82006: स्वरितो वाऽनुदात्ते पदादौ

Padacheda: स्वरितः | S | 1 | 1 |

वा | S | 0 | 0 |

अनुदात्ते | S | 7 | 1 |

पदादौ | S | 7 | 1 |

Sutrartha


Vasu English Summary

The single substitute of an unaccented vowel standing at the beginning of a word, with an उदात्त (acute accent) vowel may optionally be a स्वरित or उदात्त (acute accent).

Vasu English Translation

The single substitute of an unaccented vowel standing at the beginning of a word, with an उदात्त (acute accent) vowel may optionally be a स्वरित or उदात्त (acute accent). Thus सु + उत्थितः = सू꣡त्थितः or सू॑त्थितः; वि॑ + ईक्षते = वीक्ष꣡ते or वीक्ष॑ते; वसुकः + असि = वसुकोऽ॑सि or वसुकोऽ꣡सि ॥ Here the word सु is a Karmapravachaniya by (1.4.94), when it is compounded by प्रादिसमास with the Past Participle, the Avayayibhava compound retains the accent of its first member (6.2.2), and so it is acutely accented on the first, and the rest are anudatta. Thus the udatta उ꣡ of सु is compounded with the anudatta उ॒ of उत्थितः which stands at the beginning of a Pada, and so the ekadesa is optionally svarita. In वीक्षते and वसुकोऽसि also the verbs ईक्षते and असि lose all accent by (8.1.28) and so ई and अ become anudatta, which when compounded with वि and वसुका become optionally svarita.

The word स्वरितः is employed in the sutra only for the sake of distinctness, for the sutra may have well stood as वाऽनुदात्ते पदादौ ॥ In this form of the sutra, the udatta of the preceding sutra would become optional when the second member is a word beginning with anudatta. Udatta being optional, in the other alternative, where there will not be udatta, the svarita will be substituted by reason of the nearness in position.

Why do we say “anudatta beginning”? Observe देवदत्तोऽत्र ॥ Here अत्र begins with udatta and not anudatta, and hence no option is allowed.

Why do we say “beginning of a word”? Observe वृक्षैः, वृक्षाः, प्लक्षैः and प्लक्षाः, where anudatta case-endings are not beginnings of words.

According to Bhattoji Dikshita this is a vyavasthita-vibhasha; in this wise. There will necessarily be svarita (1) where a long ई is the single substitute of (इ + इ) or of two short इ, (2) where there is purva-rupa by the application of एङपदान्तात् अति (6.1.109). There will be udatta where a long vowel comes in. Thus in वि + इदम् = वीद॑म् in वी३दं॒ ज्योति॒र्हृद॑ये, the long ई is substituted for two short इ’s. This substitution of a long ई for two short इ’s is technically called प्रश्लेष ॥ Where there is Praslesha, the long ई is necessarily svarita. Similarly when there is अभिनिहतसन्धिः i. e. the peculiar sandhi taught in (6.1.109). Thus ते॑ऽवदन्, सोऽय॒मागा॑त् ॥ So also where there is क्षैप्रः सन्धिः i.e. the substitution of a semi-vowel in the room of an udatta or svarita vowel, as अन्या॑भि ॥ The above rules about svarita are thus summarised in the Pratisakhyas : इकारयोश्च प्रश्लेषे क्षैप्राभिनिहतेषु च ॥ But where a long ई is substituted as a single substitute for इ + ई (one of the इ’s being long), there it must always be acute. As अस्य श्लोको दि॒वीयते (Rig. 1.190. 4). The words दिवि꣡ + ईय॒ते॒ are compounded into दिवीयते ॥ The word दिवि꣡ Locative singular is finally acute by (6.1.171). ईयते is from the Divadi root इङ् गतौ, and has lost its accent by (8.1.28).

