82013: उदन्वानुदधौ च¶
Padacheda: उदन्वान् | S | 1 | 1 |
उदधौ | S | 7 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The word उदन्वान् is irregularly formed in the sense of ‘a sea’.
Vasu English Translation¶
The word उदन्वान् is irregularly formed in the sense of ‘a sea’. It is derived from उदक ‘water’ with the affix मत् ॥ उदन्वान् is the name of a Rishi, because he controlled the rains, it rained at his command. It also means occan or that in which water is held, like तटाक &c. The affix कि is added by (3.3.93), and उदक changed to उद् by (6.3.58), and thus we have उदधिः ॥ Why do we say “when meaning a sea”? Observe उदकवान् घटः ‘a pot having water’. Here the main idea is not that of “holding or containing”, but simply the general fact of possessing water: a human being may also possess water in the same way.
Kashika¶
उदन्वानित्युदकशब्दस्य मतावुदन्भावो निपात्यत उदधावर्थे संज्ञायां च विषये। उदन्वान् नाम ऋषिर्यस्यौदन्वतः पुत्रः। उदधौ — उदन्वान्। यस्मिन्नुदकं धीयते, स एवमुच्यते। उदधाविति किम्? उदकवान् घट इत्यत्र तु दधात्यर्थो न विवक्ष्यते। किं तर्हि? उदकसत्तासंबन्धसामान्यम्॥
Siddhanta Kaumudi¶
उदकस्य उदन्भावो मतौ उदधौ संज्ञायं च । उदन्वान् समुद्रः ऋषिश्च ॥
Balamanorama¶
उदन्वानुदधौ च - उदन्वानुदधौ च । उदधौ संज्ञायां चेति । वस्तुतस्तु उदन्वांश्चेत्येव सूत्रयितुमुचितं, संज्ञायामित्यनुवृत्त्यैव समुद्रेऽपि उदन्वच्छब्दस्य सिद्धत्वात् ।
Padamanjari¶
उदन्वान्नाम ऋषिरिति । यस्य च कामवर्षो पर्जन्यः - यस्मिन्नुदकं धीयत इति, स पुनस्तटाकादिः ।’कर्मण्यधिकरणे च’ इति किप्रत्ययः,’पेषंवासवाहनधिषु च’ इति उदकस्योद्भावः । उदकसतासम्बन्धसामान्यमिति । तच्च देवदतादिष्वपि सम्भवति । असंज्ञार्थं वोदधिग्रहणम् ॥
Nyaas¶
उदधावर्थे इति। यस्मिन्नुदकं धीयते तस्मिन्नर्थं इत्यर्थः। तथा ह्रुदके कर्मण्युपपदे कर्मण्यधिकरणे च (3.3.93) इति किप्रत्यये कृते पेषंवासवाहनधिषु च (6.3.58) इत्युदकस्योदभावे कृत उदधिशब्दो व्युत्पाद्यते। चकारेण संज्ञायाम् (8.2.11) इत्यनुकृष्यत इति दर्शयति। संज्ञायां च इत्यादि। उदधावर्थे इत्यादि। उदधिग्रहणञ्च संज्ञार्थम्। उदन्दान् इति। डदकं धेयमास्मिन्नस्तीत्यर्थविवक्षायां मतुप्। स एव मुच्यते इति। न तु गङ्गादिः। यदि यस्मिन्नुदकं धीयते [नास्ति -कांउ।पुस्तके] स एव मुच्यते -उदकवान्? घट इत्यभिधानं प्राप्नोति, घटेऽप्युदकं धीयत इत्यत आह -उदकवान्? घटः इत्यादि। इह विवक्षा शब्दव्युत्पत्तेः प्रधानं कारणम्, न वस्तुनः सत्ता। स च येन दधात्यर्थेनोदधिरित्युच्यते, सोऽस्मिन्? प्रयोगे घटे न विवक्षितः, किं तर्हि? उदकसत्तायाः सम्बन्धमात्रम्। उदकमस्मिन्नस्तीत्येवन्मात्रं विवक्षितम्। अतो दधात्यर्थस्याविवक्षितत्वाद्घटस्योदधित्वं विद्यमानमप्यसङ्कल्प्यमेवेति नायं निपातनस्य विषयः। तेन घट उदकवानित्युच्यते। यदा तु दधात्यर्थो विवक्ष्यते तदोदन्वानित्येवं वक्तव्यम्॥ बाल-मनोरमासंज्ञायाम् 1874, 8.2.13 संज्ञायाम्। `अहीवती`त्यादि नदीविशेषस्य, नगरीविशेषस्य वा संज्ञा। शरादित्वादिति। `शरादीनां चे`ति दीर्घ इत्यर्थः। बाल-मनोरमाउदन्वानुदधौ च 1876, 8.2.13 उदन्वानुदधौ च। उदधौ संज्ञायां चेति। वस्तुतस्तु उदन्वांश्चेत्येव सूत्रयितुमुचितं, संज्ञायामित्यनुवृत्त्यैव समुद्रेऽपि उदन्वच्छब्दस्य सिद्धत्वात्।
Prakriyasarvasvam¶
चकारात्कस्यचिदृषेर्नाम्नि च ॥
Sutra Prayogas¶
उदन्वान् (किरातार्जुनीयम्): उदन्वानुदधौ च इति निपातनात्साधुः।