82014: राजन्वान् सौराज्ये¶
Padacheda: राजन्वान् | S | 7 | 1 |
सौराज्ये | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
Also राजन्वान् when the sense is of a good government.
Vasu English Translation¶
Also राजन्वान् when the sense is of a good government. The kingdom whose king is good is called राजन्वान् देशः, राजन्वती पृथ्वी ॥ The affix मतुप् is used here in the sense of प्रशंसा or praise. Otherwise राजवान् ॥
Kashika¶
राजन्वानिति निपात्यते सौराज्ये गम्यमाने। शोभनो राजा यस्मिन्निति स राजन्वान् देशः। राजन्वती पृथ्वी। राजवानित्येवान्यत्र॥
Siddhanta Kaumudi¶
राजन्वती भूः । राजवानन्यत्र ॥
Balamanorama¶
राजन्वान् सौराज्ये - राजन्वान् सौराज्ये । सु=शोभनोराजा यस्य देशस्य स सुराजा, तस्य भावः सौराज्यम् । तस्मिन्नर्थे राजन्शब्दान्मतुपि ‘मादुपधायाः’ इति वत्वं सिद्धम् । नलोपाऽभावो निपात्यते ।
Padamanjari¶
शोभनो राजा तस्य भावः सौराज्यम्, ब्राह्मणादित्वात्ष्यञ्, टिलोपः । तत्पुनः शोभनेन राज्ञा देशस्य सम्बन्धः । समासकृतद्धितेषु सम्बन्धाभिधानम्; भावप्रत्ययेनेति वचनात् । एतच्च राजन्वानित्यस्य प्रवृत्तिनिमितम्, देश एव त्वभिधेयः, यदाह - सौराज्ये गम्यमान इति । राजन्वानिति । प्रशंसायां मतुप्, नलोपाभावो निपात्यते । सूत्रे पुंल्लिङ्गस्याविवक्षितत्वं दर्शयति - राजन्वती पृथिवीति ॥
Nyaas¶
राजन्वानिति निपात्यते इति। किमन्न निपात्यते? नलोपाभावः, नुङ्वा। सौराज्यम् इति। शौभनो राजा यस्मिन्? देशे स सुराजा, तद्भावः सौराज्यम्, ब्राआहृणादित्वात्? व्यञ्, नस्तद्धिते (6.4.144) इति नलोपः। तत्पुनः सौराज्यं यत्र शोभनेन राज्ञा देशस्य सम्बन्धः। समासकृत्तद्धितेषु सम्बन्धाभिधानम् (सी।पा।130) इति वचनाद्राजन्वानित्यस्य शब्दस्य देश एव वाच्यः, न सौराज्यम्। स तु देश शब्दात्? प्रतीयमानः; सौराज्येनाविनाभावित्वात्। तच्च गमयतीत्याह -गम्यमाने इति। राजन्वान् इति पुंल्लिङ्गम्। तस्यातन्त्रतां दर्शयितुम् -राजन्वती पृथिवी इत्यस्योदाहरणस्योपन्यासः॥
Prakriyasarvasvam¶
सुराजत्वे वाच्ये राजन्वान् देशः । अन्यत्र राजवान् । विद्वस् मत् ‘तसौ मत्वर्थे’ (१–४–१९) इति मत्वे ।
Sutra Prayogas¶
राजन्वतीम् (रघुवंशम्): राजन्वान्सौराज्ये इति निपातनात्साधुः।