82010: झयः

Padacheda: झयः | S | 5 | 1 |

Sutrartha


Vasu English Summary

The व् is substituted for the म् of मत् after a अङ्ग (stem) ending in a mute consonant.

Vasu English Translation

The व् is substituted for the म् of मत् after a अङ्ग (stem) ending in a mute consonant. As अग्निचित्वान् ग्रामः, उदश्वित्वान् घोषः, विद्युत्वान् बलाहकः, इन्द्रो मरुत्वान्, दृषद्वान् देशः ॥

Kashika

झयन्तादुत्तरस्य मतोर्व इत्ययमादेशो भवति। अग्निचित्वान् ग्रामः। उदश्वित्वान् घोषः। विद्युत्वान् बलाहकः। इन्द्रो मरुत्वान् (आ०श्रौ० २.११.१०)। दृषद्वान् देशः॥

Siddhanta Kaumudi

झयन्तान्मतोर्मस्य वः स्यात् । अपदान्तत्वान्न जश्त्वम् । विद्युत्वान् ॥

Laghu Siddhanta Kaumudi

झयन्तान्मतोर्मस्य वः। कुमुद्वान्। नड्वान्॥

Balamanorama

झयः - अथविद्युत्वा॑नित्यत्र मकाराऽकारान्तत्वाऽभावान्मकाराऽकारोपधत्वाऽभावान्न मादुपधाया इति वत्वाऽप्राप्तावाह — झयः । अपदान्तत्वादिति । तसौ मत्वर्थे॑ इति भत्वेन पदत्वबाधादिति भावः ।

Tattvabodhini

झयः - झयः । इदमपि मतुबाक्षिप्तस्य प्रातिपदिकस्य विशेषणम् । तदाह — — झयन्तादिति । विद्युत्वानिति । एतेनवह्निमद्वा॑निति नैयायिकप्रयोगो निरस्तः । उक्तरीत्या जश्त्वस्याऽप्रवृत्तेः । मत्वन्तान्मतुपो निषेधाच्च । ननु गोधुङ्भान् मधुलिण्मानित्यत्र हस्य घत्वे ढत्वे च कृतेझयः॑इति वत्वप्रवृत्त्याऽनुनासिकपरत्वाऽभावात्प्रत्यये भाषायां नित्य॑मित्यनेन धकारढकारयोरनुनासिकाऽप्रवृत्तेर्गोधुग्वान् मधुलिड्वानित्यनिष्टं प्रसज्येत । मैवम् । घत्वढत्वयोरसिद्धत्वेनझयः॑इति वत्वाऽप्रवृत्तेः ।

Padamanjari

अग्निचित्वानिति । पूर्ववद्भत्वाज्जश्त्वाभावः ॥

Nyaas

अग्निचित्वान् इति। तसौ मत्वर्थे (1.4.19) इति भसंज्ञा। तेन पदसंज्ञानिबन्धनं झलां जशोऽन्ते (8.2.39) इति जश्त्वं न भवति॥

Prakriyasarvasvam

झयः परस्य मतो वः स्यात् । कुमुद्वान् देशः । नड्वान् । वेतस्वान् । अत्रादुपधत्वाद् वः ।<!महिषाच्चेति वाच्यम्!> (वा० ४२-८-७) महिष्मान् नाम देशः ॥

Sutra Prayogas

  • कुमुद्वतीं (भट्टिकाव्यम्): झयः इति वत्वम्।

  • मरुत्वान्वि-कृतः (भट्टिकाव्यम्): झयः इति मरुच्छब्दान्मतुपो वत्वम्।

  • अक्षत-वद्योधा (भट्टिकाव्यम्): झयः इति वत्वं न भवति।