82001: पूर्वत्रासिद्धम्¶
Padacheda: पूर्वत्र | S | 0 | 0 |
असिद्धम् | S | 1 | 1 |
Sutrartha¶
सपादसप्ताध्यायीम् प्रति त्रिपादी असिद्धा वर्तते । त्रिपाद्याम् अपि पूर्वम् शास्त्रम् प्रति परम् शास्त्रम् असिद्धम् वर्तते ।
अष्टाध्याय्याः इदम् अधिकारसूत्रम् । अयम् अधिकारः अस्मात् सूत्रात् आरभ्य अष्टाध्याय्याः अन्तिमं सूत्रम् यावत् प्रचलति । ** अस्मिन् अधिकारे विद्यमानानि सर्वाणि सूत्राणि पूर्वसूत्राणां कृते असिद्धानि (अमान्यानि / अविद्यमानानि) सन्ति** — इति अस्य सूत्रस्य आशयः । This adhikaar dictates that every rule in this adhikaar is considered to be non-existent by the rules which precede that rule. एतादृशं विधानं कृत्वा इदम् अधिकारसूत्रम् अष्टाध्यायीं द्वयोः भागयोः विभाजयति — <listsp> 1. प्रकृतसूत्रात् सूत्रात् पूर्वम् विद्यमानानि यानि सूत्राणि, तेषाम् प्रथमः भागः । अस्मिन् भागे आदिस्थाः सप्त अध्यायाः, तथा च अष्टमाध्यायस्य प्रथमपादस्य सर्वाणि सूत्राणि वर्तन्ते । अयं भागः सपादसप्ताध्यायी नाम्ना ज्ञायते । सप्तानाम् अध्यायानां समाहारः सप्ताध्यायी; पादेन सह सप्ताध्यायी = सपादसप्ताध्यायी । अस्याः सपादसप्ताध्याय्याः कृते तस्याः अनन्तरम् (इत्युक्ते, अष्टमाध्यायस्य प्रथमपादात् अनन्तरम्) अष्टाध्याय्याम् किमपि न विद्यते ** । इत्युक्ते, सपादसप्ताध्याय्याः सूत्राणां कृते अष्टाध्याय्याः अन्तिमानाम् त्रयाणाम् पादानाम् अस्तित्वम् एव न वर्तते । 2. प्रकृतसूत्रात् अनन्तरम् विद्यमानानि यानि सूत्राणि, तेषाम् द्वितीयः भागः । अस्मिन् भागे अष्टमाध्यायस्य अन्तिमानाम् त्रयाणाम् पादानाम् सर्वाणि सूत्राणि वर्तन्ते । अयं भागः **त्रिपादी नाम्ना ज्ञायते । त्रयाणां पादानां समाहारः = त्रिपादी । **अस्याः त्रिपाद्याः प्रत्येकं सूत्रस्य कृते तस्मात् अनन्तरम् अष्टाध्याय्याम् किमपि न विद्यते ** । इत्युक्ते, त्रिपाद्याः प्रत्येकं सूत्रस्य कृते ‘अहमेव अष्टाध्याय्याः अन्तिमम् सूत्रम्’ — इति भावः वर्तते । </listsp>
असिद्धाधिकारस्य प्रयोजनम्
प्रकृतसूत्रेण उक्तस्य असिद्धत्त्वस्य अष्टाध्याय्याम् आहत्य चत्वारि प्रयोजनानि सन्ति —
त्रिपाद्याः अपेक्षया सपादसप्ताध्याय्याः सूत्राणाम् बलीयस्त्वम्
त्रिपाद्याम् परसूत्राणाम् अपेक्षया पूर्वसूत्राणाम् बलीयस्त्वम्
सपादसप्ताध्याय्याः सूत्रैः त्रिपाद्याः सूत्राणाम् अदर्शनम्
त्रिपाद्याः पूर्वसूत्रैः त्रिपाद्याः परसूत्राणाम् अदर्शनम्
- एतानि सर्वाणि प्रयोजनानि सिद्धान्तकौमुद्याम् तु एकवाक्येन वर्णितानि सन्ति - सपादसप्ताध्यायीं प्रति त्रिपादी असिद्धा, त्रिपाद्याम् अपि पूर्वं प्रति परं शास्त्रम् असिद्धम् — इति । एतेषाम् सर्वेषाम् क्रमेण विवेचनम् सोदाहरणम् अधः दीयते ।
<hlb>1. त्रिपाद्याः अपेक्षया सपादसप्ताध्याय्याः सूत्राणाम् बलीयस्त्वम् —</hlb>
यत्र अष्टाध्याय्याम् द्वयोः सूत्रयोः युगपत् प्राप्तिः विद्यते, तत्र सामान्यतः विप्रतिषेधे परं कार्यम् (1.4.2) इति न्यायेन परसूत्रम् बलीयः भवति । परन्तु, यत्र सपादसप्ताध्याय्याः सूत्रस्य त्रिपादीसूत्रेण सह युगपत् प्राप्तिः भवति, तत्र सपादसप्ताध्याय्याः दृष्ट्या त्रिपादीसूत्रस्य असिद्धत्वात् प्रकियायाम् नित्यम् सपादसप्ताध्याय्याः सूत्रम् एव प्रवर्तते । इत्युक्ते, युगपत् प्राप्तौ सत्याम्, त्रिपादीसूत्राणाम् अपेक्षया सपादसप्ताध्याय्याः सूत्राणि एव बलीयांसि भवन्ति । त्रिपाद्याः सन्दर्भे विप्रतिषेधे परं कार्यम् (1.4.2) इति परिभाषा नैव प्रवर्तते, इति आशयः । अस्य द्वे उदाहरणे एतादृशे — (i) अदस्-सर्वनाम्नः पुंलिङ्गे चतुर्थी-एकवचनस्य प्रक्रियायाम् सर्वनाम्नः स्मै (7.1.14) तथा च अदसोऽसेर्दादु दो मः (8.2.80) इति द्वयोः सूत्रयोः यदा युगपत् प्राप्तिः भवति, तदा सर्वनाम्नः स्मै (7.1.14) इति सूत्रम् यद्यपि पूर्वसूत्रम् अस्ति, तथापि तत् सपादसप्ताध्याय्याः सूत्रम् अस्ति इति कारणात् अदसोऽसेर्दादु दो मः (8.2.80) इत्यस्य त्रिपादीसूत्रस्य अपेक्षया प्राधान्येन प्रयुज्यते । प्रक्रिया इयम् —
अदस् + ङे [पुंलिङ्गे चतुर्थ्येकवचनस्य विवक्षायाम् **स्वौजस्..** (4.1.2) इति ङे-प्रत्ययः]
→ अदअ + ए [**त्यदादीनामः** (7.2.102) इत्यनेन सकारस्य अकारादेशः]
→ अद + ए [**अतो गुणे** (6.1.97) इति पररूप-एकादेशः]
→ अद + स्मै [अत्र **सर्वनाम्नः स्मै** (7.1.14) इत्यनेन ङे-प्रत्ययस्य स्मै-आदेशः भवितुम् अर्हति । तस्मिन्नेव समये **अदसोऽसेर्दादु दो मः** (8.2.80) इत्यनेन 'अद' इत्यस्य 'अमु' इति आदेशः अपि सम्भवति । वस्तुतः **अदसोऽसेर्दादु दो मः** (8.2.80) इति अत्र परसूत्रम् अस्ति (नित्यसूत्रम् अपि अस्ति), अतः तस्यैव प्रयोगः प्राधान्येन भवेत् । परन्तु **अदसोऽसेर्दादु दो मः** (8.2.80) इति त्रिपादीसूत्रम् अस्ति, तत् **सर्वनाम्नः स्मै** (7.1.14) इत्यस्य कृते असिद्धम् वर्तते । अतः अस्यां स्थितौ अन्य-सूत्रस्य-अभावात् **सर्वनाम्नः स्मै** (7.1.14) इत्येव सूत्रम् अत्र प्रवर्तते । The sutra **सर्वनाम्नः स्मै** (7.1.14) does not recognize any competition and thus proceeds to show its effect.]
→ अमु + स्मै [इदानीम् **अदसोऽसेर्दादु दो मः** (8.2.80) इत्यनेन 'अद' इत्यस्य 'अमु'आदेशः भवति । यदि अयम् आदेशः पूर्वस्मिन् एव सोपाने अभविष्यत्, तर्हि अनदन्तम् अङ्गम् दृष्ट्वा **सर्वनाम्नः स्मै** (7.1.14) इत्यनेन स्मै-आदेशः न अभविष्यत् । ]
→ अमुष्मै [**आदेशप्रत्यययोः** (8.3.59) इति षत्वम्]
यस्मिन् धातौ अन्ते वकारः अस्ति तथा च उपधायाम् रेफः वर्तते, तस्य धातोः क्विप्-प्रत्यये परे राल्लोपः (6.4.21) इत्यनेन रेफात् परस्य वकारस्य लोपः, तथा च उपधायां च (8.2.77) इत्यनेन रेफात् पूर्वम् विद्यमानस्य स्वरस्य दीर्घः — इति द्वे कार्ये युगपत् प्रवर्तेते । अस्यां स्थितौ राल्लोपः (6.4.21) इति सूत्रम् यद्यपि पूर्वसूत्रम् अस्ति, तथापि तत् सपादसप्ताध्याय्याः सूत्रम् अस्ति इति कारणात् उपधायां च (8.2.77) इत्यस्य त्रिपादीसूत्रस्य अपेक्षया बलवत्त्वेन प्रयुज्यते । प्रक्रिया इयम् —
धुर्वीँ (हिंसायाम्, भ्वादिः, (1.654))
→ धुर्व् [**उपदेशेऽजनुनासिक इत्** (1.3.2) इति ईँकारस्य इत्संज्ञा । **तस्य लोपः** (1.3.9) इति लोपः]
→ धुर्व् + क्विप् + औ [**क्विप् च** (3.2.76) इति क्विप्-प्रत्ययः । क्विप्-प्रत्ययः कृत्संज्ञकः अस्ति, अतः अस्य योजनेन **कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकस्य निर्माणं भवति । अस्मात् पदनिर्माणार्थम् प्रथमाद्विवचनस्य औ-प्रत्ययः स्थाप्यते ।]
→ धुर्व् + ० + औ [क्विप्-प्रत्यये ककारपकारयोः इत्संज्ञा, लोपः । वकारोत्तरः इकारः उच्चारणार्थः, अतः सोऽपि लुप्यते । अवशिष्टस्य वकारस्य **वेरपृक्तस्य** (6.1.67) इत्यनेन लोपः भवति ।]
→ धुर् + औ [**प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इत्यनेन लुप्त-प्रत्ययस्यनिमित्तकम् कार्यम् अवश्यम् भवितुम् अर्हति । अतः अत्र **राल्लोपः** (6.4.21) इत्यनेन रेफात् परस्य वकारस्य लोपः सम्भवति । अस्मिन् एव स्थले **उपधायां च** (8.2.77) इति रेफात् पूर्वम् विद्यमानस्य उकारस्य दीर्घः सम्भवति । अस्यां स्थितौ **पूर्वत्रासिद्धम्** (8.2.1) इत्यनेन सपादसप्ताध्यायीं प्रति त्रिपादी असिद्धा विद्यते, अतः अत्र त्रिपादीसूत्रस्य अपेक्षया सपादसप्ताध्यायीसूत्रस्यैव प्रयोगः भवति । इत्युक्ते, अत्र **राल्लोपः** (6.4.21) इत्यनेन रेफात् परस्य वकारस्य लोपः क्रियते । ]
→ धुरौ
<hlb>2. त्रिपाद्याम् परसूत्राणाम् अपेक्षया पूर्वसूत्राणाम् बलीयस्त्वम् —</hlb> यदि प्रक्रियायां कुत्रचित् द्वयोः त्रिपादीसूत्रयोः युगपत् प्राप्तिः सम्भवति, तर्हि तत्र पूर्वसूत्रस्य अपेक्षया परसूत्रम् असिद्धम् वर्तते, अतः त्रिपाद्याः पूर्वसूत्रस्यैव प्रयोगः करणीयः । इत्युक्ते, युगपत् प्राप्तौ सत्याम्, परत्रिपादीसूत्रस्य अपेक्षया पूर्वत्रिपादीसूत्रम् बलीयः भवति । अस्य त्रीणि उदाहरणानि एतादृशानि — (i) भिद्-धातोः क्त-प्रत्ययस्य रूपसिद्धौ रदाभ्यां निष्ठातो नः पूर्वस्य च दः (8.2.42) इत्यनेन दकारस्य नकारादेशः, तथा च तस्मिन्नेव समये खरि च (8.4.55) इत्यनेन दकारस्य तकारादेशः - इत्येतयोः युगपत् प्राप्तिः अस्ति । अत्र नकारादेशस्य कृते तकारादेशः परत्वात् असिद्धः अस्ति, अतः अत्र नकारादेशः एव भवति । प्रक्रिया इयम् —
भिदिँर् (विदारणे, रुधादिः, (7.002))
→ भिद् [<!इँर इत्संज्ञा वाच्या!> इति वार्त्तिकेन 'इँर्' इत्यस्य इत्संज्ञा । **तस्य लोपः** (1.3.9) इति लोपः]
→ भिद् + क्त [**क्तक्तवतू निष्ठा** (1.1.26) इति क्त-प्रत्ययः]
→ भिद् + त [**लशक्वतद्धिते** (1.3.8) इति ककारस्य इत्संज्ञा ।**तस्य लोपः** (1.3.9) इति लोपः]
→ भिन् + न [**रदाभ्यां निष्ठातो नः पूर्वस्य च दः** (8.2.42) इत्यनेन दकारस्य (तकारस्य च) नकारादेशः, तथा च **खरि च** (8.4.55) इत्यनेन दकारस्य तकारादेशः - इत्येतयोः युगपत् प्राप्तौ सत्याम्, **पूर्वत्रासिद्धम्** (8.2.1) इत्यनेन **रदाभ्यां निष्ठातो नः पूर्वस्य च दः** (8.2.42) इत्यस्य कृते **खरि च** (8.4.55) इति असिद्धं वर्तते, अतः अत्र **रदाभ्यां निष्ठातो नः पूर्वस्य च दः** (8.2.42) इत्यनेन नकारादेशः एव भवति ।]
→ भिन्न
‘विश्’ इति प्रातिपदिकस्य अन्ते विद्यमानस्य शकारस्य तृतीयाद्विवचनस्य भ्याम्-प्रत्यये परे झलां जशोऽन्ते (8.2.39) इत्यनेन जश्त्वे जकारः सम्भवति । तस्मिन्नेव समये व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (8.2.36) इत्यनेन शकारस्य षकारादेशः अपि भवितुम् अर्हति । अत्र षकारादेशस्य कृते जश्त्वम् परत्वात् असिद्धम् अस्ति, अतः अत्र अस्मिन् सोपाने षत्वम् एव प्रवर्तते । प्रक्रिया इयम् —
विश् + भ्याम् [तृतीयाद्विवचनस्य भ्याम्-प्रत्ययः । अस्मिन् प्रत्यये परे प्रकृतेः **स्वादिष्वसर्वनामस्थाने** (1.4.17) इत्यनेन पदसंज्ञा भवति ]
→ विष् + भ्याम् [अत्र **झलां जशोऽन्ते** (8.2.39) तथा **व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः** (8.2.36) इत्येतयोः युगपत् प्राप्तौ सत्याम् **पूर्वत्रासिद्धम्** (8.2.1) इत्यनेन षत्वस्य कृते जश्त्वस्य असिद्धत्वात् षत्वमेव प्रवर्तते ।]
→ विड् + भ्याम् [इदानीम् **झलां जशोऽन्ते** (8.2.39) इति जश्त्वे षकारस्य डकारादेशः भवति । ]
→ विड्भ्याम्
पच्-धातोः क्त-प्रत्ययस्य रूपसिद्धौ पचो वः (8.2.52) इत्यनेन तकारस्य वकारादेशः; तथा च तस्मिन्नेव समये चोः कुः (8.2.30) इति चकारस्य ककारादेशः - इत्येतयोः युगपत् प्राप्तिः अस्ति । अत्र ककारादेशस्य कृते वकारादेशः परत्वात् असिद्धः अस्ति, अतः अत्र आदौ ककारादेशः एव भवति । प्रक्रिया इयम् —
डुपचँष् (पाके, भ्वादिः, (1.1151))
→ पच् [**आदिर्ञिटुडवः** (1.3.5) इति डु-इत्यस्य इत्संज्ञा । **हलन्त्यम्** (1.3.3) इति अन्तिमषकारस्य इत्संज्ञा । **तस्य लोपः** (1.3.9) इति लोपः ।]
→ पच् + क्त [**निष्ठा** (3.2.102) इति क्त-प्रत्ययः]
→ पक् + त [**चोः कुः** (8.2.30) इति कुत्वम् । ]
→ पक् + व [**पचो वः** (8.2.52) इति तकारस्य वकारादेशः]
→ पक्व
<hlb>3. सपादसप्ताध्याय्याः सूत्रैः त्रिपाद्याः सूत्राणाम् अदर्शनम् —</hlb> सपादसप्ताध्याय्याः कृते असिद्धत्वात् त्रिपादीसूत्राणि नैव दृश्यन्ते, अतः तैः कृतम् कार्यम् अपि स्वभावतः असिद्धम् एव भवति । अतः, त्रिपादीसूत्रैः यः आदेशः / आगमः / लोपः जायते, तस्य अदर्शनात्, तस्य आधारेण अग्रे सपादसप्ताध्याय्याः किमपि सूत्रं नैव प्रवर्तते । अस्य द्वे उदाहरणे एतादृशे — (i) ‘अर्जुन उवाच’ इत्यत्र नकारोत्तरस्य सुँ-प्रत्ययस्य त्रिपादीसूत्रेण कृतः लोपः सपादसप्ताध्याय्याः कृते असिद्धः अस्ति, अतः लोपे कृते ततः आद्गुणः (6.1.87) इति गुण-एकादेशः न प्रवर्तते । प्रक्रिया इयम् —
अर्जुन सुँ उवाच [अर्जुन-शब्दात् प्रथमैकवचनस्य सुँ-प्रत्ययः । 'उवाच' इति शब्दस्य सिद्धेः अत्र न किञ्चन प्रयोजनम् अतः अयं शब्दः सिद्धः एव स्वीकृतः अस्ति ।]
→ अर्जुन रुँ उवाच [**ससजुषो रुः** (8.2.66) इति रुँत्वम् ।]
→ अर्जुन य् उवाच [**भोभगोअघोअपूर्वस्य योऽशि** (8.3.17) इति रुँ-इत्यस्य यकारः]
→ अर्जुन उवाच [**लोपः शाकल्यस्य** (8.3.19) इति यकारलोपः । अयं यकारलोपः, तथा च पूर्वयोः सोपानयोः सिद्धौ रेफयकारौ - एतानि सर्वाणि कार्याणि त्रिपाद्याः सूत्रैः कृतानि सन्ति, अतः **आद्गुणः** (6.1.87) इति सपादसप्ताध्याय्याः सूत्रस्य दृष्ट्या तानि असिद्धानि (अवर्तमानानि) एव सन्ति । इत्युक्ते, **आद्गुणः** (6.1.87) इति सूत्रस्य दृष्ट्या अत्र 'अर्जुन स् उवाच' इत्येव स्थितिः वर्तते । अस्यां स्थितौ अत्र गुणैकादेशः अपि न सम्भवति । ]
