82020: ग्रो यङि

Padacheda: ग्रः | S | 6 | 1 |

यङि | S | 7 | 1 |

Sutrartha


Vasu English Summary

ल् is substituted for the र् of गॄ in the intensive.

Vasu English Translation

ल् is substituted for the र् of गॄ in the intensive. Thus निजेगिल्यते, निजेगिल्येते, निजेगिल्यन्ते ॥ The root गॄ takes यङ्, when the sense of contempt is conveyed, with regard to the action denoted by the root, (3.1.24). गर्हितं गिलति = जेगिल्यते ॥

Some say that ग्र of the sutra includes the two roots गॄ (गिरति Tudadi 117) and गॄ (गृणाति Kryadi 28). Others hold that the Tudadi gri is only taken and not the Kryadi. The Kryadi gri never takes the Intensive form, no example of which is to be met in literature.

Why do we say in the Intensive? Observe निगीर्यते with the Passive affix यक् ॥

Kashika

गृृ इत्येतस्य धातो रेफस्य लकार आदेशो भवति यङिपरतः। निजेगिल्यते,निजेगिल्येते, निजेगिल्यन्ते। भावगर्हायां ग्रो यङ् विहितः (३.१.२४)। केचिद् ग्र इति गिरतेर्गृणातेश्च सामान्येन ग्रहणमिच्छन्ति। अपरे तु गिरतेरेव, न गृणातेः। गृणातेर्हि यङेव नास्ति, अनभिधानादिति। यङीति किम् ? निगीर्यते॥

Siddhanta Kaumudi

गिरते रेफस्य लत्वं स्याद्यङि । गर्हितं गिलति । जेगिल्यते । घुमास्था - (SK2462) इतीत्वम् । गुणः । देदीयते । पेपीयते । सेषीयते । विभाषा श्वेः (SK2420) । शोशूयते । शेश्वीयते । यङि च (SK2623) । सास्मर्यते । रीङृतः (SK1234) । चेक्रीयते । सुट् । संचेस्क्रीयते ॥

Tattvabodhini

ग्रो यङि - ग्रो यङि ।कृपो रो लः॑ इत्यतो रो ल इति वर्तते । तदाह — रेफस्य लत्वमिति । चेक्रीयते । इति । परत्वाद्रीङि कृते द्विर्वचनम् । संचेस्क्रीयते इति । रीङि द्वित्वे च सुट् । न चसं - कृ॑इत्यस्यामवस्थायां द्वित्वात्परत्वात्सुटि कृते संयोगादित्वेन रीङ्प्रवृत्तेः प्राग्गुणः स्यादिति वाच्यम्,अडभ्यासव्यवायेऽपी॑त्यस्यारम्भेण अडभ्यासयोः कृतयोरेव सुण्न तु ततः प्रागिति सिद्धान्तात् ।एतेनसुटो बहिरङ्गत्वान्न संयोगादित्वेन गुण॑ इति केषांचित्समाधानं परास्तम् । अभ्यासात्परस्य सुटि कृते साभ्यासस्याङ्गस्य संयोगादित्वमृदन्तत्वं च नास्तीति गुणप्राप्तेरभावात् । ननुअडभ्यासव्यवायेऽपि सुट्कात्पूर्वः॑इति वार्तिकप्रत्याख्यानायपूर्वं धातुरुपसर्गेण युज्यते॑ इति पक्षं स्वीकृत्य भाष्यकृता सं त्यादावन्तरङ्गत्वात्सुटि ससुक्टस्यैव द्वित्वाभ्युपगमात् संचेस्क्रियते इति न सिध्येत् । तत्र हि सुटि कृते रीङं बाधित्वा पर्तवात्यङि चे॑ति गुणे संचास्कर्यत इत्यनिष्टरूपप्रसङ्गात् । यदि तु इष्टानुरोधेनपूर्वं धातुः साधनेन युज्यते पश्चादुपसर्गेणे॑ति मताश्रयणेन रीङादेशं द्वित्वं च कृत्वा पश्चात्सुटि इष्टं रूपं सिध्यतीत्युच्यते, तर्हिअडभ्यासव्यवायेऽपी॑ति वचनं स्वीकर्तव्यमेव स्यादिति चेत् । अत्राहुः — अडभ्यासव्यवायेऽपी॑ति वचनं स्वीकर्तव्यमेव स्यादिति चेत् । अत्राहुः — अडभ्यासे॑त्यादिवार्तिकं विनापि संचस्करतुरित्यादरूपसिद्धये भाष्याकृतापूर्वं धातुरुपसर्गेण युज्यते॑ इति पक्ष आश्रितः । संचेस्क्रीयते संचस्करतुरित्यादिरूपसिद्धये समचेस्क्रियतेत्यादिसिद्धिस्तु वार्तिकायत्तैवेति ।

Padamanjari

उदाहरणे ठृत इद्धातोःऽ इतीत्वम्, रपरत्वम्,’हलि च’ इति दीर्घस्यासिद्धत्वात्पूर्वमनेन लत्वम्, ततोऽपहृतनिमितत्वाद्दीर्घाभावः । गिरतेः, गृणातेश्चेति । निगरणार्थस्य, शब्दार्थस्य च । सामान्येनेति । विशेषानुपादानात् । अपरे तु गिरतेरेव ग्रहणमिच्छन्तीत्यनुषङ्गः । कः पुनरत्र हेतुः ? इत्यत आह - गृणातेस्त्विति । तु ह्यर्थे । निगीर्यत इति । यक् ॥

Prakriyasarvasvam

गृ धातोर्यङि रस्य लः स्यात् । लत्वे कृते रान्तत्वाभावाद्दीर्घः । जेगिल्यते । दीर्घं केचिदाहुरित्यनिच्छन्नाह हरः । जेगील्यते । अत्र गिरतेर्ग्रहात् शब्दार्थस्य गृणातेः क्रियासमभिहारे एव यङिति माधवः । द्वयोर्ग्रहात् तस्यापि गर्हायामेवेति हरः । तस्यापि लत्वम् । जेगिल्यते नामानि । फलेरुक्तो नुगुकारश्च । पम्फुल्यते । पसेर्गत्यर्थस्य नुक् । पम्पस्यते । यङो ङित्त्वात् मज्जेर्नलोपः । बम्भज्यते । जनसनखनां ‘ये विभाषा’ (६-४-४३) इत्यात्वम् । अनात्वेऽभ्यासस्य नुक् । जाजायते, जञ्जन्यते । सासनायते, संसन्यते चाखायते, चङ्खन्यते । लवयान्तानाम- भ्यासस्य नुग्वेति केचिदिति कौमुदी । चञ्चल्यते, चाचल्यते । शब गतौ । शंशब्यते, शाशव्यते । दन्दव्यते, दादव्यते ।