82009: मादुपधायाश्च मतोर्वोऽयवादिभ्यः¶
Padacheda: मात् | S | 5 | 1 |
उपधायाः | S | 5 | 1 |
च | S | 0 | 0 |
मतोः | S | 6 | 1 |
वः | S | 1 | 1 |
अयवादिभ्यः | S | 5 | 3 |
Sutrartha¶
Vasu English Summary¶
For the म् of the affix मत् is substituted व if the अङ्ग (stem) ends in म् or अ ( and आ) or if these are in the penultimate position; but not after यव etc.
Vasu English Translation¶
For the म् of the affix मत् is substituted व if the अङ्ग (stem) ends in म् or अ ( and आ) or if these are in the penultimate position; but not after यव etc. After a stem ending in म् or having म् as its penultimate letter, and after a stem ending in अ or आ, or having these letters as its penultimate, there is substituted व् for the म् of मतुप् ॥ First after stems ending in म्, as किंवत् (किंवान्), शंवत् (शंवान्). Secondly म् penultimate : as शमीवान्, दाडिमीवान् ॥ Thirdly a stem ending in अ or आ, as वृक्षवान्, प्लक्षवान्, खट्वावान्, मालावान् ॥ Fourthly अ or आ in the penultimate : as- पयस्वान्, यशस्वान्, भास्वान् ॥
Why do we say “म् or अ ending or म or अ penultimate”? Observe अग्निमान्, वायुमान् ॥ Why do we say “with the exception of यव &c”? Observe यवमान्, दल्मिमान्, उर्म्मिमान् ॥
The following is the list of यवादि words.
यव, 2. दल्मि, 3. उर्म्मि, 4. भूमि, 5. कृपि, 6.कुञ्चा, 7. वशा, 8. द्राक्षा, 9. घ्राक्षा ॥ These words either end in म and अ or have these as their penultimate. 10. ध्रजि, 11. ध्वजि, 12. सञ्जि. These are exceptions to (8.2.15). 13. हरित् 14. ककुत्, 15. गरुत् ॥ These are exceptions to (8.2.10). 16. इक्षु, I7. मधु, 18. द्रुम, 19. मण्ड, 20. धुम ॥ These are exceptions to (8.2.11).
This is an akritigana. Wherever in a word, the म् of मतुप् is not changed to व्, though the rules require it, that word should be classified under यवादि class. In the secondary word नार्मतं (= नृमत इदं), the व् change has not taken place, because the अ is here a Bahiranga, the real vowel being ऋ ॥
The word मात् in the sutra is the Ablative of म, i.e. of म् + अ; it is a Samahara Dvandva of these two letters.
Kashika¶