‘शुष्का शाखा यस्य सः’ इत्यत्र बहुव्रीहिसमासे कृते ‘शुष्कशाखः’ इति शब्दः सिद्ध्यति । अत्र समस्तपदे शुष्का-शब्दस्य ‘शुष्क’ इति पुंवद्भावः स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु (6.3.34) इति सूत्रेण भवति । वस्तुतः, ‘शुष्का’ इति शब्दः ककारोपधः अस्ति, अतः तस्य विषये न कोपधायाः (6.3.37) इत्यनेन पुंवद्भावस्य निषेधः भवितुम् अर्हति । परन्तु ‘शुष्का’ शब्दे विद्यमानः ककारः शुषः कः (8.2.51) इति त्रिपाद्याः सूत्रेण निर्मितः अस्ति, अतः अयं सपादसप्ताध्याय्याः सूत्राणाम् कृते असिद्धः अस्ति । इत्युक्ते, अत्र न कोपधायाः (6.3.37) इत्यनेन ककारः नैव दृश्यते, अतश्च पुंवद्भावस्य निषेधः अपि न सम्भवति । प्रक्रिया इयम् —
शुष्का शाखा यस्य सः [**अनेकमन्यपदार्थे** (2.2.24) इति बहुव्रीहिः]
→ शुष् + क्त + टाप् + सुँ + शाखा + सुँ [समासस्य अलौकिकविग्रहः । पूर्वपदस्य प्रकृतिप्रत्ययविभागः पृथक् निर्दिष्टः अस्ति । तत्र शुष्-धातोः **निष्ठा** (3.2.102) इति क्त-प्रत्ययः, ततः स्त्रीत्वे विवक्षिते **अजाद्यतष्टाप्** (4.1.4) इति टाप्, ततः प्रथमैकवचनस्य प्रक्रियायाम् सुँ-प्रत्ययः ]
→ शुष् + त + आ + शाखा [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्यययोः लोपः]
→ शुष् + त + आ + शाख [**एकविभक्ति चापूर्वनिपाते** (1.2.44) इति शाखाशब्दस्य उपसर्जनसंज्ञा । **गोस्त्रियोरुपसर्जनस्य** (1.2.48) इति ह्रस्वादेशः]
→ शुष् + त + शाख [**स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु** (6.3.34) इति पूर्वपदस्य पुंवद्भावः]
→ शुष् + क + शाख [**शुषो कः** (8.2.51) इति निष्ठातकारस्य ककारः । अयं ककारः त्रिपादीसूत्रेण निर्मितः अस्ति अतः सपादसप्ताध्याय्याः सूत्रैः अयं न दृश्यते । अतएव अत्र **न कोपधायाः** (6.3.37) इत्यनेन पुंवद्भावनिषेधः न सम्भवति । ]
→ शुष्कशाख
<hlb>4. त्रिपाद्याः पूर्वसूत्रैः त्रिपाद्याः परसूत्राणाम् अदर्शनम् —</hlb> पूर्वत्रासिद्धम् (8.2.1) इत्यनेन त्रिपाद्याम् अपि पूर्वसूत्राणां कृते परसूत्राणि असिद्धानि वर्तन्ते, अतः तैः कृतम् कार्यम् अपि स्वभावतः असिद्धम् एव भवति । अतः परत्रिपादीसूत्रैः यः आदेशः / आगमः / लोपः जायते, तस्य अदर्शनात्, तस्य आधारेण अग्रे त्रिपाद्याः पूर्वं सूत्रं नैव प्रवर्तते । ** ।अस्य द्वे उदाहरणे एतादृशे — (i). ‘चर्’ धातोः लट्लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रियायाम् **अनुस्वारस्य ययि परसवर्णः (8.4.58) इत्यनेन यः नकारः जायते सः अट्कुप्वाङ्नुम्व्यवायेऽपि (8.4.2) इत्यस्य कृते असिद्धः अस्ति, अतः अस्य नकारस्य णत्वं न भवति । प्रक्रिया इयम् —
चरँ (गतौ भक्षणे च, भ्वादिः, (1.640))
→ चर् + लट् [**वर्तमाने लट्** (3.2.123) इति लट्लकारः]
→ चर् + झि [प्रथमपुरुषबहुवचनस्य विवक्षायाम् **तिप्तस्झि..** (3.4.78) इत्यनेन झि-प्रत्ययः]
→ चर् + शप् + झि [**कर्तरि शप्** (3.1.68) इति शप्-विकरणप्रत्ययः]
→ चर् + अ + अन्ति [**झोऽन्तः** (7.1.3) इति प्रत्ययझकारस्य अन्त्-आदेशः]
→ चर् + अ + अंति [ **नश्चापदान्तस्य झलि** (8.3.24) इत्यनेन नकारस्य अनुस्वारादेशः]
→ चर् + अ + अन्ति [अनुस्वारस्य **अनुस्वारस्य ययि परसवर्णः** (8.4.58) इत्यनेन परसवर्णः नकारः । अस्मिन् नकारे कृते अत्र **अट्कुप्वाङ्नुम्व्यवायेऽपि** (8.4.2) इति इत्यनेन णत्वम् नैव सम्भवति, यतः **अट्कुप्वाङ्नुम्व्यवायेऽपि** (8.4.2) इत्यस्य कृते **अनुस्वारस्य ययि परसवर्णः** (8.4.58) इति सूत्रमेव असिद्धम् अस्ति ।**अट्कुप्वाङ्नुम्व्यवायेऽपि** (8.4.2) इत्यनेन 'चरंति' इत्येव (अनुस्वारसहितं रूपं) दृश्यते, तत्र च णत्वस्य प्रसङ्गः अपि नास्ति । अतः अन्तिमरूपे नकारः एव श्रूयते ।]
→ चरन्ति
‘प्रशाम्’ इति प्रातिपदिकस्य प्रथमैकवचनस्य रूपसिद्धौ मो नो धातोः (8.2.64) इत्यनेन मकारस्य नकारादेशः भवति । अयं नकारादेशः परत्वात् नलोपः प्रातिपदिकान्तस्य (8.2.7) इत्यस्य कृते असिद्धः वर्तते, अतः अस्य नकारस्य नलोपः प्रातिपदिकान्तस्य (8.2.7) इत्यनेन लोपः न भवति । प्रक्रिया इयम् —
प्रशाम् [प्र-उपसर्गपूर्वकात् शम्-धातोः क्विप्-प्रत्यये कृते 'प्रशाम्' इति प्रातिपदिकं सिद्ध्यति ।
प्रशाम् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]
→ प्रशाम् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति सुँप्रत्ययस्य लोपः । लोपे कृते अपि **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इति प्रत्ययनिमित्तकं पदसंज्ञाविधानम् अवश्यं भवति ।]
→ प्रशान् [**क्विबन्ताः धातुत्वं न जहति** इति परिभाषया अत्र शाम्-इत्यस्य धातुत्वे सति, मकारान्तस्य धातोः पदान्ते **मो नो धातोः** (8.2.64) इति नकारादेशः भवति । अयं नकारादेशः **नलोपः प्रातिपदिकान्तस्य** (8.2.7) इति पूर्वत्रिपादीसूत्रस्य कृते असिद्धः अस्ति, अतः अत्र नकारलोपः न प्रवर्तते ]
अनेन प्रकारेण प्रकृतसूत्रेण उक्तस्य असिद्धत्वस्य चत्वारि प्रयोजनानि विद्यन्ते ।
असिद्धाधिकारस्य प्रयोगं कृत्वा प्रक्रियायाः कानिचन उदाहरणानि
कासुचित् प्रक्रियासु प्रायेण प्रत्येकं सोपाने असिद्धाधिकारस्य प्रयोगः कृतः दृश्यते । एतासु प्रक्रियासु असिद्धत्वं कुत्र कुत्र उपयुज्यते तत् कानिचन उदाहरणानि स्वीकृत्य अधः निर्दिष्टम् अस्ति — 1. ‘सत् + चित्’ इत्यस्य सन्धिकार्यम् कृत्वा ‘सच्चित्’ इति सिद्ध्यति । अत्र प्रक्रिया इयम् —
सत् + चित्
→ सद् + चित् [अत्र **झलां जशोऽन्ते** (8.2.39) इति जश्त्वम्, तथा च **स्तोः श्चुना श्चुः** (8.4.40) इति श्चुत्वम् — एतयोः युगपत्-प्राप्तिः अस्ति । अत्र जश्त्वं प्रति श्चुत्वम् असिद्धम्, अतः अत्र जश्त्वम् एव प्रवर्तते ।]
→ सज् + चित् [अत्र **स्तोः श्चुना श्चुः** (8.4.40) इति श्चुत्वम्, तथा च **खरि च** (8.4.55) इति चर्त्वम् — एतयोः युगपत्-प्राप्तिः अस्ति । अत्र श्चुत्वं प्रति चर्त्वम् असिद्धम्, अतः अत्र श्चुत्वम् एव प्रवर्तते ।]
→ सच् + चित् [**खरि च** (8.4.55) इति चर्त्वम् ]
→ सच्चित्
‘स्पृश्’ इति क्विन्-प्रत्ययान्तप्रातिपदिकस्य प्रथमपुरुषैकवचनस्य रूपम् ‘स्पृक्’ इत्यस्य सिद्धिः —
स्पृश् + सुँ [**स्वौजस्..** (4.1.2) इति प्रथमैकवचनस्य सुँप्रत्ययः]
→ स्पृश् + स् [**उपदेशेऽजनुनासिक इत्** (1.3.2) इति उँकारस्य इत्संज्ञा । **तस्य लोपः** (1.3.9) इति लोपः । ]
→ स्पृश् [अत्र **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इत्यनेन अपृक्तसकारस्य लोपः, तथा च **संयोगान्तस्य लोपः** (8.2.23) इत्यनेन संयोगान्तेविद्यमानस्य सकारस्य लोपः - इति द्वयोः युगपत् प्राप्तिः भवति । अत्र **संयोगान्तस्य लोपः** (8.2.23) इति त्रिपादीसूत्रम् **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इत्यस्य कृते असिद्धम् अस्ति अतः अत्र **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इत्यनेन एव सुँलोपः क्रियते ।]
→ स्पृष् [अत्र **झलां जशोऽन्ते** (8.2.39) इति जश्त्वम्, **क्विन्प्रत्ययस्य कुः** (8.2.62) इति कुत्वम्, तथा च **व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः** (8.2.36) इति षत्वम् — एतेषाम् युगपत् प्राप्तिः अस्ति । तत्र **व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः** (8.2.36) इत्यस्य कृते अन्ये द्वे सूत्रे असिद्धे स्तः, अतः अत्र **व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः** (8.2.36) इत्यनेन षत्वम् एव प्रवर्तते ।]
→ स्पृड् [अत्र **झलां जशोऽन्ते** (8.2.39) इति जश्त्वम् तथा च **क्विन्प्रत्ययस्य कुः** (8.2.62) इति कुत्वम् — एतयोः युगपत् प्राप्तिः अस्ति । तत्र **झलां जशोऽन्ते** (8.2.39) इत्यस्य कृते **क्विन्प्रत्ययस्य कुः** (8.2.62) इति असिद्धम्, अतः अत्र **झलां जशोऽन्ते** (8.2.39) इत्यनेन जश्त्वम् एव भवति ।]
→ स्पृग् [अत्र **क्विन्प्रत्ययस्य कुः** (8.2.62) इति कुत्वम् तथा **वाऽवसाने** (8.4.56) इति चर्त्वम् — एतौ युगपत् प्राप्नुतः ।तत्र **क्विन्प्रत्ययस्य कुः** (8.2.62) इत्यस्य कृते **झलां जशोऽन्ते** (8.2.39) इति असिद्धम् अस्ति, अतः अत्र **क्विन्प्रत्ययस्य कुः** (8.2.62) इति कुत्वमेव प्रवर्तते ।]
→ स्पृग्, स्पृक् [**वाऽवसाने** (8.4.56) इति वैकल्पिकं चर्त्वम्]
मस्ज्-धातोः क्त्-प्रत्यये कृते ‘मग्न’ इति रूपम् एतादृशं सिद्ध्यति —
टुमस्जोँ (शुद्धौ, तुदादिः, (6.151))
→ मस्ज् [**आदिर्ञिटुडवः** (1.3.5) इति 'टु' इत्यस्य इत्संज्ञा । **उपदेशेऽजनुनासिक इत्** (1.3.2) इति ओँ-इत्यस्य इत्संज्ञा । **तस्य लोपः** (1.3.9) इति द्वयोः लोपः]
→ मस्ज् + क्त [**निष्ठा** (3.2.102) इति क्त-प्रत्ययः]
→ म स् न् ज् + त [**मस्जिनशोर्झलि** (7.1.60) इति नुमागमः । <!मस्जेरन्त्यात् पूर्वं नुमिष्यते!> इति वार्त्तिकेन अयम् जकारात् पूर्वम् भवति ।]
→ म स् ज् त [अत्र बहूनाम् सूत्राणाम् युगपत् प्राप्तिः वर्तते — **चोः कुः** (8.2.30) इत्यनेन कुत्वम् ; **खरि च** (8.4.55) इत्यनेन चर्त्वम् ; **स्कोः संयोगाद्योरन्ते च** (8.2.29) इति सकारलोपः; **ओदितश्च** (8.2.45) इत्यनेन निष्ठातकारस्य नकारः; तथा च **अनिदितां हल उपधायाः क्ङिति** (6.4.24) इत्यनेन उपधानकारलोपः । एतेभ्यः **अनिदितां हल उपधायाः क्ङिति** (6.4.24) इति सपादसप्ताध्याय्याः सूत्रं प्रति अन्यानि सर्वाणि अपि सूत्राणि असिद्धानि सन्ति, अतः अत्र **अनिदितां हल उपधायाः क्ङिति** (6.4.24) इत्येव सूत्रं प्रवर्तते, येन नकारस्य लोपः विधीयते ।]
→ म ज् त [अत्रापि बहूनि सूत्राणि युगपत् प्राप्नुवन्ति — **चोः कुः** (8.2.30) इत्यनेन कुत्वम् ; **खरि च** (8.4.55) इत्यनेन चर्त्वम् ; **स्कोः संयोगाद्योरन्ते च** (8.2.29) इति सकारलोपः; तथा च **ओदितश्च** (8.2.45) इत्यनेन निष्ठातकारस्य नकारः । एतेभ्यः **स्कोः संयोगाद्योरन्ते च** (8.2.29) इत्यस्य कृते अन्यानि त्रिपादीसूत्राणि परत्वात् असिद्धानि सन्ति, अतः अत्र **स्कोः संयोगाद्योरन्ते च** (8.2.29) इत्यनेन सकारलोपः भवति ।]
→ म ग् त [अत्र **चोः कुः** (8.2.30) इत्यनेन कुत्वम् ; **खरि च** (8.4.55) इत्यनेन चर्त्वम् ; तथा च **ओदितश्च** (8.2.45) इत्यनेन निष्ठातकारस्य नकारः — एतानि युगपत् प्राप्नुवन्ति । एतेभ्यः **चोः कुः** (8.2.30) इत्यस्य कृते अन्ये द्वे सूत्रे असिद्धे, अतः अत्र **चोः कुः** (8.2.30) इत्यनेन कुत्वम् एव भवति ।]
→ म ग् न [अत्र **खरि च** (8.4.55) इत्यनेन चर्त्वम् तथा च **ओदितश्च** (8.2.45) इत्यनेन निष्ठातकारस्य नकारः — एते युगपत् प्राप्नुतः । तत्र **ओदितश्च** (8.2.45) इत्यस्य कृते **खरि च** (8.4.55) इति असिद्धम्, अतः अत्र **ओदितश्च** (8.2.45) इत्येव सूत्रं प्रवर्तते, येन निष्ठातकारस्य नकारादेशः भवति ।]
→ मग्न
त्रिपाद्याम् विद्यमानानाम् एकप्रकरणस्थसूत्राणाम् परस्परान् प्रति सिद्धत्वम्
अष्टाध्याय्यां सूत्राणि प्रकरणशः निबद्धानि सन्ति । एतेभ्यः कानिचन प्रकरणानि त्रिपाद्याम् अपि विद्यन्ते । एतेषु प्रकरणेषु विद्यमानानि सर्वाणि सूत्राणि प्रक्रियायाः एकस्य एव अंशस्य विषये भिन्नान् विषयान् प्रतिपादयन्ति, अतः तानि परस्पराणां विषये सिद्धानि एव ज्ञेयानि । The sutras from tripadi that are related to the same topic (like णत्व / षत्व / चर्त्व etc) are always सिद्ध towards each other. यथा — 1) रदाभ्यां निष्ठातो नः पूर्वस्य च दः (8.2.42) इत्यस्मात् सूत्रात् नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि छन्दसि (8.2.61) इति यावन्ति सूत्राणि निष्ठातकारस्य आदेशः इति प्रकरणं निबध्नन्ति । एतानि सर्वाणि सूत्राणि एकप्रकरणस्थानि सन्ति, अतः एतानि परस्पराणां विषये सिद्धानि एव ज्ञेयानि । अतएव पॄ-धातोः विषये रदाभ्यां निष्ठातो नः पूर्वस्य च दः (8.2.42) इत्यनेन प्राप्तं निष्ठानत्वम् न ध्याख्यापॄमूर्छिमदाम् (8.2.57) इत्यनेन निषिध्यते । अत्र यद्यपि न ध्याख्यापॄमूर्छिमदाम् (8.2.57) इति सूत्रम् रदाभ्यां निष्ठातो नः पूर्वस्य च दः (8.2.42) इत्यस्य अपेक्षया अनन्तरम् पाठितम् अस्ति, तथापि द्वे अपि एते सूत्रे एकप्रकरणस्थे एव स्तः, अतः रदाभ्यां निष्ठातो नः पूर्वस्य च दः (8.2.42) इत्यस्य कृते न ध्याख्यापॄमूर्छिमदाम् (8.2.57) इति सूत्रम् सिद्धम् एव ज्ञेयम् । अतएव पॄ-धातोः विहितस्य निष्ठातकारस्य नकारादेशः न भवति । प्रक्रिया इयम् —
पॄ (पालनपूरणयोः, जुहोत्यादिः, (3.4)
→ पॄ + क्त [**निष्ठा** (3.2.102) इति क्तप्रत्ययः]
→ पुर् + त [**उदोष्ठ्यपूर्वस्य** (7.1.102) इति उत्वम् । **उरण् रपरः** (1.1.51) इति रेफः]
→ पूर्त [**रदाभ्यां निष्ठातो नः पूर्वस्य च दः** (8.2.42) इत्यनेन रेफात् परस्य निष्ठातकारस्य नत्वे प्राप्ते, **न ध्याख्यापॄमूर्छिमदाम्** (8.2.57) इत्यनेन तत् निषिध्यते । अत्र एते द्वे सूत्रे समानप्रकरणे ('निष्ठातकारादेशः' इति प्रकरणे) स्तः, अतः अत्र पूर्वसूत्रं प्रति परसूत्रम् सिद्धमेव ज्ञेयम् । अतः अत्र नत्वं न भवति । अग्रे **उपधायां च** (8.2.78) इत्यनेन उकारस्य दीर्घे कृते रूपं सिद्ध्यति ।]
