12056: प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात्

Padacheda: प्रधान-प्रत्यय-अर्थवचनम् | S | 1 | 1 |

अर्थस्य | S | 6 | 1 |

अन्यप्रमाणत्वात् | S | 5 | 1 |

Sutrartha


Vasu English Summary

(Nor need be taught) the rule relating to the dependance of the meaning of a word on the principal (प्रधान in a compound) or on the affix (प्रत्यय) because the authority of the meaning (of a word, compound or derivative) consists in something else.

Vasu English Translation

(Nor need be taught) the rule relating to the dependance of the meaning of a word on the principal (प्रधान in a compound) or on the affix (प्रत्यय) because the authority of the meaning (of a word, compound or derivative) consists in something else. This sutra may be divided into two parts. The first part stating the proposition and ending with the word vachanam. The second part giving the reason. The first part consists of four words; Pradhana: ‘Principal in a compound.’ As in the compound राजपुरुषः ‘king’s man,’ the word raja is Upasarjana; and पुरुषः is pradhana. 2. Pratyaya: ‘affix.’ 3. ‘meaning.’ 4. वचनम् ‘word or sentence.’

In the time of Panini, there were some grammarians who held the opinion, that the meaning of a word is determined, if a compound word, then by its principal word; and if a derivative word, then by the suffix. Panini controverts this opinion by declaring that in as much as the meaning of a word is fixed by usage and idiom, therefore the proofs for the meaning of a word are not to be searched either in the affixes which go to form it; or by its principal word, if it is a compound. Because, says Panini, the proof of the meaning of a word is in something else, that is to say in the usage of a people and not in the suffixes, &c. A person who has never heard the name of grammar, understands full well when told to bring a Raja-purusha. He brings an official and not a king, nor even any person in general. Similarly when told to bring an औपगव he brings a cowherd’s child, not a cowherd, nor a child in general, nor both. When, therefore, the sense of a word is determined by usage, there is no use to strive to find out the sense by grammatical rules.

Kashika

अशिष्यमिति वर्तते। प्रधानं समासे किंचित् पदम्, प्रत्ययस्तव्यदादिः, ताभ्यामर्थवचनमर्थाभिधानमनेन प्रकारेण भवतीति पूर्वाचार्यैः परिभाषितम् — प्रधानोपसर्जने प्रधानार्थं सह ब्रूतः, प्रकृतिप्रत्ययौ सहार्थं ब्रूत इति। तत् पाणिनिराचार्यः प्रत्याचष्टे। अशिष्यमेतत्, अर्थस्यान्यप्रमाणत्वादिति। अन्य इति शास्त्रापेक्षया लोको व्यपदिश्यते। शब्दैरर्थाभिधानं स्वाभाविकं न पारिभाषिकम्, अशक्यत्वात्, लोकत एवार्थावगतेः। यैरपि व्याकरणं न श्रुतं तेऽपि राजपुरुषमानयेत्युक्ते राजविशिष्टं पुरुषमानयन्ति,न राजानं नापि पुरुषमात्रम्। औपगवमानयेत्युक्त उपगुविशिष्टमपत्यमानयन्ति, नोपगुं नाप्यपत्यमात्रं नोभौ। यश्च लोकतोऽर्थः सिद्धः किं तत्र यत्नेन॥

Siddhanta Kaumudi

प्रत्ययार्थः प्रधानमित्येवंरूपं वचनमप्यशिष्यम् । कुतः, अर्थस्य लोकत एव सिद्धेः ॥

Balamanorama

प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् - अथ प्रसङ्गादन्यदपि पूर्वाचार्यपरिभाषितं निराचष्टे — प्रधानप्रत्ययार्थ । प्रत्ययार्थ इति ।प्रकृत्यर्थं प्रति प्रत्ययार्थः प्रधानं=विशेष्यम्, प्रकृत्यर्थस्तु तद्विशेषण॑मित्येवं यत्पूर्वाचार्यवचनं तदपीत्यर्थः ।

Tattvabodhini

प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् - गन्धनाङ्गे इति । पूर्वविप्रतिषेधश्चनवेति विभाषा॑ सूत्रे भाष्ये उक्तः । नित्यं कित्त्वमिति ।यमो गन्धने॑ इति पूर्वसूत्रेणेत्यर्थः ।

