82016: अनो नुट्

Padacheda: अनः | S | 5 | 1 |

नुट् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix मत् gets the augment नुट् in the छन्दस् (Vedas) after a अङ्ग (stem) ending in अन्।

Vasu English Translation

The affix मत् gets the augment नुट् in the छन्दस् (Vedas) after a अङ्ग (stem) ending in अन्। As अक्षण्वन्तः कर्णवन्तः सखायः; अस्थन्वन्तं यदनस्था बिभर्त्ति (Rig. I.164.4), अक्षण्वता लाङ्गलेन; शीर्षण्वती, मूर्द्धन्वती ॥

The word अक्षण्वत् is thus formed : अक्षि + मतुप् = अक्ष् + अन् + मत् (अनङ् is substituted for the final of akshi by (7.1.76)) = अक्षमत् (the म् is elided by (8.2.7)). Now we add the augment नुट् ॥ If this augment is added to मतुप्, as म्मतुप् then it becomes a portion of मतुप्, and this म् would be changed to व by (8.3.9) read with (1.1.54), and not the letter म्, because म् intervenes. If we add this augment to the end of the stem, then in अक्षण्वता &c. we cannot change it to ण because of the prohibition in (8.4.37), and the augment being नुक्, the न् would be changed to र् by (8.3.7) in सुपथिन्तरः &c (8.2.17). The first view, however, is the correct one and the difficulty in its acceptance is obviated by नुटोऽसिद्धत्वात् तस्य च वत्वं न भवति; ततः परस्य च भवति; as shown above.

The नुट् augment being considered as asiddha, is not changed to व, but the letter following it, is so changed. Thus अक्षन् (7.1.76) + मत् = अक्ष + मत् (the न् of the stem is elided by (8.2.7). Add the augment नुट् now, and we have अक्ष + न्मत् ॥ The augment according to (8.2.1), is asiddha, so that according to (8.2.9), व् is substituted for म्, and not for न्, as would have been required by (1.1.54).

Bhashya

अनो नुट् यदि पुनरयं नुट् पूर्वान्तः क्रियेत-अनो(2) नुगिति॥ अनो नुकिविनामरुविधिप्रतिषेधः॥ अनो नुकि सति विनामो विधेयः। अक्षण्वान् पदान्तस्य(4) नेति निषेधः प्राप्नोति॥ रुश्च प्रतिषेध्यः-सुपथिन्तरः। नश्छव्यप्रशानिति रुः प्राप्नोति॥ अस्तु तर्हि परादिः॥ परादौ वत्वप्रतिषेधोऽवग्रहश्च॥ यदि परादिर्वत्वस्य प्रतिषेधो वक्तव्यः। अक्षण्वानिति(2)। मादुपधायाश्च मतोर्वोऽयवादिभ्य इति वत्वं प्राप्नोति। अवग्रहश्चाऽनिष्टे देशे प्राप्नोति-अक्षण्वानिति(2)॥ अस्तु तर्हि पूर्वान्तः॥ ननु चोक्तम्-अनो नुकि विनामरुविधिप्रतिषेधइति। ॥ भत्वात्सिद्धम्॥ झ्र्भत्वात्सिद्धमेतत्(3)ट भसंज्ञा वक्तव्या॥ यदि तर्हि भसंज्ञा अल्लोपोऽन इत्यल्लोपः प्राप्नोति॥ अनस्तु प्रकृतिभावे मतुब्ग्रहणं छन्दसि॥ अनस्तु प्रकृतिभावे मतुब्ग्रहणं छन्दसि वक्तव्यम्॥ इह तर्हि सुपथिन्तरः-नान्तस्य टिस्तद्धिते लुप्यत इति लोपः प्राप्नोति॥ ॥ घग्रहणं च॥ घग्रहणं च कर्तव्यम्॥ तत्तर्हीदं बहुवक्तव्यं, नुग्वक्तव्यो, भसंज्ञा च वक्तव्या, अनस्तु प्रकृतिभावे मतुब्ग्रहणं छन्दसि कर्त्तव्यं(1), घग्रहणं च कर्तव्यमिति॥ न कर्तव्यम्-यत्तावदुच्यते नुग्वक्तव्यइति, नुक एष परिहारो भत्वात्सिद्धमिति॥ झ्र्यदप्युच्यते(2)ट ठभसंज्ञा वक्तव्येति। क्रियते न्यास एव-अयस्मयादीनिच्छन्दसीति॥ यदप्युच्यते अनस्तु प्रकृतिभावे मतुब्ग्रहणं छन्दसि घग्रहणं च कर्तव्यमिति, न कर्तव्यम्। उभयसंज्ञान्यपि हि छन्दांसि दृश्यन्ते। तद्यथा-स सुष्ठुभा स ऋक्वता गणेन। पदत्वात्कुत्वं, भत्वाज्जश्त्वं, न भवति। एवमिहापि पदत्वादल्लोपटिलोपौ न, भत्वाद्विनामरुविधिप्रतिषेधौ भविष्यतः॥ सिध्यति-सूत्रं तर्हि भिद्यते॥ यथान्यासमेवाऽस्तु॥ ननु चोक्तं-परादौ वत्वप्रतिषेधोऽवग्रहश्चेति॥ यत्तावदुच्यते वत्वप्रतिषेधइति। निर्दिश्यमानस्यादेशा भवन्ती- त्येवं न भविष्यति। यस्तर्हि(3) निर्दिश्यते तस्य न प्राप्नोति॥ किं कारणम्?॥ नुटा व्यवहितत्वात्॥ असिद्धो नुट्, तस्याऽसिद्धत्वाद्भविष्यति॥ अवग्रहेऽपि, न लक्षणेन पदकारा अनुर्वत्याः, पदकारैर्नाम लक्षणमनुर्वत्त्यम्। यथालक्षणं पदं कर्तव्यम्॥ झ्र्अनो नुट्ट॥

