82017: नाद्घस्य

Padacheda: नात् | S | 5 | 1 |

घस्य | S | 6 | 1 |

Sutrartha


Vasu English Summary

In the छन्दस् (Vedas) the affixes तर and तम get the augment नुट् after a stem in न्।

Vasu English Translation

In the छन्दस् (Vedas) the affixes तर and तम get the augment नुट् after a stem in न्। The affixes तरप् and तमप् are called घ ॥ Thus सुपथिन् + तर = सुपथि + तर (8.2.7) = सुपथि + न्तर (8.2.17) = सुपथिन्तरः ॥ So also दस्युहन्तमः ॥

Vart:- The augment तुट् is added to these affixes after भूरिदावन्; as भूरिदावत्तरः ((3.2.74), the affix is वनिप्).

Vart:- Long ई is the substitute of the final of रथिन् before तर and तम ॥ The word रथिन् is formed by the affix इनि in the sense of मतुप् ॥ The final न् is first elided by (8.2.7), and then for the short इ of रथि the long ई is substituted by the present vartika. If the long ई were substituted for the final न् of रथिन् as रथिई + तर, then this long ई being asiddha, it could not be compounded by ekadesa with the preceding इ into ई, and the form would always remain रथिईतरः ॥ As रथीतरः, and रथीतमं रथीनाम् ॥ Or this ई may be considered to have come after रथ in the sense of मतुप् ॥

Bhashya

नाद्धस्य ॥ इर्द्रथिनः॥ रथिन इर्द्वक्तव्यः। रथीतरः॥ भूरिदाव्नस्तुट्॥ भूरिदाव्नस्तुड् वक्तव्यः। भूरिदावत्तरो जनः॥ झ्र्नाद्धस्यट॥

Kashika

नकारान्तादुत्तरस्य घसंज्ञकस्य नुडागमो भवति छन्दसि विषये। सुपथिन्तरः। दस्युहन्तमः॥ भूरिदाव्नस्तुड् वक्तव्यः॥ भूरि॒दाव॑त्तरः॒ (ऋ० ८.५.३९)॥ ईद्रथिनः॥ रथिन ईकारान्तादेशो घे परतः। र॒थीत॑रः॒ (ऋ० १.८४.६)। रथशब्दादेव वा मत्वर्थीयोऽयमीकारः छन्दसीवनिपौ॰ (५.२.१०९ वा०) इति॥

Siddhanta Kaumudi

नान्तात्परस्य घस्य नुट् । सुपथिन्तरः ।<!भूरिदान्नस्तुड्वाच्यः !> (वार्तिकम्) ॥ भूरिदावत्तरो जनः (भू॒रि॒दाव॑त्तरो जनः॑) ।<!ईद्रथिनः !> (वार्तिकम्) ॥ रथीतरः (र॒थीत॑रः) । रथीतमं रथीनाम् (र॒थीत॑मं र॒थीना॑म्) ॥

Padamanjari

भूरिदावतर इति । ठातो मनिन्ऽ इत्यादिना वनिप् । रथीतर इति । रथशब्दान्मत्वर्थीय इनिः, तदन्तातरप्, नकारलोपे कृते दकारस्य ईकारः । यदि तु नकारलोपापवादो नकारस्य स्थाने विधीयेत, तदा तस्यासिद्धत्वादेकादेशो न स्यात् ॥

Nyaas

सुपथिन्तरः इति। शोभनः पन्था इति प्रादिसमासः -सुपन्थाः, सुशब्दात्? न पूजनात् (5.4.69) इति प्रतिषेधात्? ऋक्पूरब्धूः (5.4.74) इत्यादिना समासान्तो न भवति, तरप्। दल्युहन्तमः। दस्युं हतवानिति क्विप्, तदन्तात्? तमप्। भूरिदावत्तरः इति। भूरि वदातीति आतो मनिन् (3.2.74) इत्यादिना वनिप्, तदन्तादुत्तरपदस्य तुट्। रथीतरः इति। रथिन्नित्येतस्मान्मत्वर्थीयेनिप्रत्ययान्तात्? तरप्, नकारस्य लोपः, ईकारः अथ वा -नकारस्यैवेकारः, सवर्णदीर्घत्वम्॥

Vartika

भूरिदान्नस्तुड्वाच्यः ।