अपदान्तस्य मूर्धन्यः (8.3.55) इत्यस्मात् सूत्रात् निव्यभिभ्योऽड्व्यवाये वा छन्दसि (8.3.119) इति यावत्सु सूत्रेषु अपदान्तसकारस्य षकारादेशः, तथा च कुत्रचित् अपदान्तधकारस्य ढकारादेशः उक्तः अस्ति । एतानि सर्वाणि सूत्राणि अपदान्तस्य मूर्धन्यः (8.3.55) तथा इण्कोः (8.3.57) इत्येतयोः अधिकारयोः विद्यन्ते । एतानि सर्वाणि एकप्रकरणस्थानि सूत्राणि, अतः अत्रापि पूर्वसूत्राणां प्रति परसूत्राणि सिद्धानि एव सन्ति । अतएव उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् (8.3.65) इत्यनेन सेध्-धातोः सकारस्य विहितः षकारादेशः सेधतेर्गतौ (8.3.113) इत्यनेन गत्यर्थक-सेध्-धातोः विषये निषिध्यते (इत्युक्ते, केवलम् शास्त्रार्थक-सेध्-धातोः विषये एव प्रसज्यते) । अतएव ‘षिधूँ (गतौ, (1.49))’ इत्यस्य धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् ‘विसेधति’ इति सकारघटितं भवति, परन्तु ‘षिधूँ (शास्त्रे माङ्गल्ये च, (1.50))’ इत्यस्य धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् ‘विषेधति’ इति षकारघटितं भवति ।
रषाभ्यां नो णः समानपदे (8.4.1) इत्यस्मात् आरभ्य क्षुभ्नादिषु च (8.4.39) इति यावत्सु सूत्रेषु रेफात् परस्य नकारस्य णकारादेशः विधीयते । एतानि सर्वाणि णत्वप्रकरणस्य सूत्राणि परस्पराणां विषये सिद्धानि एव भवन्ति । अतएव अट्कुप्वाङ्नुम्व्यवायेऽपि (8.4.2) इत्यनेन उक्तस्य णत्वस्य पदान्तस्य (8.4.37) इति सूत्रेण पदान्तनकारस्य विषये निषेधः भवितुम् अर्हति । इदं निषेधसूत्रम् यद्यपि विधिसूत्रात् अनन्तरं विद्यते, तथापि समानप्रकरणस्थत्वात् विधिसूत्रस्य कृते सिद्धम् एव ज्ञेयम् । अतएव रामशब्दस्य द्वितीया बहुवचने ‘रामान्’ इत्यत्र नकारस्य णत्वं न भवति । प्रक्रिया इयम् —
राम + शस् [द्वितीयाबहुवचनस्य विवक्षायाम् शस्-प्रत्ययः]
→ रामास् [**प्रथमयोः पूर्वसवर्णः** (6.1.102) इति पूर्वसवर्णः]
→ रामान् [**तस्माच्छसो नः पुंसि** (6.1.103) इति सकारस्य नकारः । अत्र यद्यपि अत्र **अट्कुप्वाङ्नुम्व्यवायेऽपि** (8.4.2) इत्यनेन णत्वस्य प्राप्तिः अस्ति, तथापि अयम् पदान्तनकारः अस्ति अतः **पदान्तस्य** (8.4.37) इत्यनेन निषेधसूत्रेण णत्वं निषिध्यते ।]
एवमेव — लत्वम्, श्चुत्वम्, ष्टुत्वम्, ढत्वम्, संयोगान्तलोपः — इत्येतेषाम् सर्वेषाम् प्रकरणानाम् विषये अपि बोध्यम् ।
त्रिपाद्याम् उत्सर्गापवादः
अष्टाध्याय्याः संरचना प्रामुख्येण उत्सर्गापवादस्वरूपेण कृता अस्ति । उत्सर्गसूत्रेण सामान्यविधिः उच्यते, तदपवादत्वेन च अपवादसूत्रैः विशेषविधयः निर्दिश्यन्ते । यत्र प्रयोगे अपवादसूत्रस्य प्रसक्तिः भवितुम् अर्हति, तत्र अपवादसूत्रेण उत्सर्गसूत्रस्य नित्यं बाधः क्रियते । एतादृशम् उत्सर्गापवादत्वम् त्रिपाद्याम् अपि प्रयुक्तं दृश्यते । अतः त्रिपाद्याम् विद्यमानम् अपवादसूत्रम् उत्सर्गसूत्रस्य कृते सिद्धमेव भवति । यत्र अपवादसूत्रस्य प्रयोगः भवितुम् अर्हति, तत्र उत्सर्गं बाधित्वा अपवादसूत्रम् एव प्रवर्तते । । अस्य स्पष्टीकरणार्थम् अधः द्वे उदाहरणे दीयेते — 1. संयोगान्तस्य लोपः (8.2.23) इति सूत्रेण पदान्ते विद्यमानस्य संयोगस्य अन्तिमवर्णस्य लोपः भवति । तदपवादत्वेन स्कोः संयोगाद्योरन्ते च (8.2.29) इत्यनेन सकारादि/ककारादिसंयोगस्य विषये आदिवर्णस्य लोपः क्रियते । अत्र यद्यपि स्कोः संयोगाद्योरन्ते च (8.2.29) इति सूत्रम् संयोगान्तस्य लोपः (8.2.23) इत्यस्य अपेक्षया परसूत्रम् अस्ति, तथापि तत् संयोगान्तस्य लोपः (8.2.23) इत्यस्य अपवादरूपेण पाठितम् अस्ति अतः संयोगान्तस्य लोपः (8.2.23) इत्यस्य कृते सिद्धमेव ज्ञेयम् । अतः, यत्र द्वयोः सूत्रयोः युगपत् प्राप्तिः अस्ति, तत्र अपवादत्वात् स्कोः संयोगाद्योरन्ते च (8.2.29) इत्यस्यैव प्रयोगः भवति । यथा, ‘तक्ष्’ इति षकारान्तशब्दस्य प्रथमैकवचनस्य रूपसिद्धौ ‘क् + ष्’ इति संयोगस्य आदिवर्णस्य (ककारस्य) एव लोपः भवति । प्रक्रिया इयम् —
तक्ष् + सुँ [प्रथमैकवचस्य सुँ-प्रत्ययः]
→ तक्ष् [उकारस्य **उपदेशेऽजनुनासिक इत्** (1.3.2) इति इत्संज्ञा । **तस्य लोपः** (1.3.9) इति लोपः । **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति अपृक्त-सुँ-प्रत्ययस्य लोपः]
→ तष् [**संयोगान्तस्य लोपः** (8.2.23) इत्यनेन षकारस्य लोपे प्राप्ते, तदपवादत्वेन **स्कोः संयोगाद्योरन्ते च** (8.2.29) इत्यनेन संयोगस्य आदिस्थस्य ककारस्य एव लोपः भवति ।]
→ तड् [**झलां जशोऽन्ते** (8.2.39) इति जश्त्वम्]
→ तड् / तट् [**खरि च** (8.4.55) इति चर्त्वम् ]
झलां जशोऽन्ते (8.2.39) इत्यनेन पदान्त-झल्-वर्णस्य स्थाने जश्-वर्णः आदेशरूपेण विधीयते । परन्तु यदि अयम् झल्-वर्णः सकारः अस्ति, तर्हि जश्त्वस्य अपवादत्वेन ससजुषो रुः (8.2.66) इति रुत्वं प्रवर्तते । यथा, ‘पयस्’ इति शब्दस्य प्रथमैकवचने जश्त्वं बाधित्वा रुत्वे कृते रूपं सिद्ध्यति —
पयस् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]
→ पयस् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति सुँलोपः]
→ पयरुँ [**झलां जशोऽन्ते** (8.2.39) इत्यनेन प्राप्तं जश्त्वम् अपवादत्वेन बाधित्वा **ससजुषो रुः** (8.2.66) इति रुत्वम् ]
→ पयः [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गादेशः]
संज्ञासूत्राणाम् परिभाषासूत्राणाम् च त्रिपाद्यां प्रसक्तिः
अष्टाध्याय्याम् विद्यमानाः सर्वाः संज्ञाः परिभाषाः च सपादसप्ताध्याय्याम् एव पाठिताः सन्ति । एताः संज्ञाः परिभाषाः च सम्पूर्णस्य सूत्रपाठस्य कृते एव आवश्यक्यः, न हि केवलम् सपादसप्ताध्याय्याः कृते । अतः संज्ञासूत्राणाम्, परिभाषासूत्राणाम् च विषये त्रिपादीविशिष्टम् असिद्धत्त्वम् न हि प्रवर्तते । अतएव, ससजुषो रुः (8.2.66), संयोगान्तस्य लोपः (8.2.23), अभ्यासे चर्च (8.4.54) , अणोऽप्रगृह्यस्यानुनासिकः (8.4.57) एतादृशेषु सूत्रेषु विद्यमानानाम् ‘इत्/लोपः/अभ्यासः/प्रगृह्यम्’ एतादृशानाम् संज्ञानाम्, तथा च झलां जश् झशि (8.4.53), चोः कुः (8.2.30) आदिषु सूत्रेषु विद्यमानानाम् षष्ठी-सप्तमी-पञ्चमीविभक्तीनाम् अर्थबोधः सम्भवति । एतेषाम् संज्ञासूत्राणां परिभाषासूत्राणाम् च त्रिपाद्यां कथं सञ्चारः भवति, तेषाम् विषये त्रिपाद्यां विप्रतिषेधः कथं प्रवर्तते, त्रिपादीसूत्राणाम् अर्थनिर्णयसमये संज्ञासूत्राणाम् परिभाषासूत्राणां च कथं एकवाक्यता कर्तव्या — इत्यादीनाम् प्रश्नानाम् विषये परिभाषेन्दुशेखरे यथोद्देशं संज्ञापरिभाषम्, कार्यकालं संज्ञापरिभाषम् एतयोः द्वयोः परिभाषयोः विस्तरेण ऊहः कृतः वर्तते । जिज्ञासुभिः एते अपि परिभाषे अवश्यं द्रष्टव्ये ।
त्रिपाद्याः सूत्राणाम् आश्रयात् सिद्धत्वम्
यद्यपि — ‘सपादसप्ताध्यायीं प्रति त्रिपादी असिद्धा, त्रिपाद्यां च पूर्वं प्रति परं शास्त्रम् असिद्धम्’ — इति असिद्धाधिकारस्य सिद्धान्तः, तथापि केषाञ्चन विशिष्टानां सूत्राणां कृते असिद्धत्वस्य नियमस्य प्रयोजनपूर्वकम् उल्लङ्घनं कृतं दृश्यते । इत्युक्ते, सपादसप्ताध्याय्याः केषाञ्चन सूत्राणां प्रयोगः त्रिपाद्याः सूत्राणाम् अनन्तरम् एव सम्भवति, तेभ्यः पूर्वम् (तैः विना वा) न सम्भवति । एवमेव, त्रिपाद्याम् अपि केषाञ्चन पूर्वसूत्राणां प्रयोगः परसूत्राणाम् अनन्तरम् एव सम्भवति, तेभ्यः पूर्वम् (तैः विना वा) न सम्भवति । एतादृशेषु स्थलेषु, तानि परसूत्राणि पूर्वसूत्राणां कृते आश्रयात् सिद्धानि सन्ति इति उच्यते । एतादृशम् आश्रयसिद्धत्वम् (तस्य प्रयोजनम्, उपयोजनं च) तत्तत्स्थले व्याख्यानात् एव ज्ञातव्यम् । अस्य केवलम् कानिचन उदाहरणानि अधः प्रदर्शितानि सन्ति । 1) हशि च (6.1.114) इति सूत्रम् सपादसप्ताध्याय्यां स्थापितम् अस्ति । अनेन सूत्रेण ‘रुँ’ इत्यस्य उकारादेशः विधीयते । यद्यपि इदं सूत्रम् सपादसप्ताध्याय्याम् वर्तते, तथापि अस्य सूत्रस्य कृते आवश्यकः ‘रुँ’ इति स्थानी त्रिपाद्याः सूत्रैः एव सिद्ध्यति, तस्य कृते सपादसप्ताध्याय्यां सूत्रमेव न विद्यते । अतः हशि च (6.1.114) सूत्रस्य विषये यदि असिद्धत्त्वम् उपयुज्य त्रिपाद्याः सर्वाणि अपि सूत्राणि असिद्धानि एव मन्येरन्, तर्हि हशि च (6.1.114) इति सूत्रमेव व्यर्थं स्यात् । अतएव, हशि च (6.1.114) इति सूत्रविधानमेव एतत् ज्ञापयति, यत् तस्य कृते त्रिपाद्याः रुँ-विधायकानि सूत्राणि सिद्धानि ज्ञेयानि —इति । अतएव, ‘मनोरथ’शब्दस्य सिद्धौ ससजुषो रुः (8.2.66) इत्यनेन रुँत्वे कृते, ततः हशि च (6.1.114) इत्यनेन उत्वं सम्भवति । प्रक्रिया इयम् —
मनसः रथः [**षष्ठी** (2.2.8) इति षष्ठीतत्पुरुषसमासः]
→ मनस् + रथ [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्यययोः लोपः]
→ मनरुँ + रथ [**ससजुषो रुँ** (8.2.66) इति रुँत्वम्]
→ मनउ + रथ [**हशि च** (6.1.114) इत्यनेन रेफस्य उत्वम् । **हशि च** (6.1.114) इति सूत्रस्य कृते **ससजुषो रुँ** (8.2.66) इति सूत्रम् **आश्रयात् सिद्धं** वर्तते ।]
→ मनोरथ [**आद्गुणः** (6.1.87) इत्यनेन गुणैकादेशः भवति । पूर्वस्मिन् सोपाने जातः उकारादेशः **हशि च** (6.1.114) इति सपादसप्ताध्याय्याः सूत्रेण निर्मितः अस्ति, अतः सः **आद्गुणः** (6.1.87) इत्यस्य कृते सिद्धः एव ।]
ढो ढे लोपः (8.3.13) इति सूत्रेण ढकारे परे पूर्वढकारस्य लोपः क्रियते । अस्य सूत्रस्य प्रयोगार्थम् आवश्यकः परढकारः केवलम् ष्टुत्वेन एव सिद्ध्यति । ष्टुत्वं तु ष्टुना ष्टुः (8.4.41) इति परसूत्रेण विधीयते । अतः अत्रापि विधानसामर्थ्यात् ढो ढे लोपः (8.3.13) इत्यस्य कृते ष्टुना ष्टुः (8.4.41) इति सूत्रम् आश्रयात् सिद्धम् भवति । एवमेव, ढ्रलोपे पूर्वस्य दीर्घोऽणः (6.3.111) इत्यस्य कृते आवश्यकः ढकारलोपः केवलम् ढो ढे लोपः (8.3.13) इत्यनेनैव सिद्ध्यति, अतः ढ्रलोपे पूर्वस्य दीर्घोऽणः (6.3.111) इत्यस्य कृते अपि ढो ढे लोपः (8.3.13) इति सूत्रम् आश्रयात् सिद्धं भवति । एतयोः द्वयोः अपि आश्रयसिद्धत्वयोः प्रयोगः ‘लिह्’-धातोः क्त-प्रत्ययान्तरूपस्य प्रक्रियायाम् कृतः दृश्यते । इयं प्रक्रिया एतादृशी —
लिहँ (आस्वादने, अदादिः, (2.6))
→ लिह् + क्त [**निष्ठा** (3.2.102) इति क्त-प्रत्ययः]
→ लिढ् + त [**हो ढः** (8.2.31) इति ढत्वम्]
→ लिढ् + ध [**झषस्तथोर्धोऽधः** (8.2.40) इति धत्वम्]
→ लिढ् + ढ [**ष्टुना ष्टुः** (8.4.41) इति ष्टुत्वम् ]
→ लि + ढ [**ढो ढे लोपः** (8.3.13) इति ढकारलोपः । अस्य कृते **ष्टुना ष्टुः** (8.4.41) एतत् सूत्रम् आश्रयात् सिद्धम् ज्ञेयम् ।]
→ ली + ढ [**ढ्रलोपे पूर्वस्य दीर्घोऽणः** (6.3.111) इत्यनेन दीर्घादेशः । अस्य कृते **ढो ढे लोपः** (8.3.13) एतत् सूत्रम् आश्रयात् सिद्धम् ज्ञेयम् ।]
→ लीढ
3) प्लुतस्वरस्य निर्माणम् वाक्यस्य टेः प्लुत उदात्तः (8.2.82) इत्यस्मिन् अधिकारे विद्यमानैः सूत्रैः भवति । एतादृशानां प्लुतस्वराणाम् अच्-वर्णे परे प्लुतप्रगृह्या अचि नित्यम् (6.1.125) इत्यनेन प्रकृतिभावः भवति । एतत् सूत्रम् सपादसप्ताध्याय्यां विद्यते, तथापि एतस्य कृते प्लुत-विधायकानि त्रिपादीसूत्राणि आश्रयात् सिद्धानि एव भवन्ति । अतएव दूराद्धूते च ** (8.2.84) इत्यनेन प्लुतसंज्ञायाम् कृतायाम्, तस्याः सिद्धत्वात् ‘कृष्ण3 एहि’ इत्यत्र **प्लुतप्रगृह्या अचि नित्यम् (6.1.125) इत्यनेन प्रकृतिभावः एव भवति । यदि अत्र प्लुतप्रगृह्या अचि नित्यम् (6.1.125) इत्यनेन प्रकृतिभावः न स्यात्, तर्हि प्लुतस्य असिद्धत्वात् ‘कृष्ण एहि’ इति स्थिते अकार-एकारयोः वृद्धिरेचि (6.1.88) इत्यनेन अनिष्टा वृद्धिः अभविष्यत् । तस्याः निवारणार्थम् प्लुतप्रगृह्या अचि नित्यम् (6.1.125) इत्यस्य कृते प्लुतविधायकानि सूत्राणि सिद्धानि एव स्वीक्रियन्ते । आश्रयसिद्धत्वस्य मुख्यानाम् सूत्रयुगलानाम् सङ्कलनम् अधः दीयते । एतेषाम् विवरणम् तु तत्तत्स्थले एव द्रष्टव्यम् ।
ससजुषो रुः (8.2.66) इत्यनेन कृतम् रुत्वम्, तथा च वाक्यस्य टेः प्लुत उदात्तः (8.2.82) इत्यस्मिन् अधिकारे विद्यमानैः सूत्रैः कृता प्लुतसंज्ञा — एते अतो रोरप्लुतादप्लुते (6.1.113) तथा च हशि च (6.1.114) इत्येतयोः कृते आश्रयात् सिद्धे वर्तेते । प्लुतसंज्ञा तु प्लुतप्रगृह्या अचि नित्यम् (6.1.125) इत्यस्य कृते अपि आश्रयात् सिद्धा भवति ।
ष्टुना ष्टुः (8.4.41) इत्यनेन कृतम् ष्टुत्वम् ढो ढे लोपः (8.3.13) इत्यस्य कृते आश्रयात् सिद्धम् भवति । एवमेव, ढो ढे लोपः (8.3.13) इत्यनेन कृतः ढकारलोपः ढ्रलोपे पूर्वस्य दीर्घोऽणः (6.3.111) तथा च सहिवहोरोदवर्णस्य (6.3.112) एतयोः कृते आश्रयात् सिद्धः ज्ञेयः । अपि च, रो रि (6.1.114) इत्यनेन कृतः रेफलोपः अपि ढ्रलोपे पूर्वस्य दीर्घोऽणः (6.3.111) इत्यस्य कृते आश्रयात् सिद्धः ज्ञेयः ।
मादुपधायाश्च मतोर्वोऽयवादिभ्यः (8.2.9) इति सूत्रम् अन्तोऽवत्याः (6.1.220) इत्यस्य कृते आश्रयात् सिद्धं भवति ।
शास्त्रासिद्धत्वम् उत कार्यासिद्धत्वम् ?