Padamanjari

अर्थवचनमिति । कर्मणि षष्ठयाः समासः । ननु च प्रधानप्रत्यययोः कर्त्रोर्निर्देशादुभयप्राप्तावित्यनेनात्र षष्ठी, ततश्च ऽकर्मणि चऽ इति निषेधः प्राप्नोति, नैष दोषः ; प्रधानप्रत्ययोरत्र करणत्वं विवक्षितम् । कस्तर्हि कर्ता, पुरुषः, समुदायो वा प्रधानोपसर्जनयोः प्रकृतिप्रत्यययोश्च ? एतदुक्तं भवति-प्रधानप्रत्ययाभ्यां करणाभ्यां पुरुषेण समुदायेन वा यदर्थस्य वचनशब्देन सह ऽकर्तृकरणे कृता बहुलम्ऽ, ऽकृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्ऽ इतिच समासः । ननु च प्रत्ययोऽपि प्रकृत्यपेक्षया प्रधानम्, कस्माद्भेदेनोपादीयते ? उच्यते; यदा ऽप्रकृतिः प्रत्ययार्थं प्रति विशेषणतया स्वार्थमभिधतेऽ इति सिद्धं भवति, तदा प्रत्ययस्य प्राधान्यम्, तदेवेदानीं परिभाष्यत इति पूर्वाचार्यैस्तावत्प्रत्ययो भेदेन निर्दिष्टः-प्रधानोपसर्जने, प्रकृतिप्रत्ययाविति, ततश्च तल्लक्षणनिराकरणे प्रत्ययोऽपि भेदेनोपादेयः । अश्क्यत्वादिति । अशक्यत्वमनन्तप्रकारत्वात् । बहुव्रीहावन्यपदार्थ उच्यते; प्लक्षन्यग्रोधमिति समाहारः; क्वचित्प्रधानयोरेव सहाभिधानम्-प्लक्षन्यग्रोधाविति । स्वार्थिकेषु च पप्रकृतिप्रत्ययौ प्रकृत्यर्थं सह ब्रूतः-शुक्लतर इति; तथा आख्यातेषु क्रियाप्रधानमाख्यातमिति; तथा ऽकर्तरि कृत्ऽ ऽकर्तरि तृतीयाऽ, तत्र ऽकृत्सु शक्तिमद् द्रव्यं प्रधानमुच्यतेऽ इति क्रियाभेदे शक्त्यन्तराविर्भावः; पाचकं पश्येति विभक्तिषु शक्तिप्राधान्यम्-इत्याद्यनन्तप्रकारमर्थाभिधानमशक्यं परिभाषितुमिति लोकत एवार्थावगतेः कथमेतदित्याह-यैरपीत्यादि ॥

