82019: उपसर्गस्यायतौ¶
Padacheda: उपसर्गस्य | S | 6 | 1 |
अयतौ | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
ल् is substituted for the र् of a preposition when अयते follows.
Vasu English Translation¶
ल् is substituted for the र् of a preposition when अयते follows. Thus पलायते, प्लायते ॥ Here arises the question, does the word अयति qualify the word र्, or does it qualify the word Preposition. In the first view, the sutra would mean, “the र् immediately followed by अयति is changed to ल ॥” But as a matter of fact, र् is never immediately followed by अयति ॥ Thus in प्र + अयति or परा + अयति, the letter अ and आ intervene respectively. The ekadesa sandhi of these, will make र् immediately followed by अयति; but the ekadesa, being sthanivat will prevent it. This difficulty however, is overcome by the maxim येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्, for otherwise the rule will be useless. For the same reasons, परि + अयते = पल्ययते, though here र् intervenes between र् and अयते ॥ In short, the intervention of one letter is considered as no intervention.
In the second view, the sutra would mean when a Preposition is followed by ayat then its र् is changed to ल, and none of these difficulties will arise with regard to the above forms. But then would arise a fresh difficulty, for the र् of प्रति would also require to be changed into ल् ॥ Some say, that प्रति is never followed by अयति; while others hold that the form प्लत्ययते (प्रति + अयते) is valid. According to the first view, the valid form is प्रत्ययते ॥ The स् of the Prepositions दुस् and निस् is changed to र्, but this र् is not changed to ल्, because it is asiddha: thus we have the forms निरयणम्, दुरयणम् ॥ But there is a preposition निर् also the र् of which is changed to ल्, as निलयनम् ॥ See (7.2.46). According to the Siddhanta Kaumudi, there is a Preposition दुर् also, which gives दुलयते ॥
Bhashya¶