Bhashya

स्वरितो वाऽनुदात्ते पदादौ स्वरितग्रहणं(1)-शक्यमकर्त्तुम्॥ कथम्?॥ अनुदात्ते परतः पदादौवा(2) उदात्त इत्येव सिद्धम्॥ केनेदानीं स्वरितो भविष्यति-गाङ्गेऽनूपे(2) इति?॥ आन्तर्यत उदात्तानुदात्तयोरेकादेशः स्वरितो भविष्यति॥ इदं तर्हि प्रयोजनं तेन र्वज्यमानता मा भूदिति(3)॥ अथ क्रियमाणेऽपि स्वरितग्रहणे यः सिद्धः स्वरितस्तेन र्वज्यमानता कस्मान्न भवति - कन्याऽनूपे इति?॥ बहिरङ्गलक्षणत्वात्। असिद्धं बहिरङ्गमन्तरङ्ग इत्येवं न भविष्यति॥ यथैव तर्हि क्रियमाणे स्वरितग्रहणे(1) यः सिद्धः स्वरितस्तेन र्वज्यमानता न भवत्येवमक्रियमाणेऽपि न भविष्यति। तस्मान्नार्थः स्वरितग्रहणेन। असिद्धं बहिरङ्गलक्षणमन्तरङ्गलक्षण इत्येव सिद्धम्॥ एकादेशस्वरोऽन्तरङ्गः(अयवायावेकादशशतृस्वरैकाननुदात्तसर्वानुदात्तार्थम्(2))॥ झ्र्एकादेशस्वरोऽन्तरङ्गः सिद्धो वक्तव्यः॥ किं प्रयोजनम्?॥ अयवायावेकादेशशतृस्वरैकाननुदात्तसर्वानुदात्तार्थम्(3)॥ट ॥ अय्-वृक्ष इदम् प्लक्ष इदम्। उदात्तानुदात्तयोरेकादेशस्तस्यैकादेश उदात्तेनोदात्त इत्येतद्भवति। तस्य सिद्धत्वं वक्तव्यम्। आन्तर्यत उदात्तस्य उदात्तोऽयादेशो यथा स्यात्॥ झ्र्अय्(1)ट॥ अवादेशो नास्ति। आय्-कुमार्या इदम् किशोर्या इदम्(1)। उदात्तानुदात्तयोरेकादेशस्तस्यैकादेश उदात्तेनोदात्त इत्येतद्भवति, तस्य सिद्धत्वं वक्तव्यम्। आन्तर्यत उदात्तस्य उदात्त आयादेशो यथा स्यात्॥ नैतदस्ति प्रयोजनं, एकादेशे कृते उदात्तयणो हल्पूर्वादित्युदात्तो भविष्यति॥ इदमिह संप्रधार्यम्-उदात्तत्वं क्रियतामेकादेश इति, किमत्र कर्त्तव्यम्?। परत्वादुदात्तत्वम्॥ नित्य एकादेशः। कृतेऽप्युदात्तत्वे(1) प्राप्नोत्यकृतेऽपि प्राप्नोति॥ एकादेशोऽप्यनित्यः(2)। अन्यथा -स्वरस्य कृते उदात्तत्वे प्राप्नोत्यन्यथास्वरस्याऽकृते, स्वरभिन्नस्य च प्राप्नुवन्विधिरनित्यो भवति॥ अन्तरङ्गस्तर्ह्येकादेशः॥ काऽन्तरङ्गता?॥ वर्णावाश्रित्यैकादेशः पदस्योदात्तत्वम्॥ एवं तर्हीदमिह संप्रधार्यम्-आट् क्रियतामुदात्तत्वमिति; किमत्र कर्त्तव्यम्?॥ परत्वादाडागमः॥ नित्यमुदात्तत्वम्, कृतेऽप्याटि प्राप्नोत्यकृतेऽपि प्राप्नोति॥ आडपि नित्यः,-कृतेप्युदात्तत्वे प्राप्नोत्यकृतेऽपि प्राप्नोति॥ अनित्य आट्। अन्यथा स्वरस्य कृते उदात्तत्वे प्राप्नोत्यन्यथा स्वरस्याऽकृते। स्वरभिन्नस्य च प्राप्नुवन्विधिरनित्यो भवति॥ उदात्तत्वमप्यनित्यम्-अन्यस्य कृते आटि प्राप्नोत्यन्यस्याऽकृते प्राप्नोति। शब्दान्तरस्य च प्राप्नुवन् विधिरनित्यो भवति। उभयोरनित्ययोः परत्वादाडागमः। आटि कृतेऽन्तरङ्ग एकादेशः।