सिद्धान्तकौमुद्याम् प्रकृतसूत्रस्य व्याख्याने दीक्षितः वदति — त्रिपाद्यामपि पूर्वं प्रति परं *शास्त्रम्* असिद्धम् । अस्य वाक्यस्य स्पष्टीकरणार्थम् बालमनोरमाकारः वदति — परम् *शास्त्रम्* इत्यनेन प्रक्रियाकौमुद्यादिग्रन्थोक्तम् *कार्यासिद्धत्वम् अप्रामाणिकम्* इति ध्वनितम् । इत्युक्ते, पूर्वत्रासिद्धम् (8.2.1) इत्यनेन केवलम् ‘परकार्याणि पूर्वकार्याणाम् अपेक्षया असिद्धानि भवन्ति’ — इति सिद्धान्तः न दीयते, अपितु परसूत्राणि एव पूर्वसूत्राणाम् अपेक्षया असिद्धानि प्रतिपाद्यन्ते । यदि केवलम् कार्याणि एव असिद्धानि भवेयुः (सूत्राणि सिद्धानि एव भवेयुः) तर्हि ‘मनोरथ’ इति शब्दस्य प्रक्रियायाम् दोषः उत्पद्येत — इति दीक्षितः प्रौढमनोरमायाम् विवृणोति । तदित्थम् — ‘मनस् + रथ’ इत्यत्र ससजुषो रुँः (8.2.66) इत्यनेन रुत्वे कृते ‘मनर् + रथ’ इति स्थिते अत्र (आश्रयसिद्धत्वात्) हशि च (6.1.114) तथा च (परत्वात्) रो रि (8.3.14) एतयोः द्वयोः अपि सूत्रयोः युगपत् प्राप्तिः भवति । अस्यां स्थितौ ‘कार्यासिद्धत्त्व’पक्षे हशि च (6.1.114) इत्यस्य कृते रो रि (8.3.14) इति सूत्रम् तु सिद्धम् एव भवेत्, केवलम् रो रि (8.3.14) इत्येनन कृतम् कार्यम् एव असिद्धं भवेत् । तथा भवति चेत्, हशि च (6.1.114) तथा च रो रि (8.3.14) एतयोः युगपत् प्राप्तौ सत्याम्, परत्वात् रो रि (8.3.14) इत्यनेन आदौ रेफस्य लोपः प्रसज्येत । अस्मिन् लोपे कृते, यद्यपि तस्य असिद्धत्वात् हशि च (6.1.114) इत्यनेन ‘मनर् + रथ’ इत्येव दृश्यते; तथापि वस्तुतः प्रक्रियायां लोपः जातः एव अस्ति, अतः तत्र अविद्यमानस्य रेफस्य स्थाने उकारप्राप्तिः नैव सम्भवति । यथा, देवदत्तस्य हन्तरि हते देवदत्तः न पुनः जीवति, तथैव, एकवारं रेफस्य लोपे कृते, तत् कार्यम् असिद्धम् मन्यते चेदपि लुप्तः रेफः (कस्मिन्नपि स्वरूपे) न पुनः उपस्थातुम् शक्नोति । Just like how Devadatta cannot come back to life even when the killer of Devadatta gets killed, in the same way once elided र् cannot come back to life just because that karya has been voided by हशि च (6.1.114) । अतः प्रक्रियायाम् अग्रे हशि च (6.1.114) इत्यस्य प्रसक्तिः नैव सम्भवेत् । न हि केवलं तत्, अपितु रेफस्य लोपात् अनन्तरम् ‘मन रथ’ इति स्थिते अग्रे ढ्रलोपे पूर्वस्य दीर्घोणः (6.3.111) इत्यनेन दीर्घादेशः अपि भवेत्, येन ‘मनारथ’ इति अनिष्टं रूपं प्रसज्येत । एतादृशम् मा भूत्, इति हेतुना दीक्षितः अत्र ‘शास्त्रस्य’ असिद्धत्त्वं प्रतिपादयति । अस्मिन् विषये अधिकं पिपठिषवः प्रौढमनोरमायां शब्देन्दुशेखरे च विस्तरं पश्येयुः ।
Sutrartha (English)¶
The rules defined in त्रिपादी are non existent with-respect-to the rules of सपादसप्ताध्यायी. Even within त्रिपादी, the later rules are non existent with-respect-to the former rules.
Vasu English Summary¶
Whatever will be taught hereafter, up to the end of the work, is to be considered as not taken effect, in relation to the application of a preceding rule.
Vasu English Translation¶
Whatever will be taught hereafter, up to the end of the work, is to be considered as not taken effect, in relation to the application of a preceding rule. This is an Adhikara or governing rule, and extends upto the end of the Book. Whatever we shall teach hereafter is to be understood as non-existent, with regard to the preceding rule. With regard to whatever has been taught in the preceding Seven Books and a quarter, the rules contained in these three last chapters are considered as asiddha. And further, in these three chapters, a subsequent rule is, as if it had not taken effect, so far as any preceding rule is concerned. The word in असिद्धम् = असिद्धवद्भवति, सिद्धकार्यं न करोति ॥ The rule is “as if non-effective, does not produce the operation of a siddha or effective rule”. This rule of non-effectiveness is for the sake of prohibiting the operation of an adesa rule, and establishing the operation of an utsarga or general rule. Thus अस्मा उद्धर; द्वा अत्र; द्वा आनय, असा आदित्यः ॥ In all these, the elision of व् and य् by (8.3.19), being considered as not to have taken effect, there is no further sandhi, and आ + उ does not give rise to guna, nor आ + अ = आ ॥ In fact, for the purposes of the application of आद्गुणः rule of (6.1.87), or the दीर्घ rule of (6.1.101), the rule (8.3.19) is considered as not to have taken effect at all.
Similarly अमुष्मै, अमुष्मात्, अमुष्मिन् from अदस् ॥ Thus अदस् + ङे = अद + ङे (7.2.102) अ being substituted for the final स्, which again merges in the preceding अ (6.1.97) = अमु + ङे (8.2.80). उ being substituted for अ, and म् for द् of अद). Now the substitution of स्मै for ङे takes place only after Pronouns ending in अ; but अमु is a pronoun ending in उ, so this स्मै (7.1.14) should not take place. The present sutra helps us out of this difficulty, and the change of अ into उ by (8.2.80) is considered asiddha for the purposes of the application of (7.1.14).
शुष्किका शुष्कजङ्घा च क्षामिमानौजढत्तथा । मतोर्वत्वे भलां जश्त्वं, गुडलिण्मान्निदर्शनम् ॥
The forms शुष्किका, शुष्कजङ्घा, क्षामिमान्, औजढत्, and गुडलिण्मान् illustrate this rule excellently.
शुष्किका ॥ To the root शुष् we add the Nishtha त, as शुष् + त = शुष् + क (त changed to क by (8.2.51)) = शुष्क ॥ Add the feminine affix टाप् and we have शुष्का ॥ Add to this the affix क (5.3.70), (5.3.73), as शुष्का + क = शुष्काक, the feminine of which with टाप् will be शुष्कका (the shortening taking place by (7.4.13)). Now अ is changed to इ by (7.3.44) and we have शुष्किका ॥ Now rule (7.3.46) makes this इ substitution optional, when a क् precedes the अ, as is the case here: and that rule would require the alternative form शुष्कका ॥ But there is no such alternative form, because the क of शुष्क was the substitute of त by (8.2.51), which is considered as asiddha for the purposes of the application of (7.3.46).
शुष्कजङ्घा ॥ Here rule (6.3.37) would have required the form to be शुष्काजङ्घा like मद्रिकाकल्पा; there being no pun-vad-bhava when there is a penultimate क ॥ But the क in शुष्का being the result of (8.2.51) is considered as asiddha for the purposes of (6.3.37).
क्षामिमान् ॥ This word may be considered to have been formed by adding the affix मतुप् to the Patronymic word क्षामिः or to the noun क्षामिन् [क्षामस्यापत्यं = क्षामिः, or क्षामोऽस्यास्तीति = क्षामिन्] ॥ The word क्षाम is formed by adding the Nishtha त to the root क्षै, as क्षै + त + क्षा + त (6.1.45) = क्षाम (the त being changed to म by (8.2.53)). Now this म is considered as non-effectual for the purposes of application of (8.2.9), which requires the change of म of मत् to व, when मत् is added to a word having a penultimate म, as in शमीवान् ॥ Therefore we have क्षामिमान् and not क्षामिवान् ॥
औजढत् ॥ This is the Aorist third person singular of the Derivative root औढि, from the Past-Participle of वह् ॥ Thus वह् + त = ऊढ (6.1.15). Add to it णिच् in the sense of तमाख्यत् (3.1.26): and then form its लुङ् ॥ The लुङ् is formed by adding चङ् (3.1.48), before which the stem is reduplicated (6.1.11). In reduplicating, all the rules that went before in forming ऊढ are considered asiddha; viz. the rule by which ह was changed to ढ (as वह् + त = उह् + त = उढ् + त (8.1.31), the rule by which त was changed to ध (उढ् + त = उढ् + ध (8.1.40), the rule by which ध was changed to ढ (8.4.41), and the rule by which the first ढ was elided (8.3.13) as उढ् + ढ = उ + ढ = ऊढ (6.3.111). The elision of टि before णि being considered sthanivat, we reduplicate ह्त; as ऊह्तढ + चङ् + त् = ऊहढत् (7.4.60) = ऊझढत् (7.4.62) = ऊजढत् (8.4.54). There is no इ added by (7.4.79), because of the prohibition of अनग्लोपे of (7.4.93). With the augment, it becomes औजढत् ॥ The form औजिढत् is from उढि ending in the affix क्तिन् ॥
गुडलिण्मान् ॥ This is formed by adding मतुप् to the word गुडलिह्, which is formed by क्विप् (गुडं लेढि) Here also the म of मतुप् is not changed into व by (8.2.10); because the change of ह् to ढ् (8.1.3), and again of ढ् to ड् are considered asiddha.
The rules of interpretation, however, contained in the previous part will apply to this part also; because such rules cannot be considered ‘prior’ or पूर्व; for they become operative then only when occasion requires to apply them. The maxim which governs such rules is कार्यकालं हि संज्ञा परिभाषम् ॥ The rules, therefore, which are exhibited here in the sixth case such as (8.2.23), or the seventh case, as (8.2.26), or the fifth case, as (8.2.27), should be interpreted in accordance with the sutras षष्ठी स्थाने योगा, तस्मिन्निति निर्दिष्टे पूर्वस्य, तस्मादिति उत्तरस्य ॥
But with regard to the paribhasha विप्रतिषेधे परं कार्यं, the above will not hold good. For, by the very fact, that a subsequent rule in these chapters, is held to be asiddha, with regard to the prior, there cannot arise any conflict of two rules of equal force with regard to them. And it is only where there is such a conflict, that the above rule of interpretation applies. This being so, in विस्फोर्यम्, अवगोर्यम् formed by ण्यत् (3.1.124) the guna ordained by (7.3.86) is not debarred by the दीर्घ rule (8.2.77), because there is no conflict between guna rule (7.3.86) and the dirgha-rule (8.2.77), for the latter is simply non-existent with regard to the former.