उपसर्गस्यायतौ किमिदमयतिग्रहणं रेफविशेषणम्-अयतिपरस्य रेफस्य लो भवति स चेदुपसर्गस्य भवतीति,-आहोस्विदुपसर्गविशेषणम्-अयतिपरस्योपसर्गस्य यो रेफस्तस्य लो भवतीति॥ कश्चात्र विशेषः? ॥ रेफस्याऽयताविति चेत्परेरुपसङ्ख्यानम्॥ रेफस्याऽयताविति चेत्परेरुपसङ्ख्यानं कर्तव्यम्। पल्ययते॥ वचनाद्भविष्यति॥ अस्ति वचने प्रयोजनम्॥ किम्(1)?॥ प्लायते। पलायते॥ अस्तु तर्हि-उपसर्गविशेषणम्॥ उपसर्गस्येति चेदेकादेशेऽप्रसिद्धिः॥ उपसर्गस्येति चेदेकादेशेऽप्रसिद्धिर्भवति। प्लायते पलायते। एकादेशे कृते व्यपवर्गाभावादयताविति(2) लत्वं न प्राप्नोति॥ अन्तादिवद्भावेन व्यपवर्गः॥ उभयत आश्रये नान्तादिवत्॥ एवं तर्ह्येकादेशः पूर्वविधौ स्थानिवद्भवतीति स्थानिवद्भावाव्द्यपवर्गः॥ प्रतिषिध्यतेऽत्र स्थानिवद्भावः पूर्वत्रासिद्धे न स्थानिवदिति॥ दोषा एवैते तस्याः परिभाषायाः-तस्य दोषः संयोगादिलोपलत्वणत्वेष्विति॥ अथवा पुनरस्तु रेफविशेषणम्॥ ननु चोक्तं-रेफस्यायताविति चेत्परेरुपसङ्ख्यानमिति॥ वचनाद्भविष्यति॥ ननु चोक्तम्-अस्ति वचने प्रयोजनं(1), किं, प्लायते पलायतइति॥ अत्राप्यकारेण व्यवहितत्वान्न प्राप्नोति॥ एकादेशे कृते नास्ति व्यवधानम्॥ एकादेशः पूर्वविधौ स्थानिवद्भवतीति स्थानिवद्भावाद्य्ववधानमेव॥ प्रतिषिध्यतेऽत्रस्थानिवद्भावः-पूर्वत्रासिद्धे न स्थानिवदिति॥ दोषा एवैते तस्याः परिभाषायास्तस्य दोषः संयोगादिलोपलत्वणत्वेष्विति॥
Kashika¶
अयतौ परत उपसर्गस्य यो रेफस्तस्य लकार आदेशो भवति। प्लायते। पलायते। अत्र च योऽयमेकादेशः, तस्य स्थानिवद्भावादयतेरुपसर्गस्य च विभागे सति, यद्ययतिग्रहणं रेफस्य विशेषणम्, तदा येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात् (व्या०प० ४६) इत्येकेन वर्णेन व्यवधानेऽपि सति लत्वं भवति। तथा च पल्ययत इत्यत्रापि भवति। उपसर्गविशेषणे त्वयतिग्रहणे सिद्धमेवैतत् सर्वम्, प्रतेरपि तु व्यवहितेऽपि प्राप्नोति। तत्र केषांचिद् दर्शनम् — भवितव्यमेव प्लत्ययत इति। प्रथमपक्षदर्शनाभिनिविष्टास्तु प्रत्ययत इत्येव भवतीति मन्यन्ते। अपरे तु प्रतिशब्दोपसृष्टस्यायतेः प्रयोगमेव नेच्छन्ति। निस् दुस् इत्येतयोस्तु रुत्वस्यासिद्धत्वाद् लत्वेन नैव भवितव्यम्। निरयणम्। दुरयणम्॥
Siddhanta Kaumudi¶
अयतिपरस्योपसर्गस्य यो रेफस्तस्य लत्वं स्यात् । प्लायते । पलायते । निस्दुसोरुत्वस्यासिद्धत्वान्न लत्वम् । निरयते । दुरयते । निर्दुरोस्तु । निलयते । दुलयते । प्रत्यय इति त्विणो रूपम् । अथ कथमुदयति विततोर्ध्वरश्मिरज्जाविति माघः । इटकिटकटी इत्यत्र प्रश्लिष्टस्य भविष्यति । यद्वा । [(परिभाषा - ) अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम्] । चक्षिङो ङित्करणाज्ज्ञापकात् । वादित्वात् । ववये । पेये । मेये । चेये । तेये । प्रणयते । नेये ।{$ {!481 दय!} दानगतिरक्षणहिंसादानेषु$} । आदानं ग्रहणम् । दयांचक्रे ।{$ {!482 रय!} गतौ $}।{$ {!483 ऊयी!} तन्तुसन्ताने$} । ऊयांचक्रे ।{$ {!484 पूयी!} विशरणे दुर्गन्धे च$} । पूयते । पुपूये ।{$ {!485 क्नूयी!} शब्दे उन्दे च$} । चुक्नूये ।{$ {!486 क्ष्मायी!} विधूनने$} । चक्ष्माये ।{$ {!487 स्फायी!} {!488 ओप्यायी!} वृद्धौ$} । स्फायते । पस्फाये । प्यायते ॥