झ्र्आय्(1)ट। अव्-वृक्षाविदम्। प्लक्षाविदम्(1)॥ उदात्तनुदात्तयोरेकादेशः। तस्यैकादेश उदात्तेनोदात्त इत्येतद्भवति, तस्य सिद्धत्वं वक्तव्यम्। आन्तर्यत उदात्तस्योदात्त आवादेशो यथा स्यात्। झ्र्आव्(1)ट॥ एकादेशस्वरः-गाङ्गेऽनूप इति। उदात्तानुदात्तयोरेकादेशः। तस्यैकादेश उदात्तेनोदात्त इत्येतद्भवति, तस्य सिद्धत्वं वक्तव्यं, स्वरितो वानुदात्ते पदादावित्येष(2) स्वरो यथा स्यात्। झ्र्एकादेशस्वरःट॥ शतृस्वरः -तुदती नुदती। उदात्तानुदात्तयोरेकादेशः, तस्यैकादेश उदात्तेनोदात्त इत्येतद्भवति तस्य सिद्धत्व वक्तव्यम्। शतुरनुमोऽनद्यजादिरन्तोदात्ता(3)दित्येष स्वरो यथा स्यात्॥ नैतदस्ति प्रयोजनम्-आचार्यप्रवृत्तिर्ज्ञापयति सिद्ध एकादेशस्वरः शतृस्वरे इति, यदयमनुम इति प्रतिषेधं शास्ति॥ कथं कृत्वा ज्ञापकम्?॥ न ह्यन्तरेणोदात्तानुदात्तयोरेकादेशं शात्रन्तं सनुङ्कमन्तोदात्तमस्ति॥ ननु चेदमस्ति यान्ती वान्तीति॥ एतदपि निघाते कृते नाऽन्तरेणोदात्तानुत्तदायोरेकादेशं शत्रन्तं सनुङ्कमन्तोदात्तं(1) भवति॥ इदमिह संप्रधार्यं-निघातः क्रियतामेकादेश इति, किमत्र कर्तव्यम्?॥ परत्वान्निघातः॥ नित्य एकादेशः, - कृतेऽपि निघाते प्राप्नोत्यकृतेऽपि प्राप्नोति॥ एकादेशोऽप्यनित्यः। अन्यथास्वरस्य कृते निघाते प्राप्नोत्यन्यथास्वरस्याऽकृते निघाते। स्वरभिन्नस्य च प्राप्नुवन्विधिरनित्यो भवति॥ अन्तरङ्गस्तर्ह्येकादेशः॥ काऽन्तरङ्गता?॥ वर्णावाश्रित्यैकादेशः पदस्य निघातः॥ निघातोऽप्यन्तरङ्गः॥ कथम्?॥ उक्तमेतत्,(2)-पदग्रहणं परिमाणार्थमिति। उभयोरन्तरङ्गयोः परत्वान्निघातो, निघाते कृते एतदपि नाऽन्तरेणोदात्तानुदात्तयोरेकादेशमन्तोदात्तं भवति। शतृस्वर॥ एकानुदात्त-तुदन्ति लिखन्ति। उदात्तानुदात्तयोरेकादेशस्तस्य एकादेश उदात्तेनोदात्त इत्येतद्भवति, तस्य सिद्धत्वं वक्तव्यं, तेन र्वज्यमानता यथा स्यात्। (एकानुदात्त(3))॥ सर्वानुदात्त-ब्राह्मणास्तुदन्ति ब्राह्मणा लिखन्ति। उदात्तानुदात्तयोरेकादेशस्तस्य एकादेश उदात्तेनोदात्तःइत्येतद्भवति, तस्य सिद्धत्वं वक्तव्यम्॥ किं प्रयोजनम्?॥ तिङ्ङतिङ इति निघातो यथा स्यात्।. किमुच्यतेऽन्तरङ्ग इति?॥ यो हि बहिरङ्गोऽसिद्ध एवासौ भवति प्रपचतीति, सोमसुत् पचतीति॥ तत्तर्हि वक्तव्यम्?॥ न वक्तव्यम्। सर्वत्रैव नुम्प्रतिषेधो ज्ञापकः-सिद्ध एकादेशस्वरोऽन्तरङ्ग इति॥ ॥ संयोगान्तलोपो रोरुत्त्वे हरिवो(1) मेदिनं त्वा॥ संयोगान्तलोपो रोरुत्त्वे सिद्धो वक्तव्यः॥ किं प्रयोजनम्?॥ हरिवो मेदिनं त्वा। संयोगान्तलोपस्याऽसिद्धत्वाद्धशीत्युत्त्वं न प्राप्नोति॥ प्लुतिश्च॥ प्लुतिश्चोत्त्वे सिद्धा वक्तव्या। सुस्रोता3 अत्र न्वसी(2)त्यत्र प्लुतेरसिद्धत्वादतोऽतीत्युत्त्वं प्राप्नोति। अप्लुतादप्लुत इत्येतन्न वक्तव्यं भवति॥ नैतदस्ति प्रयोजनं, क्रियते न्यास एव॥ सिज् लोप एकादेशे(1)(सिद्धः(2))॥ सिज्लोप एकादेशे सिद्धो वक्तव्यः(1)। अलावीत्। अपावीत्। सिज्लोपस्याऽसुद्धत्वात्सवर्णदीर्घत्वं न प्राप्नोति॥ यदि पुनरिडादेः सिचो लोप उच्येत?॥ नैवं शक्यमिह हि माहिलावीत् मा हि पावीत्। यद्यत्र इण्न स्यादनुदात्तस्य इर्टः श्रवणं प्रसज्येत। इर्टि पुनः सत्युक्तमेतत् अर्थवत्तु चित्करणसार्मथ्याद्धीट उदात्तत्वमिति। तत्रैकादेश उदात्तेनोदात्त इत्युदात्तत्वं सिद्धं भवति॥ ॥ संयोगादिलोपः संयोगान्तलोपे॥ संयोगादिलोपः संयोगान्तस्य लोपे सिद्धो वक्तव्यः। काष्ठतट्। कूटतट्। संयोगादिलोपस्याऽसिद्धत्वात्संयोगान्तलोपः प्राप्नोति। नैषः दोषः। उक्तमेतत्-अपवादो वचनप्रामाण्यादिति॥ निष्ठादेशः षत्वस्वरप्रत्ययेडि्वधिषु॥ निष्ठादेशः षत्वस्वरप्रत्ययेङि्वधिषु सिद्धो वक्तव्यः। वृक्णः वृक्णवान्। निष्ठादेशस्याऽसिद्धत्वाज्झलीति षत्वं प्राप्नोति झ्र्षत्वट॥ स्वर -क्षीबः। निष्ठादेशस्यासिद्धत्वाझ्र्दिट्सहितस्य(1) निष्ठातस्य निपातनलोपरूपत्वाटत् निष्ठा च द्व्यजनादित्येष स्वरो न प्राप्नोति (स्वर(1))॥ प्रत्ययः-क्षीबेन तरति क्षीबिकः। निष्ठादेशस्याऽसिद्धत्वाव्द्यचष्टन्निति ठन्न प्राप्नोति॥ झ्र्प्रत्यय(5)ट॥ इडि्वधिः(1) -क्षीबः। निष्ठादेशस्याऽसिद्धत्वाद्वलादिलक्षण इट् प्राप्नोति॥ ननु च यः प्रत्ययविधौ सिद्धःझ्र्सिद्धटसिद्धोऽसाविडिधौ॥ इदं तर्हि प्रयोजनम्-ओ लस्जी-लग्नः। निष्ठादेशः सिद्धो वक्तव्यः। झ्र्निष्ठादेशस्य(1) सिद्धत्वात्ट ठनेङ्वशि कृतीतीट्प्रतिषेधो यथा स्यात्। इर्दित्करणं न वक्तव्यं भवति॥ एतदपि नास्ति प्रयोजनं, क्रियते न्यास(3) एव। ॥ वस्वादिषु दत्वं सौ दीर्घत्वे॥ वस्वादिषु दत्वं सौ दीर्घत्वे सिद्धं वक्तव्यम्। उखास्रत्। पर्णध्वत्। दत्वस्याऽसिद्धत्वादत्वसन्तस्येति दीर्घत्वं प्राप्नोति। अधातोरिति न वक्तव्यं भवति॥ नैतदस्ति प्रयोजनं, क्रियते न्यास एव॥ अदस ईत्वोत्वे स्वरे बहिष्पदलक्षणे॥ अदस ईत्वोत्वे स्वरे बहिष्पदलक्षणे सिद्धे वक्तव्ये। अमी अत्र। अमी आसते। अमू आसाते। इर्त्वोत्वयोरसिद्धत्वादेच इत्ययावेकादेशाः प्राप्नुवन्ति॥ किमुच्यते बहिष्पदलक्षण इति?॥ यो ह्यन्यः सोऽसिद्ध(2)एवाऽसौ भवति। अमुया अमुयोरिति॥ प्रगृह्यसंज्ञायां च॥ प्रगृह्यसंज्ञायां च सिद्धे वक्तव्ये। अमी अत्र। झ्र्अमी आसते(3)। अमू अत्रट॥ अमू आसाते। इत्वोत्वयोरसिद्धत्वाददसो मादिति प्रगृह्यसंज्ञा न प्राप्नोति॥ किमर्थमिदमुभयमुच्यते न प्रगृह्यसंज्ञायामित्येव स्वरेऽपि बहिष्पदलक्षणे चोदितं स्यात्॥ पुरस्तादिदमाचार्येण दृष्टं, स्वरे बहिष्पदलक्षणे इति, तत्पठितम्। तत उत्तरकालमिदं दृष्टं प्रगृह्यसंज्ञायां चेति, तदपि पठितम्। न चेदानीमाचार्याः सूत्राणि कृत्वा निवर्तयन्ति। ॥ प्लुतिस्तुग्विधौ छे च(3) ॥ प्लुतिस्तुग्विधौ च्छे च सिद्धा वक्तव्या। अग्ना3ःइच्छत्रम्। पटा3उच्छत्रम्। प्लुतेरसिद्धत्वाच्छे चेति तुग्न प्राप्नोति॥ किमुच्यते छे चेति(4)?॥ यो ह्यन्योऽसिद्ध एवाऽसौ भवति-अग्निची3त्। सोमसू3त्। ॥ श्चुत्वं धुट्त्वे(1)॥ श्चुत्वं धुट्त्वे सिद्धं वक्तव्यम्। अट्श्च्योतति षट् श्चयोतति। श्चुत्वस्याऽसिद्धत्वाड्डः सि धुडिति धुट् प्रसज्येत। ॥ अभ्यासजश्त्वर्चत्वमेत्वतुकोः॥ अभ्यासजश्त्वर्चत्वमेत्वतुकोः सिद्धं वक्तव्यम्। बभणतुः बभणुः। अभ्यासादेशस्याऽसिद्धत्वादेत्वं प्राप्नोति। उचिच्छिषति। अभ्यासादेशस्याऽसिद्धत्वाच्छे चेति तुक्-प्राप्नोति॥ द्विर्ववचने परसवर्णत्वम्॥ द्विर्वचने परसवर्णत्वं सिद्धं वक्तव्यम्। सँय्यन्ता। सँव्वत्सरः तँल्लोकं यँल्लोकम् इति । परसवर्णस्याऽसिद्धत्वाद्यर इति द्विर्वचनं न प्राप्नोति॥ पदाधिकारश्चेल्लत्वघत्व(ढत्व3)नत्वरुत्वषत्वानुनासिकच्छत्वानि॥ पदाधिकारश्चेल्लत्वघत्व(ढत्व1)नत्वरुत्वषत्वणत्वानुनासिकच्छत्वानि सिद्धानि वक्तव्यानि। लत्व-गरो(1) गरः। गलो गलः। लत्व॥ घत्वद्रोग्धा-द्रोग्धा(2)। घत्व ॥ झ्र्ढत्व(3)-ट द्रोढा-द्रोढा। झ्र्ढत्व(3)ट॥ नत्व-नुन्नो नुन्नः। नुत्तो नुत्तः। नत्व॥ रुत्व-अभिनोऽभिनः। अभिनदभिनत्। रुत्व॥ षत्व-मातुः-ष्वसा मातुःष्वसा। मातुःस्वसा मातुःस्वसा। षत्व॥ पितुःष्वसा पितुःष्वसा पितुःस्वसा पितुःस्वसा ॥ षत्व ॥ णत्व-माषवापाणि-माषवापाणि। माषवापानि माषवापानि। णत्व॥ अनुनासिक-वाङ्नयनं वाङ्नयनम्। वाग्नयनं वाग्नयनम्। अनुनासिक॥ छत्व - वाक्च्छयनं वाक्च्छयनम् वाक्शयनं-वाक्शयनम्। उभयथा चाऽयं दोषो यद्यपि स्थाने द्विर्वचनमथापि द्विःप्रयोगः॥ कथम्?॥ यदि तावत्स्थाने द्विर्वचनं संप्रमुग्धत्वात्प्रकृतिप्रत्ययस्य लत्वाद्यभावः। झ्र्तेनैष दोषः(1)सिद्धःट। अथ द्विःप्रयोगो द्विर्वचनमसिद्धत्वाल्लत्वादीनि(2) निवर्त्तेरन्॥

