82011: संज्ञायाम्¶
Padacheda: संज्ञायाम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The व् is substituted for the म् of मत् when the word so formed is a Name.
Vasu English Translation¶
The व् is substituted for the म् of मत् when the word so formed is a Name. As आहीवती, कपीवती, ऋषीवती, सुनीवती ॥ For long vowel, see (6.3.120).
Bhashya¶
संज्ञायामासन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्द्रुमण्वच्चर्मण्वती ॥ किमयमेक योग आहो स्विन्नानायोगौ?॥ किं चातः?॥ यद्येकयोगः अहीवती कपीवती-अत्र न प्राप्नोति॥ अथ नानायोगौ-ःइक्षुमती द्रुमती-अत्रापि प्राप्नोति॥ यथेच्छसि तथास्तु॥ अस्तु तावदेकयोगः॥ कथमहीवती कपीवती?॥ आचार्यप्रवृत्तिर्ज्ञापयति-भवत्येवंजातीयकानां वत्वमिति यदयमन्तोऽवत्या इर्वत्या इत्याह॥ अथवा पुनरस्तु नानायोगौ। ननु चोक्तमिक्षुमती द्रुमती अत्रापि प्राप्नोतीति॥ यवादिषु पाठः करिष्यते॥
Kashika¶
संज्ञायां विषये मतोर्व इत्ययमादेशो भवति। अहीवती। कपीवती। ऋषीवती। मुनीवती॥
Siddhanta Kaumudi¶
मतोर्मस्य वः स्यात् । अहीवती । मुनीवती ।शरादीनां च (SK1042) इति दीर्घः ॥
Padamanjari¶
अहीवतीत्यादौ चातुरर्थिको नद्यां मतुप् ॥
Nyaas¶
अहीवती इति। नद्यां मतुप् (4.2.85) इति चातुरर्थिको भतुप्, शरादीनां च (6.3.120) दीर्घः॥