरि ङि । समासत्वेन प्रातिपदिकत्वात् ‘सुपो धातु-’ (२-४-७१) इति सुब्लुक् । अधि हरि । प्रातिपदिकत्वात् पुनः सुबुत्पत्तौ सप्तम्यर्थस्य समासेनोक्तत्वात् सामान्योक्तः सुः । अधिहरि सु,