Laghu Siddhanta Kaumudi¶
अयतिपरस्योपसर्गस्य यो रेफस्तस्य लत्वं स्यात्। प्लायते। पलायते॥
Balamanorama¶
उपसर्गस्यायतौ - उपसर्गस्याऽयतौ । अयताविति श्तिपा निर्देशः । ‘कृपो रो ल’ इत्यतो रो ल इत्यनुवर्तते । तदाह — अयतिपरस्येत्यादिना । प्लायत इति । प्र इत्युपसर्गः । प्लायत इति । परा इत्याकारान्त उपसर्गः । ननु निरयते दुरयत इत्यत्रापि लत्वं स्यादित्यत आह -निस्दुसोरिति । तर्हि निलयते दुलयत इति कथमित्यत आह — निर्दुरोस्त्विति । एतदर्थमेव प्रादिषु रेफान्तयोश्च निर्देश इति भावः । तर्हि ‘प्रत्यय’ इत्यत्रापि प्रतेरयतिपरत्वाद्रस्य लत्वं स्यादित्यत आह - प्रत्यय इति त्विति । प्रतिपूर्वकादिण्धातोरतच्प्रत्यये ‘प्रत्यय’ इति रूपम् । अयतिपरत्वाऽभावान्न लत्वमित्यर्थः । अयधातुमादय ‘प्लत्यय’ इति न, अनभिधानादिति कैयटः । कथमुदयतीति । उत्पूर्वकादयधातोः शत्रन्तात्सप्तम्यन्तमिति मत्वा आक्षेपः । अनुदात्तेत्त्वेन लटः शानच्प्रसङ्गादिति भावः । प्रश्लिष्टस्येति ।इधातो॑रिति शेषः । तस्य अनुदात्तेत्त्वाऽबावाच्छतृप्रत्ययो निर्बाध इति भावः । ज्ञापकादिति ।चक्षिङ् धातोरिकारस्याऽनुदात्ततया अनुदात्तेत्त्वादेवात्मनेपदसिद्धौ ङित्करणमनुदात्तेत्त्वप्रयुक्तात्मनेपदस्याऽनित्यतां ज्ञापयति । तस्याऽनित्यत्वे तु नित्यात्मनेपदार्थं ङित्करणमर्थवदिति भावः । इदं तु भाष्ये न दृश्यते । वादित्वादिति वयधातोर्लिटि वादित्वादेत्वाभ्यासलोपयोरभावे सति ‘ववये’ इति रूपमित्यर्थः । णयधातुर्णोपदेश इति मत्वा आह — प्रणयत इति ।उपसर्गादसमासेऽपी॑ति णत्वमिति भावः । दयांचक्र इति ।दयायासश्चे॑त्याम् । ऊयांचक्र इति । इजादित्वादाम् । उन्दने चेति । क्लेदने चेत्यर्थः । स्फायी ओप्यायीति । ओदित्त्वम्ओदितश्चे॑ति निष्ठानत्वार्थम् । ईदित्त्वं तुश्वीदितो निष्ठाया॑मितीण्निषेधार्थम् ।
Tattvabodhini¶
उपसर्गस्यायतौ - अथ कथमिति । शानचा भाव्यमिति शङ्कितुराशयः । क्नूयी शब्दे शब्दे च । उन्दः क्लेदनम् ।
Padamanjari¶
अयतौ पर इति । अत्र द्वौ पक्षौ - अयतिग्रहणं रेफविशेषणम् - अयतिपरस्य रेफस्य, स चेदुपसर्गस्येति; उपसर्गविशेषणं वा - अयतिपरस्योपसर्गस्य यो रेफ इति । तत्राद्ये पक्षे एवमन्वयः - अयतौ परतो यो रेफ उपसर्गसम्बन्धी तस्येति; द्वितीये तु - अयतौ परतो य उपसर्गस्तस्य यो रेफस्तस्येति । प्लायत इति । अयतिरनुदातेत् । कथं तहि ठुदयति विततोर्ध्वरश्मिरज्जौऽ इति परस्मैपदम् ? किमनेन वन्यगजशौचेन ! यदि वा - पचाद्यजन्तादुदयशब्दादाचारे क्विपि लट् । केचितु ठिट कटी गतौऽ इत्यत्र इकारमपि धातुं पठन्ति । यथा त्वत्र दर्शिते पक्षद्वयेऽपि दोषो न भवति, तथा क्रमेण दर्शयति -अत्रेति । स्थानवद्भावादिति ।’