Kashika

छन्दसीति वर्तते। अनन्तादुत्तरस्य मतोर्नुडागमो भवति छन्दसि विषये। अ॒क्ष॒ण्वन्तः॒ कर्ण॑वन्तः॒ सखा॑यः (ऋ० १०.७१.७)। अस्थ॒न्वन्तं॒ यद॑न॒स्था बिभ॑र्ति (ऋ० १.१६४.४)। अक्षण्वता लाङ्गलेन (पै०सं० ९.८.१)। शी॒र्ष॒ण्वती॑ (शौ०सं०१०.१.२)। मूर्ध॒न्वती॑ (तै०सं० २.६.२.२)। नुटोऽसिद्धत्वात् तस्य च वत्वं न भवति, ततः परस्य च भवति॥

Siddhanta Kaumudi

अन्नन्तान्मतोर्नुट् स्या । अक्षण्वन्तः कर्णवन्तः (अ॒क्ष॒ण्वन्तः॒ कर्ण॑वन्तः) । अस्थन्वन्तं यदनस्था (अ॒स्थ॒न्वन्तं॒ यद॑न॒स्था) ॥

Padamanjari

अक्षण्वन्त इति । अक्षिशब्दस्य मतुपि’च्छन्दस्यपि दृश्यते’ इति अनङदेशः, नुटोऽसिद्धत्वात् पूर्वं नलोपे भूतपूर्वगत्या नुट्, तस्य णत्वम् । शीर्षण्वतीति ।’शीर्षंश्च्छन्दसि’ शिरसः शीर्षन्नादेशः । प्रकृत्यन्तरं वा शिरस्शब्देन समानार्थः । शीर्षन्निति च्छन्दसि निपात्यते । नुडयं परादिः क्रियते, तस्य मतुब्ग्रहणेन ग्रहणात्’मादुपधायाः’ इति वत्वं प्राप्नोति । मकारस्य तु न प्राप्नोति; नुटा व्यवधानात् । यदि पुनरयं नुक् पूर्वान्तः क्रियेत ? नैवं शक्यम्; अक्षण्वता, शीर्षण्वता - णत्वं न स्यात् । इह च सुपथिन्तरः - उतरसूत्रेण नुकि कृते पदान्तत्वात्’नश्च्छव्यप्रशान्’ इति रुत्वं प्राप्नोति, तस्मात्परादिरेव कर्तव्यः, तत्र चोक्तो दोषः । अत आह - नुटोऽसिद्धत्वादिति । नन्वेवमप्यवग्रहे दोषः प्राप्नोति - अक्षण्वन्त इति अक्षण्वन्ते इति णान्तमवगृह्णाति, तन्न प्राप्नोति ? न लक्षणेन पदकारा अनुवर्त्याः पदकारैर्नाम लक्षणमनुवर्त्यम् ॥

Nyaas

अक्षण्यन्तः इति। अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः (7.1.75) , ` छन्दस्यापि दृश्यते` (7.1.76) इत्याङ्; नुट्, अनङी नकारस्य लोपः नुमो णत्वम्। अस्थन्वन्तम् इति। अस्थिशब्दस्य णत्ववर्ज पूर्ववदनङादि कर्तव्यम्। शीर्षण्वती इति। शीर्षंश्छन्दसि (6.1.60) निपातितम्। ननु च नुटोऽनन्तरत्वात्? तस्यैव वत्वेन भवितुं युक्तम्, न तु तद्व्यवहितस्य मकारस्य, तत्कथमिह नुटो वत्वं न भवति, ततस्तु परस्य न भवति? इत्याह -नुटोऽसिद्धत्वात् इत्यादि। अथायं नुट्? परत्वादपवाद एव कस्मान्न भवति? भिन्नजातीयत्वात्। समानजातीयकार्यपन्नो हि विशेषः सामान्यस्य बाधको भवति, इह कार्यभेदोऽस्ति; वत्वस्यादेशत्वान्नुटस्थ्वागमत्वादिति नास्ति वाध्यबाधकभावः, नुटः परादिकरणं णत्वं यथा स्यादित्येवमर्थम्; अन्यथा हि पदान्तस्य (8.4.37) इति प्रतिषेधः स्यात्॥

Prakriyasarvasvam

अन्नन्तात्परस्य मतोर्नुट् स्यात् । वर्मवन्त इति प्राप्ते वर्मंण्वन्ता न योधाः । नुटोऽसिद्धत्वाद् अवर्णात्परस्य वत्वम् । नान्तात्परयोस्तरप्तमपोनुंट् स्यात् न लोपे प्राप्ते सुपथिनतरः । समीधे दस्युहन्तमः । “भूरिदाव्नस्तुङ् वा वक्तव्यः” (वा. ८-२-१७) । भूरिदावत्तरो जनः ।<!धे रथिन ईद्वाच्यः!> (वा. ८-२-१७) । रथीतमं रथीनाम् ।<!हृग्रहोर्भस्य भश्छन्दसीति वाच्यम्!> (वा. ८-२-३५) । सुवेक्षसं वाजमाभरा नः । गृभ्णाति ते ।