But though the विप्रतिषेध rule does not apply in these chapters; yet an apavada rule here even, does over-ride an utsarga rule, for otherwise, the enunciation of an apavada rule would be useless. The apavada rule is therefore, not considered asiddha. Thus the utsarga rule होढः (8.2.31) is set aside by the apavada rule दादेर्धातोर्घः (8.2.32), and thus we have दोग्धा, दोग्धुम् (दुह् + तृच् = दोघ् + तृच्) ॥
Bhashya¶
पूर्वत्राऽसिद्धम् येयं सपादसप्ताध्याय्यनुक्रान्ता एतस्यामयं पादोनोऽध्यायोऽसिद्धो वेदितव्यः॥ यदि सपादायां सप्ताध्याय्यामयं पादोनोऽध्यायोऽसिद्ध इत्युच्यते य(1) इह सप्तमीनिर्देशाः पञ्ञ्चमीनिर्देशाः षष्ठीनिर्देशाश्चोच्यन्ते तेऽप्यसिद्धाः स्युः॥ तत्र को दोषः?॥ झलो झलि ह्रस्वादङ्गात् संयोगान्तस्य लोपःइत्येतेषां निर्देशानामसिद्धत्वात्तस्मिन्निति निर्दिष्टे पूर्वस्य तस्मादित्युत्तरस्य षष्ठी स्थानेयोगा इत्येताः परिभाषा न प्रकल्पेरन्॥ नैषः दोषः, यद्यपीदं तत्राऽसिद्धं तत्त्विह सिद्धम्॥ कथम्?॥ कार्यकालं संज्ञापरिभाषम्॥ यत्र कार्यं तत्रोपस्थितं द्रष्टव्यम्। झलो झलि ह्रस्वादङ्गात् संयोगान्तस्य लोपः। उपस्थितमिदं भवति,-तस्मिन्निति निर्दिष्टे पूर्वस्य तस्मादित्युत्तरस्य षष्ठी स्थानेयोगेति॥ यदि कार्यकालं संज्ञापरिभाषमित्युच्यते इयमपि परिभाषाऽस्ति विप्रतिषेधे परमिति। साऽपीहोपतिष्ठेत॥ तत्र को दोषः?॥ विस्फोर्यमवगोर्यमिति। गुणादीर्घत्वं स्याद्विप्रतिषेधेन॥ अत उत्तरं पठति-॥ पूर्वत्राऽसिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्य॥ पूर्वत्रासिद्धे नास्ति विप्रतिषेधः॥ किं कारणम्?॥ अभावादुत्तरस्य। द्वयोर्हि सावकाशयोः समवस्थितयोर्विप्रतिषेधो भवति न च पूर्वत्राऽसिद्धे परं पूर्वं प्रति भवति॥ यद्येवं दोग्धा दोग्धुं,-घत्वस्याऽसिद्धत्वाड्ढत्वं प्राप्नोति॥ काष्ठतट् कूटतट्। संयोगादिलोपस्याऽसिद्धत्वात्संयोगान्तलोपः प्राप्नोति। ॥ अपवादो वचनप्रामाण्यात्॥ झ्र्अपवादो वचनप्रामाण्यात्(1)ट। अनवकाशावेतौ(2) वचनप्रामाण्याद्भविष्यतः। तस्मात्कार्यकालं संज्ञापरिभाषमिति न दोषः॥ पूर्वत्रासिद्धमधिकारः॥ पूर्वत्राऽसिद्धमित्यधिकारोऽयं द्रष्टव्यः॥ किं प्रयोजनम्? ॥ परस्य(3) परस्य पूर्वत्र पूर्वत्राऽसिद्धविज्ञानार्थम्(4)॥ झ्र्परस्य परस्य पूर्वत्र पूर्वत्राऽसिद्धविज्ञानार्थम्ट। परः परो योगः पूर्वं पूर्वं योगं प्रत्यसिद्धो यथा स्यात्। ॥ अनधिकारे हि समुदायस्य समुदायेऽसिद्ध(त्व5)विज्ञानम्॥ अनधिकारे हि सति समुदायस्य समुदायेऽसिद्धत्वं विज्ञायेत॥ तत्र को दोषः?॥ तत्राऽयथेष्टप्रसङ्गः॥ तत्राऽयथेष्टं प्रसज्येत। गोधुङ्मान् गुडलिण्मानिति,-घत्वढत्वयोः कृतयोर्झय इति वत्वं प्रसज्येत॥ ॥ तस्मादधिकारः॥ तस्मादधिकारोऽयं द्रष्टव्यः। अथाऽसिद्धवचनं(1) किमर्थम्॥ असिद्धवचनमुक्तम्॥ झ्र्असिद्धवचने(2) उक्तम्ट॥ किमुक्तम्(3)॥ तत्र(4) तावदुक्तं-षत्वतुकोरसिद्धवचनमादेशलक्षणप्रतिषेधार्थमुत्सर्गलक्षणभावार्थं चेति। एवमिहाऽपि पूर्वत्राऽसिद्धवचनमादेशलक्षणप्रतिषेधार्थमुत्सर्गलक्षणावार्थं(5) च। आदेशलक्षणप्रतिषेधार्थं तावत् -राजभिः तक्षभिः राजभ्यां तक्षभ्याम् राजसु तक्षसु इति। नलोपे कृतेऽत इत्यैस्भावादयः प्राप्नुवन्ति। असिद्धत्वान्न भवन्ति। उत्सर्गलक्षणभावार्थं च-अमुष्मै अमुष्मात् अमुष्य अमुष्मिन् इति। अत्र मुभावेऽत इति स्मायादयो न प्राप्नुवन्ति, असिद्धत्वाद्भवन्ति। सुपर्वाणौ। सुपर्वाणः। णत्वे कृते नोपधाया इति दीर्घत्वं न प्राप्नोति। असिद्धत्वाद्भवति।
Kashika¶
पूर्वत्रासिद्धमित्यधिकारोऽयम् आध्यायपरिसमाप्तेः। यदित ऊर्ध्वमनुक्रमिष्यामः पूर्वत्रासिद्धमित्येवं तद् वेदितव्यम्। तत्र येयं सपादसप्ताध्याय्यनुक्रान्ता, एतस्यामयं पादोनोऽध्यायोऽसिद्धो भवति। इत उत्तरं चोत्तर उत्तरो योगः पूर्वत्रपूर्वत्रासिद्धो भवति, असिद्धवद् भवति। सिद्धकार्यं न करोतीत्यर्थः। तदेतदसिद्धत्ववचनमादेशलक्षणप्रतिषेधार्थम्, उत्सर्गलक्षणभावार्थं च। अस्मा उद्धर, द्वा अत्र, द्वा आनय, असा आदित्य इत्यत्र व्यलोपस्यासिद्धत्वाद् आद् गुणः (६.१.८७) इति,**अकः सवर्णे दीर्घः** (६.१.१०१) इति च न भवति। अमुष्मै, अमुष्मात्, अमुष्मिन् इत्युत्वस्यासिद्धत्वाद् स्मायादयो भवन्ति।
शुष्किका शुष्कजङ्घा च क्षामिमानौजढत्तथा ।
मतोर्वत्वे झलां जश्त्वं गुडलिण्मान्निदर्शनम्॥
शुष्किकेत्यत्र शुषः कः (८.२.५१) इत्यस्यासिद्धत्वाद् उदीचामातः स्थाने यकपूर्वायाः (७.३.४६) इत्येतद् न भवति। शुष्कजङ्घा इति न कोपधायाः (६.३.३७) इति पुंवद्भावप्रतिषेधो न भवति। क्षामिमानिति क्षामस्यापत्यं क्षामिः, क्षामो वा अस्यास्तीति क्षामी। क्षामिः क्षामी वा यस्यास्तीति क्षामिमान्। क्षायो मः (८.२.५३) इत्यस्यासद्धित्वाद् मादुपधायाश्च० (८.२.९) इति वत्वं न भवति। औजढदिति वहेर्निष्ठायामूढः, तमाख्यदिति णिच्, तदन्ताद् लुङ्, चङि (६.१.११) इति द्विर्वचने कर्तव्ये ढत्वधत्वष्टुत्वढलोपानामसिद्धत्वाद् णौ च यष्टिलोपस्तस्य स्थानिवद्भावाद् ह्त इत्येतद् द्विरुच्यते। अनग्लोपे (७.४.९३) इति प्रतिषेधात् सन्वदित्वं नास्ति। तेनौजढदिति भवति। औजिढदित्येतत् तु क्तिन्नन्तस्य ऊढिशब्दस्य भवति। गुडलिण्मानिति गुडलिहोऽस्य सन्तीति मतुप्, तत्र ढत्वजश्त्वयोरसिद्धत्वाद् झयः (८.२.१०) इति वत्वं न भवति। येऽत्र षष्ठीनिर्देशाः, सप्तमीनिर्देशाः, पञ्चमीनिर्देशाश्च, तेषां षष्ठी स्थानेयोगा (१.१.४९), तस्मिन्निति निर्दिष्टे पूर्वस्य (१.१.६६), तस्मादित्युत्तरस्य (१.१.६७) इति च कर्तव्ये नासिद्धत्वं भवति। कार्यकालं हि संज्ञापरिभाषम् (परि० ३) इति पूर्वत्वमासां परिभाषाणां नास्तीति। विप्रतिषेधे परम्० (१.४.२) इत्येषा तु परिभाषा येन पूर्वेण लक्षणेन सह स्पर्धते परं लक्षणम्, तत् प्रति तस्यासिद्धत्वाद् न प्रवर्तते। तथा च विस्फोर्यम्, अवगोर्यम् इति गुणः परेण हलि च (८.२.७७) इति दीर्घत्वेन न बाध्यते। अपवादस्य तु परस्यापि उत्सर्गे कर्तव्ये वचनप्रामाण्यादसिद्धत्वं न भवति। तेन दोग्धा, दोग्धुमित्यत्र घत्वस्यासिद्धत्वाद् हो ढः (८.२.३१) इति न भवति॥
Siddhanta Kaumudi¶
अधिकारोऽयम् । तेन सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धं स्यात् । बाह्यप्रयत्नस्त्वेकादशधा - विवारः संवारः श्वासो नादो घोषोऽघोषोऽल्पप्राणो महाप्राण उदात्तोऽनुदात्तः स्वरितश्चेति ॥ खयां यमाः खयः ≍क≍पौ विसर्गः शर एव च । एते श्वासानुप्रदाना अघोषाश्च विवृण्वते ॥ कण्ठमन्ये तु घोषाः स्युः संवृता नादभागिनः । अयुग्मा वर्गयमगा यणश्चाल्पासवः स्मृताः ॥ वर्गेष्वाद्यानां चतुर्णां पञ्चमे परे मध्ये यमो नाम पूर्वसदृशो वर्णः प्रातिशाख्ये प्रसिद्धः । पलिक्क्नीः । चख्ख्नतुः । अग्ग्निः । घ्घ्नन्तीत्यत्र क्रमेण कखगघेभ्यः परे तत्सदृशा एव यमाः । तत्र वर्गाणां प्रथमद्वितीयाः - खयस्तथा तेषामेव यमाः जिह्वामूलीयोपध्मानीयौ विसर्गः शषसाश्चेत्येतेषां विवारः श्वासोऽघोषश्च । अन्येषां तु संवारो नादो घोषश्च । वर्गाणां प्रथमतृतीयपञ्चमाः प्रथमतृतीययमौ यरलवाश्चाल्पप्राणाः । अन्ये महाप्राणा इत्यर्थः । बाह्यप्रयत्नाश्च यद्यपि सवर्णसंज्ञायामनुपयुक्तास्तथाप्यान्तरतम्यपरीक्षायामुपयोक्ष्यन्त इति बोध्यम् । कादयो मावसानाः स्पर्शाः । यरलवा अन्तस्थाः । शषसहा ऊष्माणः । अचः स्वराः । ≍क≍पावितीति कपाभ्यां प्रागर्धविसर्गसदृशौ जिह्वामूलीयोपध्मानीयौ । अं अः इत्यचः परावनुस्वारविसर्गौ । इति स्थानप्रयत्नविवेकः ॥ <!ऋऌवर्णयोर्मिथः सावर्ण्यं वाच्यम् !> (वार्तिकम्) ॥ अकारहकारयोरिकारशकारयोर्ऋकारषकारयोर्ऌकारसकारयोश्च मिथः सावर्ण्ये प्राप्ते ॥
Laghu Siddhanta Kaumudi¶
सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा, त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धम्। हर इह, हरयिह। विष्ण इह, विष्णविह॥
Laghu Shabdendushekhar¶
अधिकारत्वे फलमाह - त्रिपाद्यामपीति । अन्यथा गोधुङ्मान् इत्यत्र घत्वजश्त्वानुनासिकेषु भष्भावानापत्तिरिति भावः । वस्तुतो घत्वे कृते झय: (8.2.10) इति वत्वापत्तिर्दोषः । न च ततः परत्वाज्जश्त्वानुनासिकत्वयोस्तदप्राप्तिरिति वाच्यं, विप्रतिषेधे परम् (1.4.2) इत्यस्य यथोद्देशत्वेन त्रिपाद्यामप्रवृत्तेः पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्य इत्यनेन तस्या यथोद्देशत्वस्यैव बोधनात् । अन्यथा परस्यासिद्धत्वेऽपि विप्रतिषेधसूत्रस्य सिद्धत्वात् परिभाषान्तराणामिवास्या अपि कार्यकालपक्षे तेनाकर्षणापत्तेः अत एव भाष्ये वत्वमेवापादितम् । अधिकारत्वादेव <!श्चुत्वं धुटि सिद्धं वाच्यम्!> इत्यादि चरितार्थम् । एवञ्च यत्रानुवृत्तिस्तस्यासिद्धत्वम् । पूर्वत्वञ्च क्वचित्सपादसप्ताध्याय्याः, क्वचित्सूत्रान्तरसहितायाः । तत्रायमर्थः— हो ढः (8.2.31) इत्यादावस्योपस्थितौ वाक्यभेदेनान्वयः — हस्य ढो भवति, इदञ्च शास्त्रं पूर्वत्रासिद्धम् इति । अत एव न मु ने (8.2.3) इत्यादिभिस्तन्निषेध उपपद्यते। पूर्वत्र (8.2.1) इति सङ्ग्राहकमेव शृङ्गग्राहिकयैव तु तत्तच्छास्त्रं प्रति तस्यासिद्धत्वं प्रतिपाद्यते। तेनापवादस्य यं प्रत्यपवादत्वं तत्रासिद्धत्वाभावेऽप्यन्यत्रासिद्धत्वं भवत्येव । असिद्धमिति । सिद्धं = निष्पन्नं प्रवृत्तम् । सिद्धश्च प्रत्ययविधौ इत्यादौ तथा दर्शनात् । तद्भिन्नम् - असिद्धमनिष्पन्नमप्रवृत्तम् । यद्यपि लोकेऽनाहार्य ज्ञानस्यैव प्रवर्तकत्वं निवर्तकत्वञ्च दृष्टं, तथापीह शास्त्रप्रामाण्यादाहार्यारोपोऽपि शास्त्रप्रवृत्तावप्रवृत्तौ च नियामक इति बोद्ध्यम् । अत्र कार्यासिद्धत्वेऽमू इत्याद्यसिद्धिः । अद अ औ इति स्थिते परत्वान्मुत्वे तस्य सपादसप्ताध्यायीस्थकार्यदृष्ट्याऽसिद्धत्वेऽपि देवदत्तहन्तृहतन्यायेनाकाराभावेन पररूपाद्यनापत्तिः अतिदेशस्याऽऽरोपरूपत्वान्निरधिष्ठानारोपासम्भवेन कार्यप्रवृत्तेरत्र पक्षे आवश्यकत्वात् । शास्त्रासिद्धत्वे तु यत्राप्यन्तरङ्गत्वात् त्रैपादिकं प्रवृत्तं तत्रापि तत्तच्छास्त्रे एवाभावारोपेण तन्निवृत्तिबुद्धेरभावः, आदेशबुद्ध्यभावो लक्ष्ये जातत्वबुद्ध्यभावश्च। जायमानं कार्यन्त्वादेशे एव स्थानिबुद्ध्या प्रवर्तते । न हि रजतभ्रमप्रयुक्ता प्रवृत्तिः शुक्ति न गोचरयतीति न दोषः। यत्र तु सहप्रसङ्गस्तत्राप्रवृत्तिरेव, अभावारोपात् । न च पूर्वत्र न इत्येव सूत्रमस्त्विति वाच्यम्, पूर्वशास्त्रप्राप्तौ निषेध इत्यर्थे नलोपः सुप् (8.2.2) इति सूत्रासङ्गतिः, तद्धि नियमार्थम्, त्वद्रीत्या राजन्- अश्व इत्यस्यां दशायाङ्कस्यापि पूर्वशास्त्रस्याप्राप्त्यैतन्निषेधाप्रवृत्तौ नलोपे जाते भुक्तवन्तमिति न्यायेनैतदप्रवृत्तौ राजाश्वे दीर्घसिद्ध्या नियमानुपयोगात् । राजभ्याम् इत्यादावपि दीर्घापत्तेश्च । पूर्वशास्त्रविषयसम्भावनायाम् इत्यर्थे राजभ्यामित्यादौ नलोपे सुब्विधि-दीर्घविषयसम्भावनया सर्वथा नलोपानापत्तेरिति दिक् । बाह्यप्रयत्न इति । काकलकाधस्ताद्गलविवरविकास-सङ्कोच - श्वासोत्पत्ति ध्वनिविशेष रूपनाद-तद्विशेषरूपघोषाल्पघोष-प्राणाल्पत्वमहत्त्वरूपकार्यकरत्वमेषाम् । तथाहि - आत्मा बुद्ध्या समेत्यार्थान्मनो युङ्क्ते विवक्षया । मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥ (पा.शि. 6), सोदीर्णो मूर्ध्यभिहतो वक्त्रमापद्य मारुतः । वर्णान् जनयते … (पा.शि. 