मतोरिह कार्यित्वेनोपादानात् सामर्थ्यलब्धं प्रातिपदिकम्, तद् मादिति मकारावर्णाभ्यां विशिष्यते, मकारावर्णविशिष्टया चोपधया इत्ययमर्थो भवति — मकारान्ताद् मकारोपधादवर्णान्तादवर्णोपधात् चोत्तरस्य मतोर्व इत्ययमादेशो भवति, यवादिभ्यस्तु परतो न भवति। मकारान्तात् तावत् — किंवान्। शंवान्। मकारोपधात् — शमीवान्। दाडिमीवान्। अवर्णान्तात् — वृक्षवान्। प्लक्षवान्। खट्वावान्। मालावान्। अवर्णोपधात् — पयस्वान्। यशस्वान्। भास्वान्। मादुपधायाश्चेति किम्? अग्निमान्। वायुमान्। अयवादिभ्य इति किम्? यवमान्। दल्मिमान्। ऊर्मिमान्॥ यव। दल्मि। ऊर्मि। भूमि। कृमि। क्रु ञ्चा। वशा। द्राक्षा। एतेषां मादुपधायाश्च० (८.२.९) इति प्राप्नोति। ध्रजि, ध्वजि, सञ्जि इत्येतेषां छन्दसीरः (८.२.१५) इति। हरित्, ककुत्, गरुत् इत्येतेषां झयः (८.२.१०) इति। इक्षु, मधु, द्रुम, मण्ड, धूम इत्येतेषां **संज्ञायाम्**(८.२.११) इति। आकृतिगणश्च यवादिः। अकृतवत्वो मतुब् यवादिषु द्रष्टव्यः। यस्य सति निमित्ते मतुपो वत्वं न दृश्यते, स यवादिषु द्रष्टव्यः। इह नृमत इदं नार्मतमिति बहिरङ्गलक्षणत्वात् अवर्णोपधस्य मतुपो वत्वं न भवति॥
Siddhanta Kaumudi¶
मवर्णावर्णान्तान्मवर्णावर्णोपधाच्च यवादिवर्जितात्परस्य मतोर्मस्य वः स्यात् । किंवान् । ज्ञानवान् । विद्यावान । लक्ष्मीवान् । यशस्वान् । भास्वान् । यवादेस्तु यवमान् । भूमिमान् ॥
Laghu Siddhanta Kaumudi¶
मवर्णावर्णान्तान्मवर्णावर्णोपधाच्च यवादिवर्जितात्परस्य मतोर्मस्य वः। वेतस्वान्॥
Balamanorama¶
मादुपधायाश्च मतोर्वोऽयवादिभ्यः - मादुपधायाश्च । मात् उपधायाश्चेति च्छेदः । मादित्यावर्तते । मू च अश्चेति समाहारद्वनद्वात्पञ्चम्येकवचनम् । मतुप्प्रत्ययाक्षिप्तप्रातिपदिकविशेषणत्वात्तदन्तविधिः । णवर्णान्तादवर्णान्तात्प्रातिपदिकात्परस्य मतोर्मस्य वः स्यादित्येकोऽर्थः । मादित्युपधाविशेषणम् । मकारात्मिका अकारात्मिका च या उपधा ततः परस्य मतोर्मस्य वः स्यादित्यन्योऽर्थः । फलितमाह — मवर्णेत्यादिना । मान्तादुदाहरति — किंवानिति । किमस्यास्मिन्वाऽस्तीति विग्रहः । एवमग्रेऽपि । अकारान्तादुदाहरति — ज्ञानवानिति । अत्र तपरकरणाऽभावादाकारस्यापि ग्रहणमिति मत्वाग — विद्यावानिति । मोपधादुदाहरति — लक्ष्मीवानिति । अदुपदादुदाहरति — यशस्वानिति । ‘तसौ मत्वर्थे’ इति भत्वान्न रुत्वम् । आकारोपधादुदाहरति — लक्ष्मीवानिति । अदुपधादुदाहरति-यशस्वानिति । ‘तसौ मत्वर्थे’ इति भत्वान्न रुत्वम् । आकारोपधादुदाहरति — भास्वानिति ।
Tattvabodhini¶
मादुपधायाश्च मतोर्वोऽयवादिभ्यः - मादुपधायाः । म्च अश्च मं । समाहारो द्वन्द्वः । तेन मतुप्प्रत्ययाक्षिप्तं प्रातिपदिकं विशेष्यते । तदाह -मवर्णावर्णान्तादिति ।उपधायाश्चे॑ति वाक्यान्तरम् । उपधाभूतान्मात्परस्य मतोरित्यर्थः ।येन नाव्यवधान॑न्यायेनाऽन्त्याऽल्व्यवहितेऽपि भवतीति । एवमक्षरार्थे स्थिते फलितमाह -मवर्णावर्णोपधादिति ।
Padamanjari¶
