82005: एकादेश उदात्तेनोदात्तः

Padacheda: एकादेशः | S | 1 | 1 |

उदात्तेन | S | 3 | 1 |

उदात्तः | S | 1 | 1 |

Sutrartha


Vasu English Summary

The single substitute of an unaccented with an उदात्त (acute accent) vowel is उदात्त।

Vasu English Translation

The single substitute of an unaccented with an उदात्त (acute accent) vowel is उदात्त। The word “of an anudatta” is understood here. An unaccented vowel, which combined with the preceding udatta vowel remains as a single substitute, becomes udatta. Thus for the udatta इ of अग्नि꣡ and for the case-ending औ which is anudatta, there is always substituted long ई single by (6.1.102). This single substitute will be udatta according to the present sutra*, as अग्नी꣡ ॥ Similarly वायू꣡, वृक्षैः꣡, प्लक्षैः꣡ ॥

Why do we say “with udatta vowel”? Observe पचन्ति, यजन्ति ॥ Here पच् + शप् + अन्ति = प꣡च् + अ + अन्ति । Here शप् is anudatta by (3.1.4), so also अन्ति by (6.1.186). The ekadesa of these two non-accented अ will be anudatta. In forming this para-rupa ekadesa by (6.1.97), the svarita of the अ of शप् caused by (8.4.66) is considered as invalid or asiddha.

Other examples are क्व वोऽश्वाः (Rig. V. 61.2) and क्वावरं मरुतः ॥ The word वः is anudatta by (8.1.21). read with (8.1.18). The word अ꣡श्वः is acutely accented on the first, as it is formed by adding क्वन् to अश् (Unadi I.151). The स् of वस् is changed to व् (8.2.66), which is again changed to उ (6.1.113). Thus वोऽश्वः ॥ Here अ becomes purva-rupa by (6.1.109), which is udatta. क्व is formed from किम् by अत् affix (5.3.12) and (7.2.105) and is svarita (6.1.185). The word अ꣡वर is acutely accented on the first by the Phit II.6. The single long substitute is *udatta_.

Kashika

उदात्तेन सहानुदात्तस्य य एकादेशः स उदात्तो भवति। अनुदात्तस्येति वर्तते। अ॒ग्नी। वा॒यू। वृ॒क्षैः। प्ल॒क्षैः। उदात्तेनेति किम् ? पच॑न्ति। यज॑न्ति। लसार्वधातुकानुदात्तत्वे (६.१.१८६) कृते द्वयोरनुदात्तयोरयमेकादेशः, पररूपे कर्तव्ये स्वरितस्य (८.४.६६) असिद्धत्वात्॥

Siddhanta Kaumudi

उदात्तेन सहैकादेश उदात्तः स्यात् । वोऽश्वाः । क्वावरं भरुतः (क्वाव॑रं भरुतः) ॥

Padamanjari

ठनुदातस्यऽ इति वर्तते । अग्न्यादिशब्दाः प्रातिपदिकस्वरेणान्तोदाताः, विभक्तिरनुदाता । पचन्तीति । अत्र शबकारस्य यत्स्वरितत्वम् ठुदातादनुदातस्य स्वरितःऽ इति, तस्यासिद्धत्वाद् द्वयोरनुदातयोरेकादेशः ॥

Nyaas

अनुदत्तस्य इति। उदात्तेन सहानुदात्तस्य यस्मिन्नेकादेशः स उदात्तः स्यात्, न तु स्वरितः। स्वरिते प्राप्त इदमारभ्यते। उदाहरणेष्वग्निप्रभृतयः प्रातिपदिकस्वरेणान्तोदात्ताः (फि।सू।1।1) विभक्तिस्तु अनुदात्तौ सुप्तितौ (3.1.4) इत्यनुदात्ता। अग्नी, वायू इति। प्रथमयोः पूर्वसवर्णः (6.1.102) इति दीर्घः। वृक्षी, प्लक्षौ इति। **वृद्धिरेचि** (6.1.88) इति वृद्धिः। `पचन्ति, यजन्ति इति। अतो गुणे (6.1.97) पररूपत्वम्। द्वयोरनुदात्तयोरयमेकादेशः इति। ननु च उदात्तादनुदात्तस्य स्वरितः (8.4.66) इति शबकारस्य स्वरितत्वे कृते स्वरितानुदात्तयोरयमेकादेशः, तत्कथं द्वयोरनुदात्तयोरिति? एवमाह -पररूपे कर्तव्ये स्वरितस्यासिद्धत्वात्

Prakriyasarvasvam

अनुदात्तस्योदात्तेन सहैकादेश उदात्तः स्यात् । इत्युदात्तेन देवाकारेण सहानुदात्तस्य सुबौकारस्य ‘वृद्धिरेचि’ (६-१-८८) इत्येकादेश उदात्तः देवौ वर्धते । उदात्तेनेत्युक्तेः पच अन्तीत्यत्र शबन्त्यकारयोर्द्वयोरनुदात्तत्वान्न । पचन्ति ते वृषभान् । <karika>परिभाषात्वमप्यस्य व्याजहार हरः क्वचित् । तत्पक्षे स्वयमर्थः स्यादाद्गुणः स्यादितीरिते ।। ८९० ।। उदात्तः स्यादुदात्तानुदात्तयोस्त्वाद्गुणस्ततः । विधीयमाना एव स्युरेकादेशा उदात्तकाः ।। ८९१ ।।</karika> <karika>एवं सति ह्ययाद्यर्थ मेकादेशस्वरस्य यत् । सिद्धत्ववचनं तन्न कर्तव्यं स्यादिति स्थितम् ॥ ८९२ ॥</karika> <karika>ततश्च वृक्षे इदमित्यत्रैकादेशङेपि । सिद्धत्वाद् वृक्ष इदमित्यकारे स्यादुदात्तता ॥ ८९३ ॥</karika> दिवि इव; दिवि ईयते ।