9) इति शिक्षायामुक्तम् । आत्मा = अन्तःकरणं, संस्काररूपेण स्वगतानर्थान् बुद्ध्या= स्ववृत्त्या, समेत्य = एकबुद्धिविषयान्कृत्वा तद्बोधनेच्छया मनो युक्तं करोति, तदिच्छावन्मनः कायाग्निञ्जाठरमग्निमभिहन्ति, सः = कायाग्निः, सोदीर्णः = स मारुतः उदीर्णः ऊर्ध्व प्रेरित इत्यादिस्तदर्थः । एवञ्च शब्दप्रयोगेच्छयोत्पन्नयनाभिहताग्निना नाभिप्रदेशात्प्रेरितो वायुर्वेगान्मूर्धपर्यन्तङ्गत्वा प्रतिनिवृत्तो वक्त्रं प्राप्य उक्तयत्नसहायेन तत्तस्थानेषु जिह्वाग्रादिस्पर्शपूर्वकं तत्तत्स्थानान्याहत्य वर्णानभिव्यनक्ति। ततो यत्नविशेषेण गलविवरविकासादीन्करोति । तत्र ये तत्तत्स्थानाभिघातका यत्नास्ते आस्यान्तर्गततत्तत्कार्यकारित्वादाभ्यन्तरा इत्युच्यन्ते। गलविवरविकासादिकराश्चास्यबहिर्भूतदेशे कार्यकरत्वाद्बाह्या इति । मात्राकालिकत्वादिरूपह्रस्वत्वादिकन्तु वाव्वल्पत्वमहत्त्वकृतमिति - नाभि प्रदेशात्प्रेरकयल एव कश्चिद्विलक्षणोऽल्पं वायुं प्रेरयति कश्चिदधिकमिति तस्य वायुप्रेरणारूपङ्कार्यमास्यबाह्यदेशमिति तदपि बाह्यमेव । अत एव अइउण् सूत्रे सवर्णसूत्रेऽग्रहणम् इत्युक्तम् भाष्ये । ह्रस्वत्वादिजनकयलस्यास्यविशेषणेन यद्यपि- एक एव यत्नः सर्वकार्यजनको वर्णनाशकश्च इति परः सन्निकर्ष (1.4.109) इति सूत्रे भाष्ये उक्तं, तथापि तत्तत्कार्येणोपाधिना एकस्मिन्नपि भेदमारोप्य तथा व्यवहार इति बोद्ध्यम् । उदात्तादिजनकयत्नस्याभ्यन्तरकार्यकरत्वेऽपि - उदात्तादिशब्दैर्विना बोधितानां तेषाम्- अनङुदात्त इत्यनेनाविवक्षाबोधनात्सवर्णसञ्ज्ञानुपयुक्तत्वान्तरतम्यपरीक्षोपयुक्तत्वरूपसादृश्ये न बाह्येषु गणनम् । इदं ह्रस्वत्वादेरानुनासिक्यस्य चोपलक्षणम् । शर इति । शषसाः । अनुप्रदानं बाह्यप्रयत्नः । विवृण्वते इति । तदभिव्यक्त्युत्तर जायमाने कण्ठविवरविकासे तेषां कर्तृत्वविवक्षा बोध्या । विवार एषां प्रयत्न इति भावः । अन्ये त्विति। वर्गतृतीयचतुर्थपञ्चमाः, तद्यमाः, हकारानुस्वारौ, यरलवा इत्यर्थः । नादभागिन: तत्प्रयत्नकाः । यद्यपि खयादिषु घोषाघोषान्यतरप्रयत्नमात्रेणापि प्रक्रियांशनिर्वाहस्तथापि शिक्षानुरोधेनान्येषामुक्तिः । अल्पासवः- अल्पप्राणाः, यत एतदुच्चारणोत्तरं प्राणानामल्पत्वमिव भवति । वर्गेष्विति । विद्यमानानामिति शेषः । चतुर्णामिति । निर्धारणे षष्ठी, अन्यतमादिति शेषः । पूर्वसदृश इति । सादृश्यं यत्नकृतम् । अत एवायोगवाहेषु यमानां गणनं भाष्ये, चत्वारश्च यमाः स्मृताः इति पाणिनिशिक्षा च सङ्गच्छते । अयञ्च वेदे एव; तदाह - प्रातिशाख्ये इति । अन्येषामिति । अचाम्, उक्तान्यहलाञ्चेत्यर्थः । यरलवाश्चेति । चेनाचामपि ग्रहणम् । सुपां सुलुग् (7.1.39) इति सूत्रे इकारस्यान्तर्यतो दकार इति भाष्यात्- घोषसंवारनादाल्पप्राणत्वमचाम् । अन्यथा तदौ पर्यायेण स्याताम्, अल्पप्राणत्वानङ्गीकारे दधौ पर्यायेण स्याताम् । अचां घोषत्वं परः सन्निकर्ष (1.4.109) इति सूत्रे भाष्येऽपि स्पष्टम् । अन्ये इति । द्वितीयचतुर्थ्यौ, तद्यमौ, शषसहाः, अयोगवाहाश्चेत्यर्थः । जिह्वामूलीययमादीनां स्थानबाह्यप्रयत्नकथनन्तु स्वरूपनिर्णयाय, न तु सावर्ण्यान्तरतम्यपरीक्षादावुपयोगीति बोद्ध्यम् । अनुपयुक्ता इति । तुल्यास्यसूत्रे प्रशब्दग्रहणात् । उपयुक्तत्वे हि श-छयोरपि सावर्ण्यं स्यादिति भावः । आन्तरतम्यपरीक्षा च- ‘घोषवत’ इत्यादिना तत्र तत्र स्फुटीभविष्यति। स्पर्शा:- तत्पदव्यवहार्याः । तिष्ठन्तीति तदर्थः । अन्तस्थाशब्द आदन्तः। स्पर्शोष्मणोरन्तर्मध्ये तिष्ठन्तीति तदर्थः । ** ऊष्माण इति** । ऊष्मा वायुस्तत्प्रधाना इत्यर्थः । एवं सोष्माण इत्यस्य वायुना सह वर्तन्त इत्यर्थ इति प्रातिशाख्यभाष्ये स्पष्टम् । यद्यपि वर्गद्वितीयचतुर्थयोरपि स्थानेऽन्तरतम: (1.1.50) सूत्रभाष्यादूष्मत्वं, तथापि विवृतमूष्मणामित्यत्रैत एव गृह्यन्ते । अन्यथा कण्ठ्यादीनां सावर्ण्यानापत्तौ नाज्झलौ (1.1.10) इत्यादिनिर्देशासङ्गतिरिति भावः । अचः स्वरा इति । उदानादिभिः स्वयमेव राजन्त इति व्युत्पत्तेः । तद्धर्मत्वादुदात्तादयोऽपि स्वरा इत्युच्यन्ते । कपाभ्यामिति- खफयोरप्युपलक्षणम् । अं अः इत्युपलक्षणमिकारादेरपि। तदाह — अचः पराविति **। **ऋऌवर्णयोरिति । आ च ऌवर्णश्चेति विग्रहः, ऋत्यक (6.1.128) इति प्रकृतिभावः । एतदर्थमेव वर्णोपदेशे ऌकारपाठः, अन्यथा तस्यासत्त्वशङ्कयाऽस्य वचनस्यैवाशक्यत्वं स्यात् । ध्वनितञ्चेदम् एओङ् इति सूत्रशेषे भाष्ये । तत्र हि सँय्यन्ता इत्यादौ हलोऽनन्तरा (1.1.7) इति सूत्रे- प्रत्याहारघटकेष्वपि ग्रहणकशास्त्रप्रवृत्त्या मात्राकालिकस्य यद्वयादेरणुदित्सूत्रेण यादिग्रहणेन ग्रहणाद्विव्यञ्जनाश्रयो विधिर्न प्राप्नोति इत्याशङ्क्य मात्रिकव्यञ्जनानुपदेशादनुपदिष्टस्यासत्त्वादसत्प्रतिपत्तेरशक्यत्वान्नाणुदित्सूत्रेण तद्ग्रहणमित्युक्तम् । न च कॢ3प्तशिखेत्यादावनृत इति निषेधात् प्लुतानापत्तिः, ऋलृवर्णयोः पृथगनुबन्धत्वकरणेन क्वचित्परस्पराग्राहकत्वकल्पनेनादोषात् । अकारहकारयोरिति । एकारस्य तालव्यत्वमोकारस्यौष्ठ्यत्वमिति मते एकारशकारादीनामप्युपलक्षणमिदम् । एतेन नाज्झलौ (1.1.10) इत्येव सूत्रयितुमुचितमित्यपास्तम् । हशि च (6.1.114) इत्येव सिद्धे अतोरोर (6.1.113) इत्याकारे व्यावृत्त्यर्थम् ।
Balamanorama¶
पूर्वत्रासिद्धम् - तथाविधं सूत्रमाह-पूर्वत्रासिद्धम् । पाणिनिप्रणीता अष्टाध्यायी । तत्र अष्टमाध्याये द्वितीयपादस्येदमादिमं सूत्रम् । इतः प्राक्तनं कृत्स्नं सूत्रजालंसपादसप्ताध्यायी॑ति व्यवह्यियते । उपरितनं तु कृत्स्नं सूत्रजालं त्रिपादीति व्यवह्यियत इति स्थितिः । तत्र यदीदं सूत्रं स्वतन्त्रविधिः स्यात्, तदा इतः पूर्वस्मिन् शास्त्रे प्रवर्तमाने उपरितनं शास्त्रमसिद्धं स्यादित्यर्थो लभ्येत । ततश्च सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धेति पर्यवस्येत् । एवं सति त्रिपाद्यामपि पूर्वं शास्त्रं प्रति परं शास्त्रमसिद्धमित्यर्थो न लभ्येत । तथा सति किमु उक्तं किम्वुक्तमित्यत्र ‘मोऽनुस्वारः’ इति शास्त्रं त्रैपादिकं प्रति ‘मय उञो वो वा’ इति वत्वशास्त्रं त्रैपादिकं नासिद्धं स्यादित्यत आह-अधि-कारोऽयमिति । अधिक्रियते उपरितनसूत्रजालशेषत्वेन पठत इत्यधिकारः । कर्मणि घञ् । ‘घञजबन्ताः पुंसि’ इति पुंस्त्वम्॥ अयमिति तदपेक्षया पुंलिङ्गनिर्देशः । इदं सूत्रमुपरितनसूत्रेष्वनुवृत्त्यर्थमेव, न तु स्वतन्त्रविधिरिति यावत् । ‘मय उञो वो वा’ इति सूत्रे पूर्वत्रासिद्धमित्यनुवर्तते । ततश्चमयः परस्य वकारो वो वा स्यात् । इदं श#आस्त्रं पूर्वत्रासिद्ध॑मिति तदेकवाक्यं संपद्यते । तत्र च अनुवृत्तपूर्वशब्देनैतः प्राक्तनं त्रिपादीस्थं सपादसप्ताध्यायीस्थं च कृत्स्नं सूत्रजालं विवक्षितमिति ‘मोऽनुस्वारः’ इति त्रैपादिकं शास्त्रं प्रति ‘मय उञो वो वा’ इति शास्त्रस्याऽसिद्धत्वं निर्बाधमित्याह-तेनेति । अदिकारत्वेनेत्यर्थः । परं शास्त्रमसिद्धमिति । असिद्धत्वं चाऽत्र नात्यन्ताऽसत्त्वम् । किंतु पूर्वशास्त्रदृष्ठएत्यनुपदेमेवोक्तम् ।परं शास्त्र॑मित्यनेन प्रक्रियाकौमुद्यादिग्रन्थोक्तं कार्यासिद्धत्वमप्रामाणिकमिति ध्वनितम् । कार्याऽसिद्धत्वं पूर्वपक्षयित्वा शास्त्रासिद्धत्वस्यैवात्र सूत्रे, ‘असिद्धवदत्राभात्’ दिति सूत्रे च भाष्ये सिद्धान्तितत्वात् । शास्त्रसिद्धत्वकार्याऽसिद्धत्वयोः फलभेदस्तु शब्देन्दुशेखरे व्यक्तः । अस्माभिश्च स्वादिसन्धौ ‘मनोरथ’ इत्यत्र मूलव्याख्यावसरे , हलन्तशब्दाधिकारे च अदःशब्दप्रक्रियाव्याख्यावसरे प्रपञ्चयिष्यते । तदेवम् ‘अ अ’ इति संवृतविधेः स्वप्राक्तनीं कृत्स्नामष्टाध्यायीं प्रत्यसिद्धत्वात् प्रक्रियादसायामवर्णस्य ह्रस्वस्य विवृतत्वमेव । परिनिष्ठितदशायामेव संवृतत्वमिति स्थितम् । यद्यपि परिनिष्ठ#इतदशायां संवृतविधिः क्वचिदप्यस्मिन् शास्त्रे नोपयुज्यते, तथापि परिनिष्ठिते संवृतविंधिबलात्संवृतत्वेन ज्ञाने सत्येव प्रयोगार्हतेति कल्प्यम्, विवृतसंवृतयोरुच्चारणभेदो वा कल्प्य इत्यलं बहुना । अथ बाह्रप्रयत्नान् प्रपञ्चयति — बाह्रप्रयत्नस्त्विति । प्रशब्दोऽत्र चिन्त्यः, प्रशब्दबलेन आभ्यन्तरयत्नस्यैव प्रयत्नशब्दवाच्यताया तुल्यास्यसूत्रे उक्तत्वात्, यत्नो द्विधेत्युपक्रमाच्च । अविवक्षितार्थो वाऽत्र प्रशब्दः । उदात्तानुदात्तस्वरितशब्दा धर्मपराः । कस्य को बाह्रयत्न इत्याकाङ्क्षायां तद्व्यवस्थां श्लोकद्वयेन संगृह्णाति — खयामिति । ‘यम’ शब्दो व्याख्यास्यते । आआसोऽनुप्रदानो येषां ते आआसानुप्रदानाः=आआसाख्यबाह्रयत्नवन्तः । विवृण्वते कण्ठमिति । विवार एषां यत्न इति भावः । संवृताः=संवाराख्ययत्नवन्तः । नादभागिनः=नादाख्ययत्नभाजः । अयुग्मा वर्गयमगा इति । कादिपञ्चकं टादिपञ्चकं तादिपञ्चकं पादिपञ्चकमिति पञ्च वर्गाः । वर्गगता यमगताश्च अयुग्माः=प्रथमतृतीयपञ्चमवर्णा इत्यर्थः । अल्पासवः=अल्पप्राणाः ।अथ श्लोकद्वयं व्याख्यास्यन् यमशब्दं तावत्सामान्यतो व्याचष्टे — वर्गेष्वित्यादिना ।आद्यानां चतुर्णा॑मिति निर्धारणे षष्ठी ।एकैकस्मा॑दित्यव्याहार्यम् । तेन ‘अन्यारादितरर्ते’ इति परशब्दयोगे पञ्चमीप्रसङ्गादाद्यानां चतुर्णामिति षष्ठनुपपन्नेति निरस्तम् । यमो नामेति । नामशब्द इतिपर्यायः । तदयमर्थः — कादिचादिटादितादिपादिपञ्चकात्मकेषु वर्णेषु एकैकस्य वर्गस्य आद्यानां चतुर्णां मध्ये एकैकस्मात्पञ्चमे वर्णे परे मध्ये पूर्ववर्णसदृशो वर्णो यम इति प्रातिशाख्ये प्रसिद्ध इति । अथ यमानुदाहृत्य दर्शयति — पलिक्क्नीत्यादिना तत्सदृशा एव यमा इत्यन्तेन । एवं वर्गान्तरयमानामप्युदाहरणं याच्च्ञेत्यादि द्रष्टव्यम् । तदेवं यमशब्दं सामान्यतो व्याख्याय श्लोकद्वयं व्याचष्टे — तत्रेत्यादिना । तत्र ‘खय’ इत्यस्य व्याख्या — वर्गाणां प्रथमद्वितीयाः खय इति । ‘खयां यमा’ इत्यस्य विवरणं — तथा तेषामेव यमा इति । ‘क पौ’ इत्यस्य विवरणं — जिह्वामूलीयोपध्यमानीयाविति । विसर्गशब्दः प्रसिद्धत्वात् स णवोपात्तः । ‘शर’ इत्यस्य विवरणं — शषसा इति ।एते आआसानुप्रदाना अघोषाश्च विवृण्वते कण्ठ॑मित्येतद्व्याचष्टे-एतेषां विवारः आआसोऽघोषश्चेति ।अन्ये तु घोषाः स्युः संवृता नादभागिन॑ इत्येतद्व्याचष्टे-अन्येषां तु संवारो नादो घोषश्चेति । ‘अयुग्मा वर्गयमगा’ इत्येतद्व्याचष्टे — वर्गाणां प्रथमतृतीयपञ्चमाः प्रथमतृतीययमाविति । पञ्चमानां यमाऽभावादिति बावः ।यणश्चाल्पासवः स्मृता॑ इत्येतद्व्याचष्टे — यरलवाश्चाल्पप्राणा #इति । ननु श्लोकद्वये महाप्राण एतेषामिति नोक्तम् । अतो न्यूनतेत्याशङ्क्य तदपि परिशेषादुक्तप्रायमित्याह — अन्ये महाप्राणा इति । वर्गाणां द्वितीयचतुर्थाः शलश्च महाप्राणाः ॑ इति । नन्विह बाह्रयत्नप्रपञ्चनं व्यर्थं, तुल्यास्यसूत्रे प्रयत्नशब्दस्य आभ्यन्तरयत्नमात्रपरत्वादित्याशङ्कते — बाह्रप्रयत्नाश्चेति ।यद्यपी॑ति समुदायः शङ्काद्योतकः । परिहरति-तथापीति । सवर्णसंज्ञाप्रस्तावे बाह्रयत्नानामुपयोगाभावेऽपि ‘स्थानेऽन्तरतमः’ इति वक्ष्यमाणान्तरतम्य्विचारे तेषामुपयोगसत्त्वान्न वैयर्थ्यम् । इह तत्प्रपञ्चनं तुल्यास्यसूत्रे आभ्यन्तरत्वविशेषणव्यावर्त्त्यत्वेनोपस्थितत्वात्प्रासङ्गिकमिति भावः । उदात्तादित्रयस्य तु अज्धर्मत्वस्य प्रसिद्धत्वादिह न तद्व्यवस्थोक्ता । अथ स्पृष्टं प्रयतनं स्पर्शानामित्यादिसंदर्भे उपन्यस्तान् स्पर्शादिशब्दान् व्याचष्टे-कादञ इत्यादिना । क आदिर्येषां तेकादयः॑ । मः अवसाने येषां तेमावसानः॑ । इदं च लोकप्रसिद्धपाठपेक्षम् । इति स्थानयत्नविवेक इति । स्थानयत्निविवेचनं समाप्तमित्यर्थः । स्थानप्रयत्नेति प्रशब्दपाठस्तु चिन्त्यः, अविवक्षितार्थो वाप्र॑शब्द । ऋऌवर्णयोर्मूर्धदन्तात्मकभिन्नस्थानकत्वात्सवर्णसंज्ञायामप्राप्तायाम्ऋकारऌकारयोः सवर्णविधिः॑ इति तद्विधायकं वार्तिकमर्थतः संगृह्र पठति-ऋऌवर्णयोर्मिथः । आ च आ च रलौ । ऋशब्दस्य च ‘आ’ इति प्रथमैकवचनम् । ऋ लृ औ इति स्थिते ऌकारस्यऋतो ङि सर्वनामस्थानयोः॑ इति गुणः, अकारः,उरण्परः॑इति लपरत्वम्, ञकारस्य यणादेशो रेफः । रलौ च तौ वर्णौ च ऋऌवर्णौ । तयोर्मिथः परस्परं सावण्र्यं=सवर्णत्वं वक्तव्यं, तुल्यास्यसूत्रेण तदलाभादिति सूत्रकारः शिक्ष्यते (वार्तिककृता) । उक्तामुक्तदुरुक्तचिन्तनात्मकं हि वार्तिकम् । अकारहकारयोरिति । उभयोः कण्ठस्थानविवृतप्रयत्नसाम्यात्सावण्र्यं प्राप्तम् । अकारस्य कवर्गेण तु न सावण्र्यप्रसक्तिः, कण्ठस्थानसाम्ये सत्यपि विवृतस्पृष्टप्रयत्नभेदात् । विसर्जनीयस्य तु अकारोपरि शर्षु च पाठस्योपसङ्ख्यातत्वेन विवृतत्वेऽपि तेन अकारस्य न सवर्णसंज्ञा, प्रयोजनाऽभावात् । ततश्च अकारस्य हकारेण सावण्र्यं परिशिष्टत इति भावः । इकारशकारयोरिति । तालुस्थानविवृतप्रयत्नसाम्यादुभयोः सावण्र्यं प्राप्तम् । इकारस्य चवर्गेण यकारेण च न सावण्र्यप्रसक्तिः,इकारस्य विवृतत्वात् , चवर्गस्य स्पृष्टत्वात्, यकारस्य ईषत्स्पृष्टत्वाच्च । अत इकारस्य शकारेण सावण्र्यं परिशिष्यत इति भावः । ऋकारषकारयोरिति । मूर्धस्थानविवृतयत्नसाम्यादुभयोः सावण्र्यं प्राप्तम् । ऋकारस्य टवर्गेण रेफेण च न सावण्र्यप्रसक्तिः ऋकारस्य विवृतत्वात्, टवर्गस्य स्पृष्टत्वात् , रेफस्यैइषत्स्पृष्ट्वाच्च । अत ऋकारषकारयोः सावण्र्यं परिशिष्टत इति भावः । ऌकारसकारयोरिति । दन्तस्थानविवृतप्रयत्नसाम्यादुभयोः सावण्र्यं प्राप्तम् । ऌकारस्य तवर्गेण लकारेण च न सावण्र्यप्रसक्तिः, ऌकारस्य विवृतत्वात्, तवर्गस्य स्पृष्टत्वात्, लकारस्य ईषत्सपृष्टत्वाच्च । अतः ऌकारस्य सकारेण सावण्र्यं परिशिष्यते ।