अत्र चकाराद्वाक्यभेदः, मश्च अश्चेति समाहारद्वन्द्वः । तस्मान्मात्परस्य मतोर्वो भवति । ठुपधायाश्चऽ, मादित्येव, उपधायाश्च मात्परस्य मतोर्वो भवति, पूर्वेणानन्तर्ये विहितं व्यवधानेऽपि यथा स्यादित्ययमारम्भः । एवं व्याख्यातव्ये मतोरिह कार्यित्वेनेत्यादि यदुक्तम्, तत्राभिप्रायो मृग्यः । कश्चिदाह -‘मकारान्तान्मकारोपधावर्णान्तादवर्णोपधाच्चेति वैयाकरणगोष्ठीषु पठ।ल्ते, तस्येदमुपपादनम्’ इति; तत्रापि मकारोपधादकारोपधादिति बहुव्रीह्यर्थस्य नोपपादनं दृश्यते । व इत्ययमादेशो भवतीति । अत्रेतिशब्दः पठितव्यः, तदयमर्थो भवतीत्युपक्रमात्, यवादिविप्रतिषेधे प्रकारे आदिशब्दः । पयस्वानिति ।’तसौ मत्वर्थे’ इति भत्वाद्रुत्वाभावः, । इह नरोऽस्यास्तीति नृमान्, तस्येदं नार्मतमिति वृद्धौ कृतायामवर्णोपधादिति वत्वं प्राप्नोति, तस्य प्रतिषेधो वक्तव्यः ? इत्यत आह - इहेति । बहिर्भूततद्धितापेक्षत्वाद्बहिरङ्गा वृद्धिरन्तर्भूतमतुबपेक्षे वत्वे असिद्धा भवतीत्यर्थः ॥
Nyaas¶
मकारान्तान्मकारोपधादवर्णान्तादवर्णोपधाच्चोत्तरस्य मतुपो मकारसय च इत्ययमादेशो भवतीत्ययमर्थोऽभिमतः। स एव यथा सम्पद्यते, तथा दर्शयितुमाह -मतोरिह इत्यादि। अत्र मतुप कार्यित्वेनीपात्तः। स च नास्त्यन्तरेण प्रातिपदिकत्वम्; तद्विधौ प्रातिपदिकाधिकारात्? (4.1.1) । तस्मान्मतुपः पूर्वं सामर्थ्यलभ्यं प्रातिपदिकम्, तन्मकारावर्णाभ्यां मादिति विशिष्यते -मकारोऽन्तो यस्यं, अवर्णोऽन्तो यस्येति। मकारावर्णविशिष्टा या चोपधेति सामर्थ्यम्। कथम्? पूर्वं प्रातिपदिकान्तं विशिष्यते इति सम्बन्धनीयम्। मकारेण विशेषणेन, अवर्णेन विशेषणेन च विशिष्टा योपधा सा च विशिष्यते -मकार उपधा यस्य, अवर्ण उपधा यस्येति। मकारावर्णविशिष्टस्येति मतुपो विशेषणे उपधायाश्च इत्यत्र मा भूदिति? अस्यापेक्षितस्वल्लभ्यत इत्ययमर्थो भवतीति। इतिकरणो हेतौ। यस्मात्? सामर्थ्यप्राप्तं प्रातिपदिकमेव विशिष्यते, तस्मादयं वक्ष्यमाणोऽर्थः सूत्रस्यापि भविष्यतीति। किंवान् इति। किमस्यास्तीति मतुप्; उगिदचाम् (7.1.70) इत्यादिना नुम्, हलङ्यादिसंयोगान्तलौ (6.1.70; 8.2.23), अत्वसन्तस्य चाधातोः (6.4.14) इति दीर्घः।नार्मतम् इति। नरोऽस्य सन्तीति नृमान्, नृमत इदमिति तस्येदम् (4.3.120) इत्यण्, तत्र वृद्धौ कृतायां दार्मतमित्यत्रावर्णोपधमतुप्? प्रातिपदिकं जातमिति वत्वं प्राप्नीति, तत्? कस्मान्न भवति? इत्याह -इह इत्यादि। नार्मतमित्यत्र ह्रवर्णोपधमतुप्त्वं वृद्धिरेव, सा च बाहृतद्धितनिमित्ता। अतोऽवर्णौपधत्वस्य बहिरङ्गत्वम्, वत्वं तु प्रवृत्तिनिमित्तमिति तस्यान्तरङ्गत्वम्, असिद्धं च बहिरङ्गमन्तरङ्गे (व्या।प।42) इति, तेन नार्मत मित्यत्र वत्वं न भवति॥
Sutra Prayogas¶
रश्मिमतो (किरातार्जुनीयम्): मादुपधायाश्च मतोर्वोऽयवादिभ्यः इति मतुपो मकारस्य न वकारः।
लक्ष्मीवतः (किरातार्जुनीयम्): मादुपधायाश्च मतोर्वोऽयवादिभ्यः इति मतुपो मस्य वकारः।
लक्ष्मीवान् (शिशुपालवधम्): मादुपधा याश्च मतोर्वोऽयवादिभ्यः इति मतुपो मकारस्य वत्त्वम्।
कुमुद्वतीनां (शिशुपालवधम्): मादुपधायाः इति मकारस्य वत्वम्।