पूर्वत्रासिद्धे न स्थानिवत्’ इत्येतत्विह न भवति;’तस्य दोषः संयोगादिलोपलत्वणत्वेषु’ इत्यपवादस्मरणात् । यद्ययतिग्रहणं रेफस्य विशेषणमिति । कार्यित्वेन प्रधानत्वात् । एकेन वर्णेनेति । एकग्रहणं प्रत्यय इत्यत्र सङ्घातेन व्यवाये न भवतीति प्रदर्शनार्थम् । तथा चेति । एवं च कृत्वेत्यर्थः । पल्ययत इत्यत्रापीति । यत्र श्रूयमाणेनैकेनैव वर्णेन लौकिकं व्यवधानम्, तत्रापि प्रवर्तते । न केवलं प्लायत इत्यादौ यत्र स्थानिभावद्वारेण शास्त्रीयं तत्रैवेत्यपिशब्दस्यार्थः । अमुमेव विशेषं दर्शयितुमस्य पृथगुपन्यासः । ननु च’निर कुषः’ ,’सुदुरोरधिकरणे’ इति निर्देशाद्रेकान्तावप्युसर्गौ स्तः, तौ वचनस्यावकाशौ इति कथं व्यवधाने भवति ? उच्यते; यद्येतावत्प्रयोजनं स्यात्,’दुरोरयतौ’ इत्येव ब्रूयात्, उपसर्गग्रहणातु व्यवायेऽपि भविष्यति, एतच्चैकवर्णव्यवधानेनाप्युपपन्नमिति न प्रत्ययत इत्यत्र प्रसङ्गः । उपसर्गविशेषणेत्विति । श्रुतत्वादिति भावः । सिद्धमेवैतत्सवामति ।’येन नाव्यवधानमित्यादि न कश्चित् यत्नो’ स्मिन्पक्षेऽ इत्येवशब्दस्यार्थः । प्रतेरपि तु प्राप्नोतीति । पूर्वस्मिन्पक्षे सङ्घातेन व्यवायान्न प्राप्नोति, अत्र तु प्राप्नोतीत्यमुं विशेषं तुशब्दो द्योतयति । प्रथमपक्षदर्शनाभिनिविष्टास्त्विति । प्रथमपक्षस्य या दर्शनाउपरेभ्यः प्रतिपादना, तत्राभिनिविष्टाः उ तत्परायणा इत्यर्थः । अपरे त्वित्यादि । आप्तपर्यायः प्रत्ययितशब्द इतच्प्रत्ययान्तः, सञ्जातप्रत्ययाः प्रत्ययिता इति । निस्दुस् इत्येतयोस्त्विति । सकारान्तविषयो ग्रन्थः, रेफान्तयोस्तु भवितव्यमेव लत्वेन ॥
Nyaas¶
इह द्वौ पक्षौ सम्भवतः -अयतिग्रहणं रेफविशेषणमित्येकः पक्षः, उपसर्गस्य विशेषणमिति द्वितीयः। तत्राद्ये पक्षेऽयतौ परत इत्येवामादिको वृत्तिग्रन्थ एवं नेयः -अयतौ परतो यो रेफ उपसर्गस्थस्तस्य लकारादेशो भवतीति। द्वितीये ह्रेवं नेयः -अयतौ परतो म उपसर्गस्तस्योपसर्गस्य यो रेफस्तस्य लकारादेशो भवतीति। प्लायते पलायते` इति। अय ण्य इत्यस्मादनुदात्तेत्त्वादात्मनेपदम्। कथमत्राद्ये पक्षे लत्वं भवति, यावता तस्मिन्? कर्तव्ये अचः परस्मिन् पूर्वविधौ (1.1.57) इति स्थानिवद्भावेन भवितव्यम्, ततश्च प्रकृत्युपसर्गयोर्निमागे सत्यवर्णेन व्यवधानद्रेफस्यायतिपरता न सम्भवति? इत्याह -अत्र योऽयम् इत्यादि। विभागे विश्लेष इत्यर्थः। एकग्रहणं प्रत्यय इत्यत्र सङ्घाते व्यवधाने लत्वं न भवतीति प्रदर्शनार्थम्। येन हि व्यवधानमेव नाव्यवधानं तेन व्यवधाने वचनाप्रामाण्याल्लत्वेन भवितव्यम्। केन व्यवधानमेवम्? एकेन वर्णेन। सङ्घातेन पुनव्र्यवधानमस्ति नास्ति चेति, तेन व्यवधाने भवति। तथा च इत्यादि। एवमाद्ये पक्ष एकेन वर्णेन व्यवधाने लत्वं भवति। न केवल पल्ययत इत्यत्र प्रवर्तते यत्र स्यानिवद्भावद्वारेणाशास्त्रीयं व्यवधानम्; यत्रापि तु श्रूयमाणेनैव वर्णेन लौकिकं व्यवधानम्, तत्रापि प्रवर्त्त्त इत्येषोऽपिशब्दस्यार्थः।