Tattvabodhini¶
पूर्वत्रासिद्धम् - पूर्वत्रासिद्धम् । यद्ययं स्वतन्त्रो विधिः स्यात्तर्हि त्रिपादी पूर्वं प्रत्यसिद्धेत्येव लभ्येत, त्रैपादिकं तु पूर्वं प्रति परं नासिद्धं स्यात्, तथाच प्रशानित्यत्रमो नो धातोः॑ इति नत्वस्य सिद्धत्वान्नलोपः स्यात्, नत्वविधेः संबुद्धौ चरितार्थत्वात् । तथाऽनङ्वानित्यत्र संयोगान्तलोपस्य सिद्धत्वान्नलोपः स्यात् , नुम्बनिधेस्तु संबुद्धौ चरितार्थत्वात् । तथाऽनङ्वानित्यत्र संयोगान्तलोपस्य सिद्धत्वान्नलोपः स्यात्, नुम्बिधेस्तु संबुद्धौ चरितार्थत्वाद्त आह-अदिकारोऽयमिति । त्रिपाद्यां विहितं कार्यमिति कार्याऽसिद्धिपक्षे अमू अमूमित्यादि न सिद्ध्येदिति भावः । यथा चैतन्न सिध्यति तथाऽदःशब्दव्याख्यावसरेऽस्माभिरुपपादयिष्यते । एकादशधेति । यद्यपि भाष्येऽष्टावुक्ताः, उदात्तादयस्तु नोक्ताः, तथापि कैयटोक्तिमनुसृत्यैकादशोक्ता इति बोध्यम् । खयां यमा इति । बालबोधनाय बाह्रप्रयत्नाः कैश्चित्सुगमोपायेनोपनिबद्धाः । तद्यथा-॒खरो विवाराः आआसा अघोषाश्च, हशः संवारा नादा घोषाश्च, वर्गाणां प्रथमतृतीयपञ्चमा यणश्चाल्पप्राणाः, वर्गाणां द्वितीयचतुर्थौ शलश्च महाप्राणाः॑ इति । आआसानुप्रदाना इति । आआसप्रयत्नका इत्यर्थः । विवृण्वते कण्ठमिति । विवार एषा प्रयत्न इति भावः । अन्येत्विति । हशो, हशां यमाः, अनुस्वारश्च । नादेति । नादभागिनः । नाश्प्रयत्नवन्त इत्यर्थः । अयुग्मा इति । प्रथमतृतीयपञ्चमा वर्गेष्वयुग्माः । वर्गयमगा इति । वर्गगा-यमगाश्चेत्यर्थः । अल्पेति । अल्पासवः=अल्पप्राणाः ।पुंसि भूम्न्यसवः प्राणाः॑ इत्यमरः । अनुपयुक्ता इति । अन्यथा कखगघादीनां परस्परं सावण्र्यं न स्यादिति भावः । आन्तरतम्यपरीक्षायामिति । परीक्षा च-॒अघोषस्य महाप्राणस्य सस्य तादृश एव थकारः॑,घोषवतो नादवतो महाप्राणस्य हस्य तादृशो वर्गचतुर्थ॑ इत्यादिना मूले एव स्फुटीभविष्यति । कादय इति । लोकप्रसिद्धपाठापेक्षमिदम् । चतुर्दशसूत्र्यां सादृश्यमुच्चारणे लेखने च बोध्यम् । कपाभ्यां प्रागिति । एतच्चोपलक्षणम् । खफाभ्यां प्रागित्यपि बोध्यम् । अर्धविसर्गेति । सादृश्यमुच्चारणे लेखने च बोध्यम् । ऋऌवर्णयोरिति ।ऋत्यकः॑ इति प्रकृतिभावः । विग्रहस्तु आ च ऌवर्णश्च ऋऌवर्णौ, तयोरित्येके । मनोरमायां तु-आ च आ च रलौ, तौ च तौ वर्णौ चेत्यादिं स्थितम् । नाज्झलौ । आकारसहित इति ।कालसमयवेलासु॑ इत्यादिनिर्देशा आकारप्रश्लेषे लिङ्गम् । यणादिकमिति । शीतलशब्दे सवर्णदीर्घ आदिशब्दार्थः । इहअसेध॑ दित्यादौहो ढः॑ इति ढत्वं नेत्यपि सुवचम् ।इण॑ इति सस्य षत्वमपि नेति तु न सुवचम्, ढत्वं प्रति तस्याऽसिद्धत्वादिति दिक् । अन्यथेति ।नाज्झलौ॑ इत्यस्यानारम्भे । ग्रहणकशास्त्रबलादिति । अयं भावः,-दीर्घादीनामिव हकारादीनामप्यकारवाच्यत्वेऽभ्युपगते ह्रच्त्वं स्यात्, प्रत्याहारेषु तद्वाच्यवाच्ये निरूढलक्षणाभ्युपगमादिति ।
Padamanjari¶
पूर्वत्रासिद्धमित्ययमधिकार इति । यदि तु स्वतन्त्रो विधिः स्यात्, ततो वक्ष्यमाणस्य त्रिपादीलक्षणसमुदायस्य पूर्वत्र सपादसप्ताध्यायीलक्षणे समुदायेऽसिद्धत्वमुक्तं स्यात्, न तु त्रिपाद्यां पूर्वत्र परस्यासिद्धत्वमापादितं स्यात्; ततश्च गुडलिण्मान्, गोधुङ्मानित्यादौ ढत्वघत्वादेरसिद्धत्वाभावात्’झयः’ इति मतुपो वत्वप्रसङ्गः । तस्मान्न विधिः । अथ परिभाषा स्यात्, सर्वत्रैवाष्टाध्याय्यां पूर्व प्रति परस्यासिद्धत्वात् तेन, तैः, तस्य - इत्यादाविनादिषु कर्तव्येषु त्यदाद्यत्वस्यासिद्धत्वादकारान्तनिमिता इनादयो न स्युः । तस्माद् - अधिकारः । एवं सति यदनेन सम्पादितं भवति तद्दर्शयति - तत्रेति । तत्राधिकारे सतीत्यर्थः । अधिकारे हि त्रिपादीगतानामप्यविशेषेण सपादसप्ताध्यायीगतान्प्रत्यसिद्धत्वं त्रिपाद्यं च पूर्वत्र परस्यासिद्धत्वं सिद्ध्यति । विधौ तु नैतावत्सम्पादयितुं शक्यम्; त्रिपाद्यां पूर्वत्र परस्यासिद्धत्वानापादनात् । परिभाषायां च नैतावति पर्यवस्यति; सर्वत्रैव प्रसङ्गात् । तस्मादधिकारत्वादेतावत्सन्पद्यते । एतावदेव च सम्पद्यत इत्यर्थः । न चैवमत्र भ्रमितव्यम् - येयं सपादसप्ताध्यायी अनुक्रान्तेत्यनेन विधिरूपेण प्रवृत्तिर्दर्शिता, इत उतरमित्या दिना त्वधिकाररूपेण, ततश्च शेष इतिवल्लक्षणं चाधिकारश्चेति ? निष्प्रयोजनत्वाद्, अधिकारोऽयमित्युक्तत्वाच्च । किं हि नामाधिकार एवास्मिन्न सिध्यति, यदर्थो विधिराश्रीयते ! सप्तानामध्यायानां सामाहारः सप्ताध्यायी, सपादाचासौ सप्ताध्यायी चेति कर्मधारयः, सपादेति टाबन्तपाठे त्वसमासः । उतरौतरो योग इति पाठः;वीप्सायां द्विर्वचने सुब्लुकोऽसम्भवात् । अत्राध्यायग्रहणेन योगग्रहणेन च शास्त्रासिद्धत्वमाश्रीयत इति दर्सयति । एतच्च पूर्वत्रेति वचनाल्लभ्यते । शास्त्रस्य हि मुख्यं पूर्वत्वम्; सन्निवेशविशेषयोगित्वात् । कार्यस्य तु शास्त्रद्वारकमौपचारिकम्, न हि मुख्ये सम्भवति गौणस्य ग्रहणं युक्तम् । कथं पुनरुच्चरितं शास्त्रमसिद्धमित्युच्यते, न हि वचनशतेनापि सिद्धमपि असिद्धं भवति ? अत आह - सिद्धकायं न करोतीत्यर्थ इति । वचनादतिदेश आश्रीयत इत्यर्थः । शास्त्रास्यासिद्धत्वमाश्रीयते, न कार्यस्येति दर्शितम् । तत्र प्रयोजनमाह - तदेतदिति । यदिदं शास्त्रविषयमसिद्धवचनं तदेतदित्यर्थः । आदेशो लक्षणं निमितं यस्य कार्यस्य तस्य प्रतिषेधार्थमुत्सृज्यते आदेशेन निवर्तत इति उत्सर्गःउस्थानी, स लक्षणं निमितं यस्य तस्य भावः प्रवृत्तिर्यथा स्यादित्येवमर्थं चासिद्धवचनम् । कार्यासिद्धत्वे तूत्सर्गलक्षणस्य भावो न न सिध्यति । तत्रादेशलक्षणप्रतिषेधस्योदाहरणमाह - अस्मा उद्धरेत्यादि । आयावोः कृतयोः’लोपः शकल्यस्य’ इति लोपः । व्यलोपस्यासिद्धत्वादिति । शास्त्रद्वारकं व्यलोपस्यासिद्धत्वम् । यदा हि पूर्वशास्त्रसन्निधौ परशास्त्रमसिद्धम्, तदा तत्प्रतिपादितं कार्यं सुतरामसिद्धं भवति । उत्सर्गलक्षणभावस्योदाहरणमाह -अमुष्मै इति । अत्रासत्यसिद्दत्वे परत्वाद् ठदसोऽसेर्दादु दो मःऽ इत्युत्वे सत्यत इति स्मायादयो न स्युः । असिद्धत्वे तु पूर्वं स्मादयः, पश्चादुत्वमिति सिद्धमिष्टम् । उत्वस्येति । उत्वशास्त्रस्येत्यर्थः । शुष्किकेत्यादिश्लोकः । अत्र निदर्शनमिति प्रत्येकमभिसम्बध्यते । निदर्शनमुदाहरणदिगित्यर्थः । मतोर्वत्वे कर्तव्ये’झलां जशो’ न्तेऽ इति जश्त्वेऽसिद्धे सति गुडलिण्मानिति दर्शनम् । न कोपधाया इति पुंवद्भावप्रतिषेधो न भवतीति । कोपधप्रतिषेधे तद्धितवुग्रहणमित्येतनाश्रित्येदं प्रयोजनमुक्तम् । क्षामिमानिति ।’क्षायो मः’ इति निष्ठातकारस्य मत्वम्, ततः ठत इञ्ऽ इति इञन्ताद् ठत इनिठनौऽ इतीन्, तदन्ताद्वा मतुप् । वहेरित्यादि ।’वह प्रापणे’ , निष्ठा, सम्प्रसारणम्,’हो ढः’ ,’झषस्तथोर्धो’ धःऽ, ष्टुअत्वम्,’ढो ढेअ लोपः’ ,’ढ्रलोपे पूर्वस्य दीर्घो’ णःऽ, ऊढ इति स्थिते णिचि टिलोपः, लुङ्, च्छेश्चङ् । हतैत्येतद् द्विरुच्यते इति । ठजादेर्वितीयस्यऽ इति वचनात्, ततः’हलादिः शेषः’ ,’कुहोश्चुः’ , इति चुत्वम् - हकारस्य झकारः, तस्य ठभ्यासे चर्चऽ इति जश्त्वं जाकरः । अथात्र’सन्वल्लघुनि’ इतीत्वं कस्मान्न भवति ? तत्राह -अनग्लोप इति वचनादिति । कथं पुनरौजिढदिति भवति ? इत्यत आह - अनग्लोप इति वचनादिति । कथं पुनरौजिढदिति भवति ? इत्यत आह - औजिढदित्येतत्विति । पूर्वत्रासिद्धीयमद्विर्वचनेऽ इत्येतत्विह प्रवर्तते; अनिस्यत्वात् । अनित्यत्वं च ठुभौ साभ्यासस्यऽ इति वचनाद्विज्ञायते, अन्यथा ठनितेःऽ इति णत्वे कृते तस्य सिद्धत्वात् सह णकारेण द्विर्वचने सति सिद्धं स्यात् - प्राणिणिवतीति । गुडलिण्मानिति । गुडं लेढैइति क्विप्, तदन्तान्मतुप्, ढत्वजश्त्वयोः कृतयोः’यरो’ नुनासिकत्वे तद्धिते भाषायां नित्यवचनम्ऽ इति णकारः । षष्ठीनिर्देशा इति ।’संयोगान्तस्य लोपः’ इत्यादयः, पञ्चमीनिर्देशाः’ह्रस्वादङ्गात्’ इत्यादयः, सप्तमीनिर्देशाः’झलो झलि’ इत्यादयलस्तेषाम् । असिद्धत्वं न भवतीति । यदि स्यात्’संयोगान्तस्य लोपः’ इत्यत्र’षष्ठी स्थानेयोगा इत्येतस्याभावातच्छेषस्य ठलो।ञन्त्यस्य’ इत्यस्याप्रवृतेः सर्वस्य पदस्य लोपप्रसङ्गः;’ह्रस्वादङ्गात्’ इत्यत्राप्यनियमेन दिक्शब्दाध्याहारात्पूर्वस्य परस्य च लोपप्रसङ्गः;’झलो झलि’ इत्यत्राप्यौपश्लेषिकेऽधिकरणे सप्तमी विज्ञायेतेति पूर्वपरयोरविशेषेण प्रसङ्गः, सत्सप्तमीविज्ञाने तु व्यवहितस्यापि प्रसङ्गः । कथं पुनः पूर्वासु परिभाषासु कर्तव्यासु तेषामसिद्धत्वं न भवति ? अत आह - कार्यकालं हीति । संज्ञापरिभाषमिति समाहारद्वन्द्वः । अयमभिप्रायः - संज्ञाः परार्था अत्यन्तं परिभाषाश्च तद्विधाः । न स्वातन्त्र्येण तास्तस्मात् कार्यावगतिहेतवः ॥ अनेकस्य प्रधानस्य शेषभूता भवन्त्विति । एताः केवलमाचार्यः पृथन्देशा उपादिशत् ॥ विधिवाक्यैस्तु संहत्य यत्र तत्र स्थितैरपि । बोधयन्त्यः स्वकार्याणि नैकपूर्वाः परा इमाः ॥ इति । यदि कार्यकालं संज्ञापरिभाषम्,’विप्रतिषेधे परम्’ इत्येषापि परिभाषात्रोपतिष्ठेत, ततश्च विस्फोर्यम्, अवगोर्यमित्यत्र गुणं बाधित्वा परत्वात्’हलि च’ इति दीर्घत्वं स्यात् ? इत्यत आह -विप्रतिषेधे परमित्येषा त्विति । एषा तु न प्रवर्तत इति सम्बन्धः । मध्ये हेतुर्येनेति । विप्रतिषेधो हि तस्या निमितम् । कश्च विप्रतिषेधः ? द्वयोस्तुल्यबलयोरेकस्मिन्विषये त्वं चाहं चेति प्रवृत्तिप्रसङ्गः । न चायमत्र सन्भवति, तस्मान्निमिताभावान्न प्रवर्तत इत्यथः । यद्येवम्, अपवादोऽपि परः पूर्वमुत्सग न बाधेत ? अत आह - अपवादस्येति । यद्यपवादस्यासिद्धत्वादुत्सर्ग एव स्यात्, अपवादविधानं व्यर्थं स्यात् ॥
Nyaas¶