Kashika

अनुदात्ते पदादावुदात्तेन सह य एकादेशः स स्वरितो वा भवत्युदात्तो वा। सु उत्त्थितः — सू॑त्त्थितः, सूत्त्थि॑तः। र्र्वि ई््क्षते — वी॑क्षते, वीक्ष॑ते। वसुकः असि — व॒सु॒को॑ऽसि, व॒सु॒कोऽसि॑। सूत्त्थित इति सुशब्दः**सुः पूजायाम्**(१.४.९४) इति कर्मप्रवचनीयः, तस्य प्रादित्वात् समासे सत्यव्ययपूर्वपदप्रकृतिस्वरत्वेन (६.२.२) आद्युदात्तत्वम्, शेषमनुदात्तम् (६.१.१५८) इति चानुदात्ते पदादावेकादेशो भवति। वीक्षते, वसुकोऽसीत्यत्रापि तिङ्ङतिङः (८.१.२८) इति निघाते कृतेऽनुदात्ते पदादावेकादेशः। स्वरितग्रहणं विस्पष्टार्थम्। उदात्ते हि विकल्पिते तस्मिन्नसत्यान्तर्यत एव स्वरितो भविष्यतीति। अनुदात्त इति किम् ? दे॒व॒द॒त्तोऽत्र॑। पदादाविति किम् ? वृ॒क्षौ। वृ॒क्षाः॥

Siddhanta Kaumudi

अनुदात्ते पदादौ परे उदात्तेन सहैकादेशः स्वरितो वा स्यात् । पक्षे पूर्वसूत्रेणोदात्तः । वी1दं ज्योतिर्हृदये (वी॑1॒दं॒ ज्योति॒र्हृद॑ये) । अस्य श्लोको दिवीयते (अस्य श्लोको॑ दि॒वीय॑ते) । व्यवस्थितविभाषात्वादिकारयोः स्वरितः । दीर्घप्रवेशे तूदात्तः । किं च एङः पदान्तात्-(SK86) इति पूर्वरूपे स्वरित एव । तेऽवदनम् (ते॑ऽवदनम्) । सो 3 यमागात् (सो॒ 3॒॑ यमागा॑त्) । उक्तं च प्रातिशाख्ये । इकारयोश्च प्रश्लेषे क्षैपाभिनिहतेषु चेति ॥

Padamanjari

प्रादित्वात्समासे सतीति ।’प्रादिप्रसङ्गे कर्मप्रवचनीयानां प्रतिषेधः’ इत्यस्य तु तत्रैव’स्वती पूजायाम्’ इति प्रतिषेधः कृतः । गतिसमासस्त्वनाश्रितः;’गतिर्गतौ’ इति निगातप्रसङ्गात् । वसुकशब्दः पूर्ववदन्तोदातः । स्वरितग्रहणं विस्पष्टार्थमिति । कथम् ? इत्याह - उदाते हीति । आन्तर्यत एव स्वरितो भविष्यतीति । यद्येवम्, तस्य सिद्धत्वाच्छेषनिघातः स्यात् - गाङ्गेऽनूप इति ? एकादेशस्य परं प्रत्यादिवद्भावादनूपशब्दोऽनुदातः प्राप्नोति, स्वरितग्रहणे तु सति अस्यासिद्धत्वाद्यथोक्तदोषाभावः । अथ क्रियमाणेऽपि स्वरितग्रहणे यः सिद्धः स्वरितः तेन वर्ज्यमानता कस्मान्न भवति - कन्यानूप इति ? कन्याशब्दः’कन्याराजन्यमनुष्याणामन्तः’ इत्यन्तस्वरितः, ततः स्वरितानुदातयोरेकादेश आन्तर्यतः स्वरितः, तस्य सिद्धत्वातेन वर्ज्यमानता प्राप्नोति ? ततश्चात्र यः परिहारः स एव गाङ्गेऽनूप इत्यत्र भविष्यति । कः पुनरसौ ? पदद्वयाश्रयत्वेन एकादेशस्य बहिरङ्गत्वात्स्वरोऽपि तदीयो बहिरङ्गः, शेषनिघातस्तु एकपदाश्रयत्वात् स्वरोऽपि तदीयोऽन्तरङ्गः; ततः किम् ? ठसिद्धं बहिरङ्गमन्तरङ्गऽ ॥

