82008: न ङिसम्बुद्ध्योः

Padacheda: न | S | 0 | 0 |

ङिसम्बुद्ध्योः | S | 7 | 2 |

Sutrartha

प्रातिपदिकान्तम् यत् पदम्, तदन्तस्य नकारस्य ङि-प्रत्यये परे सम्बुद्धि-प्रत्यये च परे लोपः न भवति ।

नलोपः प्रातिपदिकान्तस्य (8.2.16) अनेन सूत्रेण प्रातिपदिकान्तस्य पदस्य अन्तिमनकारस्य लोपः विधीयते । अयं लोपः ‘ङि’-प्रत्यये परे सम्बोधन-एकवचनस्य सुँ-प्रत्यये च परे न भवति । यथा - राजन् + सुँ [सम्बुद्धिः] → राजन् इत्येव रूपं सिद्ध्यति । अस्मिन् सूत्रे ‘ङि’ इत्यस्य ग्रहणम् किमर्थम् कृतम्? वस्तुतः लोके तु ङि-प्रत्यये परे नकारान्तशब्दस्य पदसंज्ञा एव न विधीयते, अतः नलोपः प्रातिपदिकान्तस्य (8.2.16) इत्यनेन तस्य लोपः अपि न सम्भवति । अतः लौकिक-संस्कृतार्थम् ङि-ग्रहणम् न आवश्यकम् । परन्तु वेदेषु केषुचन स्थलेषु सप्तम्येकवचनस्य ङि-प्रत्ययस्य लोपः कृतः दृश्यते । यथा - तैत्तिरीयोपनिषदि इदम् सूक्तम् दृश्यते - सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् ॥ [तैत्तिरीयोपनिषत् 2-1-1] अत्र वस्तुतः व्योमन् इति सप्तम्येकवचनमस्ति । सुपां सुलुक्…. (7.1.39) इत्यनेन ‘व्योमन् + ङि’ अत्र ङि-प्रत्ययस्य लोपः जायते । एवं लोपे कृते प्रत्ययलोपे प्रत्ययलक्षणम् (1.1.62) इत्यनेन ‘व्योमन्’ इत्यस्य पदसंज्ञा भवति । अत्र नलोपः प्रातिपदिकान्तस्य (8.2.16) इत्यनेन नकारलोपः मा भूत्, एवं स्पष्टीकर्तुमस्मिन् सूत्रे ङि-ग्रहणम् कृतमस्ति । अस्य प्रयोगः केवलं वैदिकरूपाणां सिद्ध्यर्थं भवति । अत्र वार्त्तिकमेकं ज्ञातव्यम् - <!वा नपुंसकानाम् इति वक्तव्यम्!> । इत्युक्ते, न ङिसम्बुद्ध्योः (8.2.8) इत्यनेन निर्दिष्टः नकारलोपनिषेधः नपुंसकस्य विषये सम्बुद्धिप्रत्यये परे विकल्पेन भवति । यथा - नामन् + सुँ → नामन्, नाम ।

Sutrartha (English)

For a प्रातिपदिक that also gets the पदसंंज्ञा, the terminal न् letter is not omitted in presence of the ङि or सम्बुद्धि प्रत्यय.

Vasu English Summary

(But such न्) is not elided in the Locative -7th case and Vocative Case singular.

Vasu English Translation

(But such न्) is not elided in the Locative -7th case and Vocative Case singular. This debars the elision of न्, which otherwise would have taken place by the preceding sutra. The examples of non-elision, of न् in the Locative singular are to be found in the Vedas. As परमे व्योमन् (Rig. I.164.39), आर्द्रे चर्मन्, लोहिते चर्मन् ॥ Here the sign of the Locative, namely इ (ङि) is elided by (7.1.39). In the Vocative Singular, the न् is not elided, as हे राजन्, हे तक्षन् ॥

Question: When ङि or the Vocative is elided, the preceding stem is no longer a Pratipadika, and the stem does not get the designation of पद before the affix but is भ, hence where is the necessity of making the present prohibitory rule, when the elision of न् would not have taken place in the Locative and Vocative singular, by any rule ?