ननु च निरः कुषः` (7.2.46) इत्यत्र निर इति निर्देशेन ज्ञापितमेतत् -निरिति रेफान्तमुपसर्गान्तर मस्तीति, ततश्च निलय इत्यत्र वचनस्यावकाशे सति कथं येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात् (व्या।पा।46) इत्युक्तम्? एवं मन्यते -नैकमुदाहरणं सामान्यलक्षणं सामान्यलक्षणं प्रयोजयति, यदि ह्रेतावत्? प्रयोजनं स्यात्, निर एव ग्रहणं कुर्यादिति। एवं प्रथमे पक्षे सर्वस्य सिद्धतां प्रतिपाद्य द्वितीये पक्षे प्रतिपादयितुमाह -उपसर्गविशेषणे तु इत्यादि। तुशब्दोऽयमपिशब्दस्यार्थे वर्तते। न केवलं रेफविशेषणेऽयतिग्रहणे पल्ययत इत्यादि सर्वं सिद्धम्, अपि तूपसर्गविशेषणेऽपि तस्मिन्? सर्वमेतत्? सिद्धम्। अथ वा -तुशब्दः पूर्वस्मात्पक्षादस्य विशेषं द्योतयति। तत्र हि वयवधानाल्लत्वं प्राप्नोतीत्येतच्चोद्यमवतरति। अतो यदेतत्? प्रतिपाद्यमेतत्? सर्वम्। इह त्वस्य चोद्यस्यावतार एव नास्तीति सिद्धमेवैतत्, न यत्नसाध्यमित्यर्थः। प्रतेरपि प्राप्नोतीति चोदकः। तुशब्दः पूर्वस्माद्विशेषणार्थः, पूर्वत्र प्रतेर्न प्राप्नोति; सङ्घातेन व्यवधानात्; इह तु नास्ति केनचिद्व्यवधानम्, अतः प्रतेरपि प्राप्नोतीति मन्यन्ते। अपरे इति। द्वितीयपक्षाभिनिविष्टानामम्यतमे। निस्दुसित्येतयोः इति। यद्ययतिग्रहणं रेफस्य विशेषणम्, अथाप्युपसर्गस्य विशेषणम्, सर्वथाः रत्वे कृते लत्वं प्राप्नोति? इति यश्चोदयेत्, तं प्रत्याह -निस्दुस् इत्यादि। गतार्थम्॥
Prakriyasarvasvam¶
अयतौ परे उपसर्गरेफस्य लत्वं स्यात् । प्लायते, पलायते पल्ययते । निर्दुरो रान्तयोरपि भावात्¹ निलयते । दुलयते । सान्तयोस्तु रुत्वस्यासिद्धत्वान्न लः । निरयते । दुलयते । ‘प्रतेर्वैय्यते’ । प्रत्ययते प्लत्ययते । कर्मणि अय्यते । लङि अजादित्वादाट् । आयत । आयेताम् । लुङि आयिष्ट आयिषाताम् । आयिढ्वम्, आयिध्वम् । चिणि आयि । लिटि—
Sutra Prayogas¶
पलायन्ते (किरातार्जुनीयम्): उपसर्गस्यायतौ इति रेफस्य लत्वम्।
पलायत (शिशुपालवधम्): उपसर्गस्यायतौ इति रेफस्य लत्वम्।
पलाय्यत (शिशुपालवधम्): उपसर्गस्यायतौ इति लत्वम् ।
पलायांचक्रे (भट्टिकाव्यम्): उपसर्ग- स्यायतौ इति लत्वम्।
पलायांचक्रिरे (भट्टिकाव्यम्): उपसर्गस्यायतौ इति लत्वम्।
प्रपलायिष्ट (भट्टिकाव्यम्): उपसर्गस्यायतौ इति लत्वम्।