82015: छन्दसीरः¶
Padacheda: छन्दसि | S | 7 | 1 |
इरः | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
In the छन्दस् (Vedas) व् is substituted for the म् of मत् after a अङ्ग (stem) ending in इ (or ई) or र्।
Vasu English Translation¶
In the छन्दस् (Vedas) व् is substituted for the म् of मत् after a अङ्ग (stem) ending in इ (or ई) or र्। To take some examples of a stem ending in इ, as त्रिवती याज्यानुवाक्या भवति; हरिवो मे दनं त्वा; अधिपति वती जुहोति; चतुरग्निवानिव; आरेवानेतु मा विशत् (आरेवान् from रयि with vocalisation). सरस्वतीवान्, भारतीवान्, दधीवांश्चरुः ॥ As all rules have optional force in the Chhandas, we have no change here सप्तर्षिमन्तम्, ऋषिमान्, ऋतीमान् सूर्यं ते द्यावापृथिवीमन्तं ॥ Of stems ending in र we have गीर्वान्, धूर्वान्, आशीर्वान् ॥
Bhashya¶
छन्दसीरः छन्दसीर(1) इत्युच्यते(2) तत्र ते विश्वकर्माणन्ते सप्तर्षिमन्तमित्यत्रापि प्राप्नोति॥ नैष दोषो-नैवं विज्ञायते-छन्दसि इरइति॥ कथं तर्हि?॥ छन्दसि-ःइर्र इति॥ एवमपि-त्विषीमान् पतीमानित्यत्रापि प्राप्नोति॥ नैष दोषो-विहितविशेषणमीकारग्रहणम्-ःईकारान्ताद्यो विहितइति॥ एवमपि-सूर्यं ते देवा पृथिवीमन्तम् इत्यत्राऽपि प्राप्नोति। इह च(3) न प्राप्नोति-त्रिवतीर्याज्यानुवाक्या भवन्तीति॥ एवं तर्हि परिगणनं कर्त्तव्यम्॥ त्रिहर्यधिपत्यग्निरे(1)॥ त्रि-त्रिवतीर्याज्यानुवाक्या भवन्ति। त्रि॥ हरि-हरिवो मेदिनं त्वा। हरि॥ अधिपति-अधिपतिवतीर्जुहोति। अधिपति॥ अग्नि-चतुरग्निवानिव। अग्नि॥ रे-आरेवानेतु नो विश इति॥ यदि तर्हि परिगणनं क्रियते सरस्वतीवान् भारतीवान्(2) अपूपवान् दधिवांश्चरुः इत्यत्र न प्राप्नोति॥ एवं तर्हिझ्र्॥छन्दसीरो(3) बहुलम्॥ट॥ छन्दसीरो बहुलमिति वक्तव्यम्।
Kashika¶
छन्दसि विषय इवर्णान्ताद् रेफान्तात् चोत्तरस्य मतोर्वत्वं भवति। इवर्णान्तात् तावत् — त्रिवती याज्यानुवाक्या भवति। हरिवो मे॒दिनं॑ त्वा (तै०सं० ४.७.१४.४)। अधिपतिवतीर्जुहोति। च॒रुर॑ग्नि॒वाँ इ॑व (ऋ० ७.१०४.२)। आरेवानेतु मा विशत्। रयेर्मतौ० (६.१.३७ वा०) इति संप्रसारणम्। स॑र॒स्वती॒वान् भा॑र॒तीवान् (मै०सं० ३.१०.६)। दधि॑वांश्च॒रुः (शौ०सं० १८.४.१७)। छन्दसि सर्वे विधयो विकल्प्यन्ते इतीह न भवति — सप्तर्षिमन्तम्, ऋषिमान्, ऋतीमान्, सूर्यं ते द्यावापृथिवीमन्तमिति। रेफान्तात् — गीर्वान्। धूर्वान्। आशीर्वान्॥
Siddhanta Kaumudi¶
इवर्णान्ताद्रेफान्ताच्च परस्य मतोर्मस्य वः स्यात् । हरिवते हर्यश्वाय (हरि॑वते॒ हर्य॑श्वाय) । गीर्वान् ॥
Nyaas¶
हरिवो मेदिनम् इति। न मु ने (8.2.3) इत्यत्रैतद्व्युत्पादितम्। आरेवानेतु मा विशत् इति। रयिशब्दस्य रयेर्मतौ बहुलम् (दा।665) इति सम्प्रसारणम्, परपूर्वत्वम्, आद्गुणः (6.1.87) । अथेह कस्मान्न भवति -सप्तर्षिमन्तं द्यावापृथिवीमन्तम्? इत्याह -द्यौश्च पृथिवी चेति द्वन्द्वे कृते दिवसश्च पृथिव्याम् (6.3.30) इति दिवो द्यावादेशः। गोर्वान्, धूर्वान्, आशीर्वान् इति। गृ? शब्दे (धातुपाठः-1498), धुर्वी हिंसार्थः (धातुपाठः-573), `आङ शासु श्च्छायाम् (धातुपाठः-1022), एषां सम्पदादित्वात्? क्विप्। गृणातेः ऋत इद्धातोः (7.1.100) इतीत्त्वम्, धुर्वेः राल्लोपः (6.4.21) इति वकारलोपः, शास इदङ्हलोः (6.4.34) , इत्यत्र शास इत्त्वे आशासः क्वावुपसंख्यानम् (वा।781) इत्याङ्पूर्वस्य शास इत्त्वम्, मतुपि कृते ससजुवो रुः (8.2.66) इति रुत्वम्॥
Prakriyasarvasvam¶
इवर्णान्तादेफान्ताच्च परस्य मतोर्मस्य वः स्यात् । चक्षुरग्निवां इव । आहुं सरस्वतीवतोः । रान्तात् - आशीर्वन्तः सुता इमे ।