एष योगः परिभाषा वा स्यात्? अधिकारो वेति पक्षद्वयं सम्भाव्यते। तत्र यद्ययं परिभाषा स्यात्? सर्वस्यामष्टाध्याय्याम्पूर्वस्मिन्नुत्तरमसिद्धं स्यात्, ततश्च अतो भिस ऐस् (7.1.9) इत्यत्र त्यदाद्यत्वस्यासिद्धत्वात्? तैः, यैः -इत्यत्रैस्भावो न स्यादितीमं परिभाषापक्षे दोषं दृष्ट्वा स्वरितत्वेनाधिकारत्वम् (1.3.11) अस्येति निश्चित्याह -‘पूर्वत्रासिद्धमित्यधिकारोऽयम्’ इति। अध्यायपरिसमाप्तेः इति। अवधिप्रदर्शनार्थमेतत्। तत्र इति वाक्योपन्यासे। ‘सपादा’ इति। सह पादेनानन्तरं प्रक्रान्तेन वर्तत इति सपादा। सप्ताध्यायी इति। सप्तानामध्यायानां समाहारः, द्विगोः (4.1.21) इति ङीप्। क्वचित्? सपादसप्ताध्यायी इति पाठः, तत्र सपादा चासौ सप्ताध्यायी चेति विशेषणसमासः, पुंवद्भावः। अयम् इति। वक्ष्यमाणः। पादोनोऽध्यायः इति। अनन्तरोक्तेन पादेनोनोऽपरिपूर्णः पादोनोऽध्यायः। असिद्धो भवति इत्यादि। पादोनाध्यायग्रहणेनोत्तरोत्तरयोगग्रहणेन च शास्त्रासिद्धत्वमिहाश्रीयत इति दर्शयति। कार्यासिद्धत्वाश्रयणे हि यथा देवदत्तस्य हन्तरि हते न पुनर्वेवदत्तस्य प्रादुर्भावो भवति, तथा कार्यस्यासिद्धत्वे तिपादिते न प#उनः प्रकृतेः प्रत्यापत्तिर्भवति। [प्रादुर्भावो -प्रांउ।पाठः] ततश्चामुद्धत्वे तुस्मैभावशास्त्रमेव प्रवर्तते, न त्वशास्त्रमसिद्धतवामिति न भवत्येष दोषप्रसङ्गः। अपि च शास्त्रस्य मुख्यत्वं पूर्वत्वं कार्यस्यौपचारिकत्वम्। यस्य कार्यस्य शास्त्रं पूर्वं तदप्युपचारेण पूर्वमित्युच्यते, न स्वत एव तसय पूर्वत्वम्; सन्निवेशविशेषाभावात्। कार्यं हि लक्ष्यगतम्, तत्र यथा लक्ष्यस्य सन्निवेशो नास्ति तथा तद्गतस्यापि कार्यस्य। न च मुख्ये पूर्वत्वे सति गौणत्वस्य परिग्रहणं मुक्तम्। तस्माच्छास्त्रं [तस्माच्छास्त्रपूर्वग्रहणेन -प्रांउ।पाठः] पूर्वग्रहणेन गृह्रते। तस्य च पूर्वत्वं परशास्त्रमेवापेक्ष्य भवति। अतो यदपेक्षं तस्य पूर्वत्वं ततः परस्य शास्त्रस्यैवासिद्धत्वमनेन कर्त्तुं युक्तम्। शास्त्रस्यासिद्धौ च कृतायामर्थतः कार्यासिद्धत्वं कृतमेव भवति; तस्य तन्निबन्धनत्वात्। सिद्धशब्दो निष्पन्नवचनः। सिद्धं निष्पन्नमित्यर्थः। न सिद्धमसिद्धम्, अनिष्पन्नमित्युच्यते। परञ्च शास्त्रं यच्च निष्पन्नं तन्न शक्यं वचनशतेनाप्यनिष्पन्नसत्तायामापादयितुम्। अन्यथा न कश्चिद्दुःखविवशां दशामनुभवेतु; असिद्धवचनेनैव न दु#ःखस्यानिष्पन्नतापादानात्। तस्माद्यथा ब्राहृदत्तोऽब्राहृदत्तोऽयमित्युक्तेऽकतिदेशोऽयं गम्यते, तथेहाप्यसिद्धत्वमित्युक्तेऽतिदेशोऽयं गम्यत इत्याह -असिद्धवद्भवति इति। एतदेव स्पष्टीकर्तुमाह -सिद्धकार्यम् इत्यादि। एवं हि तदसिद्धवद्भवकति यदि सिद्धस्य यत्कार्यं तन्न करोति। तदेतत् इत्यादि। तदिति हेतो, यस्मादनन्तरोक्तोऽसिद्धशब्दस्यार्थः, तस्मादेतदसिद्धवचनमादेशलक्षणप्रतिषेधार्थम्। आदेशो लक्षणं निमित्तं यस्य तदादेशलक्षणम्, तस्य प्रतिषेधः। सोऽर्थः प्रयोजनं यस्य तत्तथोक्तम्। उत्सर्गलक्षणभाववार्थं च इति। उत्सृज्यते निवत्र्यत इत्युत्सर्गः=स्थानिलक्षणम्, उत्सर्गौ लक्षणं निमित्तं यस्य तदुत्सर्गलक्षणं कार्यम्, तस्य भाव उपजननमुत्सर्गलक्षणभावः, सोऽर्थः प्रयोजनं यस्य तत्तथोक्तम्। अस्मा उद्धर इत्यादि। अस्मै इतोदंशब्दाच्चतुर्थी, उद्धरेत्यस्मिन्? परत आयादेशः, लोपः शाकल्यस्य (8.3.19) इति वकारलोपः। तत्र कृतेऽकः सवर्णेदीर्घत्वं प्राप्नोति; वकारलोपस्यासिद्धत्वान्न भवति। व्यलोपस्यासिद्धत्वात् इति। तादथ्र्याद्व्यलोपशास्त्रं व्यलोपशब्देनोक्तम्। अथ वा -व्यलोपशस्त्रस्यासिद्धत्वाद्व्यलोपस्यासिद्धत्वमित्युच्यते। एवूदाहरणेष्वादेशलक्षणप्रतिषेधोऽसिद्धत्वावचनस्य प्रयोजनम्। इदानीं येषूदाहरणेषूत्सर्गलक्षणभावः प्रयोजनम्, तानि दर्शयितुमाह -अमुध्मै इत्यादि। अदसश्चतुर्थीपञ्चमीसप्तम्यैकवचनानि। त्यदाद्यत्वम्? (7.2.102) । अत्रासत्यप्यसिद्धत्वे परत्वात्? अदसोऽसेर्दादु दो मः (8.2.80) इत्युत्वम्, ततश्चाकारान्तस्याभावात्? तन्निबन्धनाः सर्ववाम्नः स्मै (7.1.14) , ङसिङ्योः स्मात्स्मिनौ (7.1.15) इति स्मायादयो न स्युः। असिद्धत्वे सति शास्त्रस्य ते भवन्ति। उत्वस्यासिद्धत्वात् इति। अत्रापि तादध्र्यादुत्वशब्देनोत्वशास्त्रमुक्तम्। शुष्किका इत्यादिश्लोकः। अत्र निदर्शनम् इत्येतत्? शुष्किकेत्यादिभिः प्रत्यकमभिसम्बध्यते। झलां चश्त्वे इति। अत्राप्यसिद्ध इति वृत्तभङ्गभयान्नोक्तम्। अनुक्तमपि प्रकरणेन ज्ञायते। शुष्किका इति। शुष शोषणे (धातुपाठः-1183) इत्येतस्मात्? क्तप्रत्ययः, शुषः कः (8.2.51) इति कादेशः, टाप्, अज्ञातार्थे प्रागिवात्? कः (5.3.70) , केऽणः (7.4.13) ति ह्रस्वत्वम्, ततष्टाप्, प्रत्ययस्यात्? कात् (7.3.44) इत्यादिना नित्यमित्त्वं भवति, न तु उदीचाम् (7.3.46) इत्यादिना पाक्षिकम्; शुषः कः (8.2.51) इत्यस्यासिद्धत्वात्। शुष्कजङ्घा इति। शुष्के जङ्घे अस्या इति बहुव्रीहिः, न कोपधायाः (6.3.37) इचि पुंवद्भावनिषेधो न भवति। शुषः कः (8.2.51) इत्यस्यासिद्धत्वादिति प्रकृतेन सम्बन्धनोयम्। ननु च सत्यप्यसिद्धत्वे नैवात्र पूर्वद्भावप्रतिषेधो न प्राप्नोति, कोपधप्रतिषेदे तद्धितवुग्रहणं कर्तव्य् (धा।733) इति वचनात्? न; वाक्यकारमतमेतत्, सूत्रकारमतेन तु श्लोकवार्त्तिककारेण च न चात्रैतत्? प्रयोजनमुपन्यस्तम्। एतयोर्हि सामान्येन कोपधप्रतिषेधोऽभिमतः। क्षामिमान् इति। क्षै जै षै क्षये (धातुपाठः-913,914,915), आदेच उपदेशेऽशिति (6.1.45) इत्यात्त्वम्, क्षायो मः (8.2.53) इति निष्ठातकारस्य मकारः -क्षाम इति स्थिते अत इञ् (4.1.95) इतीञं कृत्वा अत इनिठनौ (5.2.115) इतीनिप्रत्ययं वा कृत्वा मतुप्? कर्तव्यः। वहेः इत्यादि। वह प्रापणे (धातुपाठः-1004) इत्येतस्मान्निष्ठा, सम्प्रसारणम्? (6.1.15) , हो डः (8.2.31) इति ढत्वम्, झषस्तथोर्धोऽधः (8.2.40) इति धत्वम्, ष्टुना ष्टुः (8.4.41) इति ष्टुत्वम्, ढो ढे लोपः (8.3.13) इति ढलोपः, ढ्रलोपे पूर्वस्य दीर्घोऽणः (6.3.111) इति दीर्घः, ऊढ इति स्थिते, तमाचष्ट इति णिच्, णाविष्ठवत्? कार्य प्रातिपदिकस्य (वा।813) इतीष्ठवद्भावाट्टिलोपः, तदन्ताल्लुङ्, णिश्रि (3.1.48) इत्यादिना चङ्। अत्र धत्वष्टुत्वादीनामसिद्धत्वाद्योऽसौ णो टिलोपलस्तस्य णौ कृतं स्थानिवद्भवतीति (चांप।पा।21) स्थानिवद्भावात्? चङि (6.1.11) इति अजादेर्द्वितीयस्य (6.1.2) इति ह्त इत्येतस्य द्विर्वचनम्, कुहोश्चुः (7.4.62) इति चुत्वम् -महाप्राणस्य हकारस्य स्थाने महाप्राण एव झकारः, अभ्यासे चर्च (8.4.54) इति झकारस्य स्थाने जकारः, आडजादीनाम् (6.4.72) इत्याट्, आटश्च (6.1.87) इति वृद्धिः। अथ सस्वल्लधुनि चङ्परे (7.4.93) इति सन्वद्भावः कस्मान्न भवति? इत्याह -अनग्लोपे इत्यादि। यदि तह्र्रनग्लोप इति प्रतिषेधात्? सन्वद्भावो न भवति तदौजिढदिति [तदोजढदिति -प्रांउ।पाठः] न स#इध्यति? इत्याह -औजिढत् [औजढत् -प्रांउ।पाठः] इत्यादि। गुडलिण्मान्` इति। गुडं लेढीति क्विप्, तदन्तान्मतुप्, पूर्ववङढत्वम्, झलां जशोऽन्ते (8.2.39) इति जश्त्वम् -ढकारस्य डकारः! मतोर्वत्वे कर्तव्य ढत्वजशत्वयोरसिद्धत्वात्? झयः (8.2.10) इति वत्वं न भवति। कारिकायां झलां जश्त्वग्रहणमुपलक्षणार्थं निदर्शनमिति। अनेनैतत्? दर्शयति -निदर्शनमेतच्छुष्किकादीनाम्, न तु परिगणनमिति। यदि हि सपादायां सप्ताध्याय्यां कर्तव्यायां पादोनोऽध्यायोऽसिद्ध इत्युच्यते तदा य इह षष्ठीनिर्देशसप्मीनिर्देश-पञ्चमीनिर्देशाः क्रियन्ते तेऽप्यसिद्धः स्युः, ततश्च संयोगान्तस्य लोपः (8.2.23) इत्यत्र षष्ठीनिर्देशस्यासिद्धत्वात्? षष्ठी स्थानेयोगा (1.1.49) इत्येषा नोपतिष्ठेन, एवञ्च सामीप्ययोगाप्येषा षष्ठी स्यातः ततः संयोगान्तसमीपो यस्तस्यापि लोप आपद्येत; झलो झलि (8.2.26) इत्यत्रापि सप्मीनिर्देशस्यासिद्धत्वात्? तस्मिन्निति निर्दिष्टे पूर्वस्य (1.1.65) इत्येषा परिभाषा नोपतिष्ठेत, तथा च पूर्वस्यैवानन्तरे भवितव्यमिति नियमस्याभावात्? सामान्येन पूर्वस्य परस्य वानन्तरे व्यवहिते झलि लोपः; `ह्रस्वादङ्गात्? (8.2.27) इत्यादावपि पञ्चमीनिर्देशस्यासिद्धत्वात्? **तस्मादित्युत्तरस्य** (1.1.67) इत्यस्योपस्थानं न स्यात्, ततश्चानियमात्? पूर्वस्य परस्य वानन्तरस्य व्यवहितस्य च लोपः प्रसज्येतेत्यत आह -`येऽत्र षष्ठीनिर्देशाः इत्यादि। किं पुनः कारणमसिद्धत्वं न भवति? इत्याह -कार्यकालं हि इत्यादि। यदि हि यथोद्र्दशं संज्ञापरिभाषम् (व्या।प।59) स्यात्, एवमासां परिभाषाणां पूर्वत्वे सति षष्ठोनिर्देशादीनामसिद्धत्वं न स्यात्, न तु यथोद्देशं संज्ञापरिभावम्, किं तर्हि? कार्यकालं संज्ञापरिभाषम् (व्या।पा।58), कार्यकालाः कार्यप्रयुक्ता हि संज्ञाः परिभाषाश्च। तस्माद्यत्र कार्यं तत्रैव ताः प्रयुज्यन्ते, तेन ता उपदेश एव। अतो निर्देशैरभिन्नदेशत्वात्? परिभाषाणामत्र पूर्वत्वं नास्ति, ततः कुतस्तासु कर्तव्यासु तेषामसिद्धत्वप्रसङ्गः! यदि कार्यकालं संज्ञापरिभाषम्, विप्रतिषेधे परं कार्यम् (1.4.2) इत्येषाऽत्रोपतिष्ठेत? तत्र को दोवः? स्फुर स्फुल सञ्चलने (धातुपाठः-1389), 1390), गुरी उद्यमने (धातुपाठः-1396) -आभ्यां ऋहलोव्र्यत् (3.1.124) इति ण्यति कृते दिस्फोयम्, अवगोर्यमिति न सिध्येत्। अस्या हि परिभाषाया उपस्थाने, गुणं परत्वाद्बाधित्वा हलि च (8.2.77) इति दीर्घत्वं प्राप्नोतीत्यत आह -विप्रतिषेधे परमित्येषा तु इत्यादि। विप्रतिषेधे परम् (1.4.2) इत्येषा परिभाषाऽत्र न प्रवर्तत इति प्रकृतेन सम्बन्धः। कस्मान्न प्रवर्तते? इत्याह -येन इत्यादि। द्वयोर्हि तुल्यबलयोर्विप्रतिषेधो भवति। इह तु येन पूर्वेण लक्षणेन पुगन्तस्य (7.3.86) इत्यादिना सह परं लक्षणं स्पर्धते तदप्यभिभवितुमिच्छति। पर#ं लक्षणं हलि च (8.2.77) इत्यादिकम्, तत्? पूर्वं प्रति तस्यासिद्धत्वम्। अतोऽतुल्यबलत्वाद्विप्रतिषेधो नास्तीति विप्रतिषेधे परम् (1.4.2) इत्येषा परिभाषा न प्रवर्तते। तथा च इत्यादि। एवमस्याः परिभाषाया अप्रवृत्तौ सत्यामित्यर्थः। यदि तर्हि पूर्वस्मिन्? कार्ये कर्तव्ये परमसिद्धं भवति, एवं सत्युत्सर्गे कर्तव्ये परस्यापवादस्यासिद्धत्वां सायत्। ततश्च दोग्धा, दोग्धृमित्यत्र दादेर्घातोर्घः (8.2.32) इति धस्यासिद्धत्वाङढत्वं स्यात्? इत्यत आह -अपवादसर्य तु इत्यादि। यद्यप्यपवादविषयस्यापि परस्योत्सर्गे कर्त्व्येऽसिद्धत्व स्यात्, निर्विषयत्वाच्चापवादवचनस्य वैयथ्र्यं स्यात्। अतोऽपवादस्य परस्यापि वचनप्रामाण्यादसिद्धत्वं न भवति। ननु च वचनप्रामाण्यात्? पर्यायेण तयोर्भावः स्यात्, तत्कुतो वैयथ्र्य प्रसङ्ग? नैतदस्ति; यद्यपवादस्य पर्यायता स्यात्, वा द्रुहमुह (8.2.33) इति विकल्पेन धत्वविधाननमनर्थकं स्यात्॥
Praudhamanorama¶
यद्ययं स्वतन्त्रो विधिः स्यात्, तर्हि ‘त्रिपादी पूर्वं प्रत्यसिद्धा’ इत्येव लभ्येत, त्रैपादिकम तु पूर्वं प्रति परं नासिद्धं स्यादत आह— अधिकारोऽयमिति। यद्यत्र कार्यासिद्धत्वमिष्येत, तर्हि पूर्वत्रासिद्धमिति ‘मनोरथः’ इत्यादावुत्वं न स्यात्, परत्वात् रो रि (8.3.14) इत्यस्य प्रसङ्गात्। तथा च ‘पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्य’ इति सिद्धान्तो व्याकुप्येत। अमू, अमी इत्यादि च न सिध्येदत आह— त्रिपादीति, परं शास्त्रमिति च । एतेन त्रिपाद्यां विहितं कार्यमित्यादिः प्राचां ग्रन्थः परास्तः। विवृण्वते कण्ठमिति॥ विवार एषां प्रयत्न इति भावः। वर्गयमगा इति॥ वर्गगा यमगाश्चेत्यर्थः। कादय इति॥ लोकप्रसिद्धपाठापेक्षमिदम्, चतुर्दशसूत्र्यां मावसानत्वायोगात्। अर्धविसर्गेति॥ सादृश्यमुच्चारणे लेखने च बोध्यम्। ऋऌवर्णयोरिति॥ आ च आ च रलौ, तौ च तौ वर्णौ चेति विग्रहः, उश्च उल् च ऋलोः, तयोःर्वर्णयोरिति वा; प्रथमान्तेन, परिनिष्ठितविभक्त्या वा विग्रह इति सिद्धान्तात्। ऋत्यकः (6.1.128) इति प्रकृतिभावः।
Prakriyasarvasvam¶
अन्त्यत्रिपादीगतो विधिस्ततः प्राक्तनेषु कर्तव्येष्वसिद्धः स्यात् । त्रिपाद्यामपि परः परो विधिः पूर्वपूर्वविधिं प्रत्यसिद्धः स्यात् । इति यवलोपविधेस्त्रिपादीगतत्वे- नासिद्धत्वान्न सन्धिः ।
Sarala¶
पूर्वत्र - अव्ययपदम्, असिद्धं - प्रथमान्तम् । सपादसप्ताध्यायीं प्रति = अष्टमाध्यायस्य प्रथमपादं यावत् पठितानि सूत्राणि प्रति । त्रिपादी = अष्टमाध्यायद्वितीयतृतीयचतुर्थपादपठितानि सूत्राणि । “हे हरे ! इह” - आगच्छेत्यर्थः । एवं “विष्ण इह” इत्यत्रापि “आगच्छे”ति शेषः ॥
Sudha¶
पूर्वत्रासिद्धमिति । पाणिनिप्रणीया अष्टाध्यायी, तत्र अष्टमाध्याये द्वितीयपादस्येदमादिमं सूत्रम् । इतः प्राक्तनं कृत्स्नं सूत्रजालं सपादसप्ताध्यायीति व्यवह्रियते । उपरितनं तु कृत्स्नं सूत्रजालं त्रिपादीति व्यवह्रियते इति भावः । हर इह इति । हरे इह इति स्थिते एचोऽयवायावः (6.1.78) इत्यनेन अयादेशे कृते “हरय् इह” इति दशायाम् लोपः शाकल्यस्य (8.3.19) इत्यनेन अवर्णपूर्वकपदान्ते वर्तमानस्य य् इत्यस्य विकल्पेन लोपः अचि ‘इ’ इति परे । तेन “हर इह” इति जाते अत्र शङ्क्यते — लोपानन्तरम् “हर इह” इत्यत्र आद्गुणः (6.1.87) इत्यनेन गुणः कथं न भवति ? उत्तरम् — पूर्वत्रासिद्धम् (8.2.1) इत्यनेन सूत्रेण सपादसप्ताध्यायीस्थसूत्रदृष्ट्या (आद्गुणः (6.1.87) इति सूत्रदृष्ट्या) त्रैपादिकः लोपः शाकल्यस्य (8.3.19) इति लोपोऽसिद्धः । तत्र यलोपे जातेऽपि यकारोऽस्तीति भावनया आद्गुणः (6.1.87) इति सूत्रार्थो न घटते इति भावः । लोपाभावपक्षे — “हरयिह” इति । एवमेव, “विष्ण इह”, “विष्णविह” इत्यत्रापि बोध्यम् ॥
Vartika¶
पूर्वत्रासिद्धीयमद्विर्वचने ।