Answer:- The very fact of the prohibition of the elision of न्, as contained in this aphorism, indicates by implication (jnapaka), that a word retains the designation of pratipadika, though an affix has been elided after it and though such elided affix may produce its effect ((1.2.45) read with (1.1.62)). Nor will such elided affix give the designation of Bha (भ) to such a stem. Thus राज्ञः पुरुषः = राजपुरुषः, here the न् is elided by considering the word राजन् as a pratipadika, even after the elision of the Genitive affix in the compound, and it is not a Bha, which would have required the elision of अ by (6.4.134).

Vart:- Prohibition of the prohibition must be stated, when the Locative word is followed by another word in a compound. That is, when a compound is a Locative Tatpurusha, the न् is elided : as, चर्मणि तिला अस्य = चर्म तिलः ॥

In हे राजवृन्दारक ! the first member राजन् does not retain its न् by the present sutra, because the whole compound, as such, is in the Vocative case, and not the word राजन् ॥ In fact, there can be no compound, which in its analysis, will give the first member as a Vocative word.

Vart:- Optionally so in the neuter nouns. As, हे चर्मन्, हे चर्म !

Bhashya

न ङिसंबुद्ध्योः ॥ न ङिसंबुद्ध्योरनुत्तरपदे॥ न ङिसंबुद्ध्योरनुत्तरपद इति वक्तव्यम्। इह मा भूत्-चर्मणि तिला अस्य चर्मतिल इति। राजन् वृन्दारक राजवृन्दारक इति॥ वा नपुंसकानाम्॥ वा नपुंसकानामिति वक्तव्यम्॥ हे चर्म(1) हे चर्मन्। झ्र्हे वर्म(2) हे वर्मन्ट॥ तत्तर्ह्यनुत्तरपद इति वक्तव्यम्?॥ न वक्तव्यम्। नङिसंबुद्ध्योरित्युच्यते न चाऽत्र ङिसंबुद्धी पश्यामः॥ प्रत्ययलक्षणेन॥ न लुमता तस्मिन्निति प्रत्ययलक्षणप्रतिषेधः(3)॥ न क्व चिन्ङिर्लोपेन लुप्यते, सर्वत्र लुमतैव। स यथैवेह भवति-आर्द्रे चर्मन् लोहिते चर्मन्नित्येवमिहापि स्यात्-चर्मणि तिला अस्य चर्मतिल इति। तस्मादुपसङ्ख्यानं कर्त्तव्यम्। एवं तर्हि ङ्यर्थेन तावन्नाऽर्थः॥ भत्वात्तु ङौ प्रतिषेधानर्थक्यम्॥ ङौ प्रतिषेधोऽनर्थकः॥ किं कारणम्?॥ भत्वात्। भसंज्ञाऽत्र भविष्यति(4)॥ यदि तर्हि भसंज्ञाऽत्र भवति रथन्तरे सामन्नित्यत्र अल्लोपोऽनःइत्यल्लोपः प्राप्नोति॥ नैषः दोषः। उक्तमुभयसंज्ञान्यपि च्छन्दांसि दृश्यन्ते। तद्यथा-स सुष्ठुभा स ऋक्वता गणेन। पदत्वात्कुत्वं भत्वाज्जश्त्वं न भवति-एवमिहापि पदत्वादल्लोपो नझ्र्इति लोपो न(1)ट, भत्वान्नलोपो न भविष्यति। तस्मान्नाऽर्थो ङिग्रहणेन॥ संबुद्ध्यर्थेन चाऽपि नार्थः।. कथम्?॥ संबुद्ध्यन्तानामसमासो(2) राजवृन्दारक इति॥ किं वक्तव्यमेतत्?॥ न हि॥ कथमनुच्यमानं गंस्यते?॥ इह तावत्समानार्थेन(3) वाक्येन भवितव्यं समासेन च। यश्चेहाऽर्थो वाक्येन गम्यते नाऽसौ जातु चित्समासेन गम्यते। अवयवसम्बोधनं वाक्येन गम्यते, समुदायसम्बोधनं समासेन॥ वा नपुंसकानामित्येतद्वक्तव्यमेव॥

