Sutras 1 - 20¶
- 82001: पूर्वत्रासिद्धम्
- 82002: नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति
- 82003: न मु ने
- 82004: उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य
- 82005: एकादेश उदात्तेनोदात्तः
- 82006: स्वरितो वाऽनुदात्ते पदादौ
- 82007: नलोपः प्रातिपदिकान्तस्य
- 82008: न ङिसम्बुद्ध्योः
- 82009: मादुपधायाश्च मतोर्वोऽयवादिभ्यः
- 82010: झयः
- 82011: संज्ञायाम्
- 82012: आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्रुमण्वच्चर्मण्वती
- 82013: उदन्वानुदधौ च
- 82014: राजन्वान् सौराज्ये
- 82015: छन्दसीरः
- 82016: अनो नुट्
- 82017: नाद्घस्य
- 82018: कृपो रो लः
- 82019: उपसर्गस्यायतौ
- 82020: ग्रो यङि