Sutras 21 - 40¶
- 71021: अष्टाभ्य औश्
- 71022: षड्भ्यो लुक्
- 71023: स्वमोर्नपुंसकात्
- 71024: अतोऽम्
- 71025: अद्ड् डतरादिभ्यः पञ्चभ्यः
- 71026: नेतराच्छन्दसि
- 71027: युष्मदस्मद्भ्यां ङसोऽश्
- 71028: ङे प्रथमयोरम्
- 71029: शसो न
- 71030: भ्यसो भ्यम्
- 71031: पञ्चम्या अत्
- 71032: एकवचनस्य च
- 71033: साम आकम्
- 71034: आत औ णलः
- 71035: तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्
- 71036: विदेः शतुर्वसुः
- 71037: समासेऽनञ्पूर्वे क्त्वो ल्यप्
- 71038: क्त्वाऽपि छन्दसि
- 71039: सुपां सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः
- 71040: अमो मश्