Kashika

ङौ परतः संबुद्धौ च नकारलोपो न भवति। आ॒र्द्रे चर्म॒न् (तै०सं० ७.५.९.३)। लोहिते चर्मन् (काठ०सं० २४.२)। सुपां सुलुक्० (७.१.३९) इति ङेर्लुक्। संबुद्धौ — ेहेराजन्। हे तक्षन्। एतस्मादेव नलोपप्रतिषेधवचनाद् अप्रत्ययः(१.२.४५) इति प्रत्ययलक्षणेन प्रातिपदिकसंज्ञा न प्रतिषिध्यत इति ज्ञाप्यते, भसंज्ञा च न भवतीति। तथा च राज्ञः पुरुषो राजपुरुष इत्यत्र नलोपः(८.२.७) च भवति, अल्लोपः (६.४.१३४) च न भवति॥ ङावुत्तरपदे प्रतिषेधस्य प्रतिषेधो वक्तव्यः॥ चर्मणि तिला अस्य चर्मतिलः। हे राजवृन्दारक इत्यत्र तु समुदायार्थसंबोधनं न पूर्वपदार्थसंबोधनं प्रतीयत इति संबुद्ध्यन्तं पूर्वपदं नैव समस्यते॥ वा नपुंसकानामिति वक्तव्यम्॥ हे चर्मन्। हे चर्म॥

Siddhanta Kaumudi

नस्य लोपो न स्यात् ङौ संबुद्धौ च । हे राजन् । ङौ तु छन्दस्युदाहरणम् । सुपां सुलुक्इति ङेर्लुक् । निषेधसामर्थ्यात्प्रत्ययलक्षणम् । परमे व्योमन् ॥<!ङावुत्तरपदे प्रतिषेधो वक्तव्यः !> (वार्तिकम्) ॥ चर्मणि तिला अस्य चर्मतिलः । ब्रह्मणि निष्ठा अस्य ब्रह्मनिष्ठः । राजानौ । राजानः । राजानम् । राजानौ । अल्लोपोऽनः (SK234) । श्चुत्वम् । न चाऽल्लोपः स्थानिवत् । पूर्वत्रासिद्धे तन्निषेधात् । नाऽपि बहिरङ्गतयाऽसिद्ध । यथोद्देशपक्षे षाष्ठीं परिभाषां प्रति श्चुत्वस्यासिद्धतयाऽन्तरङ्गाभावेन परिभाषाया अप्रवृत्तेः । जञोर्ज्ञः । राज्ञः । राज्ञा ॥

Laghu Siddhanta Kaumudi

नस्य लोपो न ङौ सम्बुद्धौ च। हे राजन्। ङावुत्तरपदे प्रतिषेधो वक्तव्यः। ब्रह्मनिष्ठः। राजानौ। राजानः। राज्ञः॥