Nyaas

अन्यप्रमाणत्वात् इति। अन्यत् प्रमाणमवगतिहेतुर्यस्यार्थाभिधानलक्षणस्य तदन्यप्रमाणम्, तस्य भावोऽन्यप्रमाणत्वम्। प्रधानं समासे किञ्चित् पदम् इति। यथा राजपुरुषशब्दे पुरुष इत्येतत्। प्रधानोपसर्जने इत्यादि। राजपुरुष इत्यत्र पूर्ववदुपसर्जनम्, इतरत् प्रधानम्। ते च प्रधानार्थ सह ब्राऊतः। प्रकृतिप्रत्ययौ इत्यादि। अशक्यत्वं त्वनन्तप्रकारत्वात्। तथा हि - चित्रगुरिति बहुव्रीहौ कृते गुणगुणिभ्यामन्यपदार्थ उच्यते। अत्र गुणपदं चित्रशब्दोऽप्रधानम्, विशेषणत्वात्; गुणिपदं गोशब्दः प्रधानम्, विशेष्यत्वात्। क्वचिदुपसर्जनाभ्यामन्योऽर्थोऽभिधीते - प्लक्षन्यग्राधाविति। तथा हि, न केवलं प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्राऊतः अपि तु, क्वचित् प्रकृत्यर्थमपि, यथा - स्वार्थिकेषु शुक्लतरम्, शुक्लतममिति। तथा केचिदाख्यातेषु स्वभावात् प्रधानमाहुः प्रकृत्यर्थम् - क्रियाप्रधानमाख्यातम् इति।अन्ये तु मन्यन्ते- आख्यातेषु प्रधानभूतः प्रत्ययार्थ एव शक्तिरूपेणोच्यते, यथा विभक्तिभिः क्वचित् प्रत्यये; न तु शक्तिमान् पदार्थो द्रव्यभावमापन्न उच्यते। अतः क्रियान्तरेण च सम्बन्धे शक्त्यन्तरमाविर्भवति कर्तारं पश्येति। एवमाद्यनन्तप्रकारमर्थाभिधानशक्यं सर्वमुपदेष्टुम्, तस्माल्लोकत एवार्थावगतिः। कथं पुनरेतद्विज्ञायत इत्यत आह - यैरपि इत्यादि। सुगमम्॥बाल-मनोरमाविभाषोपयमने 554, 1.2.56 विभाषोपयमने। यमो गन्धने इत्तो यम इति, हनः सिच् इत्यतः सिजिति, असंयोगा`दित्यतः किदिति चानुवर्तते। तदाह - यमः सिच्किद्वा स्याद्विवाहे इति। उपयमशब्दो विवाहे वर्तते इति भावः। रामः सीतामुपायतेति। भार्यात्वेन स्वीकृतवानित्यर्थः। सिचः कित्त्वपक्षे `अनुदात्तोपदेशे`ति मकारलोपे `ह्रस्वादङ्गा`दिति सिचो लोपः। उदवोढेति। भार्यात्वेन स्वीकृतवानित्यर्थः। सिचः कित्त्वपक्षे `अनुदात्तोपदेशे`ति मकारलोपे `ह्रस्वादङ्गा`दित सिचो लोपः। उदवोढेति। भार्यात्वेन परिग्रहः - उद्वाहः। गन्धनाङ्गे उपयमे त्विति। हिंसापूर्वके विवाहे त्वित्यर्थः। राक्षसविवाहे त्विति यावत्। `हत्वा भित्त्वा च शीर्षाणि रुदतीं रुदतो हरेत्। स राक्षसो विवाहः- इति स्मृतेः। नित्यं कित्त्वमिति। यमो गन्धने इति पूर्वसूत्रेणे`ति शेषः। यदि गन्धनाङ्गकेऽप्युपयमने परत्वादियं विभाषा स्यात्तर्ह एषा प्राप्तविभाषा स्यात्। ततश्च `न वेति विभाषे`त्यत्र भाष्येऽप्राप्तविभाषास्वस्याः परिगणनं विरुध्येत। अतः पूर्वविप्रतिषेध आश्रयणीय इति भावः।बाल-मनोरमाप्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् 1279, 1.2.56 अथ प्रसङ्गादन्यदपि पूर्वाचार्यपरिभाषितं निराचष्टे - प्रधानप्रत्ययार्थ। प्रत्ययार्थ इति। `प्रकृत्यर्थं प्रति प्रत्ययार्थः प्रधानं=विशेष्यम्, प्रकृत्यर्थस्तु तद्विशेषण`मित्येवं यत्पूर्वाचार्यवचनं तदपीत्यर्थः।

Prakriyasarvasvam

<karika>प्रधानार्थं सह ब्रूतो द्वे प्रधानोपसर्जने । प्रत्ययार्थं सह ब्रूतः प्रकृतिप्रत्ययावुभौ ॥ २५ ॥ इत्यमर्थाभिधानं यदनुशिष्टं पुरातनैः । तत्तु लोकप्रमा³णत्वादशिष्यमिति पाणिनिः ॥ २६ ॥ न राजपुरुष⁴स्यार्थो राजा च पुरुषः पृथक् । विशिष्टः पुरुषो लोके द्वयोरर्थोऽवगम्यते ॥ २७ ॥ तथौपगव इत्यत्र नापत्यं नोपगुः पृथक् । किन्तूपगुविशिष्टं खल्वपत्यं मन्यते जनः ॥ २८ ॥</karika>