Nyaas

सूत्थितः इति। कुगतिप्रादयः (2.2.18) इति समासः। अत्र सुशब्दः कर्मप्रवचनीयः इति। अनेन सुशब्दस्य गतित्वमपनयति। गतित्वे हि सति गतिर्गतौ (8.1.70) इति निघातः स्यात्, ततश्चोदात्तेनानुदात्तस्यायमेकादेशो न स्यात्। प्रादिसमासे इत्यादि। सुशब्द आद्युदात्तः। तत्र हि प्रादिसमासे कृते तत्पुरुषे तुल्यार्थ (6.2.2) इत्यादिना पूर्वपदप्रकृतिस्वरत्वादाद्यूदात्तत्वं भवति। अतस्तेन प्रकृतिस्वरत्वेन हेतुनायमादेशः, यतोऽकः सवर्णदीर्घत्वमनुदात्ते पदादौ भवति। सुशब्दस्य ह्राद्युदात्तस्य प्रकृतिस्वरत्वे सति शेषस्यानुदात्तभावोपपत्तेः। ननु प्रादिसमासे [`प्रादिप्रसङ्गे इति वातिकपाठः] कर्मप्रवचनीयानां प्रतिषेधो वक्तव्यः` (वा।96) इत्युक्तम्, तत्कथमिह प्रादिसमासः? नैष दोषः; तस्य प्रतिधेधस्यानित्यत्वात्। अनित्यत्वं तु सुशब्दस्य सुषामादिषु (8.3.98) प्रयोगाद्विज्ञैयम्। तस्य हि तत्र उपसर्गात्सुनोति (8.3.65 इत्यादिनैव सिद्धेऽनुपसर्गार्थः पाठः। अनुपसर्गत्वं च सोः सुः पूजायाम् (1.4.94) इति कर्मप्रवचनीयत्वात्। अथ वा स्वतिभ्यामन्ये ये प्रादयस्तत्रायं प्रतिषेधः। तथा हि तत्र स्वती पूजायाम् (का।2.2.18) इति पूजायां स्वतिशब्दयोः प्रातिसमास उक्तः पूजायां च तयोः कर्मप्रवचनीयत्वं विवक्षितम्। दीक्षते इति। विशब्दो निपरातस्वरेणाद्युदात्तः। अत्रापि तिङङतिङः (8.1.28) ति निघाते कृत एकादेश इत्यनुदात्ते पदादौ भवतीति सम्बन्धनीयम्। वसुकोऽसि इति। वसुशब्दः प्रातिपदिकस्वरेणान्तोदात्तः, ततः सुप्रन्ययान्तत्वात्? कस्य ह्रसिशब्दे परतः अतो रोरप्लुतादप्लुते (6.1.113) इत्युत्वम्, तस्य स्थानिवद्भावेन सुप्त्वादनुदात्तत्वमम्, पूर्वेण सह आद्गुणः (6.1.87) स च पूर्वसूत्रे (8.2.5) णान्तोदात्तः। असि इति। तायस्त्योर्लोपः (7.4.50) इति सकारलोपे कृते लटि सिपि रूपम्। अत्र तिङङतिङः (8.1.28) इति निघातेनाकारोऽनुदात्तः, तसयाकारेण सह एङः पदान्तादति (6.1.109) इति परपूर्वत्वम्। स्वरितग्रहणम् इत्यादि। कथं पुनरसति स्वरितग्रहणे स्वरित आदेशो भवति, पुनः स्वरितग्रहणं विस्पष्टार्थम्; न पुनः पक्षे स्वरितविधानार्थम्? इत्यत आह -उदात्ते हि इत्यादि। उदात्ते हि विकल्पिते यस्मिन्? पक्षे स न भवति तस्मिन्नुदात्तानुदात्तयोरन्तरतमो यस्तेनैव भवितव्यम्, स च स्वरित एव। अतोऽन्तरेणापि स्वरितग्रहणं स्वरित एव भविष्यति।

Prakriyasarvasvam

पदादावनुदात्ते परे उदात्तेन सहानुदा’तस्यैकादेशस्वरित उदात्तो वा स्यात् । दिवीव चक्षुः । दिवीयते पृथिव्याम् । अनुदात्त इत्युक्तेः याऽन्ता इत्यत्रोच्चत्वान्न । तं त्वा ।