Balamanorama

न ङिसम्बुद्ध्योः - हे राजन् स् इति स्थिते हल्ङ्यादिना सुलोपे सति नकारस्य पदान्तत्वात्प्रातिपदिकान्तत्वाच्च लोपे प्राप्ते — न ङिसंबुद्ध्योः ।न लोपः प्रातपदिकान्तस्ये॑त्यतो ‘न लोप’ इत्यनुवर्तते । तत्र ‘ने’ ति लुप्तषष्ठीकन्तदाह — नस्येत्यादिना । हे राजन्निति ।सर्वनामस्थाने चे॑ति दीर्घस्तु न,असंबुद्धा॑वित्युक्तेः । नन्वत्र ङिग्रहणं व्यर्थं, राजनीत्यत्र भत्वात्पदत्वाऽभावान्नलोपस्याऽप्रसक्तेरित्यत आह — ङौ तु छन्दसीति । छन्दस्येवेत्यर्थः । ननु छन्दस्यपि ङौ परतो भत्वात्पदत्वाऽभावात्कथं नकारस्य लोपप्रसङ्गो येन तन्निषेधोऽर्थवान् स्यादित्यत आह — सुपामिति । ननु ‘परमे व्योमन्’ इत्यादौ ङेर्लुका लुप्तत्वात्प्रत्ययलक्षणाऽभावात्कथं तत्रन ङिसंबुद्ध्यो॑रित्यस्य प्रवृत्तिरित्यत आह — निषेधसामर्थ्यादिति । छन्दस्यपि ङिलुकि प्रत्ययलक्षणाऽभावे सतिन ङिसबुद्ध्यो॑रित्यप्रवृत्तौ तद्वैयथ्र्यादिति भावः ।ननु यदि छन्दसि ‘परमे व्योमन्’ इत्यादौ ङेर्लुका लुप्तत्वेऽपि प्रत्ययलक्षणमाश्रित्यन ङिसंबुद्ध्यो॑रित्यस्य प्रवृत्तिरभ्युपगम्यते, तर्हि चर्मणि तिला अस्य चर्मतिलः, ब्राहृणि निष्ठा अस्य ब्राहृनिष्ठ इत्यत्रापि समासे ङिलुकः प्रत्ययलक्षणमाश्रित्यन ङिसंबुद्ध्यो॑रिति नकारस्य लोपनिषेधः स्यादित्यत आह — ङावुत्तरपदे इति । उत्तरपदे परतो यो ङिस्तस्मिन् परेन ङिसंबुद्ध्यो॑रिति निषेधस्य प्रतिषेधो वक्तव्य इत्यर्थः । एवं च ‘चर्मतिलः’ इत्यत्रउत्तरपदे परतो न ङिसंबुद्ध्यो॑रिति प्रतिषेधाभावान्नकारस्य लोपो निर्बाध इति भावः । भाष्ये तु छन्दसि ‘परमे व्योमन्’ इत्यत्रअयस्मयादीनि छन्दसी॑ति भत्वात् पदत्वाऽभावान्नकारलोपस्याऽप्रसक्तेर्ङौ प्रतिषेधो न कर्तव्य इति ङिग्रहणं प्रत्याख्यातम् । न चराजन्यती॑त्यत्र लोके राजनीवाचरतीत्यर्थेअधिकरणाच्चे॑ति क्यचिसनाद्यन्ताः इति धात्ववयवत्वात्सुपो धातुप्रातिपदिकयोरिति ङेर्लुकिराजन्ये॑त्यस्मात्तिपिराजन्यती॑त्यत्राप्यन्तर्वर्तिविभक्त्या पदत्वमाश्रित्य नकारस्य लोपप्राप्तौ तन्निषेधार्थं ङिग्रहणस्यावश्यकत्वात्तत्प्रत्याख्यानभाष्यमनुपपन्नमिति वाच्यम्, एतद्भाष्यप्राम#आण्यादे राजनीवाचरतीत्यर्थेअधिकारणाच्चे॑ति क्यचोऽनभिधानाभ्युपगमादित्यलम् । राजानमित्यादौ सुटिसर्वनामस्थाने चे॑ति दीर्घः । शसि विशेषमाह — अल्लोपोऽन इति । अनेन सूत्रेण जकारादकारस्य लोप इत्यर्थः । राजन् अस् इति स्थिते- । श्चुत्वमिति । ततश्च नकारस्य ञकारे ‘राज्ञ’ इति सिद्धम् । ननु ‘अचः परस्मिन्’ इत्यल्लोपस्य पूर्वस्मादपि विधौ स्थानिवत्त्वात्कथमिह श्चुत्वमित्यत आह — नचाल्लोपः स्थानिवदिति । कुत इत्यत आह — पूर्वत्रेति । ‘पूर्वत्रासिद्धे’ इति श्चुत्वे कर्तव्ये स्थानिवत्त्वनिषेधादित्यर्थः ।नन्वल्लोपो भसंज्ञापेक्षो बहिर्भूतस्वादिप्रत्ययापेक्षो बहिरङ्गः, श्चुत्वं तु श्चुयोगमात्रापेक्षत्वादन्तरङ्गम् । ततश्चअसिद्धं बहिरङ्गमन्तरङ्गे॑ इति परिभाषया श्चुत्वे कर्तव्ये बहिरङ्गस्याऽल्लोपस्याऽसिद्धत्वादकारेण व्यवधानात्कथमिह श्चुत्वमित्यत आह — नापीति । यथोद्देशेति ।यथोद्देशं संज्ञापरिभाष॑मित्येकः पक्षः । उद्देशाः=उत्पत्तिप्रदेशाः, ताननतिक्रम्य यथोद्देशम् । यत्र प्रदेशे संज्ञापरिभाषयोरुत्पत्तिस्तत्रैव ते स्थिते प्रतिविधि व्याप्रियेते इत्यर्थः ।असिद्धं बहिरङ्गमन्तरङ्गे॑ इति परिभाषेयं षष्ठाध्याये ‘वाह ऊठ’ इति सूत्रे ज्ञापितेति तत्रैव भाष्ये स्पष्टम् । ततश्च इयं षाष्ठी परिभाषा त्रैपादिके श्चुत्वे कर्तव्येऽन्तरङ्गे ।ञपि न प्रवर्तते,तां प्रति श्चुत्वस्याऽन्तरङ्गस्याऽसिद्धतया तद्दृष्ठआ श्चुत्वस्यैवाऽभावेन तद्विषये तस्याः परिभाषायाः प्रवृत्त्यसंभवात् । तथा च श्चुत्वे कर्तव्ये बहिरङ्गस्याप्यल्लोपस्याऽसिद्धत्वाऽभावादिह श्चुत्वं निर्बाधमिति भावः ।कार्यकालं संज्ञापरिभाष॑मित्यप्यस्ति पक्षान्तरम् । प्रतिविधिप्रदेशं प्राप्य संज्ञापरिभाषे व्याप्रियेते इत्यर्थः । अस्मिन् पक्षे यद्यपि श्चुत्वमन्तरङ्गं पुरस्कृत्यअसिद्धं बहिरङ्गमन्तरङ्गे॑ इति परिभाषाऽत्र प्रवृत्तिमर्हति, तथापि लक्ष्यानुरोधात्कार्यकालपक्षो नेहाश्रीयत इत्यलम् । जञयोगे तादृशध्वनेर्लोकवेदसिद्धत्वादिति भावः । नत्विदं वर्णान्तरम्, शिक्षादावदर्शनात् । अतएतज्ज्ञान॑मिति श्चुत्वसिद्धिरित्याहुः । राज्ञः राज्ञति । शसादावचि भत्वादल्लोपे नकारस्य श्चुत्वेन ञकार इति बावः । ननु राजन्-भ्यामिति स्थिते ‘स्वादिषु’ इति पदत्वात्कृते नलोपेसुपि चे॑ति दीर्घः प्राप्नोति । तथा राजन्-भिस् इति स्थिते नलोपे, ‘अतो भिसः’ इत्यैस् प्राप्नोति । तथा राजन्-भ्यस् इति स्थिते नलोपे ‘बहुवचने झल्येत्’ इत्येत्त्वं प्राप्नोति ।

Nyaas

चर्मन् इति। सुपां सुलृक् (7.1.39) इति ङेर्लुक्। ननु च सुराजन्निति प्रातिपदिकसंज्ञा हि विद्यते, प्रत्ययलक्षणेन (1.1.61) अप्रत्ययः (1.2.45) इति न प्रतिषेधात्। आद्र्रे चर्मन् इति। अत्र तु न केवल प्रातिपदिकसंज्ञा पूरवोक्तादेव हेतोर्नास्ति; प्रत्ययलक्षणेन प्रवृत्तया भसंज्ञया बाधितत्वात्। अतो नलोपप्राप्तिर्मास्त्येवेत्यर्थः। कथं प्रतिषेधः? इत्यत आह -एतस्मादेव इत्यादि। भसंज्ञा च न भवति इति। अत्राप्येतस्मादेव प्रतिषेधवचनात्? प्रत्ययलक्षणेन च ज्ञाप्यत इति सम्बध्यते। तथा च इत्यादिना ज्ञापनप्रयोजनं दर्शयति तदेवमेतस्मात्? प्रतिषेधादर्थद्वयं ज्ञाप्यते। एवञ्च कृत्वा -राजपुरुष इत्यत्र प्रातिपदिकसंज्ञायां सत्यां नलोपश्च भवति। भसंज्ञायामसत्यां अल्लोपोऽनः (6.4.134) इत्यलोपश्च न भवति। न भसंज्ञाभावन्चेत्यस्येह यथोद्देर्श संज्ञापरिभाषम् (व्या।प।59) इत्यस्मिन्? दर्शने प्रयोजनं वेदितव्यम्। कार्यकालं हि संज्ञापरिभाषम् (व्या।प।58) इत्यस्मिन्? दर्शने भसंज्ञायामङ्गकार्यं भवतीति न लुमताङ्गस्य (1.1.63) इति प्रत्ययलक्षणप्रतिषेधादेव भसंज्ञा न भवतीति नार्थस्तत्र भसंज्ञाया अभावज्ञापनेन। ङावुत्तरपदे इत्यादिनायं ङौ परतो नलोपप्रतिषेधस्य प्रतिषेध उक्तः। तस्योत्तरपदे परतो यो ङिस्तत्र प्रतिषेधो वक्तव्यः। वक्तव्यः इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् -स्वरितो दानुदात्तं पदादौ (8.2.6) इत्यतः वा इत्यनुवर्तते, सा च व्यवस्थितविभाषा, तेन ङावुत्तरपदे न भविष्यतौति। चर्मणि तिला अस्य चर्मतिलः इति। वैयधिकरण्येऽपि गमकत्वात्? समासः। ननु चात्यल्पमिदमुच्यते -ङावुत्तरपदे प्रतिषेधो वक्तव्य [अयं भागः का। मुद्रितपूस्तके नास्ति] इति। सम्बुद्धावपि ह्रुत्तरपदे प्रतिषधो [अयं भागः का। मुद्रितपूस्तके नास्ति] वक्तव्य एव; अन्यथा हि हे राजन्? वृन्दारकेति विगृह्र वृन्दारकनागकुञ्जरैः (2.1.62) इति समासे कृते हेराजन्? वृन्दारकेत्यत्र नलोपो न स्यात्? इत्यत आह -हे राजन्? वृन्दारकेत्यत्र तु इत्यादि। समानार्थेन वाक्येन समासेन भवितव्यम्, एवं हि सामर्थ्यं भवति, नान्यथा। तथा चोक्तम् -ग्रहणवाक्यार्थाभिधाने यः शक्तः स समर्थो वेदितव्य इति। यश्चेहार्थो हे राजन्? वृन्दारकेति वाक्येन गम्यते, स न ज्ञायते -हे राजवृन्दारकेति समासेन। वाक्येन ह्रेकार्थीभावाभावात्? सम्बोधनं गम्यते, समासे तु विपर्ययात्? समुदायार्थः सम्बोधनम्। तस्माद्राजा चासौ वृन्दारकश्चेत्येवमेव विगृह्र समासः कर्तव्यः, ततः सम्बुद्धिः, एवञ्च सम्बुद्ध्यन्तं पूर्वपदम्। हे राजन्? वृन्दारकेत्यत्र समासो भविष्यत्येव; ततश्चोत्तरपदे परतः सम्बुद्धेरभावान्नलोपप्रतिषेधस्य प्राप्तिरेव नास्तीति नार्थस्ततप्रतिषेधेन। वा नपुंसकानाम् इत्यादि। नपुंसकलिङ्गानां वा नलोपप्रतिषेधो भवतीत्येतदर्थरूपं व्याख्येयमिति। अत्र व्याख्यानं तु -इहापि वाग्रहणानुवृतिंत व्यवस्थितविभाषात्वं चाश्रित्य कर्तव्यम्॥

Praudhamanorama

ङौ सम्बुद्धौ चेति। प्राचामनुरोधेनेत्थं व्याख्यातम्। ङ्यन्तस्य सम्बुध्द्यन्तस्य च पदस्येति षष्ठ्यन्ततया व्याख्यानं तूचितम्। एवं हि प्रत्ययलक्षणं सुलभमिति तदर्थनिषेधसामर्थ्यानुसरणक्लेशो न कर्तव्यः। पूर्वस्मादपि विधौ स्थानिवत्त्वमाशङ्क्याह— षाष्ठीमिति। ‘वाह ऊठ्’ इत्यत्र ज्ञापितत्वेन तद्देशस्थत्वादिति भावः।

Prakriyasarvasvam

ङौ सम्बुद्धौ च नलोपो न । हे राजन् । ङौ तु छान्दसे ङिलोप आत्मन्नित्या- द्युदाहरणम् । <karika>ङौ नलोपनिषेधोऽयं नतूत्तरपदे परे । तेन नर्मणि लोलेयं नर्मलोलेति लुप्यते ॥ ५९५ ॥</karika> भत्वेऽल्लोपचुत्वे । राज्ञः, राज्ञा, राजभ्यामित्यादि । ङौ राज्ञि, राजनि । एवं यज्वा । यज्वानौ ॥

Sudha

न ङिसम्बुद्ध्यारिति । **नलोपः प्रातिपदिकान्तस्य**(8.2.7) इस्यतो न लोप इत्यनुवर्तते । तत्र नेति लुप्तषष्ठीकम् । तदाह - नस्य लोप इत्यादिना । हे राजन् । ‘हे राजन् + सु’ इत्यत्र सोरुकारस्येत्सञ्ज्ञायां लोपे च तस्य सर्वनामस्थानसंज्ञत्वाद् दीर्घ प्राप्ते ‘असम्बुद्धौ’ इत्युक्तत्वान्न भवति । तदनन्तरम् **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्**(6.1.68) इति स् लोपे **नलोपः प्रातिपदिकान्तस्य**(8.2.7) इति नलोपे प्राप्ते परमत्र **न ङिसम्बुद्ध्योः**(8.2.8) इति निषेधे ‘हे राजन्’ इति रूपम् । ङावुत्तरपदे इति । उत्तरपदे परतो यः ङिः तस्मिन् परे **न ङिसम्बुद्ध्योः**(8.2.8) इति निषेधस्य प्रतिषेधो वक्तव्य इत्यर्थः । एवं च चर्मतिलः इत्यत्र उत्तरपदे परतः **न ङिसम्बुद्ध्योः**(8.2.8) इति प्रतिषेधाभावात् नकारस्य लोपो निर्बाध इति भावः । राजानौ । राजन् + औ इति स्थिते **सुडनपुंसकस्य**(1.1.43) इति सर्वनामस्थानसंज्ञायां **सर्वनामस्थाने चासम्बुद्धौ**(6.4.8) इति नान्तोपधाया दीर्घत्वे ‘राजानौ’ इति रूपम् । राजानः । राजन् + अस् इति स्थिते पूर्ववत्सर्वनामस्थानसञ्ज्ञायां **सर्वनामस्थाने चासम्बुद्धौ**(6.4.8) इति नान्तोपधाया दीर्घत्वे सस्य रुत्वे रेफस्य विसर्गत्वे च ‘राजानः’ इति रूपम् । राज्ञः। राजन् + शस् इति स्थिते शस्येत्सञ्ज्ञायां लोपे च कृते **यचि भम्**(1.4.18) इति भसञ्ज्ञायाम् **अल्लोपोऽनः**(6.4.134) इति अनोऽकारस्य लोपे **स्तोः श्चुना श्चुः**(8.4.40) इति नस्य ञत्वे जञोर्ज्ञः ‘राज्ञः’ इति ।

Vartika

ङावुत्तरपदे प्रतिषेधः ।